श्रीगङ्गास्तोत्रम्
श्रीगङ्गोत्तरीक्षेत्र वास्तव्येन
पूज्यपादश्रीतपोवनस्वामिनासम्प्रणीतं
श्री गङ्गास्तोत्रम् ।
प्रथमः स्तबकः
जय जय जगदम्ब ! श्रीगल श्रीजटायां
जय जय जयशीले ! जह्नुकन्ये ! नमस्ते ।
जय जय जलशायि श्रीमदङ्घ्रिप्रसूते !
जय जय जय भव्ये ! देवि ! भूयो नमस्ते ॥ १॥
त्रिपथ पथिक पाथः स्रोतसा सिद्धिमूर्ति-
र्दिनकर कुलभूषारत्न यत्नोदयोत्था ।
प्रणतजन सुरद्रुः पावनी पावनानां
जयति जगति गङ्गा भाग्यपूगो जनानाम् ॥ २॥
गङ्गे ! मातरनुस्मरामि सततं त्वन्मूर्तिमत्यद्भुतां
देवीं दैवतदुर्लभां यमुनया वाचाऽन्नसम्पूर्णया ।
भक्तेनाथ भगीरथेन भगवत्पादैश्च पादार्च कै-
र्या नित्यं समुपाश्रिता विजयते गङ्गोत्तरी सद्मनि ॥ ३॥
तुहिन शिखरिशृङ्गे दिव्यसौभाग्यसम्प-
न्महिमनि विहरन्तीं पुष्पवासे विशाले ।
सुकृति समधिगम्ये सम्यगालीजनाली-
विलसितमलसाक्षीं नौमि गङ्गामभीक्ष्णम् ॥ ४॥
पादाङ्गुष्ठाद्वोदिता देवि ! विष्णो-
र्गङ्गोत्तर्यां गोमुखी मस्तकाद्वा ।
गङ्गा गङ्गैवास्य वाधो न किंञ्चित्
सर्वेशित्री सर्वथा हि त्वमम्ब ! ॥ ५॥
अयि भगवति ! भव्य श्रीमुख श्रीनितम्बे
तुहिन मुकुरहर्म्यस्यान्तरन्तर्वधूवत् ।
अहह ! चरसि चित्तं त्वन्तु माता जगत्या-
स्तदपि कथमसूर्यं पश्यतां यासि सह्रीः ॥ ६॥
पापैर्मुखं समभवत् खलु नीलनीलं
यस्याम्ब ! तस्य तव वेश्म निरीक्षणेन ।
श्रीमन्मुखं भवति भास्कर भासि नूत्नं
मन्येऽर्थवत्तत इदं तव वेश्मनाम ॥ ७॥
प्रसीद भगवत्यम्ब ! प्रसीद करुणाम्बुधे ! ।
पुनीहि स्वात्मतुल्यं मे मनो मलमलीमसं ॥ ८॥
मलिनं मलिनं चित्तमत्यन्त मलिनं शुभे ! ।
कुतो न कुरुषे दृष्टिं मयि सर्व मलापहाम् ॥ ९॥
चित्तं विशोधय बहिर्विषयाभिषक्त-
मन्तर्निरुन्धि भवदङ्घ्रिसरोज युग्मे ।
यावद्विनिश्चरति बाह्यविलोकिती हृ -
त्तावत् कथं जननि ! सौख्यकथा नराणाम् ॥ १०॥
मातर्जाह्नवि ! निह्नवे तु जगतः
पृथ्व्यादि मिथ्यात्मनो
यत्तत्त्वं न निषिद्ध्यते तदचलं
त्वन्मात्रमेकाकिनी ।
यस्मात्त्वं सदशेषमूलममलं
ब्रह्मैव निर्धर्मकं
मन्देभ्यः खलु कल्पिता जलमयी
मूर्तिस्तवान्याचया ॥ ११॥
अच्छिन्नरूपिणी देवी नित्या या मृत्युमत्यगात् ।
प्राणिति प्राणहीनाच जाह्नवी साऽस्तु मे गतिः ॥ १२॥
सर्वदा सर्वदृग्देवी सर्वकर्त्री च या स्वयम् ।
सर्वभावैः प्रपद्ये तां जाह्नवीं सुरनिम्नगाम् ॥ १३॥
पश्यन्तु केचिदमलं जलमेव गङ्गे-
त्यन्ये वयं तु भवयन्त्रविमुक्तिहेतुः
श्रीमूलशक्तिरखिलेश्वररूपरूपि-
ण्यानन्द कन्दमिति नित्यमुपास्महेत्वाम् ॥ १४॥
श्रद्धैव मूलं त्वदुपासनाया
