जयाविजयाविरचितं गङ्गास्तवनम्
जया-विजया सख्यावूचतुः ।
नमः प्रसीदाम्ब महेशि मातर्गङ्गे त्रिलोकाखिलदुःखहन्त्रि ।
विष्णोः पदं तत्परमन्तु लब्ध्वा त्रैलोक्यमाप्लावसि साधितार्थम् ॥ १॥
त्वां स्तौमि पश्यामि परावरेशे नमामि कायावयवैरपि त्वाम् ।
अज्ञानमोहान्धतमोनिरस्तचित्तां तु मां बोधय यादृशी त्वम् ॥ २॥
त्वं ब्रह्मणा विष्णुना पूरुषेण शिवेन वै देववरेण भूयः ।
सिद्धैः परज्ञैरपि धीरवर्गैः स्तुता किमावां मनुवो भवादृशीम् ॥ ३॥
धन्याऽवनीयं खलु भूतधात्री लोकैः सर्वैः पूजितेयं बभूव ।
त्वं वै यस्यामवगाह्या नवोघैर्विभासि पुण्याधिकपुण्यवत्याम् ॥ ४॥
जानन्ति के त्वां ननु मूढबुद्धयो नराः स्त्रियो वा वन जन्तवो वा ।
पीतामृता दृष्टसहस्त्रसूर्या जानन्त्यनन्तामृतसारभूताम् ॥ ५॥
प्राणांस्त्यजन्तं त्वयि वा वसन्तं गायन्तमानन्दमयीञ्च वा त्वाम् ।
कः श्रद्धधीताहितदेहबन्धं विनात्मघातान्नरकाय योग्यान् ॥ ६॥
यः सर्वलोकामरयज्ञदेवः स्वयं शिवः श्रीमति चोत्तमाङ्गे ।
सर्वोत्तमां त्वां प्रदधाति गङ्गां सार्थं शिवत्वं ह्यधिमन्यमानः ॥ ७॥
सर्वस्य सर्वत्र तु नाधिकारः कस्यापि कुत्रापि च को हि आस्ते ।
त्वं खण्डितब्रह्मकटाहकोटिः सर्वत्र चाखण्डगतिः किलास्मे ॥ ८॥
ध्याये शिवे त्वां शशिशुल्कवर्णां
चतुर्भुजां पद्मवराभयामृतैः ।
युक्ताञ्च शुक्ले मकरे वसन्तीं
त्रिलोचनां देवनुतामलङ्कृताम् ॥ ९॥
नमः शिवायै शान्तयै गङ्गायै ते नमो नमः ।
नमो मकरवासिन्यै कौटिचन्द्ररुचे नमः ॥ १०॥
चतुर्भुजायै पद्मेन वरेणाप्यभयेन च
पीयूषपूर्णकनकघटेन च विराजिनाम् ।
सर्वालङ्कारभूषाढ्यां त्रिनेत्रां दैवतैर्नुतां
स्मितास्यां गौरवसनां स्थिरनूपुरशिञ्चिनीम् ।
ब्रह्मविष्णुशिवाराध्यां दधानायै तनुं नमः ॥ ११॥
नमः कल्मषहन्त्र्यै च लोकमात्रे नमो नमः ।
सर्वतीर्थभवायै च सुलभायै नमो नमः ॥ १२॥
॥ इति बृहद्धर्मपुराणान्तर्गतं जया-विजयाकृतं गङ्गास्तवनं सम्पूर्णम् ॥
॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । गुणनिर्णय अध्यायः ५। ३६-४७॥
Proofread by Ruma Dewan