श्रीजानकीदेव्याः सहस्रनामस्तोत्रम्
सिद्धेश्वरीतन्त्रोक्तं
श्रीलक्ष्मण उवाच ।
देवदेव जगन्नाथ ! कथयस्व महाप्रभो ।
नाम्नां सहस्रं जानक्याः श्रोतुमिच्छामि तत्त्वतः ॥
श्रीराम उवाच ।
कथयामि भवत्प्रीत्या शृणु लक्ष्मण ! भक्तितः ।
यत् पठित्वाथ श्रुत्वा वा सर्वान् कामानवाप्नुयात् ॥
अस्य श्रीजानकीदेव्याः सहस्रनामस्तोत्रस्य वसिष्ठ ऋषिः,
वागीश्वरी देवता, अनुष्टुप्छन्दः, सर्वकामार्थसिद्ध्यर्थे जपे विनियोगः ।
ॐ जानकी कमला विद्या सिद्धविद्या क्षमात्मजा ।
निर्मला भावनी भव्या सर्वमङ्गलरूपिणी ॥ १॥
कौलिनी कुलजा कान्ता अपर्णा भक्तवत्सला ।
सुकेशी चारुनेत्रा च देवदानवसेविता ॥ २॥
अतिगुप्ता सरोजाक्षी सकला सर्वरूपिणी ।
भक्तिवश्या महोग्रा च सर्वतन्त्रविशारदा ॥ ३॥
धरात्मजा महामाया शब्दरूपा महोत्सवा ।
कामा च रमणीभद्रा यज्ञोत्सवविभूषिता ॥ ४॥
चन्द्रवक्त्रा चकोराक्षी चारुनेत्रा सुलोचना ।
रघुनाथप्रिया देवी शारदा कुलभूषिता ॥ ५॥
कुलनाथा च दिव्या च श्रीमती विश्वरूपिणी ।
रामप्रिया राममता रामगोप्या च मुक्तिदा ॥ ६॥
चतुर्वर्गप्रदा सौख्या सर्वपापविनाशिनी ।
वाराही वारुणी विद्या महाविद्या महेश्वरी ॥ ७॥
सती सत्यवती धूम्रा धवला धर्मरूपिणी ।
धर्मनिष्ठा धर्ममयी धर्मी धर्मनिषेविता ॥ ८॥
बालिका युवती वृद्धा नित्या नित्यमयी तथा ।
गायत्री वेदमाता च सर्वसङ्कटतारिणी ॥ ९॥
हिरण्या कनका रक्ता भद्रा नीलसरस्वती ।
इन्द्रा चेन्दुस्वरूपा च दिव्याम्बरविभूषणा ॥ १०॥
जगन्माता जगद्धात्री जननी सर्वरूपिणी ।
पत्नी चामरकेशी च कुन्ददन्ता सुनासिका ॥ ११॥
कुन्दोत्सवा कुन्दप्रिया कुन्दपुष्पमयी तथा ।
आग्नेयी वायवी ज्येष्ठा वारुणी वरुणप्रिया ॥ १२॥
सर्वदिग्वर्णिता विश्वा सर्वेषामुपकारिणी ।
बुद्धिर्मेधा प्रिया शक्तिस्तुष्टिः पुष्टिर्धृति क्षमा ॥ १३॥
अबला निश्चला लक्ष्मीः श्रद्धा पन्नगशायिनी ।
अनन्ता महती चिन्ता ह्यचिन्त्या चिन्मयी स्मृता ॥ १४॥
रजोमयी ब्रह्मरूपा विष्णुमाया महेश्वरी ।
सर्वतीर्थमयी देवी दैत्यदानवनाशिनी ॥ १५॥
विरूपा विश्वरूपा च मृडानी मृडवल्लभा ।
कोटिचन्द्रप्रतीकाशा कोटिसूर्य्यसमप्रभा ॥ १६॥
नदमध्या नदभवा नदोद्भूता नदाक्षिका ।
मन्त्ररूपा मन्त्रभवा यन्त्रमन्त्रमयी तथा ॥ १७॥
द्विपदा त्रिपदा गोत्रा चतुर्वणा च त्र्यक्षरी ।
वरेषु र्गोपिता गुप्ता अरण्यस्थिरनायिका ॥ १८॥
स्थिरा च तीर्थरूपा च वेगिनी वेगरूपिणी ।
वेगात्मिका वेगधरा काश्यपी कमलेक्षणा ॥ १९॥