जलेऽपि देवत्व विधान दक्षा ।
श्रद्धां विना कः परलोक चिन्ता-
मग्नः प्रवर्तेत परोक्षकार्ये ॥ १५॥
प्राग्जन्मपुण्य निचयेन तवाङ्घ्रिपद्मे
श्रद्धा भवेत् स्थिरतराऽथच भक्तिभावः ।
भक्त्याच भावुकनिधे ! पुरुषार्थसिद्धिः
श्रद्धोज्झितः स्वयमपुच्छपशुर्धरण्याम् ॥ १६॥
प्रफुल्लनीलोत्पल कान्तिचोरैः
कटाक्षपातैस्तव पावितो यः ।
निरन्तशान्तिः समुदेति पुंस-
स्तस्यैव भागीरथ ! भाग्यभाजः ॥ १७॥
किं वा मुण्डनतः किमस्ति जटया
वैवर्ण्य वस्त्रेण किं
किं वा वस्त्र विसर्जनेन भसिता -
लेपेन जापेन किम् ।
भिक्षान्नाशनतश्च किं व्रतशतै-
स्तीर्थेषु चाटाट्यया
विश्वाधीश्वरि ! युष्मदङ्घ्रियुगले
भक्तिर्न चेन्निश्चला ! ॥ १८॥
गुहाच्छिद्रे वाद्रेः शिखरभुवि वा घोरगहने
श्मशाने वैकाकी वसतु वसतौ वा निजजनैः ।
महाभागे ! भागीरथि ! तवपदां भोजभजन-
प्रमत्तञ्चितञ्चेत् सतु परमयोगी सतु सुखी ॥ १९॥
यद्वा योगी जाह्नवि ! कर्मी तव भक्तो
यद्वा ज्ञानी त्वतिरन्तर्यदिनो चेत् ।
अव्यावृत्ता तर्ह्यपि योगादि महार्ह
मन्ये मोघं मोघ मशेषं खलु तेषाम् ॥ २०॥
युष्मत्पदाब्जरतिरेव शिवे ! विशुद्धं
वैरक्त्य मन्यदखिलं खलुमोहसिद्धम् ।
को वा सुधीस्तमभिवाञ्छति काष्टभावं
यं हा वितृष्णपदवीति विदन्ति मुर्खाः ॥ २१॥
वैराग्यं यदिहापरत्र विषये-
ष्विच्छाक्षय स्तर्ह्यमी
बालोन्मत्तजडादयोऽपि सुतरां
वैतृष्ण्यसीमाजुषः ।
हे देवि ! त्वदभ्रशुभ्रवपुरा-
पूर्णं सदा पश्यतो
योपेक्षामति रन्यवस्तुषु ?? दृढा
वैरक्तत्य मेतन्म तम् ॥ २२॥
शान्तिः कथं विषयलेशमसंस्पृशन्ती
चित्तं न चेत्वयि निपक्तमचण्डमूर्तौ ।
ज्ञानास्थिके ! जननि ! जह्नुसुते ! निसर्ग-
सिद्धः सदैव मननं मनसो हि धर्मः ॥ २३॥
युष्मत्स्वरूपसुखसागरममग्नबुद्धेः
शाम्येत् स्वतोऽक्षकुलमुद्भटमेषदान्तिः ।
दुःखस्य कस्यचिदतोऽस्फुरणं तितिक्षा
न्यग्रोधभूर्जसमधर्मदशा त्वविद्या ॥ २४॥
तथा च मातर्भवदीयतत्त्व-
क्रीडापरस्यान्यकृते निवृत्तिः ।
ज्ञेयः स नित्योपरमो नयाञ्चा
वारण्यवासोऽलसता निधीनाम् ॥ २५॥
इति प्रथमः स्तबकः समाप्तः ।
द्वितीयः स्तबकः
मातर्माये ! नमस्तुभ्यमुद्धरैनं भवाम्बुधेः ।
शक्तिः शक्तात्पृथङ्नास्तीतीश्वरो हि त्वमीश्वरो ॥ १॥
फलमत उपपत्तेर्न्यायतोऽस्मादकस्मात्
फलमिह सुकृतानां दुष्कृतानाञ्च न स्यात् ।
फलति फल विधात्र्या ब्रह्ममूर्त्या भवत्याः
प्रतनु ! करुणयैव प्राणिनां कर्मजातम् ॥ २॥
बोधश्च मोहविपिनोत्तरणैकपद्या
न प्राप्यते भवदनुग्रहमन्तरेण ।
देवि ! त्वमेव विदधासि विमुक्तिहेतुं
बोधं यथाऽन्धतमसं खलुबन्ध हेतुम् ॥ ३॥
हे देवि ! धर्मिप्रतियोगिरूपा-
