गङ्गास्तवः ४
सुवेणिनिर्धूतमनोज्ञभृङ्गा मज्जत्सुरीकुङ्कुमपङ्कपिङ्गा ।
पापाग्निनिर्वापणदक्षभङ्गा गङ्गा ममाङ्गान्यमलीकरोतु ॥ १॥
भगीरथेनातितपस्विना पुरा सम्प्रार्थिता सद्गतये पितॄणाम् ।
दिवो भुवं प्राप्य जनान् पुनाना गङ्गा ममाङ्गान्यमलीकरोतु ॥ २॥
स्वच्छं जनानां हृदये करोमि मद्दर्शनस्नानकृतामितीव ।
विबोधनार्थं स्फटिकाच्छकाया गङ्गा ममाङ्गान्यमलीकरोतु ॥ ३॥
स्वाच्छ्येन माधुर्यवशेन चाम्भो यदीयमेवार्हति सर्वलोकैः ।
क्षीरादिशब्दैरभिधेयतां सा गङ्गा ममाङ्गान्यमलीकरोतु ॥ ४॥
स्मरारिणा सन्ततमम्बिकाया ईर्ष्यास्पदे मूर्ध्न्युपलाल्यमाना ।
अशेषकल्याणगुणैकभूमिः गङ्गा ममाङ्गान्यमलीकरोतु ॥ ५॥
मदङ्घ्रिभाजां मकरध्वजोत्थां पीडा भवेन्नेति विबोधनाय ।
कुर्वत्यधस्ताद् ध्वजमस्य या सा गङ्गा ममाङ्गान्यमलीकरोतु ॥ ६॥
स्वयं भ्रमाढ्यापि निमज्जतां नृणां निवारयन्ती निखिलं भ्रमौघम् ।
ज्ञानप्रदानेन महावदान्या गङ्गा ममाङ्गान्यमलीकरोतु ॥ ७॥
शिवं पतिं सप्तमवाप्तुकामा सप्ताकृतिर्या स्वयमप्यभूत् सा ।
पतिव्रतानां धुरि कीर्तनीया गङ्गा ममाङ्गान्यमलीकरोतु ॥ ८॥
रथः शरीरं श्रुतिषु प्रसिद्धं रथी तु तद्वान्त्सकलः कृपायाः ।
भागी ममेति ब्रुवती स्वनाम्ना गङ्गा ममाङ्गान्यमलीकरोतु ॥ ९॥
नृणां शरीरत्रयशोधनार्थं मार्गैस्त्रिभिर्या प्रवहत्यजस्रम् ।
निर्हेतुकारुण्यपयोनिधिः सा गङ्गा ममाङ्गान्यमलीकरोतु ॥ १०॥
गङ्गाया दशकं नित्यं पठतां भक्तितो नृणाम् ।
विशुद्धिं मनसो दद्यात् गङ्गासङ्गेन मुक्तिदाम् ॥ ११॥
पदनतसुरवरबृन्दं मदनारिशिरःस्रजं विजितकुन्दम् ।
सततं मङ्गलकन्दं वन्दे मधुरिपुपदाब्जमकरन्दम् ॥ १२॥
धुनोतु मम दुष्कृतं बहुजनुःशतैरार्जितं
धिनोतु मम मानसं सकलसौख्यसन्दोहिनी ।
धुनोतु सकलव्यथाः शिवशिरोविभूषायिता
तनोतु मम शं तनोः सपदि शन्तनोरङ्गना ॥ १३॥
इति श्रीशृङ्गेरीपीठाधीश्वर-श्रीमज्जदगुरुशङ्कराचार्य-
श्रीमत्सच्चिदानन्दशिवाभिनवनृसिंहभारती-पूज्यपादशिष्यैः
श्रीमज्जदगुरु-श्रीचन्द्रशेखरभारतीमहास्वामिभिः कृतो गङ्गास्तवः सम्पूर्णः ॥