शक्तिरूपा शक्तिधरा शक्ताशक्तविभेदका ।
गुणागुणमयी गम्या निर्गुणा सद्गुणान्विता ॥ २०॥
गन्धर्वसेविता नन्दी पूर्णब्रह्मस्वरूपिणी ।
कात्यायनी जगद्धात्री स्थितिसंहारकारिणी ॥ २१॥
रामजाया च मातङ्गी सुतुङ्गा कदलीप्रिया ।
प्रीतिमनाः प्रीतिदात्री षड्वर्णशीर्षभञ्जिका ॥ २२॥
वेणुकान्ता वेणुभवा वीणावाद्या च शोभना ।
खण्डचन्द्रा पूर्णचन्द्रा सकला निष्कला तथा ॥ २३॥
तेजस्का मुखरा सौम्या निःशब्दा शब्दरूपिणी ।
सिन्दूरारुणरक्ता च सिन्दूरारुणभूषिता ॥ २४॥
मेघस्वना च मेघा च बाहुदण्डविशोभिता ।
जयध्वनि र्निघोरा च खर्खरा खगरूपिणी ॥ २५॥
खगाख्या खगमान्या च तडिद्रूपा तडित्प्रभा ।
वज्ररूपा वज्रमयी वज्रतन्त्रा च विद्रुमा ॥ २६॥
कादम्बिनी रता रत्या चञ्चला विमला ध्रुवा ।
अस्त्ररूपा शस्त्ररूपा ह्यणिमा ध्रुवमण्डला ॥ २७॥
तर्कविद्या वेदविद्या ज्योतिर्विद्या विशारदा ।
काली कल्पकला साध्या पाण्डुरूपा पराक्रमा ॥ २८॥
नागकन्या नागमाता नागपत्नी फणात्मिका ।
शची सत्यकला निद्रा सुनिद्रा च सुचेतना ॥ २९॥
सुशीला खर्वरूपा च खर्वजङ्घा करात्मिका ।
दीर्घजङ्घा दीर्घरवा दीर्घनासा सुकर्णिका ॥ ३०॥
कर्णेनपूजिताऽछिन्ना छिन्ना छिन्नमयी तथा ।
आपदा पादपापादा ज्ञानाज्ञानपरायणा ॥ ३१॥
गौरी पद्मा च कल्याणी उर्वशी ध्वजरूपिणी ।
पताकी केतकी चूर्णा दृढव्रतपरायणा ॥ ३२॥
तिलोत्तमा रोहिणी च बदरी कविमामिनी ।
मघा च भरणी पूर्वा पराऽपूर्वा च पूर्विका ॥ ३३॥
अपर्विका अपूर्वा च अपूर्वफलभूषिता ।
शङ्खिनी शङ्खहस्ता च चित्रहस्ता सुकोमला ॥ ३४॥
कोमला पत्ररूपा च गान्धारी चपला कला ।
रुक्मिणी रुक्मरूपा च क्षुधा तृष्णा जरातुरा ॥ ३५॥
अचिन्त्या चिन्तिता चिन्ता मनोज्ञा मनसिस्थिता ।
अञ्जना त्वाजना व्यञ्जा व्यञ्जनीया जरार्पिता ॥ ३६॥
अजरा निर्जरा जीर्णा जीर्णार्पितविभाविनी ।
कूर्मरूपा सूकरी च हरिणी मृगरूपिणी ॥ ३७॥
कस्तूरी मृगनाभिः च कर्पूरागरुकुङ्कुमा ।
रघुदेवरता शक्ता रघुदेवरतिप्रिया ॥ ३८॥
पौरन्दरी तथा विष्णोर्जाया माहेश्वरी वरा ।
सर्वेषाञ्जननी नित्या चार्वङ्गी जनकात्मजा ॥ ३९॥
महाधीरा महामाया महामोहा महोत्सवा ।
वैकुण्ठनाथपत्नी च विमलारुणरूपिणी ॥ ४०॥
भागीरथी मनोबुद्धिर्नित्यानन्दमयी सहा ।
महाव्याधिहरा भीमा सर्वरोगापहारिणी ॥ ४१॥
शङ्खिनी चक्रिणी धात्री हस्तेपुस्तकधारिणी ।
सम्पदा च सदाचारा द्रौपदी द्रुपदात्मिका ॥ ४२॥
सतांसृष्टिकरी सौम्या दैत्यानां क्षयकारिणी ।
