गौर्युत्पत्तिवर्णनम्
(शिवरहस्यान्तर्गते ईशाख्ये)
सुब्रह्मण्य उवाच ।
यदा सती तनुं त्यक्त्वा योगेनैव स्वतेजसा ।
सुमुहूर्ते सुदिवसे मेनागर्भे समाविशत् ॥ ७॥
विचित्रशक्तिः सा देवी माया पशुपतेस्तदा ।
तत्रैव दशमे मासि शुभलग्ने ग्रहैर्युते ॥ ८॥
पञ्चग्रहेषूच्चगेषु तदा हिमवतो गृहे ।
जज्ञे तत्र महादेवी तत्रासीदुत्सवो महान् ॥ ९॥
देवास्तत्र समाजग्मुर्विष्णुब्रह्मादयः सुराः ।
मरुतो वसवः साध्या गन्धर्वाश्च जगुः कलम् ॥ १०॥
देवदुन्दुभयो नेदुः पुष्पवृष्टिरभूच्च खात् ।
नृत्यन्त्यप्सरसो हृष्टास्तदा हिमवतो गृहे ॥ ११॥
सोऽपि विश्राणयामास धनधान्यं गवां गणम् ।
रत्नानि चैव वासांसि स ददौ शाम्भवेषु सः ॥ १२॥
मुनयः पूजितास्तेन नारदाद्या महर्षयः ।
विष्णुब्रह्मादिविबुधान् गन्धपुष्पैः समार्चयत् ॥ १३॥
भक्ष्यैर्भोज्यैश्च वासोभिर्भूषणैर्मुदमादधत् ।
जातकर्मादिकर्माणि चकार स गिरीश्वरः ॥ १४॥
ययुः सन्तोषमतुलं मुदा ते विबुधर्षयः ।
मेनया सहितां दृष्ट्वा पार्वतीं सूतिकागृहे ॥ १५॥
उत्तानशयनां बालां नीलकुन्तलमूर्धजाम् ।
पद्मपत्रेक्षणां चारु बिम्बोष्ठीं पद्मवक्त्रकाम् ॥ १६॥
कम्बुकण्ठीं मृणालाभबाहुद्वयविराजिताम् ।
रक्ताब्जाभसुहस्तां च नखचन्द्रयुताङ्गुलिम् ॥ १७॥
बालारम्भाभवृत्तोरुस्फिग्जङ्घाजघनावृताम् ।
फुल्लपद्मभपादेन उत्तानेन विराजिताम् ॥ १८॥
द्वितीयासोमसङ्काशपादाम्बुनखावलिम् ।
व्यालोलनयनां बालां सर्वभूषणभूषिताम् ॥ १९॥
रत्नग्रैवेयवलयैर्मुक्ताहारविराजिताम् ।
भालमध्यालकालोलमुक्ताजालकभूषिताम् ॥ २०॥
तिलकाढ्यमुखेन्दूत्थकर्णावलिकभूषिताम् ।
रूषितां दिव्यगन्धेन दिव्यपुष्पैः सुरार्चिताम् ॥ २२॥
काञ्चीखचितमध्यां च क्षुद्रघण्टालसत्कटिम् ।
पादनूपुर संरावजित क्रौञ्चवरस्वनाम् ॥ २३॥
दिव्यवासोभिराच्छन्नां लोलान्दोलनवीजिताम् ।
देवपत्न्यः समागत्य शची स्वाहा स्वाधा रमा ॥ २४॥
नीराजयन्ति तां देवीं दिव्यमङ्गलगायनैः ।
रक्षां रक्षाकरीं तस्या राक्षसेभ्यस्तदा मुदा ॥ २५॥
रात्रौ रात्रौ पठन्ति स्म समवेता महर्षयः ।
गायन्ति ललितं वल्गु मधुरं गायनास्तदा ॥ २६॥
तद्गानेन च सा देवी विनिद्राति दिने दिने ।
देवस्त्रियः ऊचुः ।
अयि जगदम्ब कदम्बवनस्थित नीपविदीपितसौध-
युतामृतवार्धितरङ्गित वातसुपोतक वीजितरत्नगण-
प्रभ लोलकडोलवरासन तात वितान सुवस्त्रमणीगण-
पुष्पविराजितफुल्लसुहल्लक लोलसमावृतमञ्चविकर्षण
कूजितकम् ॥ २७॥
घनरवरागसुरागविरागमृगावलि धूत सुचामर-
चन्द्रक वीजनवीजितमारुतसापधनावृत चन्द्र-
समप्रभ धूततराकृति देवगजाङ्गनगीतमिदम् ॥ २८॥
विश्रुतमणिगणभूषणकृतरव रिङ्खण झणझण
रव वर घोषण निद्रित हर्षितधर्षितमेध सुचातकपोतक-
जातक भावुककल्पनशिल्पनजातसुसम्भ्रमदिग्गज-
सुद्विजगर्जन तोषस्तुतावितसर्वसुरावनपावन-
सुन्दर निर्जरदारकृतस्तुतिनिद्रितपर्वतबाल-
मबालतनुप्रभभावितनतजनपोषितविश्रुत गीतमिदम् ॥ २९॥
एवं गीतेन तां बालां देव्यो निद्रापयन्त्यपि ।
लालयन्ति स्त्रियः काश्चित्स्नापयन्ति मनोरमाः ॥ ३०॥
भूषयन्ति तथा बालं तिलकैर्वेणिमण्डनैः ।
पाययन्ति तथान्यास्ता धिक्कृतामृतमुत्तमम् ॥ ३१॥
दिने दिने महादेवीं तथा नीराजयन्त्यपि ।
दुकूलवसनैश्चित्रैर्वासयन्ति स्त्रियोऽखिलाः ॥ ३२॥
एवं तत्र महादेवीं पूजयन्ति सुराङ्गनाः ।
तदा सा ववृधे बाला कला चान्द्रमसीव सा ॥ ३३॥
॥ इति शिवरहस्यान्तर्गते सुब्रह्मण्यप्रोक्तं गौर्युत्पत्तिवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः ९ गौर्युत्पत्तिः । १-६८ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 9 gauryutpattiH . 1-68 ..
Notes:
Subrahmaṇya सुब्रह्मण्य narrates (to Jaigīṣavya जैगीषव्य); about the rebirth of Satī सति as Pārvatī पार्वती with Menā मेना and Himavān हिमवान् as Her parents. Being the form of Mahādevī महादेवी, She is revered and worshiped apart from being nurtured and taken care of.
Proofread by Ruma Dewan