श्रीकृष्णामाहात्म्यम्
अथ श्रीकृष्णवेणीमाहात्म्यम् ।
कृष्णाया यः पुनातीशो नानातीर्थवपुः प्रभुः ।
सञ्जीवयति चाशेषं नमोऽस्तु प्रत्यगात्मने ॥
कदाचिन्नारदं प्राप्तं नमस्कृत्वा महर्षयः ।
अर्चयित्वा मुनिं प्राहुः द्वापरान्ते कलौ युगे ॥
ऋषय ऊचुः ।
भगवन् जगतां नाथे कृष्णे त्यक्त्वा दिवं गते ।
सम्भ्रान्तानामिवान्धानां त्वं नो दृष्टिपथं गतः ॥
कथं कलियुगं घोरं प्रवृत्तं ह्यधरोत्तरम् ।
छेदनं धर्मसेतूनां साधूनां दुर्गुणोदयम् ॥
सतामपि मनःक्षुभ्यन्निकृतौ कश्चिदीश्वरः ।
कालस्यास्य प्रभावेन धर्मो नोद्भवति क्वचित् ॥
ततोऽपि द्रव्यशुद्धिस्तु पात्रशुद्धिस्ततोऽपि न ।
आत्मनश्च सहायानां पात्रस्य धनदस्य च ॥
अशुद्धिविहितो धर्मो व्यभिचाराय कल्पते ।
यतः कश्चिच्छ्रुतः शुद्धः सोप्यन्यस्मान्मली भवेत् ॥
कलौ पतितसंसर्गं ज्ञातुं त्यक्तुं च कः प्रभुः ॥
कथं न दग्धा विष्टाग्नौ नार्द्रस्य निवसन् जले ।
नारदोक्तकलिदोषनिरसनप्रवचनघट्टः ॥
कथं न लिप्यते पापैः कलौ कल्मषसंवृते ।
यज्ञमन्त्राश्च वेदाश्च शुद्धादन्यत्र दुस्त्यजेत् ॥
सङ्गदोषादन्नदोषान्निर्वीर्या भ्रष्टबीजवत् ।
महापथं वा गच्छामः किं वान्यच्चरणं वद ॥
नारद उवाच ।
सत्यमेतन्महाभाग दुर्निवार्यमिदं कलौ ।
एतदेव समुद्दिश्य पार्था याता महापथम् ॥
तथापि विप्र देहानां धृत्या यदिह लभ्यते ।
मरणेन तु तल्लभ्यं मृत्युं नेच्छेत्प्रमादतः ॥
किञ्च नात्मवतां द्वेष्यः कलिर्मे न भवादृशम् ।
कृते यल्लभ्यते पुण्यं तदत्रैव कलौ युगे ॥
अनात्मनः स्वभक्तस्य द्विजाः कलियुगं सदा ।
सुधियस्त्वीशभक्तस्य सदाह्लादीकृतं युगम् ॥
यत्तु कालस्वभावेन बलात्पापोद्भवः कलौ ।
तत्रापि श्रूयतां त्राणं दैवतैरपि निर्मितम् ।
सृष्ट्यर्थं चोदितो ब्रह्मा कल्पादौ किल विष्णुना ॥
प्राञ्जलिस्तं प्रणम्येशमिममर्थं व्यजिज्ञपत् ।
ब्रह्मोवाच ।
कार्या चतुर्युगावस्था यया नाथ त्वदाज्ञया ।
यदजय्यः कलिः प्राप्तः ततो लोकस्थितिः कथम् ॥
अघप्रवृद्ध्या निर्जीवे नष्टे लोके कलौ युगे ।
चतुर्युगसहस्रान्ता कथं कल्पस्थितिः प्रभो ॥
श्रीभगवानुवाच ।
सत्यं कलौ जगत्त्राणं कार्यं नैवान्यथास्थितिः ।
नन्वेतदर्थे तीर्थानि कल्पे कल्पे सृजस्यज ॥
गङ्गाद्याश्च महानद्यो नदाः प्रस्रवणानि च ।
विविधानि च तीर्थानि सृज त्वं पूर्ववद्भुवि ॥
मातरं सर्वतीर्थानां नदीनामग्रजां त्वहम् ।
कृष्णानद्युत्पत्तिप्रचारः
स्रक्ष्यामि पूर्ववत्कृष्णां मन्मायां जगतां स्थितेः ।
तीर्थानां च प्रभावेन कलिकल्मषशत्रुणा ॥
कृष्णायाश्चापि सान्निध्यात् नात्युद्भविष्यति ।
कलौ जुषाणाः तीर्थानि मां च कृष्णां विशेषतः ॥
धीराः केचिद्भविष्यन्ति बीजं कृतयुगस्य हि ।
नारद उवाच ।
एवमुक्त्वा स्वयं विष्णुः कल्पादिषु यथापुरा ।
ससर्ज कृष्णां ब्रह्मापि तीर्थान्यपि तदाज्ञया ॥
इत्थं दुस्तरदोषौघत्राणार्थं निर्मितानि ह ।
कलौ तीर्थानि सेवेत न दोषः कश्चन स्पृशेत् ॥
यथा मन्त्रौषधाभिज्ञो ज्वालामध्ये न दह्यते ।
एवं सदैव तीर्थार्थी न धृष्यः कलिजैरघैः ॥
तस्माद्भजत तीर्थानि स्मरतामघहरं हरिम् ।
एवं कृतयुगं न स्यान्न प्रयात महापथम् ॥
ऋषय ऊचुः ।
अहो भगवता नूनं रक्षार्थं प्रहितोद्य नः ।
मुनीश त्वं हि भीतानां त्राणं परमिहोक्तवान् ॥
ऋषे कथय नः पुण्यां कृष्णां तां तीर्थमातरम् ।
यथा ससर्ज लक्ष्मीशस्स्वयं प्राह च तादृशम् ॥
नारद उवाच ।
तदेवं ब्रह्मणाप्येवं पृष्टो विस्मयशालिना ।
तस्या माहात्म्यमतुलं भूयः प्राहेति केशवः ॥
श्रीभगवानुवाच ।
जगत्स्थित्यै मया ब्रह्मन् कल्पे कल्पे हि सृज्यते ।
कृष्णा नाम नदी पुण्या तत्कथाघौघनाशिनी ॥
यस्याः कलिरलं भीतः पुण्यसिन्धोरघात्मकः ।
मन्दीभवत्स्वविभवो निश्शङ्कं न प्रवर्तते ॥
तस्याः संस्मरणस्पर्शपानस्नानस्तवादिभिः ।
निष्पापा मनुजास्सर्वे लभन्ते गतिमीप्सिताम् ॥
बहुना किं वदिष्यामि धृतधर्मां नदीमिमाम् ॥
स्पृशन् सर्वगतो वायुः पावयत्यखिलं जगत् ।
कार्यद्वयं समुद्दिश्य कृष्णवेणी भवाम्यहम् ॥
जगतां रक्षणार्थाय मद्भक्तानां च मुक्तये ।
अस्ति मुक्त्या उपायोऽन्यो योगाख्यस्स तु दुष्करः ॥
सुकरस्त्वेष सर्वेषां कृष्णवेण्या उपाश्रयः ।
कर्मभूमिमिमां मर्त्याः भजमाना यदात्मिकाम् ॥
कीर्तयन्तस्स्मरन्तश्च मम मायां तरन्त्यलम् ।
यथा यथा सुखं वस्स्यात् स्यात्सिद्धिस्स्वात्मनां तथा ॥
मया प्रयुज्यते नित्यं भक्तायासासहिष्णुना ।
तज्जलं पिबतां तावत् तदात्माहं स्वयं हृदि ॥
प्रविश्य वर्धयाम्याशु ज्ञानं भवभयापहम् ।
अद्यापि तां सर्वजगत्तमोघ्नां स्रक्ष्यामि मा ते कलिभीस्सृजत्वम् ।
लोकांश्चतुर्वक्त्र न हि स्थिता यामर्कप्रभायां तमसां विभूतिः ॥
नारद उवाच ।
इत्युक्त्वा भगवान् विष्णुः महायोगेश्वरेश्वरः ।
कृष्णां ससर्ज सम्पन्नो दिव्यमूर्तिं सुलोचनाम् ॥
श्यामलां विष्णुचिह्नाङ्कां चतुर्बाहुं सुभाषिताम् ।
पीताम्बरां सुप्रसन्नां साक्षात्कल्पलतामिव ॥
चन्द्रिकाकान्तिमुत्सृज्य वस्तुकान्तिप्रदायिनीम् ।
तेजस्साक्षादिवोत्पन्नां लावण्यस्याधिदेवताम् ॥
प्रसन्नादर्शनीयाश्च प्रभया तन्मुखा दिशः ।
मालिन्यं तत्यजुः काष्ठाश्चिरमिन्दुवियोगजम् ॥
तां जगत्पावनीं दृष्ट्वा कलेर्भीतिहरां शुभाम् ।
पुत्रीत्वं जगृहे ब्रह्मा प्रसन्नस्य हरेर्गिरा ॥
ततस्स्पृष्ट्वा जगत्सर्वं तत्र तीर्थान्यकल्पयत् ।
ब्रह्मा जगदघघ्नानि यथा प्राह जगद्गुरुः ।
कृष्णा च ब्रह्मलोकस्था पश्चाद्देवी भुवङ्गता ॥
पावयत्यखिलं लोकमनन्तमहिमान्विता ।
एवमेषा जगन्माता कृष्णा विष्णुतनुस्स्वयम् ॥
माहात्म्यमस्याः सकलमनन्तं को वदिष्यति ।
सुरभिर्देवी लोकविश्रुता भुवि कृष्णेऽष्टवरप्रपूरणे ।
सुरभेरियमेव चाधिका स्वजनेभ्योऽखिलधर्ममोक्षदा ॥
इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये कृष्णानदीप्रादुर्भावो
नाम प्रथमोध्यायः ॥
अथ कृष्णमहिमाप्रशंसनघट्टः ।
ऋषय ऊचुः ।
