श्रीगङ्गास्तोत्रम्

श्रीगङ्गास्तोत्रम्

श्रीगङ्गोत्तरीक्षेत्र वास्तव्येन पूज्यपादश्रीतपोवनस्वामिनासम्प्रणीतं श्री गङ्गास्तोत्रम् ।

प्रथमः स्तबकः

जय जय जगदम्ब ! श्रीगल श्रीजटायां जय जय जयशीले ! जह्नुकन्ये ! नमस्ते । जय जय जलशायि श्रीमदङ्घ्रिप्रसूते ! जय जय जय भव्ये ! देवि ! भूयो नमस्ते ॥ १॥ त्रिपथ पथिक पाथः स्रोतसा सिद्धिमूर्ति- र्दिनकर कुलभूषारत्न यत्नोदयोत्था । प्रणतजन सुरद्रुः पावनी पावनानां जयति जगति गङ्गा भाग्यपूगो जनानाम् ॥ २॥ गङ्गे ! मातरनुस्मरामि सततं त्वन्मूर्तिमत्यद्भुतां देवीं दैवतदुर्लभां यमुनया वाचाऽन्नसम्पूर्णया । भक्तेनाथ भगीरथेन भगवत्पादैश्च पादार्च कै- र्या नित्यं समुपाश्रिता विजयते गङ्गोत्तरी सद्मनि ॥ ३॥ तुहिन शिखरिश‍ृङ्गे दिव्यसौभाग्यसम्प- न्महिमनि विहरन्तीं पुष्पवासे विशाले । सुकृति समधिगम्ये सम्यगालीजनाली- विलसितमलसाक्षीं नौमि गङ्गामभीक्ष्णम् ॥ ४॥ पादाङ्गुष्ठाद्वोदिता देवि ! विष्णो- र्गङ्गोत्तर्यां गोमुखी मस्तकाद्वा । गङ्गा गङ्गैवास्य वाधो न किंञ्चित् सर्वेशित्री सर्वथा हि त्वमम्ब ! ॥ ५॥ अयि भगवति ! भव्य श्रीमुख श्रीनितम्बे तुहिन मुकुरहर्म्यस्यान्तरन्तर्वधूवत् । अहह ! चरसि चित्तं त्वन्तु माता जगत्या- स्तदपि कथमसूर्यं पश्यतां यासि सह्रीः ॥ ६॥ पापैर्मुखं समभवत् खलु नीलनीलं यस्याम्ब ! तस्य तव वेश्म निरीक्षणेन । श्रीमन्मुखं भवति भास्कर भासि नूत्नं मन्येऽर्थवत्तत इदं तव वेश्मनाम ॥ ७॥ प्रसीद भगवत्यम्ब ! प्रसीद करुणाम्बुधे ! । पुनीहि स्वात्मतुल्यं मे मनो मलमलीमसं ॥ ८॥ मलिनं मलिनं चित्तमत्यन्त मलिनं शुभे ! । कुतो न कुरुषे दृष्टिं मयि सर्व मलापहाम् ॥ ९॥ चित्तं विशोधय बहिर्विषयाभिषक्त- मन्तर्निरुन्धि भवदङ्घ्रिसरोज युग्मे । यावद्विनिश्चरति बाह्यविलोकिती हृ - त्तावत् कथं जननि ! सौख्यकथा नराणाम् ॥ १०॥ मातर्जाह्नवि ! निह्नवे तु जगतः पृथ्व्यादि मिथ्यात्मनो यत्तत्त्वं न निषिद्ध्यते तदचलं त्वन्मात्रमेकाकिनी । यस्मात्त्वं सदशेषमूलममलं ब्रह्मैव निर्धर्मकं मन्देभ्यः खलु कल्पिता जलमयी मूर्तिस्तवान्याचया ॥ ११॥ अच्छिन्नरूपिणी देवी नित्या या मृत्युमत्यगात् । प्राणिति प्राणहीनाच जाह्नवी साऽस्तु मे गतिः ॥ १२॥ सर्वदा सर्वदृग्देवी सर्वकर्त्री च या स्वयम् । सर्वभावैः प्रपद्ये तां जाह्नवीं सुरनिम्नगाम् ॥ १३॥ पश्यन्तु केचिदमलं जलमेव गङ्गे- त्यन्ये वयं तु भवयन्त्रविमुक्तिहेतुः श्रीमूलशक्तिरखिलेश्वररूपरूपि- ण्यानन्द कन्दमिति नित्यमुपास्महेत्वाम् ॥ १४॥ श्रद्धैव मूलं त्वदुपासनाया जलेऽपि देवत्व विधान दक्षा । श्रद्धां विना कः परलोक चिन्ता- मग्नः प्रवर्तेत परोक्षकार्ये ॥ १५॥ प्राग्जन्मपुण्य निचयेन तवाङ्घ्रिपद्मे श्रद्धा भवेत् स्थिरतराऽथच भक्तिभावः । भक्त्याच भावुकनिधे ! पुरुषार्थसिद्धिः श्रद्धोज्झितः स्वयमपुच्छपशुर्धरण्याम् ॥ १६॥ प्रफुल्लनीलोत्पल कान्तिचोरैः कटाक्षपातैस्तव पावितो यः । निरन्तशान्तिः समुदेति पुंस- स्तस्यैव भागीरथ ! भाग्यभाजः ॥ १७॥ किं वा मुण्डनतः किमस्ति जटया वैवर्ण्य वस्त्रेण किं किं वा वस्त्र विसर्जनेन भसिता - लेपेन जापेन किम् । भिक्षान्नाशनतश्च किं व्रतशतै- स्तीर्थेषु चाटाट्यया विश्वाधीश्वरि ! युष्मदङ्घ्रियुगले भक्तिर्न चेन्निश्चला ! ॥ १८॥ गुहाच्छिद्रे वाद्रेः शिखरभुवि वा घोरगहने श्मशाने वैकाकी वसतु वसतौ वा निजजनैः । महाभागे ! भागीरथि ! तवपदां भोजभजन- प्रमत्तञ्चितञ्चेत् सतु परमयोगी सतु सुखी ॥ १९॥ यद्वा योगी जाह्नवि ! कर्मी तव भक्तो यद्वा ज्ञानी त्वतिरन्तर्यदिनो चेत् । अव्यावृत्ता तर्ह्यपि योगादि महार्ह मन्ये मोघं मोघ मशेषं खलु तेषाम् ॥ २०॥ युष्मत्पदाब्जरतिरेव शिवे ! विशुद्धं वैरक्त्य मन्यदखिलं खलुमोहसिद्धम् । को वा सुधीस्तमभिवाञ्छति काष्टभावं यं हा वितृष्णपदवीति विदन्ति मुर्खाः ॥ २१॥ वैराग्यं यदिहापरत्र विषये- ष्विच्छाक्षय स्तर्ह्यमी बालोन्मत्तजडादयोऽपि सुतरां वैतृष्ण्यसीमाजुषः । हे देवि ! त्वदभ्रशुभ्रवपुरा- पूर्णं सदा पश्यतो योपेक्षामति रन्यवस्तुषु ?? दृढा वैरक्तत्य मेतन्म तम् ॥ २२॥ शान्तिः कथं विषयलेशमसंस्पृशन्ती चित्तं न चेत्वयि निपक्तमचण्डमूर्तौ । ज्ञानास्थिके ! जननि ! जह्नुसुते ! निसर्ग- सिद्धः सदैव मननं मनसो हि धर्मः ॥ २३॥ युष्मत्स्वरूपसुखसागरममग्नबुद्धेः शाम्येत् स्वतोऽक्षकुलमुद्भटमेषदान्तिः । दुःखस्य कस्यचिदतोऽस्फुरणं तितिक्षा न्यग्रोधभूर्जसमधर्मदशा त्वविद्या ॥ २४॥ तथा च मातर्भवदीयतत्त्व- क्रीडापरस्यान्यकृते निवृत्तिः । ज्ञेयः स नित्योपरमो नयाञ्चा वारण्यवासोऽलसता निधीनाम् ॥ २५॥ इति प्रथमः स्तबकः समाप्तः ।

द्वितीयः स्तबकः

मातर्माये ! नमस्तुभ्यमुद्धरैनं भवाम्बुधेः । शक्तिः शक्तात्पृथङ्नास्तीतीश्वरो हि त्वमीश्वरो ॥ १॥ फलमत उपपत्तेर्न्यायतोऽस्मादकस्मात् फलमिह सुकृतानां दुष्कृतानाञ्च न स्यात् । फलति फल विधात्र्या ब्रह्ममूर्त्या भवत्याः प्रतनु ! करुणयैव प्राणिनां कर्मजातम् ॥ २॥ बोधश्च मोहविपिनोत्तरणैकपद्या न प्राप्यते भवदनुग्रहमन्तरेण । देवि ! त्वमेव विदधासि विमुक्तिहेतुं बोधं यथाऽन्धतमसं खलुबन्ध हेतुम् ॥ ३॥ हे देवि ! धर्मिप्रतियोगिरूपा- च्छिन्नत्वतः सिद्ध्यति नो पृथक्त्वम् । परस्परालम्बतयाऽत्र युष्मत्- कृपां विना कस्य भवेत् प्रतिष्ठा ॥ ४॥ घटो न वै सिद्धयति तद्धियं विना विना घटं धीरपि तस्य नो दियात् । इतिद्वयञ्चेत् प्रतिषिद्ध्यते भवत्- पदैकभक्तस्य भवेत्तदात्मता ॥ ५॥ सतोऽसतश्चापि विलक्षणं यत् सत्त्वात्मकं जागतबीजमाहुः । अज्ञानमस्मिंस्तव सम्प्रसादा- च्छ्रद्धा भवेदव्यभिचारिणी नुः ॥ ६॥ सैषा चैत्रप्रमितिरूदिता तत्प्रमाप्रागभावो- द्रिक्तानादिप्रणाशनकरी मैत्रमावत् प्रमात्वात् । त्वद्वाह्यस्य प्रियतनु ! महाविद्ययाऽज्ञानसिद्धि- र्यद्वद्वीणावदनमफलाऽश्रोत्रवच्छोत्रमूले ॥ ७॥ सत्यासत्यानधिकरणता ज्ञानवाध्यत्व मेवं स्वाधिष्ठानस्थित दृढनिषेध प्रतिद्वन्द्विता वा । मिथ्यात्वञ्चेद्बहुतरमहोलक्ष्यते लक्ष्यविद्भि- र्मिथ्या नस्याज्जगदिदमनेना प्रियेभ्यस्तवाम्ब ! ॥ ८॥ येऽर्थाः प्रोक्ता जननि ! मुनिना मानमेयादिसंज्ञा- स्तन्त्रेऽन्यस्मिन्निपुणधिषणैः षोडशानां च तेषाम् । नैरुक्त्यञ्चेन्निरुपमगिरा खण्ड्यते खण्डकारैः सत्यत्वं किं त्यजतिभुवनं त्वत्पदाद्बाह्यबुद्धेः ॥ ९॥ कः स्वप्रकाशः स्वश्चासौ प्रकाशश्चेति वा स्वयम् । स्वस्य प्रकाश इत्थं वा न भवेदन्यथापि वा ॥ १०॥ अवेद्यत्वेऽपरोक्षत्वं स्वप्रभत्वमिति स्थितिः । प्रावोचच्चित्सुखार्यश्चेदन्येऽप्येवं मुनीश्वराः ॥ ११॥ स्वप्रकाशतनो ! स्वात्मा स्वप्रकाशः कथं स्फुरेत् । तस्ययस्य मनोस्रक्तं त्वत्पादसरसी रुहे ॥ १२॥ ब्रह्म सत्यञ्जगन्मिथ्या जीवो ब्रह्मेति केवलम् । भाष्य कृभाष्यसन्दर्भैरभ्यधाच्छङ्करो गुरुः ॥ १३॥ तथाऽपीशित्रि ! को जन्तुर्विद्यामूतैस्तवानघे ! । शक्तिपातं विनाविद्याद्ब्रह्मैवाहमिति स्फुटम् ॥ १४॥ वागारभ्या विकृतिरखिला मृत्तिकेत्येव सत्यं श्रुत्वाप्येवं श्रुतिगिरमथ श्रावयित्वापि शिष्यान् । को वा प्राज्ञः प्रभवति भुवि त्यतुमिष्टान् स्वभोगान् रन्तुञ्चाव ! त्वद्मलपदे त्वत्कृपाविप्रकृष्टः ॥ १५॥ न मेधया शास्त्रवादद्वैखर्या च वरानने ! । त्वत्कृपामृतसेकेन भवतापः प्रशाम्यति ॥ १६॥ गङ्गे ! गङ्गे ! नमस्तुभ्यं मातर्मातर्नमोमनः । कृपयादेहि मे नित्यं त्वयि निष्ठामखण्डिताम् ॥ १७॥ आचार्यनाम निगदन्त्यभिमान युक्ता युद्ध्यन्ति च स्वमतनैगमता प्रसिद्ध्यैः । नाचार्यचोदित विधिं त्वनुयन्ति लोका- स्तन्निष्ठता हि निखिलोर्यमतैकधर्मः ॥ १८॥ मुण्डित्व दण्डित्व जटित्व वेषै- राचार्यपारम्परिकत्वतश्च । पिचण्डपूर्तिः फलमम्ब ! नान्यत् पुमर्थहेतु स्त्वदनन्य भक्तिः ॥ १९॥ त्वतत्त्वनिर्णयविधौ सहकारि पूर्वा- चार्यैः प्रभाषितमपि स्वमति प्रयोगः । प्राधान्यमेति न हि विन्दति मेषवृत्ति- र्ब्रह्मात्मिकेंव ! तव तत्त्वमनर्थ मृच्छेत् ॥ २०॥ कपिलोयदि सर्वज्ञः कणादो नेतिकाप्रमा । इति प्रेक्षापरेत्येष भणत्याभाणकः स्फुटम् ॥ २१॥ श्रुतिः प्रमाणं प्रमितौ तवेत्यृषि - र्जगादबाढं किल बादरायणः । तथापि भागीरथि ! तीक्ष्णबुद्धय- स्तदर्थमर्थादधिगन्तुमीशते ॥ २२॥ धियः प्रकर्षोऽथ विचारशुद्धि- र्भवत्स्वरूपावगतिश्च नूनम् । भवे ! भवप्रेष्ठतमे ! भवत्या भवत्यभीक्ष्णं कृपयैव पुंसाम् ॥ २३॥ नानामतैर्न्यायविशेष युक्तै- र्विवर्द्धितेह्यास्तिकनास्तिकैश्च । कः शब्दजालेन विमुह्यति श्री- पदारविन्दाननुषक्तवृत्तिः ॥ २४॥ पदाम्बुजं ते शरणं ममाम्ब ! प्रसीद नान्यच्छरणं प्रपद्ये । त्वत्पादभक्तिर्गतिरित्यनन्या मन्ये मनोऽतीत भवत्पदात्यै ॥ २५॥ इति द्वितीयः स्तबकः समाप्तः ।

तृतीयः स्तबकः

सच्चिन्मूर्तेर्यत्तवास्तित्वमस्मिन् सन्दिग्द्धेयः स्वस्य हन्तास्तितायाम् । सन्दिग्द्धे स व्याहत ज्ञप्तिरम्ब ! स्वात्महित्वं तस्थुषोऽतस्थुषश्च ॥ १॥ स नाहमस्मीति निषेधति स्वं यः श्रीपकन्ये ! प्रतिषेधति त्वाम् । स्वस्य स्वयं वै न भवेन्निषेद्धा तस्मात् कथं देवि ! निरस्यसे त्वम् ॥ २॥ सत्तास्वरूपेण समन्ततस्त्वं विभ्राजसेंऽब स्वमहिम्नि नित्यम् । सत्तातिरिक्तं तव नास्ति सत्ता सत्त्वस्य कस्यापि घटादिकस्य ॥ ३॥ त्वत्सत्त्व माये ! निगदत्यभीष्णं बुद्धिः सतां शुद्ध विचारदक्षा । स्वतः प्रमाणं श्रुतिरप्य मन्द- स्वरेण गायत्यखिलेश्वरि ! त्वाम् ॥ ४॥ दृष्ट्वेममद्भुततरं प्रकृति प्रपञ्चं कोवा विचक्षणमतिः खलु तद्विधात्रीम् । त्वामम्ब ! सम्यगनुमातु मनीश्वरः स्यात् कार्यं हि न क्वचिदकारण मस्ति दृष्टम् ॥ ५॥ जल्पन्तु शून्यमतयस्तव शून्यभावं निन्दन्तु चाधिकमधीरिति वञ्चितोऽयम् । सच्चिघने ! तव पदाम्बुज भक्तिशीलान् भक्तास्तथापि न भवद्विमुखा भवेयुः ॥ ६॥ आत्मैव त्वं हि भक्तानामसित्वं शून्यताकथम् । असि चेत्वयि वैरस्यं कथं नित्य सुखोदधौ ॥ ७॥ नास्तीति भवती केन साद्ध्यते सिद्धरूपिणी । तथा च सर्वशासित्री हास्ति चेन्नास्तिको हतः ॥ ८॥ त्वच्छक्ति माहात्म्यमहस्करोद्यत्- प्रभावदम्ब ! प्रसृतं प्रसिद्धम् । तथाऽपि सत्त्वं तव शङ्क्यते यै- र्नमोऽस्तु तेषां धिषणोदयाय ॥ ९॥ इन्द्रार्क चन्द्रार्क सुताग्निवायु- प्राया ?? महैश्वर्ययुता अपी मे । देवाः कथं नोपरता भवन्ति स्वस्वक्रियाभ्यः सुविचार्यमेतत् ॥ १०॥ अहो नियन्त्र्यास्तव शासनेन जगत् सचन्द्रार्कमिदं यथावत् । प्रवर्तते नातिगमः कदाचि - न्नोचेदमर्यादमिदं विनश्येत् ॥ ११॥ एवञ्च सत्त्वं तव चेश्वरत्वं यदि प्रसिद्ध्यत्यविशङ्क मम्ब ! । सेवा नियन्त्र्यास्तव मुख्यधर्मो नियम्यजन्तोरिति किं नियम्यम् ॥ १२॥ साकारचिन्ताऽथ निराकृते र्वा चिन्ता विधेयेति वृथा विवादः । चिन्त्यस्वरूपाग्रहतो हि कार्य- श्चिन्ता स्वरूपे खलु चित्तबन्धः ॥ १३॥ स्फुटापरोक्षं तव भक्त चेतः सर्वं हि सम्पश्यसि सर्वदृक्त्वम् । तथाच भक्तेस्तव नाकृतीनां वैशिष्ट्यमीशित्रि ! निरीक्षसेत्वम् ॥ १४॥ त्वत्तत्त्व याथात्म्य विनिर्णयात्म- न्यहो महादुष्करकर्मणिस्यात् । को वा समर्थः स्खलितेऽपि दोषः को वा यदि त्वद्रतिर प्रकम्पा ॥ १५॥ आकारभेदेषु निराकृतौ वा निष्ठैव कार्या दृढमन्वर्जम् । निष्ठा सवित्री नतु रूपभेदः फलस्य यस्मात्तव विश्वमूर्ते ! ॥ १६॥ मिथ्याऽथ सद्वेति जगद्दिनानि विवादतो हन्त नयन्ति लोकाः । मिथ्यात्व सत्यत्व विचारणेन किं वा पिपासोस्तव भक्तिपेयम् ॥ १७॥ यथा तथैवास्तु न काकदन्त- परीक्षणव्यग्रतयाऽस्ति किञ्चित् । परात् परे ! त्वत्पदपद्म सेवा- रतिः स्वयं मुक्तिपदैक हेतुः ॥ १८॥ को वा विजानाति विशेषतस्त्वत्- स्वरूपयाथात्म्यमबुद्धिगम्यम् । त्वत्सृष्टि माहात्म्यमपीश्वरि ! स्वां स्वप्रक्रियां च स्वयमेव वेत्सि ॥ १९॥ को वेद कोवा वदतीह सम्य- गियं विसृष्टिर्यत आबभूव । अहो महादुर्गममम्ब ! युष्मद् - सतत्त्व मित्यार्षनिरूक्ति रेषा ॥ २०॥ स्वयमेवात्मनात्मानं वेत्थत्वं वेदरूपिणि ! । त्वमेवादि र्हि भूतानां त्वां वेत्तीतीतरः कथम् ॥ २१॥ तथापि यत्किञ्चिदवेत्य शब्दतः संस्कारतो देवि ! विचारतस्तथा । त्वत्तत्त्व मुन्निद्रमुपासते तु ये कृतार्थयन्त्येव त आत्मसम्भवम् ॥ २२॥ न कामयेऽन्यं पुरुषार्थमीश्वरि ! त्वत्पादभक्तेर्बहुशास्त्रकानने । घूर्णे किमभ्यर्ण सित्व मित्यहं यच्छ्रद्दधेंऽघ्री तवयामि चाश्रयम् ॥ २३॥ प्रदेहि भक्तिं त्वयि नित्य निश्चला- मानन्दरूपामविकल्प सङ्गिनीम् । अध्यात्म साम्राज्यपदं त्वदात्मिका- महो किमेतै बहुदर्शनश्रमैः ॥ २४॥ नासित्वमित्यपवदन्तु ह नास्तिका स्त्वां नास्त्यर्क इत्यवदन्ति यथा दिवान्धाः । विश्वेश्वरि ! त्वमसि नित्यमिति प्रपश्यन् सङ्क्रीडते तु सततं त्वयि मानुषोऽयम् ॥ २५॥ इति तृतीयः स्तबकः समाप्तः ।

चतुर्थः स्तबकः

ब्रह्मात्मिके ! जननि ! सत्यसुखस्वरूपे ! त्वत्तत्त्वचिन्तनविधौ कथयन्ति केचित् । सर्वक्रियोपरमणं सहकारि मुख्यं संन्यासशब्दित मितीश्वरि ! विश्ववन्द्याः ॥ १॥ यथा यतिर्न्यस्तस्मस्तकर्मा तथा गृही कर्मपरोऽपि नूनम् । सदाधिकारी तव चिन्तनेंऽव ! त्वत्सेवनं कस्य न कस्य हेतुः ॥ २॥ त्वच्चिन्तनं देवि ! मनोविशुद्ध्या न कर्मणा कर्मविसर्गतो वा । सम्पद्यतेऽतः सकलो मुमुक्षुः शुद्धः स्वयं तत्त्वविवेचनार्हः ॥ ३॥ श्रीयाज्ञवल्क्यो जनक स्तथान्ये चोद्दालकाद्याः खलु तत्त्वनिष्ठाः । सर्वेऽपि गार्ह्यस्थ्यपरा अभूवन् किं वा गृहस्थेन तवापराद्धमू ॥ ४॥ सर्वाश्रमी तद्वदशेषवर्णी सर्वो जनश्चेश्वरि ! निर्विशेषम् । अध्यात्मनिष्ठामधिगन्तुमीश- स्त्वद्रूपिणीं त्वद्भजनैक मूलाम् ॥ ५॥ मर श्री लक्ष्मीधर देवप्रयाग (कवषः १४ व्यवस्थापक-पञ्च जोशी विश्वैकनाथे ! महिलात्मिकात्वं विद्या विद्याञ्च ददासि लोके । तत्तत् स्पृहेभ्योंऽव तथापि केचित् स्त्रियो न विद्येति ह सङ्गिरन्ते ॥ ६॥ गङ्गे ! भवत्पूतविशालधारा भावत्कविद्येति मम प्रभाति । गृह्णन्तु सर्वेऽपि यथेच्छमेतां छिन्दन्तु तृष्णां त्वयि कस्य रोधः ॥ ७॥ सत्यं न कस्यापि धनं स्वकीयं तथाच तद्ग्राहकमार्षवाक्यम् । तर्हि क्व तत्राधिकृतेर्विवाद - प्रसङ्ग इत्यल्पमतिर्न वेत्ति ॥ ८॥ सत्यस्वरूपे ! त्वमतस्तथा त्व- द्याथात्म्य माहात्म्य निवेदिका गीः । सूर्यप्रभावत् स्वचिरन्तन स्वं सर्वस्य नैवान्यतमस्य देवि ! ॥ ९॥ श्रद्धाजडाः किमपि कार्यमचिन्तयन्तः सद्वाथ दुष्टमिति हा ! स्व विचारहीनाः । क्षारोदकं प्रहिरयं खलु पूर्वखातोऽस्ती त्याग्रहाग्रहधियो हि पिबन्ति सर्वे ॥ १०॥ आनन्द सुन्दरतनोस्तव जनुकन्ये ! सम्प्राप्तिरत्र महिलाऽथ च दैवसम्पत् । साज्यञ्च ??साधनमिदं द्वयमेव नान्य- न्मन्ये सनातन सुधर्म इति प्रमुख्यः ॥ ११॥ सर्वेषु देशसमयेषु च सन्नयेषु सत्पुंसु चैकरसमव्यभिचारि यस्मात् । तस्मात् स्थिरं ह्यपरिवर्ति च मुख्य एत- द्धर्मः सनातन इतोऽन्यदमुख्यधर्मः ॥ १२॥ त्वत् प्राप्तिरेव परमे ! परमः पुमर्थो ह्यालक्ष्य लक्ष्यमिदमत्र करोतिकर्म । यत् काल देशसदृशं सतु शुद्धधर्म- स्तद्वांस्ततस्तव सनातन शुद्धधर्मी ॥ १३॥ मातर्महेशित्रि ! निवृत्तिमन्त- र्दैवी तु या दुर्लभदिव्यसम्पत् । महामहिम्नों ममदेहि घोर - भवादवाङ्घ्रौ प्रलपन्तमेनम् ॥ १४॥ अन्तर्निवृत्तिं नितरामविन्द - न्नाप्नोति बाह्योपरमेण यस्त्वाम् । संन्यासनाम्ना बत हस्तिराजं बध्नाति मत्तं बिसतन्तुना सः ॥ १५॥ त्वत्तत्त्वबोधादिशमादिनाना- गुणौघ सम्पद्विधुरस्य पुंसः । बाह्योपरामो यदनर्थहेतुर्- गर्ह्यातिगर्ह्यः स विगर्हते त्वाम् ॥ १६॥ योगोद्युक्तो भीगवाञ्छावियुक्तो नान्यासक्तः सन्ततामोदशाली । युष्मद्वृत्ति र्योऽविजातीयवृत्तिः संन्यासः स्याद्भूषणं तस्य पुंसः ॥ १७॥ द्रव्यार्थं न त्यज्यते द्रव्यजातं योषार्थं वा त्यज्यते नैव योषित् । कर्मार्थं न त्यज्यते कर्म युष्मत्- स्वराज्यार्थं त्यज्यते सर्वमेतत् ॥ १८॥ तत्त्वासक्तिस्तत्त्वचिन्तानितान्तं तत्त्वक्रीडातत्त्वविद्याप्रचारः । शिष्टाचारश्चांव धर्मोयतीनां नेपत्तेषान्द्वेषरागप्रवृत्तिः ॥ १९॥ ग्रार्ह्यस्थ्येपि ज्ञानविचारस्य च भक्ते- र्नासम्भूतिः कर्मपरे तर्हि किमर्थम् । तत्त्यागोंऽब ! श्रीपदभक्त्या हि विमुक्ति- र्न स्याद्वेषैस्तीर्थमुखैर्वा यतिपद्वैः ॥ २०॥ कर्मीधन्यः श्लाघनीयोऽतिधन्यः कर्मत्यागो नैवकार्यः कदाचित् मोक्षो न स्यात् कर्मठस्येति वादो नादर्तव्यः शास्त्रतर्कादिबाह्यः ॥ २१॥ मुण्डित्वेन भ्रष्टतां प्राप्य मूढाः स्वस्यान्येषाञ्चेषदप्यर्थ शून्याः । जीवन्तीमे काकतश्चातिगर्ह्या नूनं भूमे र्हन्त भारायमाणाः ॥ २२॥ दैवी सम्पद्या हि निवृत्तिः खलु मुख्या प्राप्या मर्त्यैराश्रमतृष्णा नतु कार्या । सर्व साक्षात् प्रश्यसि चित्तं हि शिवेत्वं सर्वज्ञत्री सर्वमनः पीठनिवासा ॥ २३॥ संन्यस्यन् बा काष्ठतपस्या मुतकुर्वन् श्रद्धा भक्त्यो र्वै तव नामाप्यविजानन् । भद्रं भद्रे ! प्राप्स्यति चेत्तर्हिकथन्नो भूरुड्रंश्चापि भविष्यन्ति सुभद्राः ॥ २४॥ चन्दे वन्दे त्वत् पदपङ्केरुहयुग्मं याचे याचेऽहं तव कारुण्यकटाक्षम् । मन्ये धन्ये ! जाह्नवि ! धर्मध्वजिमुद्रे- त्येनं न्यासं निश्चलभक्ति स्त्वयि नो चेत् ॥ २५॥ इति चतुर्थः स्तबकः समाप्तः ।

पञ्चमः स्तबकः

यादेवि ब्रह्मरूपेण ब्रह्मवादिषु संस्थिता । असंस्थिता च गङ्गायै नमस्तस्यै नमो नमः ॥ १॥ या देवी विष्णुरूपेण विष्णुवादिषु संस्थिता । असंस्थिता च गङ्गायै नमस्तस्यै नमो नमः ॥ २॥ या देवी शिवरूपेण शिववादिषु संस्थिता । असंस्थिता च गङ्गायै नमस्तस्यै नमो नमः ॥ ३॥ रामः कृष्णो गजास्यस्त्रिपुररिपु सुतः षण्मुखोऽहस्करश्च ब्रह्मा ब्राह्मीति युष्मद्भजन पथजुषां भावना भावितेन ॥ ४॥ नाना देवात्मना वै जननि ! विजयसे विश्वमूर्त्तिस्त्वमेव कारुण्यं तेऽत्र हेतु र्निरवधि- करुणावारिधेः स्वाश्रितेषु ॥ ५॥ या देवी कर्मरूपेण कर्मवादिषु संस्थिता । असंस्थिता च गङ्गायै नमस्तस्यै नमो नमः ॥ ६॥ यादेवी शून्यरूपेण शून्यवादिषु संस्थिता । असंस्थिता च गङ्गायै नमस्तस्यै नमो नमः ॥ ७॥ यादेवी भूतरूपेण भूतवादिषु संस्थिता । असंस्थिता च गङ्गायै नमस्तस्यै नमो नमः ॥ ८॥ यादेवी सर्वरूपेण सर्ववादिषु संस्थिता । असंस्थिता च गङ्गायै नमस्तस्यै नमो नमः ॥ ९॥ यस्या जन्मास्यजगतो यस्याञ्च स्थितिरप्ययः । चक्षुरुन्मेषवत्तस्यै जह्नुजायै नमो नमः ॥ १०॥ यादेवी विधृतिः सेतुः सर्वेस्थाने नियच्छति । असम्भेदायवैतस्यै जह्नुजायै नमो नमः ॥ ११॥ मङ्गला मङ्गलानांया पावनानां च पावनी । भुक्तिदा मुक्तिदा चास्यै जह्नुजायै नमो नमः ॥ १२॥ अम्ब ! त्वामाश्रयेबालः प्रसीदानुगृहाणमाम् । पुनातु पादरजसा चैनमेनोनिधिञ्जनम् ॥ १३॥ देहि मे वृत्तिनैश्चल्यं त्वत्पादसरसीरुहे । विध्वंसय विजातीयांवृत्तिमत्यन्तदुर्भगाम् ॥ १४॥ अम्ब ! त्वं शरणं मम त्रिपथगे ! बाह्यार्थचिन्ताकुलं पादाग्रेप्रपतन्तमन्त- विधुरे मां पाहि मोहार्णवात् । वात्सल्यम्बुनिधे ! सदैव मनसो व्यायामभूमिर्मम प्रत्यग्ब्रह्म तवास्तु नित्य- मचलं नीरूपरूपं महत् ॥ १५॥ प्रातः सायं दिनमनिशा माससंवत्सरौचे- त्येवङ्कालः प्रचलतिचलत्यायुरत्युग्रवेगम् । क्षुद्रान् भोगान् त्यजतु भजतु श्रीपदं प्रेमतोऽन्तः स्वर्गङ्गायाः श्व इति मतिमान्मानवो मा ब्रवीतु ॥ १६॥ यावच्छ्रद्धा रतिस्तावत्त्वत्तत्त्वे सम्भवेन्नृणाम् । अत्यन्तावेशतोऽत्रैव नित्यशान्तिफलोदयः ॥ १७॥ पण्डितस्त्वां न जानाति श्रद्धावात् वेत्ति तत्त्वतः । ब्रम्भ्रमीतिमनोज्ञस्य नोचेन्नतु स पण्डितः ॥ १८॥ शब्दानुमानविपिने विपुले भ्रमद्भि- र्न प्राप्यतेंऽब तवतत्त्वमरं हि तद्वै । श्रद्वैधितान्तरवबोधबृहत्प्रदीप- प्रद्योतनैकसुलभं धिषणागृहान्ते ॥ १९॥ अस्तीति भातीति भवत्प्रकाश- मास्तिक्यबुद्ध्यांऽब करोमि साक्षात् । ततश्च सच्चित् सुखरूपिणि ! त्वा- मभ्यर्थयेऽवेति भवाम्बुधेर्माम् ॥ २०॥ गङ्गोत्तरीक्षेत्र विहारशीलां गङ्गा मनङ्गारिशिरोविभूषाम् । सर्वात्मना त्वां प्रणतोऽस्मि नित्यं सर्वात्मिकां त्वत्परताप्रसिद्ध्यै ॥ २१॥ प्रसीद गङ्गे ! भगवत्यभीक्ष्णं त्वत्प्रेमयाचेऽन्यदहं न याचे । त्वदम्बुधारावदखण्डरूपं प्रसीद भूयोऽपि नमोंऽघ्रिपातैः ॥ २२॥ गङ्गोत्तरीक्षेत्रमनुत्तमं श्री- गोत्राधिपोत्तुङ्ग शिरोऽवतंसः । पुण्यं महत्पूज्यतमञ्च साक्षात् - दुत्पत्तिभूरस्तिसुरापगायाः ॥ २३॥ तत्राम्बिकापरमिदं निवसन्नकार्षं स्तोत्रं महार्हमहमम्बिकयानियुक्तः । तत्पादयोरुपहृतञ्च तदस्तु तस्याः प्रीत्यै च शुभ्रलघुमत्स्मितपोतकाय ॥ २४॥ गङ्गोत्तर्यामिह गिरिगुहावेश्मनि त्वत्पदान्ते पाद्मेपीठे स्थिरमृजु कदा संस्थितः सन् सुखेन । न्यस्तस्वान्तस्त्वयि शिव तनो ! देवि ! कस्तूरिकाणां सङ्घर्षाश्मायितमिदमहं विस्मरिष्यामि देहम् ॥ २५॥ इति पञ्चमः स्तबकः समाप्तः । इति श्रीगङ्गोत्तरीक्षेत्र वास्तव्येन पूज्यपादश्रीतपोवनस्वामिनासम्प्रणीतं श्री गङ्गास्तोत्रं सम्पूर्णम् । Proofread by Rajesh Thyagarajan
% Text title            : Ganga Stotram by Swami Tapovanam
% File name             : gangAstotramtapovanam.itx
% itxtitle              : gaNgAstotram 11 (tapovanasvAminAsampraNItam jaya jaya jagadamba ! shrIgala shrIjaTAyAM)
% engtitle              : gangAstotram by Swami Tapovanam
% Category              : devii, devI, nadI, stotra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Author                : Swami Tapovanam
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Indexextra            : (Scan)
% Latest update         : August 17, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org