श्रीजानकीद्वादशनामस्तोत्रम्
ॐ अस्य श्रीजानकीद्वादशनामस्तोत्रमन्त्रस्य नारदऋषिः
अनुष्टुप् छन्दः त्रिगुणात्मिक शक्तिः श्रीजानकी
देवता श्रीसीताप्रीत्यर्थे जपे विनियोगः ॥
अथ ध्यानम्-
ध्यायेच्चम्पकगौङ्गीं हेमाभां नीलवस्त्रकाम् ॥
दिव्यकल्पोज्वलाङ्गी च रामवामस्थितां मुदा ।
रत्नसिंहासनगतां सर्वाभरणभूषिताम् ॥
सर्वालङ्कारसंयुक्तवीणावादनतत्पराम् ।
ध्यायेत् सीतां हृदिगतां दिव्यस्त्रीगणसेविताम् ॥
नमामि जनकनन्दिनी अजादिदेववन्दिनी ।
सदासुसन्तरञ्जिनी पिशाचगर्वगञ्जिनि ॥ १॥
मुनीन्द्रवासरागिणी, श्रीरामवामभागिनी ।
सुबुद्धिदाप्रमोदिनी श्रीकोशलाविनोदिनी ॥ २॥
गुणादिवेदगायिनी सुभक्तसुखदायिनी ।
अनन्तदुःखमोचिनी नमोऽस्तु विश्वलोचनी ॥ ३॥
पुनीत नाम द्वादशं पठन्तित्यक्त आलसम् ।
प्रसन्नसर्वदेवकं वदन्ति रामसेवकम् ॥ ४॥
इति श्रीजानकीद्वादशनामस्तोत्रं सम्पूर्णम् ॥
Proofread by Prabhav Tengse