स्वामिन् कथय कारुण्याद्भूयो माहात्म्यमुत्तमम् ।
कृष्णाया न हि नस्तुष्टिश्शृण्वतां त्वद्वचोमृतम् ॥
कथं देवी भुवं नीता कानि तीर्थानि तत्र च ।
आश्चर्यं चैव तद्गुह्यं त्वदन्यः को वदिष्यति ॥
इत्युक्त्वा विप्रमुख्यैस्तैर्मुनिर्भागवतोत्तमः ।
कृष्णाश्रयां कथां पुण्यां प्राह हर्षात्प्रशस्य तान् ॥
नारद उवाच ।
अहो मुक्तिः करस्था वो मनः कृष्णाकथार्थि यत् ।
अहञ्च धन्यस्सङ्गाद्वो यावद्-ज्ञानं वदामि तत् ॥
कृष्णात्मको विष्णुकथेश्वरो वा तदात्मजो स्यात्सकलान् गुणौघान् ।
स्कन्दो वदेद्वाथ पितुः प्रसादाद्यो वेद तर्कोत्र न वै चतुर्थः ॥
श्रीकृष्णवेण्या माहात्म्यं शृण्वन्तु मुनिसत्तमाः ।
कलेर्दलनमित्याहुरेतदाख्यानमुत्तमम् ॥
यत्रैतच्छ्रूयते देशे कलिदोषो समन्ततः ।
पलायते च गरुडध्वनिभीता इवोरगाः ॥
दुरितोच्चाटनं सर्वसम्पदाकर्षणं त्विदम् ।
आख्यानं पठ्यते यत्र स देशस्स्याच्छुभोदयः ॥
अतिगूढमिमं पूर्वं सर्वज्ञेनैव शम्भुना ।
स्कन्दायोक्तं प्रसन्नेन तेनास्मभ्यमृषिव्रजे ॥
वक्ष्याम्यहं यूयं च हृद्वसन्तो मुनीश्वराः ।
श्राव्यमेतद्भवद्भ्यश्च नासभ्येषु कदाचन ॥
शैवा भागवता ये च सात्त्विका ये सुमेधसः ।
तेष्वेव दर्शयेद्गूढं सुरत्नं कोविदेष्विव ॥
महिम्नात्यद्भुतस्यास्याच्छादितस्य स्वमायया ।
भक्तेष्वेवात्मभूतेषु ख्यापनं सहते हरिः ॥
नास्तिका डाम्बिकाश्चात्र हैतुका विषयात्मिकाः ।
काका इवामृते दिव्ये न योग्या विबुधोचिते ॥
उद्विग्नानां भवव्याधेर्विरक्तानां शमिच्छताम् ।
कृष्णामाहात्म्यमार्तानां देयं दिव्यमिवौषधम् ॥
श्रद्धया शृण्वतां चैतत् कृष्णायां माधवे शिवे ।
देवे चादूषिता भक्तिराविर्भवति कामधुक् ॥
सद्भक्त्या शृण्वतां चैव पापान्यतिगुरूण्यपि ।
वाताहताभवन् क्वापि यान्त्यदत्वा स्वकं फलम् ॥
प्रभावं सह्यदुहितुः ख्यापयेत्सत्सभामुदे ।
सा लोकशोकशमनादशोकपदमश्नुते ॥
संस्पर्शपानस्नानानि दूरे तिष्ठन्त्वहो द्विजाः ।
कृतकृत्यो भवेन्मर्त्यः कृष्णास्मरणकीर्तनैः ॥
प्रायो माया भवक्लेशाः कृष्णामाहात्म्यवेदिनाम् ।
नैव स्युः सम्प्रबुद्धानां स्वाप्निकोपद्रवा इव ॥
भक्त्या तत्सेविनां कामक्रोधलोभादयः कुतः ।
प्रसादौषधपाने हि पुनर्नोन्मादविक्रियाः ॥
यथेशष्षण्मुखायाह स चास्मभ्यं यथामति ।
सर्वाघहरमाश्चर्यं सर्वमेतद्वदामि वः ॥
भात्युत्तरदिशि श्रेयान् कैलासशिखरीश्वरः ।
स्यादेको मूर्तिमानीशो यशोराशिरिवामलः ॥
कैलासं प्रति स्कन्दागमनघट्टः
समग्रं त्रिजगत्सृष्ट्वा स्रष्टा युगपदीक्षितुम् ।
निष्कळङ्केन्दुधवलं यं दर्पणमिवासृजत् ॥
यत्रैकस्मिन् जगद्भाति बिम्बितं सचराचरम् ॥
बीजं सृष्टेर्भविष्यन्त्याः कोशे सर्वमिहार्पितम् ।
चन्द्रकान्तप्लवत्तोयप्रवाहपरिपूरिताः ॥
यत्रेन्द्राध्युषिते सद्यस्सर्वलोकसुदुस्तराः ।
ब्रह्माच्युतकृतावासा शम्भोरनुपमा पुरी ॥
या भवानीव कान्तानां सर्वासामधिका पुरी ।
कदाचित्तत्र सर्वेशमीशानं रुचिराननम् ॥
चतुर्मुखमुखास्सर्वे ह्युपासाञ्चक्रिरे सुराः ।
तं जगल्लतिकाबीजं जगज्जलधिशीतगुम् ॥
जगद्वनमहावह्निमद्वितीयं महेश्वरम् ।
चतुर्दशजगत्क्रीडातन्त्रे क्रीडन्तमव्ययम् ॥
अगाधमहिमासिन्धुं ब्रह्माद्यैरप्यनिश्चितम् ।
कालेनाविकृतं स्थाणुमनन्ताजाण्डसाक्षिणम् ।
ब्रह्मेन्द्राद्यधिपैर्जुष्टं स्कन्दोऽनन्तरमायया ॥
मुनिभिः लोकगुरुभिरनुयातस्तु षण्मुखः ।
रेजे षडङ्गवान् वेदः पुराणैरिव सर्वतः ॥
प्रणतस्सपरिष्वज्य शिवाभ्यामुपवेशितः ।
क्षणमत्र वसत्यस्मिन्नदूरस्थे वरानने ॥
स्थाणुनाऽनुगृहीताश्च प्रणम्य मुनयोमुना ।
सभायां सिद्धजुष्टायामाहूतास्समुपाविशन् ॥
ततोऽप्यजीज्ञपत्स्कन्दश्चन्द्रमौलिं कृताञ्जलिः ।
दधद्दन्तांशुभिश्चन्द्रमुपायनमिव प्रियम् ॥
स्कन्द उवाच ।
देव प्रसीद जगतामनुग्रहकविग्रह ।
अजाय ज्ञप्तिरूपाय नमस्ते प्रत्यगात्मने ॥
यत्तिष्ठस्यक्षिविषये भक्तवत्सलता त्वियम् ।
नो चेत्पराक्प्रवृत्ताक्षाः क्व वयं क्व भवान् विभो ॥
मृग्यसेऽन्धैरिव जनैर्बहिर्बाह्यैस्त्वमान्तरः ।
कृपयाथ वपुर्धृत्वा पुरोस्मिन् वीक्ष्यसे स्वयम् ॥
वपुश्च तव देवेश जगतो हितबोधकम् ।
अनादिसाधनत्वेन तपोलोके प्रशंससि ॥
ध्रुवं नानाविरिञ्चाद्यैस्सम्प्राप्तस्सम्प्रदर्शयन् ।
प्रदर्शयन् ते नित्यत्वं विरक्तस्सर्वदेहिनाम् ।
आजन्मब्रह्मचर्यं च परमं च गृहाश्रयम् ॥
वनाश्रयं च गिरिशः सूचयस्यखिलेश्वर ।
भुजङ्गहारहारी यो योगी स्यात्स सुधीरिति ।
कुद्दालि त्वं दृढं छिन्द्याः ज्ञानेन भवदुर्गमम् ॥
त्रिशूलमेकहस्तेन बिभर्षि च परायुधम् ।
तद्ब्रह्मविष्णुरुद्रैक्यं भक्त्या बोधयसि प्रभो ॥
विडम्बयसि दुर्लक्ष्मीं मदान्धानिव शिक्षयन् ।
इत्याद्यशेषचेष्टाभिर्जगतां हितबोधक ॥
जगद्गुरुमथो नाथ पृच्छामि त्वां मनोगतम् ।
अगस्त्यमुख्यैर्मुनिभिरहं पृष्टो नदीः शुभा ॥
सर्वेश त्वद्विभूतीनां त्वत्प्रसादात्पृथग्विधाः ।
अथ ते कृष्णवेण्याश्च पुण्यं माहात्म्यमुत्तमम् ॥
अगाधतत्त्वमज्ञात्वा सर्वज्ञत्वमुपागताः ।
शुश्रूषवश्च सर्वेऽमी पुराणश्रवणोचिताः ॥
मुनयस्त्वं प्रसीदेश भिषजो भवरोगिणाम् ।
इति प्रश्नं समाकर्ण्य प्रहृष्टास्ते सभासदः ॥
स्तुवन्ति षण्मुखं गूढं कृष्णामाहात्म्यकाङ्क्षिणः ।
अथ तामभ्रगम्भीरध्वनिरीशोऽभ्यधात्सभाम् ॥
हर्षयन् दन्तरुग्जालैस्सुधावर्षैरिवामलैः ।
ईश्वर उवाच ।
साधु वत्स कृतः प्रश्नो यः कृष्णामहिमाश्रयः ।
ज्ञातव्यो ह्येष यत्नेन गूढस्सर्वतमोपहः ॥
कृष्णेयं विष्णुरूपस्य तनुर्मम जलात्मिका ।
यत्तः कृष्णा च सैवान्ये तत्प्रभावं परं विदुः ॥
सकृद्यत्पादसंस्पर्शाद्गङ्गाभूत्स्मर्तृमोक्षदा ।
तस्य विष्णोस्तनुस्साक्षात्कृष्णेयं कथमीड्यते ॥
महाघशमनाच्चापि ख्याता लोके महानदी ।
तीर्थाश्च ब्रह्मणा सृष्टाः विष्णुतः ताः समासृणोत् ॥
माहात्म्यं मायया तेन नेदृशं ज्ञायते जनैः ।
कृष्णेन सृष्टा कृष्णेयं भुवं नीता चा यद्दिवः ॥