दरैत्यप्राणहरा धात्री दयामोदरसप्रिया ॥ ४३॥
क्षान्तिः क्षेमङ्करी बुद्धिर्भारती भयनाशिनी ।
तरणिस्तरुणी तीक्ष्णा तीक्ष्णदैत्यविनाशिनी ॥ ४४॥
दात्री दानपरा दान्ता दुष्टदैत्यविनाशिनी ।
क्रिया क्रियावती हृष्टा तुष्टा पुष्टा तथोर्वशी ।
वेदमना वेदकन्या वेदमान्या पुलोमजा ॥ ४५॥
सुखिनी सुखदात्री च सर्वसौख्यविवर्धिनी ।
शीला शीलवती सूक्ष्मा सूक्ष्मासूक्ष्मवरप्रदा ॥ ४६॥
वरेण्या वरदा वाणी ज्ञानिनी ज्ञानदात्मजा ।
भृगुवंशसमुद्भूता भार्गवी भृगुवल्लभा ॥ ४७॥
रक्ताम्बरधरा रामा रमणी सुरनायिका ।
मोक्षदा शिवदा श्यामा योगध्यानपरायणा ॥ ४८॥
योगेश्वरी योगरूपा योगनिद्रा कृशोदरी ।
अम्बा जाम्बवती चैव सत्यभामा मनोरथा ॥ ४९॥
रौद्रा रौद्रस्वना रौद्री रौद्रदैत्यविनाशिनी ।
कुमारी कौशिकी काली कामदैत्यविनाशिनी ॥ ५०॥
रामपत्नी रामरता रामजाया महोदरी ।
विष्णुपत्नी विष्णुभवा विष्णुजाया च शूलिनी ॥ ५१॥
मदनान्तक कान्ता च मदनान्तकवल्लभा ।
भूतभव्यभवस्पृष्टा पावनी परिपालिनी ॥ ५२॥
अदृश्या व्यक्तरूपा च दृश्या श्रेष्ठा प्रवर्द्धिनी ।
अपान्निधिसमुद्भूता धारिणी च प्रतिष्ठिता ॥ ५३॥
अच्युता चाच्युतप्राणा प्राणदा वासवेश्वरी ।
उत्तरा क्षोभणा क्षेमा श्रीगर्भा परमेश्वरी ॥ ५४॥
वरदा पुष्टिदेहा च कामिनी कञ्जलोचना ।
शरण्या वरदा प्रीता प्रीत्यानानन्दस्वरूपिणी ॥ ५५॥
पताकिनी दयारम्भा सुरम्या च सुरेश्वरी ।
श्रीमती च शिवा नन्दा त्रिशक्तिर्मोक्षदायिनी ॥ ५६॥
परापरकला कान्ता शिशिराचलकन्यका ।
दक्षा भगवती धेनुः कामधेनुः कलावती ॥ ५७॥
सुरमान्या सुरश्रेष्ठा श्रेष्ठा प्राणेश्वरी स्थिरा ।
वज्रायुधा व्रजहस्ता चण्डी चण्डपराक्रमा ॥ ५८॥
तमोघ्नी ध्वान्तसंहन्त्री प्रयतात्मा पतिव्रता ।
गौरी सुवर्णवर्णा च स्थितिसंहारकारिणी ॥ ५९॥
मेधाविनी महावीर्या हंसी संसारतारिणी ।
एकानेका महेज्या च सर्वलोकप्रकाशिनी ॥ ६०॥
षट्चक्रभेदिनी वामा कार्यस्था कार्यरञ्जिता ।
प्रणता प्राणिनामार्तिहारिणी दैत्यनाशिनी ॥ ६१॥
अजा च बहुवर्णा च पुरुषार्थप्रवर्तिनी ।
गणिता गुणसम्पन्ना नगजा खगवाहिनी ॥ ६२॥
रक्ता नीला सिता श्यामा कृष्णा बभ्रुश्च कर्बुरा ।
क्षुधा तृष्णा जरा वृद्धा तरुणी करुणालया ॥ ६३॥
चन्द्रानना महोष्ठी च चारुमूर्द्धजशोभिता ।
कला काष्ठा मुहूर्ता च निमेषा कालरूपिणी ॥ ६४॥
मानिनी माधवी मान्या माननीया महागुणा ।
सुवर्णवसना नाशा चक्षुस्पर्शवती रसा ॥ ६५॥