च्छिन्नत्वतः सिद्ध्यति नो पृथक्त्वम् ।
परस्परालम्बतयाऽत्र युष्मत्-
कृपां विना कस्य भवेत् प्रतिष्ठा ॥ ४॥
घटो न वै सिद्धयति तद्धियं विना
विना घटं धीरपि तस्य नो दियात् ।
इतिद्वयञ्चेत् प्रतिषिद्ध्यते भवत्-
पदैकभक्तस्य भवेत्तदात्मता ॥ ५॥
सतोऽसतश्चापि विलक्षणं यत्
सत्त्वात्मकं जागतबीजमाहुः ।
अज्ञानमस्मिंस्तव सम्प्रसादा-
च्छ्रद्धा भवेदव्यभिचारिणी नुः ॥ ६॥
सैषा चैत्रप्रमितिरूदिता तत्प्रमाप्रागभावो-
द्रिक्तानादिप्रणाशनकरी मैत्रमावत् प्रमात्वात् ।
त्वद्वाह्यस्य प्रियतनु ! महाविद्ययाऽज्ञानसिद्धि-
र्यद्वद्वीणावदनमफलाऽश्रोत्रवच्छोत्रमूले ॥ ७॥
सत्यासत्यानधिकरणता ज्ञानवाध्यत्व मेवं
स्वाधिष्ठानस्थित दृढनिषेध प्रतिद्वन्द्विता वा ।
मिथ्यात्वञ्चेद्बहुतरमहोलक्ष्यते लक्ष्यविद्भि-
र्मिथ्या नस्याज्जगदिदमनेना प्रियेभ्यस्तवाम्ब ! ॥ ८॥
येऽर्थाः प्रोक्ता जननि ! मुनिना मानमेयादिसंज्ञा-
स्तन्त्रेऽन्यस्मिन्निपुणधिषणैः षोडशानां च तेषाम् ।
नैरुक्त्यञ्चेन्निरुपमगिरा खण्ड्यते खण्डकारैः
सत्यत्वं किं त्यजतिभुवनं त्वत्पदाद्बाह्यबुद्धेः ॥ ९॥
कः स्वप्रकाशः स्वश्चासौ प्रकाशश्चेति वा स्वयम् ।
स्वस्य प्रकाश इत्थं वा न भवेदन्यथापि वा ॥ १०॥
अवेद्यत्वेऽपरोक्षत्वं स्वप्रभत्वमिति स्थितिः ।
प्रावोचच्चित्सुखार्यश्चेदन्येऽप्येवं मुनीश्वराः ॥ ११॥
स्वप्रकाशतनो ! स्वात्मा स्वप्रकाशः कथं स्फुरेत् ।
तस्ययस्य मनोस्रक्तं त्वत्पादसरसी रुहे ॥ १२॥
ब्रह्म सत्यञ्जगन्मिथ्या जीवो ब्रह्मेति केवलम् ।
भाष्य कृभाष्यसन्दर्भैरभ्यधाच्छङ्करो गुरुः ॥ १३॥
तथाऽपीशित्रि ! को जन्तुर्विद्यामूतैस्तवानघे ! ।
शक्तिपातं विनाविद्याद्ब्रह्मैवाहमिति स्फुटम् ॥ १४॥
वागारभ्या विकृतिरखिला मृत्तिकेत्येव सत्यं
श्रुत्वाप्येवं श्रुतिगिरमथ श्रावयित्वापि शिष्यान् ।
को वा प्राज्ञः प्रभवति भुवि त्यतुमिष्टान् स्वभोगान्
रन्तुञ्चाव ! त्वद्मलपदे त्वत्कृपाविप्रकृष्टः ॥ १५॥
न मेधया शास्त्रवादद्वैखर्या च वरानने ! ।
त्वत्कृपामृतसेकेन भवतापः प्रशाम्यति ॥ १६॥
गङ्गे ! गङ्गे ! नमस्तुभ्यं मातर्मातर्नमोमनः ।
कृपयादेहि मे नित्यं त्वयि निष्ठामखण्डिताम् ॥ १७॥
आचार्यनाम निगदन्त्यभिमान युक्ता
युद्ध्यन्ति च स्वमतनैगमता प्रसिद्ध्यैः ।
नाचार्यचोदित विधिं त्वनुयन्ति लोका-
स्तन्निष्ठता हि निखिलोर्यमतैकधर्मः ॥ १८॥
मुण्डित्व दण्डित्व जटित्व वेषै-
राचार्यपारम्परिकत्वतश्च ।
पिचण्डपूर्तिः फलमम्ब ! नान्यत्
पुमर्थहेतु स्त्वदनन्य भक्तिः ॥ १९॥
त्वतत्त्वनिर्णयविधौ सहकारि पूर्वा-