कृष्णेयं विष्णुना चैष दुहितृत्वेऽर्पिता विधेः ।
कल्पादौ सर्वजगतामघौघध्वंसनाय वै ॥
नदीनामग्रजनना माहात्म्यञ्च महत्त्वतः ।
सर्वङ्कर्षति चाघौघं तेन कृष्णा प्रकीर्तिता ॥
सङ्क्षिप्य वक्ष्यामि निबोध कृष्णामाहात्म्यमस्मिन् यदि विस्तरोस्याः ।
स्वल्पोऽपि कल्पोयमितः प्रवृद्धिनेयस्तु तस्या महिमा त्वपारः ॥
इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये कृष्णानदीप्रादुर्भावो
नाम द्वितीयोध्यायः ॥
स्कन्दाय ईश्वरोपदिष्टकालमहिमाघट्टः
श्रीमहादेव उवाच ।
कल्पाद्यस्य कृतस्यादावियं देव्यवसत्पुरा ।
वैष्णवी ब्रह्मणः पुत्री पूज्यमाना सुरर्षिभिः ॥
तथा पुण्यमया कृष्णा सर्वत्र सुधियो जनाः ।
समायुषस्सदानन्दा नोत्तमाधममध्यमाः ॥
तेषां स्वाभाविकी सिद्धिः ह्लादिनीह रसोल्लसा ।
अथ कालस्वभावोत्थपापबीजसमागमात् ॥
तेषां मिथस्तु सङ्घर्षैस्सिद्धिरेषा रसोल्लसाः ।
पुनर्ब्रह्मप्रसादेन कल्पवृक्षाः जनेष्टदाः ॥
जातास्तेप्यघवृद्ध्याथ नृणां दोषात्तिरोभवन् ।
पुनस्तेषां हि वृद्ध्यर्थमौषध्यस्स्वयमुत्थिताः ॥
नानाफलरसास्ताश्च तद्दोषाद्भुवमाविशन् ।
पुनस्तैरर्थितो ब्रह्मा वृद्ध्यर्थं समकल्पयत् ॥
वृष्टिमोषधिसिद्ध्यर्थं हस्तसिद्धिं च कर्मजाम् ।
धर्माधर्मव्यवस्थां च मर्यादाश्च पृथग्विधाः ॥
नृणां सर्वजगत्स्थित्यै धर्मो जातश्च चतुर्वपुः ।
नरो नारायणश्चैव हरिः कृष्ण इति प्रभुः ॥
ते दृष्ट्वा तादृशं नाशं प्रजानामघवृद्धिजम् ।
सञ्चिन्त्य रक्षणोपायं स्वानुजं कृष्णमब्रुवन् ॥
गच्छाशु ब्रह्मसदनं कृष्णामानय नस्तनुम् ।
सर्वाघशान्त्यै जगतां तदर्थं सा हि निर्मिता ॥
पितामहश्च वक्तव्यः पुण्यतीर्थान्यनेकशः ।
भूमौ प्रकल्पयेत्येवं नोचेन्नास्ति जगत्स्थितिः ॥
ईश्वर उवाच ।
तथेति गत्वा कृष्णोथ निवेद्य ब्रह्मणेऽखिलम् ।
ब्रह्मलोकात्कृष्णानद्यानयनघट्टः
कार्यं लेभे ततः कृष्णां बहुमानात्समर्पिताम् ।
ब्रह्मणा सर्वदेवैश्च सत्कृतो भगवान्मुदा ॥
तामादाय ययौ कृष्णः पूज्यमानां सुरोत्तमैः ।
ब्रह्मविष्णुस्तथा रुद्रस्सर्वे देवास्सहर्षिभिः ॥
सोत्साहं मानयन्तस्तामनुजग्मुस्तथा भुवम् ।
कस्मिन् देशे तु देवीति मन्त्रयन्तस्तु ते सुराः ॥
गच्छन्तो ददृशुः कश्चिन्महात्मानं तपस्विनम् ।
ते तमूचुरनेकस्तं किमिच्छसि वृणुष्व तत् ॥
देव्यागमोत्सवे ह्यस्मिन् देयं यस्य यदीप्सितम् ।
ततस्तपस्वी हृष्टात्मा तान् प्रणम्य कृताञ्जलिः ।
तस्याः पुण्यजलस्नानादहं प्राप्स्यामि धन्यताम् ॥
कृष्णं कृष्णां च तां प्राह सह्याद्रिं वत्स्यथामरैः ।
देव्यागममिमं ज्ञात्वा समाराधयितुं शिवम् ॥
मुक्तिः प्रवर्ततामेषा साक्षाद्विष्णुमया त्विह ।
तस्मिन् कृष्णाजले स्नानादहं प्राप्स्यामि धन्यताम् ॥
मान्यतां चापि लोकेस्मिन् तीर्थमातुर्हि गौरवात् ।
तच्छ्रुत्वा हर्षितैर्देवैर्वीक्षिता च महानदी ॥
एवमस्तु गिरिश्रेष्ठ त्वत्तस्सम्प्रभवाम्यहम् ।
सुता तव भविष्यामि सह्यजेत्यपि विश्रुता ॥
एतच्च मे प्रियतरं कीर्त्यं नाम भविष्यति ।
सद्यस्त्वस्यां मदनुजास्सर्वनद्युत्तमोत्तमाः ॥
त्वत्त एव जनिष्यन्ति वरान्मे भूधरोत्तम ।
ईश्वर उवाच ।
एवमस्मिन् वरे दत्ते सहसा विस्मयं ययुः ।
भक्तवत्सलतां दृष्ट्वा देव्या विष्णोरिवामराः ॥
सोऽपि प्रसीद चेत्युक्त्वा प्रणम्य मुदितो गिरिः ।
कृष्णामादाय तैर्देवैस्सहितस्स्वपदं ययौ ॥
नरो नारायणश्चापि हरिश्चापि समागताः ।
अन्ये च तत्र तत्रस्थाः सिद्धविद्याधरोरगाः ॥
तदा सह्यगिरौ तस्थुः भुवनानि चतुर्दश ।
समेतान्यतिहर्षाच्च द्रष्टुं कृष्णा महोत्सवम् ॥
कृष्णां प्रशंस्य तां हर्षादृषिणां पितृणां तथा ।
सुराणाञ्च तदा वाचः तत्र शुश्रिविरे शुभाः ॥
अहो कृतार्थामनुजा ह्येषा कृष्णाखिलेष्टदा ।
कामधेनुस्समायाता भूलोकालङ्कृतिश्शुभा ॥
वयं च धन्या मनुजैः कृष्णायामनुतर्पिताः ।
हव्यकव्यैस्सुपूजाभिः प्राप्स्यामो निर्वृतिं पराम् ॥
लभ्यते सकृतदप्यत्र यदि कृष्णाजलाञ्जलिः ॥
तर्हि नो नित्यतृप्तानां स्वधया सुधया च किम् ।
अहो स्वलङ्कृता पथ्वीः सुपुरा च भविष्यति ॥
प्रवाहेणामलेनास्यास्सर्वामङ्गलहारिणा ।
सभाग्यास्ते नरा लोके ते च देशाश्शुभोदयाः ॥
तान्येव पुण्यक्षेत्राणि यत्र कृष्णा वहिष्यति ।
स्वर्गं विस्तारमेष्यन्ति सङ्कोचं नरकाणि तु ।
इयं स्वर्गस्य निश्रेणी सुलभास्त इतः परम् ॥
भविष्यद्देहबन्धो नः कृष्णातीरे तु सर्वदा ।
सत्त्वेन जङ्गमत्वेन स्थावरत्वेन वास्तु नः ॥
ईश्वर उवाच ।
इत्थं हर्षात्प्रजल्पन्तस्सर्वे तस्थुस्सुरादयः ।
स्तुवन्तश्चर्षयो देवीं गायन्तश्चापि किन्नराः ॥
रत्नैः पुष्पैर्धनैर्दिव्यैस्सर्वेषामथ सोद्रिराट् ।
तेषां चक्रे महापूजां कृष्णायाश्च विशेषतः ॥
अथ स्वयं जगन्नाथो विष्णुः कृष्णां प्रहर्षयन् ।
शृण्वतां सर्वदेवानां प्राह वीक्ष्य च तं गिरिम् ॥
श्रीभगवानुवाच ।
अहमत्र निवत्स्यामि श्वेताश्वत्थवपुस्सदा ।
मत्पादनिस्सृता देवी नदी पुण्यजला भवेत् ॥
इत्युक्त्वा भगवान् विष्णुः श्वेताश्वत्थोभवत्स्वयम् ।
तन्मूलस्था च सा देवी तोयपूर्णाभवत्क्षणात् ॥
ततो जय जयेत्युच्चैः स्तुवत्सु विबुधादिषु ।
हर्षान्नर्तत्सु मुनिष्वपससार महानदी ॥
देवदुन्दुभयो नेदुः पुष्पाणि मुमुचुर्घनाः ।
गन्धर्वाद्याः जगुर्हर्षात्कृष्णायात्र महोत्सवे ॥
सोऽथ कृष्णां मुनिर्देवीं प्रकर्षणपरो मुदा ।
मुनिसङ्घवृतः श्रीमानन्ये त्वनुययुस्सुराः ।
इति जगदघनाशनाय कृष्णा धवलवपुर्धरिणीं विदूषयन्ती ।
त्रिभुवनदुरितानि तर्जयन्ती स्वनिजजलेन जगाम पूर्वमब्धिम् ॥
अधर्मा राक्षसा घोरास्सर्वाणि दुरितानि च ।
दौर्मनस्यं परं प्रापुः पुण्यनद्यास्समागमात् ॥
धर्मस्सकामो विप्राश्च देवा गावश्च सम्पदः ।
प्रहर्षं परमं प्रापुर्भुवि देवीसमागमात् ॥
यदा कृष्णा भुवं याता तदा भवति पुत्रिका ।
अधर्मवृद्धिः पूर्वेषां विरुद्धा लोकनाशिनी ॥
युक्तो युगक्रमो लोके वाघवृद्ध्या विपर्ययः ।