गन्धप्रिया सुगन्धा च मनोज्ञा च मनोगता ।
हस्ता ज्येष्ठा मघा पुष्या धनिष्ठा पूर्वफल्गुनी ॥ ६६॥
मृगनाभिर्मृगाक्षी च कर्पूरामोदधारिणी ।
मधुश्रीर्माधवी वल्ली मधुमत्ता मदोद्धता ॥ ६७॥
रेवती रमणी चित्रा चित्रहारविभूषणा ।
रक्ताम्बरधरा क्षीणा रक्तपुष्पावतंसिनी ॥ ६८॥
नवपुष्पात्मिका पुष्पा पुष्पस्रक्सुविभूषणा ।
शुक्लाम्बरधरा धीरा महाश्वेता वसुप्रिया ॥ ६९॥
नवपुष्पगृहोपेता नवपुष्पोपशोभिता ।
चन्द्रिका चन्द्रकान्तिश्च सूर्यकान्तिर्निशाचरी ॥ ७०॥
विजया च जयन्ती च मोहिनी शत्रुनाशिनी ।
लज्जा सरस्वती नन्दा दानवेन्द्रप्रमर्दिनी ॥ ७१॥
चद्रमण्डलसङ्काशा ज्ञानानन्दप्रवर्द्धिनी ।
रूपयौवनसम्पन्ना गुणशीलसमन्विता ॥ ७२॥
सर्वैश्वर्यसमायुक्ता सर्वलावण्यशोभिता ।
शीता शीतप्रिया स्वर्गा सकला वनदेवता ।
गुरुरूपधरा गुर्वी कालमृत्युविनाशिनी ॥ ७३॥
अणिमादिगुणोपेता महामारी च शान्तिदा ।
चतुःसमुद्रशयना चतुर्वर्गफलप्रदा ॥ ७४॥
सर्वकालोद्भवा प्रीता सर्वकालोद्भवोद्भवा ।
अनादिनिधना पुष्टिर्वृक्षमध्यनिवासिनी ॥ ७५॥
सर्वचक्रेश्वरी सर्वा सर्वमन्त्रमयी सदा ।
सहस्रनयना प्राणा सहस्रनयनप्रिया ॥ ७६॥
सहस्रशीर्षा सुमना मन्दभा सर्वभञ्जिका ।
गीतनृत्यप्रिया कामा सन्तुष्टिर्धनदा प्रदा ॥ ७७॥
मायाधरी मणिरता मणिसम्मानतत्परा ।
माधवा नन्ददा मध्वी यशोदानन्दवर्द्धनी ॥ ७८॥
यज्ञप्रीता यज्ञमयी यज्ञकर्मविभूषणा ।
राजा राजकुलेज्या च राजराजेश्वरी रमा ॥ ७९॥
रमिणी रामिणी राका रामानन्दप्रदायिनी ।
रजनीकरपूर्णास्या रक्तोत्पलविलोचना ॥ ८०॥
लाङ्गली प्रेमसन्तुष्टा लाङ्गलीप्रणयप्रिया ।
लाक्षारुणा च ललना लीला लीलावती लया ॥ ८१॥
लङ्केश्वरगुणप्रीता लङ्केशवरदायिनी ॥ ८२॥
लवङ्गकुसुमप्रीता लवङ्गकुसुमप्रभा ।
पुण्यदा पूर्णिमा पुण्या पुण्यकोटिफलप्रदा ॥ ८३॥
पुराणगोचरा पूर्णाऽपूर्वा प्रौढविनाशिनी ।
प्रह्लादहृदयाह्लादगेहिनी पुण्यचारिणी ॥ ८४॥
फलदात्री फलासक्ता फलदातृविभूषिता ।
वाणी विलासकरिणी वराङ्गी च वरानना ॥ ८५॥
विष्णोर्वक्षस्थलस्था च वाग्मती विन्ध्यगेहिनी ।
धीरा धैर्यवती धृष्टा धवलाम्भोजसन्निभा ॥ ८६॥
तन्त्रधारी तन्त्रतारी तन्त्रकारी भवातुरा ।
तपस्या तालिनी तीर्णा दूर्वादलसुसेविता ॥ ८७॥
कर्पूरपूरवदना कलानाथसमप्रभा ।
कलाकेलिप्रियाकीर्णा कुञ्जरेश्वरगामिनी ॥ ८८॥
खर्वा च खञ्जनद्वन्द्वलोचना रवभूषिता ।
खद्योत इव दुर्लक्ष्या खद्योत इव चञ्चला ॥ ८९॥
चलच्चकोरनयना चलत्खञ्जनलोचना ।