चार्यैः प्रभाषितमपि स्वमति प्रयोगः ।
प्राधान्यमेति न हि विन्दति मेषवृत्ति-
र्ब्रह्मात्मिकेंव ! तव तत्त्वमनर्थ मृच्छेत् ॥ २०॥
कपिलोयदि सर्वज्ञः कणादो नेतिकाप्रमा ।
इति प्रेक्षापरेत्येष भणत्याभाणकः स्फुटम् ॥ २१॥
श्रुतिः प्रमाणं प्रमितौ तवेत्यृषि -
र्जगादबाढं किल बादरायणः ।
तथापि भागीरथि ! तीक्ष्णबुद्धय-
स्तदर्थमर्थादधिगन्तुमीशते ॥ २२॥
धियः प्रकर्षोऽथ विचारशुद्धि-
र्भवत्स्वरूपावगतिश्च नूनम् ।
भवे ! भवप्रेष्ठतमे ! भवत्या
भवत्यभीक्ष्णं कृपयैव पुंसाम् ॥ २३॥
नानामतैर्न्यायविशेष युक्तै-
र्विवर्द्धितेह्यास्तिकनास्तिकैश्च ।
कः शब्दजालेन विमुह्यति श्री-
पदारविन्दाननुषक्तवृत्तिः ॥ २४॥
पदाम्बुजं ते शरणं ममाम्ब !
प्रसीद नान्यच्छरणं प्रपद्ये ।
त्वत्पादभक्तिर्गतिरित्यनन्या
मन्ये मनोऽतीत भवत्पदात्यै ॥ २५॥
इति द्वितीयः स्तबकः समाप्तः ।
तृतीयः स्तबकः
सच्चिन्मूर्तेर्यत्तवास्तित्वमस्मिन्
सन्दिग्द्धेयः स्वस्य हन्तास्तितायाम् ।
सन्दिग्द्धे स व्याहत ज्ञप्तिरम्ब !
स्वात्महित्वं तस्थुषोऽतस्थुषश्च ॥ १॥
स नाहमस्मीति निषेधति स्वं
यः श्रीपकन्ये ! प्रतिषेधति त्वाम् ।
स्वस्य स्वयं वै न भवेन्निषेद्धा
तस्मात् कथं देवि ! निरस्यसे त्वम् ॥ २॥
सत्तास्वरूपेण समन्ततस्त्वं
विभ्राजसेंऽब स्वमहिम्नि नित्यम् ।
सत्तातिरिक्तं तव नास्ति सत्ता
सत्त्वस्य कस्यापि घटादिकस्य ॥ ३॥
त्वत्सत्त्व माये ! निगदत्यभीष्णं
बुद्धिः सतां शुद्ध विचारदक्षा ।
स्वतः प्रमाणं श्रुतिरप्य मन्द-
स्वरेण गायत्यखिलेश्वरि ! त्वाम् ॥ ४॥
दृष्ट्वेममद्भुततरं प्रकृति प्रपञ्चं
कोवा विचक्षणमतिः खलु तद्विधात्रीम् ।
त्वामम्ब ! सम्यगनुमातु मनीश्वरः स्यात्
कार्यं हि न क्वचिदकारण मस्ति दृष्टम् ॥ ५॥
जल्पन्तु शून्यमतयस्तव शून्यभावं
निन्दन्तु चाधिकमधीरिति वञ्चितोऽयम् ।
सच्चिघने ! तव पदाम्बुज भक्तिशीलान्
भक्तास्तथापि न भवद्विमुखा भवेयुः ॥ ६॥
आत्मैव त्वं हि भक्तानामसित्वं शून्यताकथम् ।
असि चेत्वयि वैरस्यं कथं नित्य सुखोदधौ ॥ ७॥
नास्तीति भवती केन साद्ध्यते सिद्धरूपिणी ।
तथा च सर्वशासित्री हास्ति चेन्नास्तिको हतः ॥ ८॥
त्वच्छक्ति माहात्म्यमहस्करोद्यत्-
प्रभावदम्ब ! प्रसृतं प्रसिद्धम् ।
तथाऽपि सत्त्वं तव शङ्क्यते यै-
र्नमोऽस्तु तेषां धिषणोदयाय ॥ ९॥
इन्द्रार्क चन्द्रार्क सुताग्निवायु-
प्राया ?? महैश्वर्ययुता अपी मे ।
देवाः कथं नोपरता भवन्ति
स्वस्वक्रियाभ्यः सुविचार्यमेतत् ॥ १०॥
अहो नियन्त्र्यास्तव शासनेन
जगत् सचन्द्रार्कमिदं यथावत् ।
प्रवर्तते नातिगमः कदाचि -