महानद्याः प्रभावेन यावत्कल्पविकल्पनात् ॥
विकल्मषा जगन्माता सर्वपुण्यमया शुभा ।
तदा त्वतीव पुण्यानि तीर्थाख्येत्र पदे पदे ॥
यथा सर्वेषु वेदेषु पुण्या ऋग्वेदसंहिता ।
यथा त्वतीव पुण्यानि तत्र सूक्तानि वै पृथक् ॥
तथान्यां पुण्यनद्यां च पुण्यतीर्थानि सन्ति वै ।
तेषां माहात्म्यमतुलमनन्तं गुह्यमुत्तमम् ॥
एवं सङ्क्षेपतः प्रोक्तं देव्या माहात्म्यमीदृशम् ।
सविस्तरन्तु तत्त्वेन विद्धि त्वं मदनुग्रहात् ॥
मुनिभ्यो वद वत्सैतज्जगतां हितकाम्यया ।
तीर्थानि चात्र गुह्यानि मत्प्रसादाद्वदिष्यसि ॥
नारद उवाच ।
इत्युक्तोनुगृहीतश्च स्कन्दो देवेन शम्भुना ।
प्रणम्य हृष्टः प्रययौ स्वार्थाय मुनिभिस्सह ॥
सोथाब्रवीन्मुनिभ्यस्तन्माहात्म्यं सर्वगुह्यवित् ।
सह्यात्प्रभृति तीर्थानि यावत्सागरसङ्गमम् ॥
तानि वक्ष्याम्यहं वोऽद्य शृणुध्वं मुनिसत्तमाः ।
तीर्थानि सर्वगुह्यानि स्कन्दं नत्वा जगद्गुरुम् ॥
यश्चेमं सम्भवं देव्या कृष्णेनानयनं महत् ।
यः पठेदिह पूतात्मा स याति परमं पदम् ॥
श्रीकृष्णवेण्यागमनं मुनीड्यं साक्षाच्छिवोक्तं परमं पवित्रम् ।
शृण्वन्नवाप्नोति सुदीर्घमायुरारोग्यमैश्वर्यमतोऽपि मुक्तिम् ॥
इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये श्रीकृष्णागमनं
नाम तृतीयोध्यायः ॥
नारद उवाच ।
तीर्थानि कृष्णवेण्यां तु यान्यनन्तानि द्विजोत्तम ।
प्राधान्याद्धि प्रवक्ष्यामि गुह्याद्गुह्यतमानि वः ।
सह्याद्रेरुत्तरं शृङ्गं स च ब्रह्मगिरिः स्मृतः ॥
यत्र ब्रह्मा तपः कृत्वा प्रापद्राज्यपदं हरेः ॥
तस्माद्दक्षिणतो विप्रा रम्यो वेदगिरिः स्मृतः ।
यत्र वेदास्सहाङ्गैश्च मूर्तिमन्तस्सहासते ।
तयोर्मध्ये महातीर्थपुण्यं मामकं स्मृतम् ।
यत्रामलकवृक्षस्य पुण्यैरेव प्रदृश्यते ।
तस्य मूलात्समुद्भूता वेणीनाम महानदी ।
यस्मिन् प्रदेशेवाश्वत्थमूलात्कृष्णासमुद्गता ।
तत्रादौ विष्णुतीर्थं तत्पापिनामतिदुर्लभम् ।
तत्र स्नात्वा सकृन्मर्त्यस्सारूप्यं लभते हरेः ।
अमावास्या गुरोर्वारे तत्स्नानं मुक्तिसाधनम् ।
दृष्ट्वापि सकृन्मर्त्यः कृतकृत्यो न संशयः ।
ततः क्रमाद्रुद्रतीर्थं ब्रह्मतीर्थं च दुर्लभम् ।
तत्रस्नात्वा वसेत्कल्पं पदे रुद्रविरिञ्चयोः ।
ततश्चयोगो वेण्याश्च सर्वसिद्धिकरो नृणाम् ।
येनेयं सर्वलोकेषु कृष्णवेणीति गीयते ।
कृष्णाज्ञया जगच्छान्त्यै ब्रह्मणा निर्मिता शुभा ।
वेणी च कृष्णया युक्ता महतीं ख्यातिमागताः ॥
ततः ककुद्मिनी सङ्गे कृत्वास्मिन् वारुणं जपम् ।
गायत्र्यष्टशतं वापि मुच्यते सर्वपातकैः ।
शिलीदूतं महाकायं राक्षसं दुष्टचेष्टिम् ।
तीर्थधाराभिरुग्राभिः कलिना प्रेषितं द्विजाः ॥
यत्र निर्जरतां यातं तत्र तीर्थं महाफलम् ।
विहङ्गं नाम लोकेस्मिन् तीर्थानामुत्तमोत्तमम् ॥
यत्र तार्क्ष्यस्तपस्तप्त्वा लेभे सर्वमनोरथान् ।
तत्तीर्थं शम्भुसान्निध्यात्पवित्रं पापनाशनम् ॥
यत्र जातिस्मरस्स्नात्वा विहगस्सर्वमाप्तवान् ।
यत्रास्ते शङ्करस्साक्षात्स्वयम्भूर्हितकाम्यया ॥
कृष्णायां यत्र सम्भूतो भैरवो भीमरूपधृत् ।
तत्क्षेत्रपतिसान्निध्यात्सिद्धक्षेत्रमुदाहृतम् ॥
तत्रस्नात्वा तु यः पश्येन्मौनीक्षेत्राधिसंहरम् ।
सर्वपापविनिर्मुक्तः प्राप्नोति परमं पदम् ॥
मलापहारतोयाख्या कृष्णा पीतेन चाम्भसा ।
यत्र नागेश्वरो देवस्सम्भूतो भक्तवत्सलः ॥
तं देवं वासुकिस्साक्षात्सर्वदैवानुतिष्ठति ।
सुधियां नष्टपापानां सनागस्त्वक्षिगोचरः ॥
तत्र तच्च महास्थानं सर्वसिद्धिकरं नृणाम् ।
कुम्भेश्वरं तथोदीच्यां स्नात्वा देवं समर्चयेत् ।
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ॥
ततः पौलस्त्यतीर्थं च पौलस्त्येशस्तथा हरः ।
तत्र स्नात्वा तमर्भ्यच्य सर्वान्कामानुवाप्नुयात् ॥
मार्कण्डेयस्ततः प्राच्यां तपः कुर्वन् महामतिः ।
आरिराधयिषुः देवीं तुष्टाव परया गिरा ॥
मार्कण्डेय उवाच ।
प्रणतोऽस्मि जगन्मातर्जगच्छान्त्यै भुवं गताम् ।
तपसा ब्रह्मणा लक्ष्मी कृष्णानीतां हरेस्तनु ॥
लसत्तरङ्गमालाभिस्स्वर्गसोपानपङ्क्तिवत् ।
या भाति वितता भूमौ भाति हुङ्कुर्वती वया ॥
रोषाज्जगदघौघानां तज्जनाय जगद्गृहाम् ।
आवर्तनाभिः पद्माक्षी शुभ्राङ्गी फेनहारिणी ॥
ब्रह्मप्रिया ज्ञानकरी साक्षाद्भाति सरस्वती ।
अलङ्कृतिः प्रिया विष्णोः जगद्धात्री धृताम्बुजा ।
चकास्ति या स्वयं लक्ष्मीः जगद्दुर्गतिनाशिनी ॥
बहुधा शम्भुसान्निध्यात्सदा दर्शितगौरवा ।
सौभाग्यदायिनी गौरी या भाति जगदम्बिका ॥
लसत्पत्रिकलालापैर्जनानाह्वयतीव या ।
मा भैष्ट मामाश्रयत ददामीष्टान्वरानहम् ॥
तटवृक्षपरिभ्रष्टनानापुष्पफलान्विता ।
या भाति कल्पवल्लीव सर्वाभीष्टप्रदां नृणाम् ॥
महात्मनां या शरणं पापिनामपि सर्वदा ।
विचित्रगुणमाहात्म्यां तां नतोऽस्मि गरीयसीम् ॥
त्यक्त्वा यस्स्वमयो याति रसस्पर्शात्सुवर्णताम् ।
एवं कृष्णाजलस्पर्शात्पापं सद्योऽपि पुण्यताम् ॥
येयं दक्षिणगङ्गेति गीयते देवकिन्नरैः ।
येयं दक्षिणतो गङ्गा सा देवी मे प्रसीदतु ॥
एवं संस्तूयमाना सा निर्गत्य जलमध्यतः ।
प्रसन्ना मुनिवर्यं तं वरदास्मीत्यभाषत ॥
सोऽपि मौनी प्रहृष्टात्मा प्राञ्जलिः परमेश्वरीम् ।
प्राह धन्योस्म्यहं देवि त्वां दृष्ट्वा भगवत्तनुम् ॥
दीर्घमायुर्मया लब्धं विष्णुमाराध्य वै पुरा ।
विना च भगवद्भक्त्या तद्व्यर्थमिति मे मतिः ॥
तस्मादात्मनि शिवे गोविन्दे च जगन्मये ।
त्वयि प्रकृतिमय्यां च भक्तिस्स्यात्सार्वकालिकी ॥
एवमस्तु मुनिश्रेष्ठयश्चस्तोष्येत्सदैव माम् ।
स्नात्वा सोऽपि च दीर्घायुर्भक्तिरस्मासु स्याद्दृढा ॥
नारद उवाच ।
इत्युक्त्वान्तर्हिता देवी मुनिश्चात्रावसच्चिरम् ।
मार्कण्डेयार्चितं तीर्थं तेनैतत्परमं भुवि ॥
मार्कण्डेयाभिधश्चेशस्तत्रसर्ववरप्रदः ।
तत्र स्नात्वा तमभ्यर्च्य मुक्तिमाप्नोति मानवः ॥
इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये आनन्दादितीर्थमहिमानाम
चतुर्थोध्यायः ॥
नारद उवाच ।
ततः परं विशालादिनदीपञ्चकमागतम् ।
कृष्णां द्रष्टुं ततो देवीं देवाश्च भुवमागताः ॥
देशस्यातीव रम्यत्वाद्देवाः तत्रैव तेऽवसन् ।
पुण्यं पवित्रमायुष्यं आरोग्यादिप्रदं शुभम् ।
तत्स्नानं कीर्तिमज्ज्ज्ञातं सर्वदेवनिवासतः ॥
तत्रस्थं शङ्करः प्राचीं देवासुरमुनिस्तुतः ।
निवसन् तत्रवैक्लेशात्सर्वस्मान्मुच्यतेजनः ।
॥ कुब्जेश्ववरादितीर्थवर्णनम् ॥
कुब्जेश्वरं यदा ज्ञातं सर्वकामफलप्रदम् ।
तत्र तीरे नरस्स्नात्वा दृष्ट्वा कुब्जेश्वरं हरम् ॥
मुच्यते सर्वपापेभ्यः शर्वलोकं सगच्छति ।
महातीर्थं ततःपूर्वं बाहुमात्रप्रमाणतः ।
शुक्लीभवन्ति विन्यस्ता यत्र कृष्णास्तिलाक्षताः ॥
तत्र स्नात्वा तु यन्मौनी नदीमध्ये सुधीर्नरः ।
देवान् पश्यत्यसौ सर्वान्प्रत्येकं दिव्यचक्षुषा ॥
महत्क्षेत्रं नदीसङ्गः तत्र स्नानं महाफलम् ।
मासं स्नात्वा तु तत्तीर्थे ब्रह्महत्यां व्यपोहति ॥
ततोघहारी सङ्गस्स्यात्सर्वजन्माघनाशनम् ।
प्रायश्चित्तार्थिनां तद्धि परमं शरणं विदुः ॥
तत्र सङ्गे द्विस्स्नात्वा गायत्रीं लक्षसङ्ख्यया ।
जपन् कामानवाप्नोति मुक्तिं चाथ न संशयः ॥
सप्तसागरसङ्गस्तु ततस्तीर्थं सुदुर्लभम् ।
यत्र देवीं स्वयं द्रष्टुमागतास्सप्तसागराः ॥
समस्तसागरस्नानफलं तत्स्नानतो भवेत् ।
तत्रैवपर्वणि स्नात्वा प्राप्नोति परमं पदम् ॥
अपवर्गफलं तेस्युर्वर्जयित्वेतरार्थिताम् ।
वीतरागोनिराहारस्तपस्तेपेत्र कौशिकः ।
कौशिकी यत्र संयुक्तो कृष्णया सरिदुत्तमा ॥
तत्स्नानं कौशिकं ज्ञेयमचिरान्मुक्तिसाधनम् ।
या गतिर्योगयुक्तानां मुनीनामूर्ध्वरेतसाम् ।
सा गतिस्सर्वजन्तूनां कृष्णातीरनिवासिनाम् ॥
या गतिर्यागयुक्तस्य वाराणस्यां मृतस्य च ।
सा गतिस्स्नानमात्रेण कृष्णायां हरिवासरे ॥
कृष्णातरङ्गसम्भूतपवनस्पर्शमात्रतः ।
निर्धूतपातकास्सर्वे जना विष्णुपदं ययुः ॥
ततस्सप्तकुलोद्धारं प्राह स्कन्दो महामतिः ।
तत्र स्नात्वा तमभ्यर्च्य नदीमध्यगतं हरम् ॥
तारयेत्सप्त वै पूर्वान् तारयेत्सप्त चापरान् ।
ततस्सप्तकुलोद्धारं तीर्थमेतत्प्रचक्षते ।
शौनकस्य मखं यत्र प्राप्ता विग्रहिणस्सुराः ।
कुलमुद्धार्यते यत्र तत्तीर्थं कुलतारकम् ।
तत्र स्नात्वा स्वयम्भूतं शम्भुभूमिविधारकम् ॥
अर्चयित्वा समाप्नोति गतिमत्यन्तदुर्लभाम् ।
ततश्च भारतं तीर्थं चक्रे यत्र मखं द्विजाः ॥
दौष्यन्तिर्भरतस्तत्र स्नानाल्लक्ष्मीप्रवर्धनम् ।
ततःपूर्वमुखे तस्य स्थानं मुनिगणैर्वृतम् ॥
यैरदृष्टा पुनः कृष्णा तस्थौ तद्गतगौः क्षणम् ।
ततस्ते मुनयो द्रष्टुं जगन्मायाम् उपागताः ।
मधुवृक्षवितानानि गृहीत्वार्चयितुं ययुः ॥
तेऽन्योन्यमूचुः प्रत्यक्षमदृष्ट्वास्यास्तनुं शुभाम् ।
पूजयामः कथं देवीमिति तां तुष्टुवुर्मुदा ॥
ऋषय ऊचुः ।
त्वं भक्तवत्सलेत्येवं सर्वलोकेषु गीयसे ।
भक्त्यासमुपयातानां व्रजनो दृष्टिगोचरम् ॥
ससम्भ्रमागताह्यत्र यत्तिष्ठस्याश्रमान्तिके ।
तद्विजाश्रमरक्षार्थमहोब्रह्मण्यता तव ॥
जगद्धितामृतमयी साक्षाद्रत्नाम्बुमय्यसि ।
अपि चामरतां यान्ति मर्त्यास्त्वत्सेवकास्ततः ॥
सुरेभ्यः कलशेनैवमितं धातामृतं ददौ ।
मर्त्येभ्यस्त्वति कारुण्यात्त्वं महामृतवाहिनी ॥
धर्मार्थिनां मुमुक्षूणां अर्थकामावपीच्छताम् ।
सुखोपायपदं त्वं हि सर्वे तेनैव कल्पिताः ॥
शरणं सर्ववर्णानां समस्ताश्रमिणामपि ।
सर्वजीवशरण्यां त्वां केमर्त्यानोपयान्त्यहो ॥
हंसा न केवलममी जलकाङ्क्षिण
स्त्वामायान्ति दूरगहनाद्भुवि तोयकामाः ।
आयान्त्यहो परमहंस वराश्चदेवि
त्यक्तस्पृहाः अपि सुखादिषु मोक्षकामाः ॥
जन्तूनामखिलाघघ्नी प्रयाणं तु पदे पदे ।
ज्योतिष्टोमफलं दद्याद्यतस्वां नोपयान्त्यहो ॥
यद्यप्येकदिने सम्यक्त्वत्तीरेनुष्ठितं जनैः ।
स्वकर्मभक्त्यासततमच्छिद्रं तैः कृतं भवेत् ॥
ब्रह्मवर्चसकामास्त्वामर्थविद्यार्थिनस्तथा ।
आयान्ति विप्राभूपाश्च तेजोराज्यजयार्थिनः ॥
धनधान्यार्थिनो वैश्या अन्येचोच्चावचा जनाः ।
स्वर्गकामाखिलाद्यर्थं कृतार्थास्त्वां व्रजन्ति तत् ॥
देवदैत्याप्सरस्सिद्धा नागगन्धर्वकिन्नराः ।
स्वस्वकामार्थमायान्ति त्वामेवजननीमिव ॥
त्वन्मूर्तिर्धवलादीर्घाकुटिलाभाति दूरतः ।
आगतस्यभुवन्द्रष्टुं शेषस्येवाकृतिश्शुभा ॥
यस्यास्तु माहात्म्यमहो शिवोऽपि न सर्वमेतावदिति ब्रवीति ।
सङ्क्षिप्तमेवेत्यवदद्गुहाय तां त्वां नमो देवि कथं मनुष्याः ॥
एवं सदानन्दगुणां वरेण्यामनन्तमूर्तिं शरणं गता स्मः ।
गृहाणपूजां स्वतनुं प्रसन्नां प्रदर्शयोर्व्याङ्कुरु नः कृतार्थान् ॥
नारद उवाच ।
एवं संस्तूयमानासा जलमध्यात्समुद्गता ।
प्रसन्नमूर्तिर्दिव्याङ्गी द्योतयन्ती दिशो दश ॥
शङ्खचक्रगदापद्मधारिणीं परमेश्वरीम् ।
दृष्ट्वा जयजयैत्युच्चैस्तुवन्तः प्रणता मुहुः ॥
ततस्तैरर्पितां पूजां गृहीत्वा प्रणया ।
च्छुभां दिष्टमिष्टं वरं तेषां ददौ देवी पृथक्पृथक् ॥
सबालवृद्धस्त्रीकैस्तैरदृष्टार्धिभिराश्रये चिरम् ।
नानावरान् दत्वा ययौ प्रीत्या प्रसादिता ॥
ततस्तन्मध्यतः कृत्वा द्विधा याता महानदी ।
संयुक्ता पावनीयस्मादाश्रमस्थैस्तथास्थितम् ॥
मध्वादिवस्तुभिर्यस्मात्पूजितातैर्महानदी ।
तस्मान्मधुपुरं नाम तत्तीर्थं परमं विदुः ॥
तत्र तीर्थे नरास्स्नात्वा यज्ञानां तपसः फलम् ।
सर्वेषां प्राप्नुयुस्सद्यो देवी चास्य वरप्रदा ॥
तयोः प्रवाहयोस्सङ्गः तीर्थमुत्तरतश्शुभम् ।
देवह्रदं नाम यत्र जलक्रीडारतास्सुराः ॥
मासं तु नियतस्तत्र वसन् पश्येत्सुराङ्गनाः ।
ताभिः क्रीडति कामी चेदकामो मुक्तिमाप्नुयात् ॥
कङ्को नाम मुनिस्तत्र गायत्र्यैवार्चयन् हरिम् ।
सिद्धिं सम्प्राप्तवांस्तेन कङ्कतीर्थमुदाहृतम् ॥
तत्राश्चर्यं क्षणं वृद्धाः पूर्वं ते मुच्यते पुनः ।
योगाभ्यासपरा तस्थुः तत्स्थानं योगसिद्धिदम् ॥
शूर्पारकाख्यं तत्रैव सर्वतीर्थोत्तमोत्तमम् ।
