इन्द्रकृता सीतास्तुतिः
इन्द्र उवाच ।
मदाधिपत्यं कियदेतदस्ति यस्मिन्नहं नाम तथापि मातः ।
सेयं भवत्याः सुदुरन्तमाया नो चेत्कथं वै प्रभजामि न त्वाम् ॥ १॥
ब्रह्मादयो लोकपालाः समग्रास्त्वदङ्घ्रिपङ्केरुहधूलिधूसराः ।
लुठन्ति ते धाम्नि शुभे प्रमुद्वनं गवां पुरीषेषु रजःसु चैव ॥ २॥
तत्रापि मातः प्रविभासि नित्यं प्रमोदवल्लीवनगह्वरेषु ।
अत्रापि चांशेन ततोऽवतीर्णारामेण साकं रमितुं रमाभिः ॥ ३॥
यान्या अपि ब्रजभुवि प्रमदाः सहस्र
श्रीरामचन्द्ररमणोत्सवलब्धकामाः ।
तास्त्वत्प्रसादमधिगम्य न चेदभूषां
क्वेदं सुखं हरिविरञ्चिशिवाद्यलभ्यम् ॥ ४॥
व्यक्ता विभाति सततं बहुमूर्तिता ते एकैव यद्रमसि रामरसीन्द्रयुक्ता ।
कुमुद्वने प्रमुदवीथिषु नित्यधाम्नि सङ्केतकुञ्जमिथिलापुरि कोसलायाम् ॥ ५॥
श्रीराधिकासिकिलकीर्तिसुतेतिगीतासीतासिकोसलपुरेमिथिलापुरे च ।
व्यक्तं तदंशसहिता सहजेति चासि श्रीमत्प्रमोदवनवीथिषु पुर्णरूपा ॥ ६॥
पूर्णैव सर्वविषयेषु वितीर्णदृष्टिर्नित्यं तथापि रमसे रसिकेन्द्रयुक्ता ।
श्रीमत्प्रमोदवनवीथिषु नित्यमग्ना स्वानन्दसिन्धुलहरीगणसङ्गमेषु ॥ ७॥
साकेतधाम्नि सुभगे सरयूतटान्तरिगन्त रङ्गशिशिरोपवनाभिरामे ।
नत्यं स्थितैव जगतोऽन्तकरणाय मातर्भूयोऽपि
सम्प्रकटितासि निजांशुभासा ॥ ८॥
कल्याणिनी सुखदकल्पलता जनानां स्वाङ्घ्रिप्रसादभवभव्यसमूहभाजाम् ।
भक्तिं तनोषि कृपया खलु रामचन्द्रहस्तग्रहं
विदधती भवसिन्धुमध्ये ॥ ९॥
न स्यास्त्वमीशि यति दत्तकरावलम्बा भक्तावलेर्विदधतीकुशलानि नित्यम् ।
श्रीमन्महारसिक राजवरोऽपि किं तु कुर्वीत तेषु करुणामरुणाङ्घ्रिपद्मे ॥ १०॥
स्वरूपभूता तव या प्रकाशशक्तिः परं सा सुविशुद्धसत्त्वा ।
उदीर्णबोधा विरजस्तमस्का न यत्र मायागुणसम्भूतओघः ॥ ११॥
अज्ञानिनां ये गमकास्ते न सन्ति लोभादयस्तव देहानुबन्धाः ।
तथापि दर्पं शमयस्यासुराणा धर्मावगुप्तिं कुरुषे च स्वभावात् ॥ १२॥
त्वं कालरूपा त्वमसि श्रीः सुधा त्वं माता पिताजगतस्त्वं हि तेषु ।
लीलावतारैर्जयसि क्रीडसि त्वं नानास्वरूपैः सह पत्या रमेत ॥ १३॥
त्वं भक्तिरूपाखिलजीवजुष्टा प्रवर्तयस्यार्यपथं कृपाढ्ये ।
वेदार्थसारज्ञबुधावलीभिः प्रायः प्रपन्ना निजरूपलब्धये ॥ १४॥