न्नोचेदमर्यादमिदं विनश्येत् ॥ ११॥
एवञ्च सत्त्वं तव चेश्वरत्वं
यदि प्रसिद्ध्यत्यविशङ्क मम्ब ! ।
सेवा नियन्त्र्यास्तव मुख्यधर्मो
नियम्यजन्तोरिति किं नियम्यम् ॥ १२॥
साकारचिन्ताऽथ निराकृते र्वा
चिन्ता विधेयेति वृथा विवादः ।
चिन्त्यस्वरूपाग्रहतो हि कार्य-
श्चिन्ता स्वरूपे खलु चित्तबन्धः ॥ १३॥
स्फुटापरोक्षं तव भक्त चेतः
सर्वं हि सम्पश्यसि सर्वदृक्त्वम् ।
तथाच भक्तेस्तव नाकृतीनां
वैशिष्ट्यमीशित्रि ! निरीक्षसेत्वम् ॥ १४॥
त्वत्तत्त्व याथात्म्य विनिर्णयात्म-
न्यहो महादुष्करकर्मणिस्यात् ।
को वा समर्थः स्खलितेऽपि दोषः
को वा यदि त्वद्रतिर प्रकम्पा ॥ १५॥
आकारभेदेषु निराकृतौ वा
निष्ठैव कार्या दृढमन्वर्जम् ।
निष्ठा सवित्री नतु रूपभेदः
फलस्य यस्मात्तव विश्वमूर्ते ! ॥ १६॥
मिथ्याऽथ सद्वेति जगद्दिनानि
विवादतो हन्त नयन्ति लोकाः ।
मिथ्यात्व सत्यत्व विचारणेन
किं वा पिपासोस्तव भक्तिपेयम् ॥ १७॥
यथा तथैवास्तु न काकदन्त-
परीक्षणव्यग्रतयाऽस्ति किञ्चित् ।
परात् परे ! त्वत्पदपद्म सेवा-
रतिः स्वयं मुक्तिपदैक हेतुः ॥ १८॥
को वा विजानाति विशेषतस्त्वत्-
स्वरूपयाथात्म्यमबुद्धिगम्यम् ।
त्वत्सृष्टि माहात्म्यमपीश्वरि ! स्वां
स्वप्रक्रियां च स्वयमेव वेत्सि ॥ १९॥
को वेद कोवा वदतीह सम्य-
गियं विसृष्टिर्यत आबभूव ।
अहो महादुर्गममम्ब ! युष्मद् -
सतत्त्व मित्यार्षनिरूक्ति रेषा ॥ २०॥
स्वयमेवात्मनात्मानं वेत्थत्वं वेदरूपिणि ! ।
त्वमेवादि र्हि भूतानां त्वां वेत्तीतीतरः कथम् ॥ २१॥
तथापि यत्किञ्चिदवेत्य शब्दतः
संस्कारतो देवि ! विचारतस्तथा ।
त्वत्तत्त्व मुन्निद्रमुपासते तु ये
कृतार्थयन्त्येव त आत्मसम्भवम् ॥ २२॥
न कामयेऽन्यं पुरुषार्थमीश्वरि !
त्वत्पादभक्तेर्बहुशास्त्रकानने ।
घूर्णे किमभ्यर्ण सित्व मित्यहं
यच्छ्रद्दधेंऽघ्री तवयामि चाश्रयम् ॥ २३॥
प्रदेहि भक्तिं त्वयि नित्य निश्चला-
मानन्दरूपामविकल्प सङ्गिनीम् ।
अध्यात्म साम्राज्यपदं त्वदात्मिका-
महो किमेतै बहुदर्शनश्रमैः ॥ २४॥
नासित्वमित्यपवदन्तु ह नास्तिका स्त्वां
नास्त्यर्क इत्यवदन्ति यथा दिवान्धाः ।
विश्वेश्वरि ! त्वमसि नित्यमिति प्रपश्यन्
सङ्क्रीडते तु सततं त्वयि मानुषोऽयम् ॥ २५॥
इति तृतीयः स्तबकः समाप्तः ।
चतुर्थः स्तबकः
ब्रह्मात्मिके ! जननि ! सत्यसुखस्वरूपे !
त्वत्तत्त्वचिन्तनविधौ कथयन्ति केचित् ।
सर्वक्रियोपरमणं सहकारि मुख्यं
संन्यासशब्दित मितीश्वरि ! विश्ववन्द्याः ॥ १॥
यथा यतिर्न्यस्तस्मस्तकर्मा
तथा गृही कर्मपरोऽपि नूनम् ।
सदाधिकारी तव चिन्तनेंऽव !