तत्राद्यापि जगन्नाथः प्रातर्वसति भार्गव ॥
अस्यामाहात्म्यमतुलं वक्तुं वर्षशतैरपि ।
न शक्यं तद्धि परमं गुह्यं प्राक्सर्वसिद्धिदम् ॥
जम्बूतीर्थं ततः पूर्वं सिद्धिं यत्र स जाम्बवान् ।
जम्बूवृक्षकदम्बस्तु जम्बूस्थानं समुच्यते ॥
जम्बूतीर्थे बुधस्स्नात्वा दृष्ट्वा तत्र च शङ्करम् ।
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥
ततश्च शतलिङ्गस्य सङ्गमो मुक्तिदः स्मृतः ।
क्रौञ्चतीर्थं ततो यत्र सिद्धिं क्रौञ्चमुनिर्ययौ ॥
यज्ञवाटं ततःपूर्वं विदुरस्य महात्मनः ।
तत्र स्नात्वा नरो भक्त्या ह्यश्वमेधफलं लभेत् ॥
ततश्च षण्मुखस्साक्षात्कृष्णां द्रष्टुमुपाययौ ।
गौरी पश्चाद्ययौ तत्र पुत्रसन्दर्शनार्थिनी ॥
स्वयम्भूश्शङ्करश्चापि तत्र सन्निहितस्तदा ।
विनायकश्चतत्स्नेहात्समायातो गणैस्सह ॥
तत्रैव सन्निधिं चक्रुस्सर्वे ते स्थानगौरवात् ॥
तत्तीर्थं सर्वपापघ्नं सर्वसिद्धिप्रदं तथा ।
कुमारस्य प्रियं स्थानं सदा सर्वगतस्य च ॥
पापान्यत्राशु नश्यन्ति महापातकजान्यपि ।
इन्द्रत्वाद्याश्च सिद्ध्यन्ति कामान्मुक्तिश्चसत्तमाः ॥
तत्रस्नात्वार्चयेच्छम्भुं देवं स्कन्दं गणेश्वरम् ।
सर्वपापविनिर्मुक्तो गणैश्वर्यं प्रपद्यते ॥
तत्र कार्तीकमासे तु वसन्मुक्तिमवाप्नुयात् ।
माघे तु शिवसायुज्यं स्नात्वा प्रागुदयाद्रवेः ॥
कार्तिक्यां कृत्तिकायोगे यः कुर्यात्स्वामिदर्शनम् ।
सप्तजन्मभवेद्विप्रो धनाढ्यो वेदपारगः ॥
सकृद्यद्वा कदाचिद्वा स्नात्वा तं प्रणमेन्महान् ।
ब्राह्मणो जायते न्यस्मिन् जन्मन्यघयुतोऽपि सन् ॥
जपस्तपस्तथा दानं होमश्चाथ तिलोदकम् ।
तत्राक्षयफलं विप्रास्तत्तीर्थं ह्युत्तमं भुवि ॥
आदित्यहृदयं नाम तीर्थं गुह्यतमं ततः ।
तत्र स्नात्वा समभ्यर्च्य नदीमध्यगतं रविम् ॥
सर्वपापविशुद्धात्मा भित्वा चण्डांशुमण्डलम् ।
प्रयाति परमं स्थानं यद्गत्वा न निवर्तते ॥
अष्टकायास्ततस्सङ्गं सर्वपापहरं शुभम् ।
स्वयम्भूश्शङ्करस्तत्रसर्वधा भक्तवत्सलः ॥
वाल्मीकं तु ततः पूर्वं यत्रास्ते तपसा पुरा ।
विष्णुमाराध्यन्नचिराल्लेभेऽभीष्टान् परान्वरान् ॥
सर्वज्ञत्वं कवित्वं च मुक्तिं चान्ते मुनीश्वराः ।
तत्र स्नात्वा नरो भक्त्या प्रज्ञां मेधां विदन्ति च ॥
पुरतस्तस्य वै तीर्थं सिद्धिह्रदमुदाहृतम् ।
यत्र सीतां सुतां लेभे लक्ष्मीमाराध्य मैथिलः ॥
तत्र स्नात्वा नरो भक्त्या नारी वायतमानसा ।
सौभाग्यं परमं लब्ध्वा प्राप्नोति परमां श्रियम् ॥
मुद्गलस्य ततस्तीर्थं पुण्यं स्कन्देन कीर्तितम् ।
तत्र स्नात्वा नरो भक्त्या पूतस्स्वमर्गवाप्नुयात् ॥
ततस्स्कन्दपुरं नाम तीर्थस्नानं महाफलम् ।
शिलायां दृश्यते यत्र पुण्यं रुद्रपदद्वयम् ॥
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ।
कुमारालयमारभ्य यावदेतद्विजोत्तमाः ॥
पृथुनामानि तीर्थानां पुण्यानां सन्ति कोटयः ।
तीरद्वये तथा मध्ये यत्र तत्र पदे पदे ॥
यत्स्पर्शपुण्योहरहः प्रवृद्धं पापं जनानां विधुनोति वायुः ।
ध्वान्तं यथार्को दयतां विवृद्धं सविस्तराद्वर्णयितुं क ईशः ॥
यदम्बुपानमधिकं सोमपानाद्विजन्मनाम् ।
यत्तीरे वसनं मुक्त्यै कृष्णवेणीं नतोऽस्मि ताम् ॥
इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये कृष्णानद्युभयतटतीर्थ-
वर्णनं नाम पञ्चमोध्यायः ॥
त्रयोदशतीर्थप्रवचनघट्टः ।
नारद उवाच ।
त्रयोदशास्या तीर्थानि कृष्णाया दक्षिणे तटे ।
त्रियोजनान्तरस्थानि दुर्लभान्यमहात्मनाम् ॥
तेषामपि महातीर्थं सङ्गमाख्यं विराजते ।
व्यक्तामुक्तावली मध्ये माणिक्यमिव भासुरम् ॥
तीर्थस्य शतं पश्चात्पुरस्ताच्चद्विजोत्तमाः ।
येषां प्रभावमतुलं रहसि प्राह षण्मुखः ॥
यस्त्रयोदशतीर्थेषु स्नायादघयुतो जनः ।
स्वयमिच्छन्ति तं स्वच्छं धर्मकामार्थसम्पदः ॥
यस्त्रयोदशतीर्थेषु त्रयोदशजलाञ्जलीन् ।
दद्यात्पितृभ्यस्तेनेष्टास्ते युगानि त्रयोदश ॥
येषां माहात्म्यमाश्चर्यं शंसन्ति त्रिदशा दिवि ।
पितृलोके च पितरश्श्रुतमात्राघनाशनम् ॥
देवाद्याः प्रायशोत्रैव स्नानदानजपादिभिः ।
लब्धवन्तो निजान् लोकान् यथान्ते दिवि कारणम् ॥
तत्स्नानमानुलोम्येन पावनं सर्वकामदम् ।
अप्येतत्प्रातिलोम्येन जीवन्मुक्तिप्रदं शुभम् ॥
गोपादतीर्थमारभ्य तत्र तत्रार्चयन् पितॄन् ।
कर्मक्षयार्थं तीर्थेषु स्नात्वा धन्यतरो भवेत् ॥
विप्रव्याधवृन्तान्तकथनम् ।
तत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पुराभूत्सुमतिर्नाम सालग्रामे द्विजोत्तमः ॥
तत्सुतं सूतिकादोषाज्जातमात्रं जहार ह ।
निशाचर्यतरं प्राप्य मायया बालहारिका ॥
सा यान्ति विपिने रात्रौ भीता दृष्ट्वा तपोधनम् ।
मन्त्रिणं भस्मदिग्धाङ्गं तत्रोत्सृज्य शिशुं ययौ ॥
अथ तं देशमायातो दुर्मुखोनाम लुब्धकः ।
दृष्ट्वा बालकमादाय हठान्निन्ये स्वकं गृहम् ॥
कालेन ववृधे बालो बालकैरभिरक्षितः ।
तत्स्वभावस्तदाचारोऽभीरान् सोजनयत्सुतान् ।
अज्ञातात्मस्थितिस्सोथ कदाचिन्मृगयां चरन् ॥
दष्ट्वा चोरैर्वध्यमानं कृपया मोचयद्विजम् ।
रक्षितस्तेन विप्रर्षिः कण्वाख्यो नाम सोब्रवीत् ।
कोस्यप्रत्युपकारस्स्यादिति दध्यौ क्षणं सुधीः ॥
विप्रव्याधस्य वृत्तान्तं विदित्वा सोऽतिविस्मितः ।
त्यज भावमिमं शीघ्रं हतस्स्वामौघविच्युतिः ।
उक्त्वेतिपूर्वस्मरणं ददौ ज्ञानं सदात्मनः ।
ज्ञात्वा सोऽखिलवृत्तान्तं सहसा व्याकुलोभवत् ।
साश्रुभिः प्लावितो भीतस्तं प्रणम्याह भीतवत् ।
स्वामिन् कथय कारुण्यात्का मे स्यादिह निष्कृतिः ।
कण्व उवाच ॥
हे व्याधपुत्र सन्त्येते प्रायश्चित्तं न च क्षमम् ।
तस्मात्त्वं तीर्थचरणो भव निर्याहि मा चिरम् ॥
यदलभ्यं मखैर्दानैस्तपस्वाध्याय संयमैः ।
तल्लभ्यं हि क्षणात्तीर्थैरचिन्त्य महिमान्वितैः ॥
तत्राप्यतिरहस्यानि वक्ष्ये तीर्थानि यैर्भवान् ।
सद्य एव दिवं पूतस्सशरीरो गमिष्यसि ॥
अस्ति दक्षिणदिग्भागे कृष्णाख्या सह्यजा नदी ।