चतुर्वेदमयी रूपा चतुर्वर्णमयी भृता ॥ ९०॥
जगन्नाथप्रिया जीवा जगन्नाथरता जया ।
जामातृवरदा जम्भा यमलार्जुनधारिणी ॥ ९१॥
तपस्या तालिनी तीर्णा पूर्णानन्दमयी सदा ।
तारस्वरेणसहिता तारस्वरविभूषिता ॥ ९२॥
वंशध्वजा वंशरूपा नन्दिनी कुलमध्यगा ।
फट्कारप्रणया वृद्धा चित्रा पातकनाशिनी ॥ ९३॥
अधः स्थिता च पाताला अधोभुवनगामिनी ।
अतला वितला तीर्णा सुतला नागशायिनी ॥ ९४॥
द्विजिह्वा बहुजिह्वा च रसना सुरसेविता ।
शून्या रण्या वरेण्या च वरिष्ठा च युगाम्बरा ॥ ९५॥
प्रतिपर्वस्थिता देवी तिथिः स्वरविभूषिता ।
प्रतिमा नवमी चैव युगाढ्या चक्ररूपिणी ॥ ९६॥
वाहग्रस्ता वाहभरा वाहसूर्यसमन्विता ।
चन्द्रज्योत्स्नामरा काम्या राकामृतचरा चरी ॥ ९७॥
नागरी नागरा ज्येष्ठा नागराजसुता नगा ।
नवीनेन्दुकला नन्दी नन्दिकेश्वरपूजिता ॥ ९८॥
नीरजाक्षी चञ्चलाक्षी नीरजद्वन्द्वलोचना ।
नीरप्रसूर्नीरभवा नीरनिर्मलदेहिनी ॥ ९९॥
नवीनकेतकीकुन्द -माकन्दस्रग्विभूषिता ।
नायिकानन्दनिलया नायकानन्दकारिणी ॥ १००॥
नर्मकर्मरता नित्या नर्मधर्मपरायणा ।
नर्मप्रीता नर्मरता नर्मध्यानपरायणा ॥ १०१॥
नर्मकर्मैकसहिता नर्मकर्मैकपालिका ।
नवनारीगुणप्रीता नवनारीवरप्रदा ॥ १०२॥
नारायणप्रिया कान्ता निष्फला परमा कला ।
नारायणप्रिया देवी नारायणसमन्विता ॥ १०३॥
नारायणी समा युक्ता सत्यभामा दृढव्रता ।
चतुःसागरमध्यस्था चतुःसागररूपिणी ॥ १०४॥
वासुदेवरता विश्वा विज्ञा विज्ञानकारिणी ।
वीणावती वलाकीर्णा बालपा पुष्परोहिता ॥ १०५॥
बलवी सुमतिर्वैद्या विद्याहारविभूषिता ।
विद्यावती वैद्यपदा सीता वैवस्वता वलिः ॥ १०६॥
भीतिहा भयदा भीतिरंशुजालसमप्रभा ।
शर्वाणी सुमना सर्वा सुभद्रा भद्रिका तथा ॥ १०७॥
विनता शङ्करी शान्ता मानवी मानरूपिणी ।
मनुध्याना मनुज्ञाना मानसी मनुचित्तगा ॥ १०८॥
सदागोप्या जपरता जपस्तुत्यादिभूषिता ।
मरीची मारिची चैव हैमा हैमवती शिला ॥ १०९॥
सुगन्धा गन्धसहिता आयुष्यक्षयरूपिणी ।
क्षीरसाक्षी क्षीरस्रवा क्षीरिका श्रीर्हरिप्रिया ॥ ११०॥
बीजमयी बीजरूपा बीजोद्भवा च बीजिका ।
द्वारा द्वारवती ध्वान्ता प्रचण्डा द्वारमालिनी ॥ १११॥
कल्याणी कमला कारा कमली कालरूपिणी ।
कामाक्षी कामदा काम्या कामना कामचारिणी ॥ ११२॥
कालरात्रिर्महाकाली कौलिनी कल्परूपिणी ।
कुमारी करुणा कीर्त्तिः कलिकल्मषनाशिनी ॥ ११३॥
कात्यायनी कलाधारी कौमुदी कमलप्रिया ।
माहेश्वरी महामाया महातेजा महेश्वरी ॥ ११४॥