त्वत्सेवनं कस्य न कस्य हेतुः ॥ २॥
त्वच्चिन्तनं देवि ! मनोविशुद्ध्या
न कर्मणा कर्मविसर्गतो वा ।
सम्पद्यतेऽतः सकलो मुमुक्षुः
शुद्धः स्वयं तत्त्वविवेचनार्हः ॥ ३॥
श्रीयाज्ञवल्क्यो जनक स्तथान्ये
चोद्दालकाद्याः खलु तत्त्वनिष्ठाः ।
सर्वेऽपि गार्ह्यस्थ्यपरा अभूवन्
किं वा गृहस्थेन तवापराद्धमू ॥ ४॥
सर्वाश्रमी तद्वदशेषवर्णी
सर्वो जनश्चेश्वरि ! निर्विशेषम् ।
अध्यात्मनिष्ठामधिगन्तुमीश-
स्त्वद्रूपिणीं त्वद्भजनैक मूलाम् ॥ ५॥
मर
श्री लक्ष्मीधर
देवप्रयाग (कवषः १४
व्यवस्थापक-पञ्च जोशी
विश्वैकनाथे ! महिलात्मिकात्वं
विद्या विद्याञ्च ददासि लोके ।
तत्तत् स्पृहेभ्योंऽव तथापि केचित्
स्त्रियो न विद्येति ह सङ्गिरन्ते ॥ ६॥
गङ्गे ! भवत्पूतविशालधारा
भावत्कविद्येति मम प्रभाति ।
गृह्णन्तु सर्वेऽपि यथेच्छमेतां
छिन्दन्तु तृष्णां त्वयि कस्य रोधः ॥ ७॥
सत्यं न कस्यापि धनं स्वकीयं
तथाच तद्ग्राहकमार्षवाक्यम् ।
तर्हि क्व तत्राधिकृतेर्विवाद -
प्रसङ्ग इत्यल्पमतिर्न वेत्ति ॥ ८॥
सत्यस्वरूपे ! त्वमतस्तथा त्व-
द्याथात्म्य माहात्म्य निवेदिका गीः ।
सूर्यप्रभावत् स्वचिरन्तन स्वं
सर्वस्य नैवान्यतमस्य देवि ! ॥ ९॥
श्रद्धाजडाः किमपि कार्यमचिन्तयन्तः
सद्वाथ दुष्टमिति हा ! स्व विचारहीनाः ।
क्षारोदकं प्रहिरयं खलु पूर्वखातोऽस्ती
त्याग्रहाग्रहधियो हि पिबन्ति सर्वे ॥ १०॥
आनन्द सुन्दरतनोस्तव जनुकन्ये !
सम्प्राप्तिरत्र महिलाऽथ च दैवसम्पत् ।
साज्यञ्च ??साधनमिदं द्वयमेव नान्य-
न्मन्ये सनातन सुधर्म इति प्रमुख्यः ॥ ११॥
सर्वेषु देशसमयेषु च सन्नयेषु
सत्पुंसु चैकरसमव्यभिचारि यस्मात् ।
तस्मात् स्थिरं ह्यपरिवर्ति च मुख्य एत-
द्धर्मः सनातन इतोऽन्यदमुख्यधर्मः ॥ १२॥
त्वत् प्राप्तिरेव परमे ! परमः पुमर्थो
ह्यालक्ष्य लक्ष्यमिदमत्र करोतिकर्म ।
यत् काल देशसदृशं सतु शुद्धधर्म-
स्तद्वांस्ततस्तव सनातन शुद्धधर्मी ॥ १३॥
मातर्महेशित्रि ! निवृत्तिमन्त-
र्दैवी तु या दुर्लभदिव्यसम्पत् ।
महामहिम्नों ममदेहि घोर -
भवादवाङ्घ्रौ प्रलपन्तमेनम् ॥ १४॥
अन्तर्निवृत्तिं नितरामविन्द -
न्नाप्नोति बाह्योपरमेण यस्त्वाम् ।
संन्यासनाम्ना बत हस्तिराजं
बध्नाति मत्तं बिसतन्तुना सः ॥ १५॥
त्वत्तत्त्वबोधादिशमादिनाना-