ब्रह्माण्डवर्गेमद्विधाः कोटिशस्ते गायन्ति कीर्ति विपुलप्रणादम् ।
दृष्ट्वा विभूतिं तव भूरिभाग्ये न कस्य जायेत हि मानभङ्गः ॥ १५॥
आविर्भवन्ती भुवने भ्राजसे त्वं शमाय दैतेयजभूभरस्य ।
तथैव पादाम्बुजमाधुरीजुषां भवायवर्गाय सता मुनीनाम् ॥ १६॥
तुभ्यं नमो भगवत्यै पुरुष्यै श्रीजानक्यै श्रीसहजाधिकायै ।
अप्राकृतं सत्वमुपाददाना या क्षेममेतस्य करोषि तस्यै ॥ १७॥
यः कृष्णनामा भगवान् यशोऽदागर्भैकरत्नं भविता द्वापरान्ते ।
सोऽपि त्वदंशेन समृद्धकामो भवायवर्गं स्वजुषां संविधाता ॥ १८॥
श्रीरामचन्द्रोऽजनि राजमौलेरघुप्रवीराद्दशवक्रादिहन्ता ।
सो वै त्वदीयाधरपीयूषधारावशीकृतः क्रीत एव त्वयाम्ब ॥ १९॥
स्वच्छन्दलीलावपुषे विशुद्धविज्ञानमूर्त्यै करुणात्मिकायै ।
सर्वात्मिकायै सर्वबीजप्रदायै नमो नमः सर्वभूतात्मने ते ॥ २०॥
न ज्ञायते ते जननि स्वरूपमस्मादृशैस्तव भाव्यानुबद्धैः ।
तेषां कृपाहेतव एतदेव प्रकाशितं निजरूपं भवत्या ॥ २१॥
त्वयानिजानुग्रहभाजनीकृताः सुरेश्वरा मादृशाः कोटिशोऽद्य ।
न चेत्कथ दृश्यरूपास्यमीभिर्निरञ्जना निर्गुणा त्वं निरीहा ॥ २२॥
त्वं जानकी जनकस्यालयेऽद्य त्वं श्रीः परा सहजा त्व कलेश्वरी ।
स्वयोगशक्त्या बहुधा त्वं विभासि त्वया सनाथा वयमद्धा समस्ताः ॥ २३॥
त्वमीश्वरीदेवि चराचरस्य त्वं नः पतीनां पतिरप्रमेया ।
धराधर्मश्रुतिकोविप्रदेवरक्षाकरी जयतात्केवलैव ॥ २४॥
लक्ष्मण उवाच ।
इत्युक्त्वा देवराजस्तां सुरभीस्तननिर्गतैः ।
अभ्यषिञ्चत्सरभसं पयोभिरमृतोपमैः ॥ २५॥
ऐरावतकरानीतव्योमगङ्गापयोभरैः ।
मन्दारकुसुमस्तोममकरन्दसुगन्धिभिः ॥ २६॥
सौराज्यं चैव साम्राज्यं सर्वैश्वर्यमहापदम् ।
आधिराज्यं महाराज्यं दत्त्वा तस्यैपरश्रिये ॥ २७॥
तदीयचरणाम्भोजमकरन्दसुनिर्वृतः ।
कृतार्थं मन्यमानं स्वं निजलोकमुपाव्रजत् ॥ २८॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
सीताजन्मोत्सवे इन्द्रकृता सीतास्तुतिः विंशोऽध्यायः ॥ २०॥
भुशुण्डिरामायणम् । पश्चिमखण्ड । अध्याय २०/१-२८॥
bhushuNDirAmAyaNam . pashchimakhaNDa . adhyAya 20/1-28..
Encoded and proofread by Mrityunjay Rajkumar Pandey