श्रीज्ञानलक्ष्मीस्तोत्रम्
। ॐ ।
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
श्रीरूपा श्रीमहालक्ष्मीश्श्रीकर्या शुभगीतिका ।
विद्यासंपत्प्रसादा मा सुज्ञानशुभलक्षिता ॥ १॥
नित्या नित्यसुगेया मा नित्यानन्दप्रभासिनी ।
नित्यैकवस्तुसद्रूपा नित्यत्ववरदायिनी ॥ २॥
सर्वसंपृणसुप्राणा सर्वजीवनजीवनी ।
सर्वमङ्गलसंदात्री सर्वा सुमङ्गला जनी ॥ ३॥
सुज्ञानरससंभासा सत्त्वसुज्ञानरूपिणी ।
प्रज्ञानवसुदात्री श्रीर्ज्ञानश्वेतसरस्वती ॥ ४॥
भक्तिपुष्पार्चिता माता हृन्नालीकसुवासिनी ।
भक्तिदीपस्फुरद्रूपा मनोनैर्मल्यपूजिता ॥ ५॥
त्यागराजगुरुस्वामिशिष्यापुष्पानमस्कृता ।
गुरुदेवकृपास्फोटामोदश्लोकसुमार्चिता ॥ ६॥
मङ्गलं मोक्षरूपायै श्रीदेव्यै शुभमङ्गलम् ।
मङ्गलं मनआभायै महालक्ष्म्यै सुमङ्गलम् ॥ ७॥
बालालापमिदं स्तोत्रं ज्ञानलक्ष्मीप्रियं भगम् ।
पठनं गायनं भक्त्या ज्ञानलक्ष्मीकृपावहं ॥ ८॥
इति श्रीज्ञानलक्ष्मीस्तोत्रं सम्पूर्णम् ।
ॐ
शुभमस्तु
Encoded and proofread by Radhika Vathsan
Copyright Pushpa Srivatsan