गुणौघ सम्पद्विधुरस्य पुंसः ।
बाह्योपरामो यदनर्थहेतुर्-
गर्ह्यातिगर्ह्यः स विगर्हते त्वाम् ॥ १६॥
योगोद्युक्तो भीगवाञ्छावियुक्तो
नान्यासक्तः सन्ततामोदशाली ।
युष्मद्वृत्ति र्योऽविजातीयवृत्तिः
संन्यासः स्याद्भूषणं तस्य पुंसः ॥ १७॥
द्रव्यार्थं न त्यज्यते द्रव्यजातं
योषार्थं वा त्यज्यते नैव योषित् ।
कर्मार्थं न त्यज्यते कर्म युष्मत्-
स्वराज्यार्थं त्यज्यते सर्वमेतत् ॥ १८॥
तत्त्वासक्तिस्तत्त्वचिन्तानितान्तं
तत्त्वक्रीडातत्त्वविद्याप्रचारः ।
शिष्टाचारश्चांव धर्मोयतीनां
नेपत्तेषान्द्वेषरागप्रवृत्तिः ॥ १९॥
ग्रार्ह्यस्थ्येपि ज्ञानविचारस्य च भक्ते-
र्नासम्भूतिः कर्मपरे तर्हि किमर्थम् ।
तत्त्यागोंऽब ! श्रीपदभक्त्या हि विमुक्ति-
र्न स्याद्वेषैस्तीर्थमुखैर्वा यतिपद्वैः ॥ २०॥
कर्मीधन्यः श्लाघनीयोऽतिधन्यः
कर्मत्यागो नैवकार्यः कदाचित्
मोक्षो न स्यात् कर्मठस्येति वादो
नादर्तव्यः शास्त्रतर्कादिबाह्यः ॥ २१॥
मुण्डित्वेन भ्रष्टतां प्राप्य मूढाः
स्वस्यान्येषाञ्चेषदप्यर्थ शून्याः ।
जीवन्तीमे काकतश्चातिगर्ह्या
नूनं भूमे र्हन्त भारायमाणाः ॥ २२॥
दैवी सम्पद्या हि निवृत्तिः खलु मुख्या
प्राप्या मर्त्यैराश्रमतृष्णा नतु कार्या ।
सर्व साक्षात् प्रश्यसि चित्तं हि शिवेत्वं
सर्वज्ञत्री सर्वमनः पीठनिवासा ॥ २३॥
संन्यस्यन् बा काष्ठतपस्या मुतकुर्वन्
श्रद्धा भक्त्यो र्वै तव नामाप्यविजानन् ।
भद्रं भद्रे ! प्राप्स्यति चेत्तर्हिकथन्नो
भूरुड्रंश्चापि भविष्यन्ति सुभद्राः ॥ २४॥
चन्दे वन्दे त्वत् पदपङ्केरुहयुग्मं
याचे याचेऽहं तव कारुण्यकटाक्षम् ।
मन्ये धन्ये ! जाह्नवि ! धर्मध्वजिमुद्रे-
त्येनं न्यासं निश्चलभक्ति स्त्वयि नो चेत् ॥ २५॥
इति चतुर्थः स्तबकः समाप्तः ।
पञ्चमः स्तबकः
यादेवि ब्रह्मरूपेण ब्रह्मवादिषु संस्थिता ।
असंस्थिता च गङ्गायै नमस्तस्यै नमो नमः ॥ १॥
या देवी विष्णुरूपेण विष्णुवादिषु संस्थिता ।
असंस्थिता च गङ्गायै नमस्तस्यै नमो नमः ॥ २॥
या देवी शिवरूपेण शिववादिषु संस्थिता ।
असंस्थिता च गङ्गायै नमस्तस्यै नमो नमः ॥ ३॥
रामः कृष्णो गजास्यस्त्रिपुररिपु सुतः
षण्मुखोऽहस्करश्च
ब्रह्मा ब्राह्मीति युष्मद्भजन पथजुषां
भावना भावितेन ॥ ४॥
नाना देवात्मना वै जननि !
