देवैः कृता गौरिस्तुतिः
जय गौरि जगद्वन्द्ये जय शङ्करवल्लभे ।
जय पद्मानने देवि जय श्रीसर्वमङ्गले ॥ १॥
जय स्मरहरार्धाङ्गतुङ्गसिंहासनाश्रिते ।
जय श्रीकण्ठविविधशृङ्गाररससंश्रये ॥ २॥
जय कर्पूरकस्तूरीचन्दनाङ्गविलेपने ।
जय मन्दारविलसन्मल्लिकासमलङ्कृते ॥ ३॥
जय हारविहाराढ्यकुचकुम्भान्तरस्थले ।
जय रत्नगणाकीर्णकोटीरवरभासुरे ॥ ४॥
जयानन्तमणिच्छन्नसुवर्णाभरणान्विते ।
जय पूर्णसुधारश्मिसमानवसनोज्वले ॥ ५॥
तारहीवराक्रान्तताटङ्कघटितालके ।
मणिदर्पणसङ्काशकपोलललिते शिवे ॥ ६॥
जय नीलाचलाकारवेणीमण्डलमण्डिते ।
जय मत्तेभकुम्भाभसुधापूर्णकुचाश्रये ॥ ७॥
उन्मत्तमीनसङ्काशनयनश्रीसमन्विते ।
गङ्गावर्तातिगम्भीरनाभिकान्तिविराजिते ॥ ८॥
जयाणुमध्यललितरोमालिभ्रमरावृते ।
उन्मत्तहंसगमने जय चन्द्रालिके शिवे ॥ ९॥
जय मौनिमनःपद्मसद्माश्रितपदाम्बुजे ।
जय भक्तजनानन्दप्रवृद्धिकरणोद्यते ॥ १०॥
जय श्रीकण्ठकण्ठस्थबाहुवल्लीविराजिते ।
जय स्वभक्तदुःखाब्धिविशोषणविचक्षणे ॥ ११॥
जयानन्दसुधाम्भोधिस्वरूपे जय शाम्भवि ।
जय स्वर्गापवर्गादिफलदानोन्मुखे शिवे ॥ १२॥
पाहि पाहि सुरानस्मान् त्वत्पादाम्बुरुहार्चकान् ।
अनन्यशरणानम्ब जगदालम्बने जय ॥ १३॥
भजामो भजामः स्मरारिप्रियां त्वां भजामो भजामो भजामो भवानीम् ।
भजामो भजामो भजामो भजामः शरण्याग्रगण्यां भजामो भजामः ॥ १४॥
भजामो भवत्पादपद्मप्रसादप्रभावानुवद्धाः प्रबुद्धाः सुखेन ।
भजामश्चिरं गौरि संसारबन्धं सनिबन्धमाशु प्रलीनं कुरुष्व ॥ १५॥
भवत्पादसेवासमासक्तचित्ताः श्रिया सेविताः सर्वदा भाग्यवन्तः ।
भवत्पादपद्मं विनाऽन्यन्न विद्मः प्रसादानुकूलं न विद्मो न विद्मः ॥ १६॥
भवत्पादुकाराधका एव लोके नराः स्युर्धराधीशपूज्यादिपूज्याः ।
भवद्दर्शनं जातमस्माकमम्ब प्रसन्नाः कृतार्थाः कृतार्थाः कृतार्थाः ॥ १७॥
सकृद्वा भवत्पादपद्मप्रभाभिः वयं भूषिताश्चेत् तवाद्याम्ब किं वा ।
धनं याति दीनेषु दत्तं धनं चेत् धनं वृद्धिमेतीति धन्या वदन्ति ॥ १८॥
प्रतीक्षा कृता तावदद्याम्ब शीघ्रं त्वदङ्घ्र्यम्बुजाराधने साऽधुनापि ।
न जाता तथापि स्वचित्तेषु दुःखं न वृत्तं भवत्पादपद्मश्रिया नः ॥ १९॥
अनन्तैस्तपोभिस्तुलाकोटिदानेः तथा यागपूगैः व्रतानां समूहैः ।
भवत्पादसन्दर्शनं धर्मबीजं परन्तु प्रसादात्तवैवाद्रिकन्ये ॥ २०॥
भवत्पादपद्माम्बुजादेतु वातः करोतु श्रिया संयुतानेव लोकान् ।
स लोकोपकाराय सृष्टस्त्वयाऽपि त्वमेवासि माता पिताऽसि त्वमेव ॥ २१॥
भवत्पादपद्मश्रिया संयुतानां पवित्राणि गात्राणि शर्वाणि गौरि ।
गिरीन्द्रोऽपि धन्यस्त्वदाराधनेन स्त्रिया मेनका सापि धन्यापि मान्या ॥ २२॥
तदानुग्रहः प्रार्थितोऽपि प्रयासो न लभ्यः कृतेऽपि प्रयासं विनापि ।
अकस्माद्यदि त्वत्पदाम्भोजभक्तिः तदा सोऽपि लभ्यो भवत्येव गौरि ॥ २३॥
भवत्पादपद्मप्रसादस्य पात्रं वयं तावदम्बाधुना धन्यधन्याः ।
इतोऽप्यन्यदस्माकमाशास्यमस्तीत्युपेक्षा न कार्या त्वया दीनवर्गे ॥ २४॥
शिवे किश्चिदन्यत् न नः प्रार्थनीयं भवत्पादपद्मानुरागं विनाऽपि ।
स एवानुरागो महाभोगहेतुः स सेतुः सुराभीष्टरानाम्बुराशेः ॥ २५॥
नमस्ते कल्याणि त्रिपुरवरवामाङ्गसदने
नमस्ते शर्वाणि स्मरहरमनोहारिवदने ।
नमस्ते रुद्राणि स्खलदमलनीलोत्पलदल-
च्छलच्छायाच्छन्नच्छदिमधुरगम्भीरनयने ॥ २६॥
नमस्ते नीलाद्रिद्रवविपुलकल्लोलविविध
प्रभाभावाभावद्रवललितनीलालककुले ।
नमस्ते भक्तेष्टप्रदचतुरपादाम्बुजयुगे
नमस्ते भूयस्ते पुनरपि नमस्ते पुनरपि ॥ २७॥
प्रणामानम्रेन्द्रप्रमुखवनितायल्लकमणि-
प्रभास्पर्धामर्धामृतकरशिरोरत्नमहिला ।
मुहुर्दृष्ट्वा दृष्ट्वा निजचरणजाग्रच्छविकृत-
स्मितव्यक्तानन्दा दिशतु मम कल्याण सरणीम् ॥ २८॥
॥ इति शिवरहस्यान्तर्गते देवैः कृता गौरिस्तुतिः सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ५। २५-५२ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 5. 25-52 ..
Proofread by Ruma Dewan