तस्या मलापहारिण्या सङ्गस्त्रैलोक्यविश्रुतः ।
तस्मिन् प्रदेशे तीर्थानि सुपुण्यानि त्रयोदश ॥
तत्सङ्गात्परतः क्रोशे प्राक्क्रोशे सन्ति तत्र वा ।
तेषु स्नात्वानुलोम्येन मोक्ष्यसे सर्वकिल्बिषैः ॥
प्रातिलोम्येन ब्रह्मैव जीवन्मुक्तोभविष्यसि ।
इत्युक्त्वानुग्रहं तस्मिन् कृत्वा द्रुतगतिं मुनिः ।
एकाहेनैव तत्स्नानं सिद्ध्येदिति यथोदितम् ।
मुनिं व्याधोथ तं नत्वा तत्प्रसादबलाद्दृतम् ।
कृष्णां प्राप्यातिदूरस्थां स तु तीर्थेषु तेषु च ॥
क्रमात्स्नात्वानुलोम्येन प्रातिलोम्यमगात्पुनः ।
शुक्लतीर्थे ततस्स्नात्वा वीतपापस्समाहितः ॥
विप्रव्याधोऽपि पूतात्मा सशरीरो दिवं ययौ ।
विमानेनार्कवर्णेन सुरस्थितैश्च सत्कृतः ॥
अतीत्य ब्रह्मणो लोकं विष्णुलोकमितो गतः ।
तच्छ्रुत्वा तीर्थमाहात्म्यं सिद्धगन्धर्वचारणाः ॥
विस्मयं परमं प्रापुः प्रशशंसुर्महानदीम् ।
नैतच्चित्रमिति प्रोचुस्तत्वज्ञास्तु महर्षयः ॥
कृष्णं च कृष्णवेणीं च श्रितानां किन्नु दुर्लभम् ।
श्रीवेणीप्लवनाय भूमौ वाञ्छन्ति देवाः खलु मर्त्यजन्म ।
तस्याः प्रभावं सकलं प्रवक्तुं शिवो हरिर्वादिभवो गुहो वा ॥
इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये विप्रव्याधवृत्तान्तो
नाम षष्ठोध्यायः ॥
गोपादतीर्थ माहात्म्यम्
ऋषय ऊचुः ।
अहोमाहात्म्यमेतेषां तीर्थानां विस्मयावहम् ।
स्वामिन् कथय नामानि तत्प्रभावं क्रमाद्वद ॥
नारद उवाच ।
पश्चिमे प्रथमं तीर्थं गोपादमिति विश्रुतम् ।
तत्सहस्रविस्तारबहुगोपादचिह्नितम् ॥
मर्यादार्थं च तस्य प्राग्गोपादान्ते शिवस्स्थितः ।
लिङ्गभूतः स्वयम्भूतो गोपादेशोम्बिकासुहृत् ।
सुरभिस्सा जगन्माता समभ्यर्च्य च शङ्करम् ।
गवामैश्वर्यमासाद्य तीर्थस्यापि ददौ वरान् ।
कामधेनुरुवाच ।
योत्र स्नात्वा नदीमध्ये गोपादेशं स्पृशेन्नरः ।
गोवधान्मुच्यते घोरादुपवासात्त्रिभिर्दिनैः ॥
लोकानां मातरो गावस्तासां द्रोहं चरन्ति ये ।
न तेषां निष्कृतिः काचिद्विना गोपादसेवनात् ॥
ताडयन्ति शपं त्वेताः क्लेशयन्त्यतिकर्मणा ।
निरुद्ध्यन्ति भवेत्तेषामत्र स्नानं विशोधनम् ॥
योत्र स्नात्वार्चयेल्लिङ्गं मासमेकं जितेन्द्रियः ।
इहैश्वर्यं समायाति प्रेत्य गोलोकमश्नुते ॥
स्वपितृभ्यस्तु यो दद्यात्तिलमिश्रान् जलाञ्जलीन् ।
कामधेनुर्दुहेत्तांस्तु तेषामाशाप्रपूरणी ॥
नारद उवाच ।
इति दत्वा वरान् देवी बहून् स्वं गोकुलम् ।
ययौ पर्वस्वद्यापि चायाति तेनेदं गोपदाङ्कितम् ॥
तत्र तावन्महाभक्त्या स्नात्वाभ्यर्च्य पित्रून् सुरान् ।
शिवं ततो नमस्कुर्यादेभ्यो मन्त्रमिमं जपेत् ॥
नमो गोभ्यः श्रीमतीभ्यस्सैरभेयीभ्य एव च ।
नमो ब्रह्मप्रसूताभ्यः पुत्रीभ्योऽपि नमो नमः ॥
एवं कृत्वा सकृन्मर्त्यः पूतो ब्रह्मपदं ययौ ।
शृत्वैतद्दूरसंस्थोऽपि गोप्रदानफलं लभेत् ॥
शृणुयात्तच्चमाहात्म्यं तद्गृहे सम्पदस्सदा ।
न क्षीयन्ते च चत्वारि क्षीरं दधि घृतं मधु ॥
इति श्री स्कान्दपुराणे कृष्णवेणीमाहात्म्ये गोपादतीर्थ वैभवं
नाम सप्तमोऽध्यायः ॥
अनन्ततीर्थ माहात्म्यम्
नारद उवाच ।
तस्मात्पूर्वमनन्ताख्यं पञ्चाशद्धनुरायुतम् ।
तीर्थं यावत्सरिन्मध्येलिङ्गं शेषफणान्वितम् ॥
तत्रानन्तस्तपस्तेपे काद्रवेयो महामतिः ।
उरगो गरुडाद्भीतो हरेहरहरेति च ॥
अथ कालेन सुप्रीतौ यश्शौरिर्जगताम्पतिः ।
समागम्याभयं दत्वा तं चक्राते महामतिम् ॥
शय्याभव ममेत्युक्त्वा विष्णुस्तस्य फणे स्थितः ।
उपाविशत्सुखं तस्मिन् दयया सह शम्भुना ॥
प्रसन्नप्रभुसंस्पर्शात्सोऽपि नष्टतपःश्रमः ।
जहर्ष धन्यतां यामि प्रसीद इति चाब्रवीत् ॥
तावद्ब्रह्मादयो देवा वेदास्तीर्थानि चर्षयः ।
समेत्य तुष्टुवुस्सर्वे हर्षाद्देवं फणस्थितम् ॥
फणिशय्यासमारूढं लक्ष्मीशं सह शम्भुना ।
चक्रुर्महोत्सवं सिद्धागन्धर्वाः पुष्पवर्षिणः ॥
ततोनन्तो वरान् वव्रे देवं देवौघसन्निधौ ।
मन्नाम्नेदं भवेत्तीर्थमनन्तं सर्वकामदम् ॥
तीर्थानि चामराणां च देवानां च तथैव हि ।
योगिनां चापि कलयो मम चास्त्वत्र सन्निधौ ॥
श्रीविष्णुरुवाच ।
अनन्ततीर्थमित्येतत्कीर्त्यं नाम भविष्यति ।
स्नानदानजपादीनामनन्तफलदं सदा ॥
अनन्तस्त्वमनन्तोहमनन्तोयं सदाशिवः ।
तीर्थानि देवा वेदाश्च सर्वेनन्ताः स्थिता इह ॥
श्रीमहादेव उवाच ।
योत्र स्नात्वा फणस्थानं समधीते स्तुतिं गवाम् ।
अर्चयेद्गणपो भूत्वा स मया सह मोदते ॥
ब्रह्मादिदेवाः
अस्माकं सन्निधिश्चास्तु सन्निधौ देवदेवयोः ।
प्रियाय नागराजस्य योभूच्छय्या जगत्पतेः ॥
नारद उवाच ।
इत्थं सम्भाष्य ते सर्वे तत्रैवान्तर्दधुस्तदा ।
सदा सन्निहिताश्चात्र तेनेदं तीर्थमुत्तमम् ॥
तदाप्रभृति लोकानां ज्ञापनार्थं जलान्तिके ।
अद्यापि दृश्यते लिङ्गं फणे हरिहरात्मकम् ॥
पञ्चान्यानि च लिङ्गानि सिद्धवन्द्यानि सन्ति हि ।
तत्र पुण्यानि दृश्यानि शिलानामन्तरान्तरे ॥
तत्र स्नानं च दानं च तपश्श्राद्धं तिलोदकम् ।
अनन्तगुणतां याति सदानन्तप्रसादतः ।
तस्मात्स्नात्वातिनियतो लिङ्गं हरिहरात्मकम् ॥
शेषं च भक्त्या सम्पूज्य प्रणमेद्यदि वै जपन् ।
योनन्तो धरणीं धत्ते योनन्तस्य फणे स्थितः ॥
येनन्तस्थाश्च विश्वांस्त्रीननन्तान् प्रणतोऽस्मि तान् ।
एवं कृत्वा सकृद्वापि शिवलोके महीयते ।
पञ्चम्यां कुर्वतश्चैव नास्ति सर्पभयं क्वचित् ॥
क्षीरेण स्नपयेद्देवं पञ्चमीषु च पञ्चसु ।
यत्काम्यते तदाप्नोति निष्कामः परमं पदम् ॥
आश्लेषा सु चतुर्दश्यां पञ्चम्येकादशीषु च ।
अष्टम्यां चैव यः स्नायान्नास्ति तस्येह दुर्लभम् ॥
योनन्ततीर्थस्य शृणोति दिव्यम् माहात्म्यमेतन्मुनिसङ्घगीतम् ।
स सर्वरोगादिभयव्यपेतः कुलाभिवृद्धिं लभते यशश्च ॥
इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये अनन्ततीर्थवर्णनं
नामाष्टमोध्यायः ॥
सूर्यतीर्थवर्णनम्
नारद उवाच ।
सूर्यतीर्थं ततः पूर्वमिति तीर्थविदो विदुः ।