महाज्योतिर्महामूर्तिर्महासुरविनाशिनी ॥ ११५॥
महामाया महावीर्या महापातकनाशिनी ।
महामखा मन्त्रमयी मणिपूरकवासिनी ॥ ११६॥
मानसी मानदा मान्या मनश्चक्षुरगोचरा ।
गण्या मता च गायत्री गन्धर्वगणसेविता ॥ ११७॥
सिद्धा यज्ञप्रिया शक्तिर्यज्ञाङ्गी यज्ञवर्त्मिका ।
यज्ञरूपा यज्ञभवा यज्ञी यज्ञकृतालया ॥ ११८॥
जालन्धरी जगन्माता जातवेदा जगत्पिता ।
जितेन्द्रिया जितक्रोधा जननी जयदायिनी ॥ ११९॥
गङ्गा गोदावरी रेवा गौतमी च शतद्रुका ।
सिन्धुर्मन्दाकिनी सिद्धा यमुना च सरस्वती ॥ १२०॥
चन्द्रभागा विपाशा च गण्डकी विन्ध्यवासिनी ।
नर्मदा कद्रु कावेरी अहल्या चम्पकावती ॥ १२१॥
अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका ।
द्वारावती च तीर्थेशा महाकिल्बिषनाशिनी ॥ १२२॥
वैष्णवी विष्णुरूपा च विष्णुमाया स्वरूपिणी ।
शिवेश्वरी शिवा राधा भवानी भवमोचनी ॥ १२३॥
हल्लोत्खातसमुद्भूता रत्नभूता धनेश्वरी ।
हृद्या विद्याप्रदात्री च कुशमाता परेश्वरी ॥ १२४॥
लवमाता सौम्यमूर्त्तिः शर्वा सर्वानुशासनी ।
कमला विष्णुवन्द्या च मान्या सुनयनात्मजा ॥ १२५॥
रामेशी रामरमणी रामरामा रमेश्वरी ।
वैदेही मैथिली सिद्धा मिथिलाभूमिजा तथा ॥ १२६॥
सुफला चर्चिता वन्द्या दशाननविनाशिनी ।
दण्डा दण्डप्रिया चैव दण्डकारण्यवासिनी ॥ १२७॥
लक्ष्मणाराधिता शान्ता कान्ता भरतवन्दिता ।
शत्रुघ्नपूजिता कान्तिः हनुमद्वन्दिता वरा ॥ १२८॥
महोग्रा च महासेना माहेशी मैथिलात्मजा ।
साकेतेशा जनाराध्या धनेशी धनदा शुभा ॥ १२९॥
॥ फलश्रुतिः ॥
पुण्यं सहस्रनामेदं जानक्या भुवि दुर्लभम् ।
यः पठेत् प्रातरुत्थाय शुचिर्भूत्वा समाहितः ॥ १३०॥
यश्चापि शृणुयान्नित्यं नरो निश्चलमानसः ।
एककालं द्विकालं च त्रिकालं श्रद्धयान्वितः ॥ १३१॥
सर्वपापविनिर्मुक्तो धनधान्यसुतान्वितः ।
तेजस्वी बलवान् शूरः शोकरोगविवर्जितः ॥ १३२॥
यशस्वी कीर्तिमान् धन्यः सुभगो लोकपूजितः ।
रूपवान् गुणसम्पन्नः प्रभावीर्यसमन्वितः ॥ १३३॥
श्रेयांसि लभते नित्यं निश्चलां च शुभां श्रियम् ।
सर्वदुःखविनिर्मुक्तो लोभक्रोधविवर्जितः ॥ १३४॥
विद्यानां पारगो विप्रः, क्षत्रियो विजयी भवेत् ।
वैश्यस्तु धनलाभाढ्यः शूद्रस्तत्सुखमश्नुते ॥ १३५॥
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् ।
इष्टकामांस्तु कामार्थी धर्मार्थी धर्ममक्षयम् ॥ १३६॥
॥ इति श्रीसिद्धेश्वरीतन्त्रे जानकीसहस्रनामस्तोत्रं सम्पूर्णम् ॥
Proofread by Prabhav Tengse