श्रीगोदास्तोत्रम्
ॐ श्री
॥ श्रीशङ्कर ॥
(पृथ्वी)
मुकन्दपदसम्भवे शिवकपर्दसंशोभिनि
शिवे कलिमलान्तके परममङ्गले पावनि ।
नमामि चरणौ शुभावभयदौ नतानां तव
शिशोर्मम नयाशिवं विलयमम्ब गोदावरि ॥ १॥
(शार्दूलविक्रीडित)
आचार्येषु शिवावतारयतिराट्, साध्येषु निःश्रेयसम्
स्वातन्त्र्यं सुखदायिवस्तुषु, मतेष्वद्वैतमित्याह्वयम् ।
शीलं सर्वगुणेषु भाति च यथा गोदावरि त्वं तथा
सर्वासु प्रमुखापगासु वरदे श्रेष्ठा शुभा शोभसे ॥ २॥
(उपेन्द्रवज्रा)
न केवला त्वं धरणीगतासु
नदीषु पूतासु विभासि मातः ।
सुरापगास्वप्यतिमात्रशोभा
तवैव हे अंव विशुद्धशीले ॥ ३॥
(सिंहोद्वता)
या घ्नन्ति तापसतपो निजयौवनेन
रम्येण तोष्टुममरेन्द्रमनोऽप्सराणाम् ।
तासां विहारसरिदस्ति सुरापगा या
सा देवि यास्यति कथं पदवीं शुभां ते ॥ ४॥
(हरिणी)
भवतु सुषमं रूपं तासामखण्डितयौवनम्
विलसतु तनोर्दिव्यो वर्णो नदीश्वरि तेन किम् ।
मलिनचरितास्तासां योग्या भवेद् गणिकाभिधा
गणयति नरः कस्ता गोदे सतीषु सुराङ्गनाः ॥ ५॥
(भुजङ्गप्रयात)
शुभा चारुशीला रघूत्तंसभार्या
सती जानकी निर्जरैः पूजनीया ।
जले प्रत्यहं ते शिखामज्जिताऽऽसीद्
अतो वन्दनीये त्वमेव स्तवार्हा ॥ ६॥
(शालिनी)
वासं कुर्वे स्वर्गलोकेषु यत्र
पीयूषं यद्दुर्लभं मानवानाम् ।
श्रेष्ठत्वं मे तेन शैवालिनीषु
मन्दाकिन्या गर्व एवं वृथाऽस्ति ॥ ७॥
(द्रुतविलम्बित)
अमृतयुक्तमुपायनमादराद्
अविरतं प्रवराऽमृतवाहिनी ।
भवति दत्तवती जगदम्ब ते
त्वमसि तेन सरित्कुलशेखरा ॥ ८॥
(मन्दाक्रान्ता)
त्वत्सामर्थ्यात् प्रखरमभवद्-द्वेषणेभ्यः शकारिः
मूर्ध्नि प्राप्तः सकलविदुषामाशिषा ते गुणाढ्यः ।
यत्ते तीरं कलिमलहरं ज्ञानदेवं सुषाव
केषां हि त्वां तुलयितुमलं भूतिरेभिर्विशेषैः ॥ ९॥
(अनुष्टुप्)
सर्वेषु वन्द्या श्रेष्ठा च, गौतमि त्वं विराजसे ।
आत्मोद्धाराय तेनाहं, स्तवनं कर्तुमुद्यतः ॥ १०॥
(वंशस्य)
प्रदीपमायान्ति तमोहता नरा
अपेक्षतेऽशुद्धपटाय धावकः ।
स्थाने तथाऽहं शरणं तवागतः
त्वयाविना पापजनस्य का गतिः ॥ ११॥
(आर्या)
कुरुषे विलम्बमम्बे किमर्थमर्थं विना समुद्धरणे ।
कुपिताऽपि तारयेमं जनं शिशुत्वेन शरणोऽस्मि ॥ १२॥
(वियोगिनी)
त्वमसि ध्रुवतारका किल, परितस्ते भ्रमणं सुरर्षयः ।
इव मे हि करोत्यहर्निशं, सकलाशासमुदाय ईश्वरि ॥ १३॥
(मालिनी)
विगतविभवलक्ष्मी हिन्दुभू दास्यतप्ता
तनुजचरितशोच्या ते शिवेनामृतेन ।
प्रकटयति कथञ्चिच् चारुतां स्वां प्रसिद्धाम्