विजयसे विश्वमूर्त्तिस्त्वमेव
कारुण्यं तेऽत्र हेतु र्निरवधि-
करुणावारिधेः स्वाश्रितेषु ॥ ५॥
या देवी कर्मरूपेण कर्मवादिषु संस्थिता ।
असंस्थिता च गङ्गायै नमस्तस्यै नमो नमः ॥ ६॥
यादेवी शून्यरूपेण शून्यवादिषु संस्थिता ।
असंस्थिता च गङ्गायै नमस्तस्यै नमो नमः ॥ ७॥
यादेवी भूतरूपेण भूतवादिषु संस्थिता ।
असंस्थिता च गङ्गायै नमस्तस्यै नमो नमः ॥ ८॥
यादेवी सर्वरूपेण सर्ववादिषु संस्थिता ।
असंस्थिता च गङ्गायै नमस्तस्यै नमो नमः ॥ ९॥
यस्या जन्मास्यजगतो यस्याञ्च स्थितिरप्ययः ।
चक्षुरुन्मेषवत्तस्यै जह्नुजायै नमो नमः ॥ १०॥
यादेवी विधृतिः सेतुः सर्वेस्थाने नियच्छति ।
असम्भेदायवैतस्यै जह्नुजायै नमो नमः ॥ ११॥
मङ्गला मङ्गलानांया पावनानां च पावनी ।
भुक्तिदा मुक्तिदा चास्यै जह्नुजायै नमो नमः ॥ १२॥
अम्ब ! त्वामाश्रयेबालः प्रसीदानुगृहाणमाम् ।
पुनातु पादरजसा चैनमेनोनिधिञ्जनम् ॥ १३॥
देहि मे वृत्तिनैश्चल्यं त्वत्पादसरसीरुहे ।
विध्वंसय विजातीयांवृत्तिमत्यन्तदुर्भगाम् ॥ १४॥
अम्ब ! त्वं शरणं मम
त्रिपथगे ! बाह्यार्थचिन्ताकुलं
पादाग्रेप्रपतन्तमन्त-
विधुरे मां पाहि मोहार्णवात् ।
वात्सल्यम्बुनिधे ! सदैव
मनसो व्यायामभूमिर्मम
प्रत्यग्ब्रह्म तवास्तु नित्य-
मचलं नीरूपरूपं महत् ॥ १५॥
प्रातः सायं दिनमनिशा माससंवत्सरौचे-
त्येवङ्कालः प्रचलतिचलत्यायुरत्युग्रवेगम् ।
क्षुद्रान् भोगान् त्यजतु भजतु श्रीपदं प्रेमतोऽन्तः
स्वर्गङ्गायाः श्व इति मतिमान्मानवो मा ब्रवीतु ॥ १६॥
यावच्छ्रद्धा रतिस्तावत्त्वत्तत्त्वे सम्भवेन्नृणाम् ।
अत्यन्तावेशतोऽत्रैव नित्यशान्तिफलोदयः ॥ १७॥
पण्डितस्त्वां न जानाति श्रद्धावात् वेत्ति तत्त्वतः ।
ब्रम्भ्रमीतिमनोज्ञस्य नोचेन्नतु स पण्डितः ॥ १८॥
शब्दानुमानविपिने विपुले भ्रमद्भि-
र्न प्राप्यतेंऽब तवतत्त्वमरं हि तद्वै ।
श्रद्वैधितान्तरवबोधबृहत्प्रदीप-
प्रद्योतनैकसुलभं धिषणागृहान्ते ॥ १९॥
अस्तीति भातीति भवत्प्रकाश-
मास्तिक्यबुद्ध्यांऽब करोमि साक्षात् ।
ततश्च सच्चित् सुखरूपिणि ! त्वा-
मभ्यर्थयेऽवेति भवाम्बुधेर्माम् ॥ २०॥
गङ्गोत्तरीक्षेत्र विहारशीलां
गङ्गा मनङ्गारिशिरोविभूषाम् ।
सर्वात्मना त्वां प्रणतोऽस्मि नित्यं
सर्वात्मिकां त्वत्परताप्रसिद्ध्यै ॥ २१॥
प्रसीद गङ्गे ! भगवत्यभीक्ष्णं
त्वत्प्रेमयाचेऽन्यदहं न याचे ।
त्वदम्बुधारावदखण्डरूपं
प्रसीद भूयोऽपि नमोंऽघ्रिपातैः ॥ २२॥
गङ्गोत्तरीक्षेत्रमनुत्तमं श्री-
गोत्राधिपोत्तुङ्ग शिरोऽवतंसः ।
पुण्यं महत्पूज्यतमञ्च साक्षात् -
दुत्पत्तिभूरस्तिसुरापगायाः ॥ २३॥
तत्राम्बिकापरमिदं निवसन्नकार्षं
स्तोत्रं महार्हमहमम्बिकयानियुक्तः ।
तत्पादयोरुपहृतञ्च तदस्तु तस्याः
प्रीत्यै च शुभ्रलघुमत्स्मितपोतकाय ॥ २४॥
गङ्गोत्तर्यामिह गिरिगुहावेश्मनि त्वत्पदान्ते
पाद्मेपीठे स्थिरमृजु कदा संस्थितः सन् सुखेन ।
न्यस्तस्वान्तस्त्वयि शिव तनो ! देवि ! कस्तूरिकाणां
सङ्घर्षाश्मायितमिदमहं विस्मरिष्यामि देहम् ॥ २५॥
इति पञ्चमः स्तबकः समाप्तः ।
इति श्रीगङ्गोत्तरीक्षेत्र वास्तव्येन
पूज्यपादश्रीतपोवनस्वामिनासम्प्रणीतं
श्री गङ्गास्तोत्रं सम्पूर्णम् ।
Proofread by Rajesh Thyagarajan