श्रीलक्ष्मीस्तोत्रं इन्द्ररचितम्
श्रीसम्पदालक्ष्मीस्तोत्रम्
(ब्रह्मवैवर्त्ते इन्द्रप्रोक्तं देवीभागवते च पुरन्दरप्रोक्तम्)
श्रीगणेशाय नमः ।
ध्यानम् -
सहस्रदलपद्मस्थकर्णिकावासिनीं पराम् ।
शरत्पार्वणकोटीन्दुप्रभामुष्टिकरां पराम् ॥ १॥
स्वतेजसा प्रज्वलन्तीं सुखदृश्यां मनोहराम् ।
प्रतप्तकाञ्चननिभशोभां मूर्तिमतीं सतीम् ॥ २॥
रत्नभूषणभूषाढ्यां शोभितां पीतवाससा ।
ईषद्धास्यप्रसन्नास्यां शश्वत्सुस्थिरयौवनाम् ।
सर्वसम्पत्प्रदात्रीं च महालक्ष्मीं भजे शुभाम् ॥ ३॥
इन्द्र उवाच -
ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः ।
कृष्णप्रियायै सारायै पद्मायै च नमो नमः ॥ १॥
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नमः ।
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नमः ॥ २॥
सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः ।
सुखदायै मोक्षदायै सिद्धिदायै नमो नमः ॥ ३॥
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः ।
कृष्णवक्षःस्थितायै च कृष्णेशायै नमो नमः ॥ ४॥
कृष्णशोभास्वरूपायै रत्नपद्मे च शोभने ।
सम्पत्यधिष्ठातृदेव्यै महादेव्यै नमो नमः ॥ ५॥
शन्याधिष्ठादेव्यै च शस्यायै च नमो नमः ।
नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः ॥ ६॥
वैकुण्ठे या महालक्ष्मीर्लक्ष्मीः क्षीरोदसागरे ।
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नपालये ॥ ७॥
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता ।
सुरभि सा गवां माता दक्षिणा यज्ञकामनी ॥ ८॥
अदितिर्देवमाता त्वं कमला कमलालये ।
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता ॥ ९॥
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा ।
शुद्धसत्वस्वरूपा त्वं नारायणपरायाणा ॥ १०॥
क्रोधहिंसावर्जिता च वरदा च शुभानना ।
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा ॥ ११॥
यया विना जगत् सर्वे भस्मीभूतमसारकम् ।
जीवन्मृतं च विश्वं च शवतुल्यं यया विना ॥ १२॥
सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी ।
यया विना न सम्भाप्यो बाध्ववैर्बान्धवः सदा ॥ १३॥
त्वया हीनो बन्धुहीनस्वत्वया युक्तः सबान्धवः ।
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी ॥ १४॥
यथा माता स्तनान्धानां शिशूनां शैशवे सदा ।
तथा त्वं सर्वदा माता सर्वेषां सर्वरूपताः ॥ १५॥
मातृहीन स्ननान्धस्तु स चेज्जीवति दैवतः ।
त्वया हीनो जनःकोऽपि न जीवत्येव निश्चितम् ॥ १६॥
सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके ।
वैरिग्रस्तं च विषयं देहि मह्मं सनातनि ॥ १७॥
वयं यावत् त्वया हीना बन्धुहीनश्च भिक्षुकाः ।
सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये ॥ १८॥
राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि ।
कीर्ति देहि धनं देहि यशो मह्मं च देहि वै ॥ १९॥
कामं देहि मतिं देहि भोगान देहि हरिप्रिये ।
ज्ञानं देहि च धर्मे च सर्वसौभाग्यमीप्सितम् ॥ २०॥
प्रभावां च प्रतापं च सर्वाधिकारमेव च ।
जयं पराक्रमं युद्धे परमैश्वर्यमैव च ॥ २१॥
इत्युक्त्वा च महेन्द्रश्च सर्वैः सुरगणैः सह ।
प्रणमाम साश्रुनेत्रो मूर्ध्ना चैव पुनः पुनः ॥ २२॥
ब्रह्मा च शङ्करश्चैव शेषो धर्मश्च केशवः ।
सर्वेचक्रुः परिहारं सुरार्थे च पुनः पुनः ॥ २३॥
देवेभ्यश्च वरं दत्वा पुष्पमालां मनोहराम् ।
केशवाय ददा लक्ष्मीः सन्तुष्टा सुरसंसदि ॥ २४॥
ययुर्देवाश्च सन्तुष्टाः स्वं स्वं स्थानञ्च नारद ।
देवी ययौ हरेः स्थानं हृष्टा क्षीरोदशायिनः ॥ २५॥ (हरेः क्रोडं)
ययतुश्चैय स्वगृहं ब्रह्मेशानौ च नारद ।
दत्त्वा शुभाशिषं तौ च देवेभ्यः प्रीतिपूर्वकम् ॥ २६॥
इदं स्तोत्रं महापुण्यं त्रिसन्ध्यं यः पठेन्नरः । (च पठेन्नरः)
कुबेरतुल्यः स भवेत् राजराजेश्वरो महान् ॥ २७॥
सिद्धस्तोत्रं यदि पठेत् सोऽपि कल्पतरूर्नरः ।
पञ्चलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् ॥ २८॥
सिद्धस्तोत्रं यदि पठेन्मासमेकं च संयतः ।
महासुखी च राजेन्द्रो भविष्यति न संशयः ॥ २९॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसंवादे
लक्ष्मीपूजनविधाननामैकोनचत्वारिंशत्तमोऽध्याये लक्ष्मीउपाख्याने
इन्द्रकृतं लक्ष्मीस्तोत्रं सम्पूर्णम् । २(प्रकृति खण्ड).३९.५२-७२
देवीभागवतपुराणे नवमस्कन्धे अध्याय ४२
The Brahmavaivarta 2(Prakriti Khanda).39.52-72
and Devibhagavata versions differ
quite a bit.
Proofread by Ravin Bhalekar ravibhalekar@hotmail.com, Tanvir Chowdhury