विधिविलसितदीना कुङ्कुमेनाङ्गनेव ॥ १४॥
(रथोद्धता)
(रथोद्वता)
कल्मषैरुपकृतोऽस्मि मामकैः
प्रापितो जननि यैस्तवाश्रयम् ।
उर्वशी मनुजपैलदर्शन -
हेतुभूतनिकषात्मजैर्यथा ॥ १५॥
(विबुधप्रिया)
कुर्वतेऽम्भसि मज्जनं तव भास्करप्रमुखा ग्रहाः
स्वर्भुवां निवसन्त ए तटिनीश्वरि प्रतिबिम्बिनः ।
भूतलाऽऽगमनाक्षमा निजमङ्गलस्य च हेतुना
वर्ण्यते किमुतेदृशो महिमा मया जडबुद्धिना ॥ १६॥
(स्वागता)
तारयिष्यसि महावृजिनं मा, पापहेति पदवीमनुमन्ये ।
उच्यते मृगमदस्य परीक्षा ह्युग्रगन्धहरणे लशुनस्य ॥ १७॥
(सुमन्दारमाला)
अभक्तेः पुराणान्यनध्यायनात्सर्वशास्त्राणि वेदोक्तमन्त्रास्तथा
ममाशुद्धवाचस्समुद्धारणार्थं मदीयान्महाघात्समर्थानि नो ।
तपो निष्फलं चञ्चलत्वात्कथं निर्धने प्रीणयेयुर्मयीज्यप्रियाः
भवात्त्वां विनेत्थं निराधारभूतस्तरिष्यामपेक्षाविहीने कुतः ॥ १८॥
(चामर)
न श्रुतं क्वचिद्भुवां जलोर्मया भवन्त्यलम्
तारणाय सागरान्नृणां महाप्लवोपमाः ।
चित्रमेव वीचयो जलस्य नेतुमम्ब ते
पारयन्त्यथापरं भवार्णवात्तटं नरम् ॥ १९॥
(स्रग्विणी)
मा विलम्बं कृथा मे समुद्धारणे
स्वां पुरीमन्यथा मां हरेदन्तकः ।
ते सुकीर्त्या भवेदम्ब हानिर्यतः
पापमूर्तिर्ममेवापरो दुर्लभः ॥ २०॥
(स्रग्धरा)
पादे त्रैविक्रमीये सुरभवनगते पूजनायार्पिते ते
धात्राऽम्बे विद्यमाने शिवकरसलिले पावने पावनानाम् ।
``देवा राष्ट्रस्य गुप्त्यै'' श्रुतिवचनमिदं किं नहि प्रत्ययाय
राष्ट्रे स्वातन्त्र्यहीने स्मृतिगतविभवे शत्रुभीत्याऽऽकुलेऽस्मिन् ॥ २१॥
(शिखरिणी)
धृतं विष्णोस्तापापहरचरणाब्जाद्धि जननम्
कृता शम्भोशीर्षे हिमकरसमीपेऽपि वसतिः ।
परं नायाता किं जननि तव तोये शिशिरता
भवेद्या पर्याप्ता विनतजनसन्तापशमने ॥ २२॥
(शार्दूलविक्रीडित)
यस्याऽशैशवलालनं च कृतवान् वृन्दारकः सद्गुरुः
सोहं दासगणुप्रसादविकसद्बुद्धिः स्वयं मूढधीः ।
पद्यैर्वृत्तपृथग्विधैर्द्विगुणिते रुद्रैर्मुदा ते स्तवम्
गोदेऽकारि यथाबलं कुरु कृपां नित्यामनन्ते मयि ॥ २३॥
इति स्वामी वरदानन्दभारतीविरचितं श्रीगोदास्तोत्रं सम्पूर्णम् ।
भावार्चना (प्राचार्य अ. दा. आठवले)
The unique part of this composition on
the river Godavari is that each verse
if composed in a different meter specified
in parenthesis.
https://www.santkavidasganu.org, https://www.youtube.com/@varad-vani1496
Encoded and proofread by Arun Parlikar