देवैः कृता गौरिस्तुतिः

देवैः कृता गौरिस्तुतिः

जय गौरि जगद्वन्द्ये जय शङ्करवल्लभे । जय पद्मानने देवि जय श्रीसर्वमङ्गले ॥ १॥ जय स्मरहरार्धाङ्गतुङ्गसिंहासनाश्रिते । जय श्रीकण्ठविविधश‍ृङ्गाररससंश्रये ॥ २॥ जय कर्पूरकस्तूरीचन्दनाङ्गविलेपने । जय मन्दारविलसन्मल्लिकासमलङ्कृते ॥ ३॥ जय हारविहाराढ्यकुचकुम्भान्तरस्थले । जय रत्नगणाकीर्णकोटीरवरभासुरे ॥ ४॥ जयानन्तमणिच्छन्नसुवर्णाभरणान्विते । जय पूर्णसुधारश्मिसमानवसनोज्वले ॥ ५॥ तारहीवराक्रान्तताटङ्कघटितालके । मणिदर्पणसङ्काशकपोलललिते शिवे ॥ ६॥ जय नीलाचलाकारवेणीमण्डलमण्डिते । जय मत्तेभकुम्भाभसुधापूर्णकुचाश्रये ॥ ७॥ उन्मत्तमीनसङ्काशनयनश्रीसमन्विते । गङ्गावर्तातिगम्भीरनाभिकान्तिविराजिते ॥ ८॥ जयाणुमध्यललितरोमालिभ्रमरावृते । उन्मत्तहंसगमने जय चन्द्रालिके शिवे ॥ ९॥ जय मौनिमनःपद्मसद्माश्रितपदाम्बुजे । जय भक्तजनानन्दप्रवृद्धिकरणोद्यते ॥ १०॥ जय श्रीकण्ठकण्ठस्थबाहुवल्लीविराजिते । जय स्वभक्तदुःखाब्धिविशोषणविचक्षणे ॥ ११॥ जयानन्दसुधाम्भोधिस्वरूपे जय शाम्भवि । जय स्वर्गापवर्गादिफलदानोन्मुखे शिवे ॥ १२॥ पाहि पाहि सुरानस्मान् त्वत्पादाम्बुरुहार्चकान् । अनन्यशरणानम्ब जगदालम्बने जय ॥ १३॥ भजामो भजामः स्मरारिप्रियां त्वां भजामो भजामो भजामो भवानीम् । भजामो भजामो भजामो भजामः शरण्याग्रगण्यां भजामो भजामः ॥ १४॥ भजामो भवत्पादपद्मप्रसादप्रभावानुवद्धाः प्रबुद्धाः सुखेन । भजामश्चिरं गौरि संसारबन्धं सनिबन्धमाशु प्रलीनं कुरुष्व ॥ १५॥ भवत्पादसेवासमासक्तचित्ताः श्रिया सेविताः सर्वदा भाग्यवन्तः । भवत्पादपद्मं विनाऽन्यन्न विद्मः प्रसादानुकूलं न विद्मो न विद्मः ॥ १६॥ भवत्पादुकाराधका एव लोके नराः स्युर्धराधीशपूज्यादिपूज्याः । भवद्दर्शनं जातमस्माकमम्ब प्रसन्नाः कृतार्थाः कृतार्थाः कृतार्थाः ॥ १७॥ सकृद्वा भवत्पादपद्मप्रभाभिः वयं भूषिताश्चेत् तवाद्याम्ब किं वा । धनं याति दीनेषु दत्तं धनं चेत् धनं वृद्धिमेतीति धन्या वदन्ति ॥ १८॥ प्रतीक्षा कृता तावदद्याम्ब शीघ्रं त्वदङ्घ्र्यम्बुजाराधने साऽधुनापि । न जाता तथापि स्वचित्तेषु दुःखं न वृत्तं भवत्पादपद्मश्रिया नः ॥ १९॥ अनन्तैस्तपोभिस्तुलाकोटिदानेः तथा यागपूगैः व्रतानां समूहैः । भवत्पादसन्दर्शनं धर्मबीजं परन्तु प्रसादात्तवैवाद्रिकन्ये ॥ २०॥ भवत्पादपद्माम्बुजादेतु वातः करोतु श्रिया संयुतानेव लोकान् । स लोकोपकाराय सृष्टस्त्वयाऽपि त्वमेवासि माता पिताऽसि त्वमेव ॥ २१॥ भवत्पादपद्मश्रिया संयुतानां पवित्राणि गात्राणि शर्वाणि गौरि । गिरीन्द्रोऽपि धन्यस्त्वदाराधनेन स्त्रिया मेनका सापि धन्यापि मान्या ॥ २२॥ तदानुग्रहः प्रार्थितोऽपि प्रयासो न लभ्यः कृतेऽपि प्रयासं विनापि । अकस्माद्यदि त्वत्पदाम्भोजभक्तिः तदा सोऽपि लभ्यो भवत्येव गौरि ॥ २३॥ भवत्पादपद्मप्रसादस्य पात्रं वयं तावदम्बाधुना धन्यधन्याः । इतोऽप्यन्यदस्माकमाशास्यमस्तीत्युपेक्षा न कार्या त्वया दीनवर्गे ॥ २४॥ शिवे किश्चिदन्यत् न नः प्रार्थनीयं भवत्पादपद्मानुरागं विनाऽपि । स एवानुरागो महाभोगहेतुः स सेतुः सुराभीष्टरानाम्बुराशेः ॥ २५॥ नमस्ते कल्याणि त्रिपुरवरवामाङ्गसदने नमस्ते शर्वाणि स्मरहरमनोहारिवदने । नमस्ते रुद्राणि स्खलदमलनीलोत्पलदल- च्छलच्छायाच्छन्नच्छदिमधुरगम्भीरनयने ॥ २६॥ नमस्ते नीलाद्रिद्रवविपुलकल्लोलविविध प्रभाभावाभावद्रवललितनीलालककुले । नमस्ते भक्तेष्टप्रदचतुरपादाम्बुजयुगे नमस्ते भूयस्ते पुनरपि नमस्ते पुनरपि ॥ २७॥ प्रणामानम्रेन्द्रप्रमुखवनितायल्लकमणि- प्रभास्पर्धामर्धामृतकरशिरोरत्नमहिला । मुहुर्दृष्ट्वा दृष्ट्वा निजचरणजाग्रच्छविकृत- स्मितव्यक्तानन्दा दिशतु मम कल्याण सरणीम् ॥ २८॥ ॥ इति शिवरहस्यान्तर्गते देवैः कृता गौरिस्तुतिः सम्पूर्णा ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ५। २५-५२ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 5. 25-52 .. Proofread by Ruma Dewan
% Text title            : Devaih Krita Gauri Stuti
% File name             : gauristutiHdevaiHkRRitA.itx
% itxtitle              : gauristutiH devaiHkRitA (shivarahasyAntargatA)
% engtitle              : gauristutiH devaiHkRitA
% Category              : devii, devI, stuti, shivarahasya, pArvatI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : pArvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 5| 25-52 ||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org