धनुश्शतद्वयं यावत्सिद्धिदं सिद्धसेवितम् ।
तस्य पश्चिममर्यादां ज्ञापयन् लिङ्गरूपधृत् ।
सोमेश इति विख्यातो नदीमध्ये शिवस्थितः ॥
महर्षिर्नैधृवो नाम तत्र तप्त्वा महत्तपः ।
आराधयन् जगत्सूतिं सूर्यं तुष्टाव भक्तितः ॥
नैधृवः
नमस्सवित्रे व्यक्ताय मूर्तये परमात्मने ।
सन्ध्ययोः ध्यानगम्याय शुद्धभासायते नमः ।
छन्दोमयाय स्वच्छन्दचारिणे चारुरोचिषे ।
ब्रह्माण्डगृहदीपाय सदा सत्कर्मसाक्षिणे ।
चक्षुषां चक्षुषे नित्यं नमोऽप्रतिमतेजसे ॥
त्वमादाय रसं भूमेः काले विसृजसि प्रभो ।
ओषधीस्त्वं तु पुष्णासि ताः पुष्णन्त्यखिलं जगत् ।
न केवलं प्रपुष्णासि क्षीणं शशिनमागतम् ॥
करोषि सर्वतः पूर्णान् भक्तांश्चापि कृतानतीन् ।
त्वं पूरयसि मर्त्यानां जीवनार्थं जलाशयान् ॥
निजगोभिरमर्त्यानां चन्द्राख्यं चामृतन्ददत् ।
ग्रहनक्षत्रतारकाचक्रं त्वं पुष्णास्यक्षरैश्शुभैः ॥
मालाकार इवाम्लानं पुष्पराशिमनुक्षणम् ।
त्वन्नामविभवज्ञानामज्ञानं तिमिरं यथा ॥
यथाशोषयसि ग्रीष्मे तृणानि दुरितं तथा ।
त्वं जलाञ्जलिभिः पूज्यो नित्याभ्युदयशालिभिः ॥
त्वं भक्तान्त्सत्स्वभावेन करोषि करुणानिधे ।
ब्रह्मादिदेवास्सन्ध्यानु यत्कुर्वन्ति जलाञ्जलीन् ॥
युक्तं तन्नहि पूजादि तेषां त्वदुदयं विना ।
यथा प्रत्यक्षदेवस्त्वमागमैरैव बोध्यसे ॥
आयुरारोग्यलक्ष्म्यादिप्रत्यक्षफलदस्तथा ।
त्वमेव चक्षुश्चक्षुश्च तेजश्चाप्युपकारकः ॥
बोध्यं च परमात्मेति त्वन्मयं सकलं जगत् ।
प्रसीद सर्वभूतात्मन् कालात्मन् सर्वतोमुख ॥
जन्ममृत्युजराव्याधिसंसारभयनाशक ॥
नारद उवाच ।
एवं संस्तुवतस्तस्य भगवान् भक्तवत्सलः ।
दिव्याकृतिः पुरस्तस्थावागत्य निजमण्डलात् ॥
तं दृष्ट्वा सहसा देवं हृष्टमूर्तिश्च नैधृवः ।
पपात दण्डवद्भूमौ प्रसीदेति वदन्मुहुः ।
तमुत्थाप्याह देवेशो वरं वरय सुव्रत ।
प्रीतोऽस्मि भक्त्या तपसा स्तोत्रेण च महामते ॥
नैधृवः
तुष्टोऽसि यदि सर्वेश सर्वरोगहरो ह्यसि ।
ज्ञानभक्तिं च मे देहि भवरोगघ्नमौषधम् ।
श्रीसूर्यनारायणः
यदुक्तं तत्तथैवास्तु स्तोत्रेणानेन यो हि माम् ।
भक्त्या स्तोष्यति तस्यापि स एवास्तु नरः परः ॥
सूर्यतीर्थमिति ख्यातिमेतत्तीर्थं गमिष्यति ।
यत्र मद्रोचिषा ताम्रा दृश्यन्ते वीचयोखिलाः ॥
योऽत्र स्नात्वा समभ्यर्च्य सोमेशं मां च भक्तिमान् ।
नमस्कुर्याद्वरस्तस्मै सोस्तु यच्चान्यदीप्सितम् ॥
नारद उवाच ॥
अनुगृह्येति भगवान् तुष्टः तीर्थं च सर्वदम् ।
ययौ स्वमण्डलं देवः कृतार्थश्चाभवन्मुनिः ॥
तस्मात्सूर्यप्रसादेन तीर्थमेतद्धि मुक्तिदम् ।
सर्वकामप्रदं पुण्यं सदासेव्यं महर्षिभिः ॥
लक्षं चापि जपेद्योत्र गायत्रीं वेदमातरम् ।
त्वग्दोषादिमहारोगैर्मुच्यते नात्र संशयः ॥
इष्टमन्त्राश्च सिध्यन्ति तथा लक्षाच्च सुमन्त्रिताः ।
सौरमन्त्रास्तदर्धेन गुह्यमेतदुदाहृतम् ॥
पादं पादं सप्रणवं हंसमन्त्रं पठन् सुधीः ।
तस्मादर्धमथार्धं च सकलं च पुनः पुनः ॥
एवं सप्तार्घ्यदानेन सप्तजन्माघनाशनम् ।
पित्रून्नयेत्सूर्यलोकमात्मानं च न संशयः ॥
पिण्डांस्तिलोदकं चापि तत्र स्नात्वा ददेन्नरः ।
भानुवारेपि सङ्क्रान्तौ व्यतीपाते शशिक्षये ॥
योगे च षष्टिसप्तम्योस्सूर्यतीर्थे जपेदलम् ।
योजनो ज्ञायते पुण्यं सूर्यतीर्थं स्मरन् धिया ॥
इह भोगांश्च सुचिरं भुक्त्वा सूर्यपुरं व्रजेत् ॥
इति श्री स्कान्दपुराणे कृष्णवेणीमाहात्म्ये सूर्यतीर्थवर्णनं
नाम नवमोऽध्यायः ॥
नारद उवाच ।
तस्मादनन्तरं सप्तकोटितीर्थं प्रचक्षते ।
पवित्रं परमं यस्मिन् शिलासेतुः प्रदृश्यते ॥
तत्रैव कोटिशश्चैव तीर्थानीत्यकल्पयन् ।
तत्र माध्याह्निकं कर्म चक्रे लोकगुरुर्बहिः ॥
कुम्भेनोदकमादाय तस्मात्तीर्थात्तु माधवः ।
सङ्गमेस्थापयामास प्राह चैतन्महाफलम् ॥
लोकानां ज्ञापनार्थाय चिह्नं तत्र शिलातले ।
शङ्खचक्रे च लोकेशस्तत्तीर्थं ह्युत्तमोत्तमम् ॥
मलापहारिणीसङ्गमवैभवम्
तस्मात्पूर्वं महातीर्थं सङ्गमोलोकविश्रुतः ।
यावन्मलापहारिण्या सिद्धसेव्यं प्रदृश्यते ॥
तदेतत्परमं तीर्थं दुर्लभं पापकर्मणाम् ।
न मे प्रगल्भते वाणी तस्य माहात्म्यवर्णने ॥
क्रोशमात्रं तु विस्तीर्णं सङ्गमक्षेत्रमुत्तमम् ।
गोपादादीनि तीर्थानि तत्रैव निवसन्त्यतः ॥
प्रणवस्था यथा वेदाश्शिवस्थास्सर्वदेवताः ।
तथा सर्वाणि तीर्थानि सङ्गमस्थानि सुव्रताः ॥
सिद्धक्षेत्रं शिवक्षेत्रं तत्पुण्यं क्षेत्रमुच्यते ।
नियतोऽत्र वसन् पापैर्मुच्यते च स्मरन्नरः ॥
वाराणास्युत्तरेदेशे दक्षिणे सङ्गमस्तथा ।
अतस्ते हंसभावेन तीर्थानां सप्तकोटयः ॥
तदर्थं समनुप्राप्ताः ख्यातास्तत्रैव तद्गिरौ ।
तस्मात्पूर्वमिदं तीर्थं सेवितव्यं मनीषिभिः ॥
दानश्राद्धजपाद्यत्र सर्वं कोटिगुणं भवेत् ।
तस्मादनन्तरं तीर्थं चक्रतीर्थमुदाहृतम् ॥
शिलासेतुर्विभक्तं तद्भुक्तिमुक्तिफलप्रदम् ।
अम्बरीषेण पृष्टं हि प्राक्छिराज्ञानसाधनम् ॥
किन्तीर्थमिति लोकानां हितार्थं प्राह केशवम् ।
क्षिप्तमेतन्महाचक्रं सुदर्शनमनुव्रज ॥
दर्शयिष्यति ते तीर्थमित्युक्त्वा प्राह तद्विभुः ।
तेनैव दर्शितं तीर्थं ततः प्राप्नोति भूतलम् ॥
चक्रतीर्थमिति ख्यातिं राजा चात्रावसच्चिरम् ।
कात्यायनी च तत्रास्ते तच्चक्रस्य समीपतः ॥
तीर्थमेतद्धि तस्माच्चक्रतीर्थं विदुर्बुधाः ।
चक्रतीर्थे वसन्मर्त्यष्षण्मासाल्लभते ध्रुवम् ॥
ज्ञानं संसारचक्रघ्नं प्रसादेनैव चक्रिणः ।
ततः पूर्वं महातीर्थं शङ्खतीर्थमिति श्रुतम् ।
शङ्खाकृतिश्शिलायां च दृश्यते तत्र वै खलु ॥
कदाचिद्देवदेवेशो गच्छन् दक्षिणदिग्जयम् ।
मम क्षेत्रमिति प्राह स्वयं देवो महेश्वरः ॥
ईश्वरः
श्रीशैले च प्रयागे च श्मशानेऽसुरकण्टके ।
सङ्गमे सेतुबन्धे च वसामि क्षेत्रगौरवात् ॥
विश्वेशं वारणास्यां हि सङ्गमे शङ्करं तथा ।
दृष्ट्वा रामेश्वरं सेतुं वा जन्माघं तु व्यपोहति ॥
गत्वा तु तानि क्षेत्राणि योर्चयेन्मां त्रिधा स्थितम् ।
तस्याहं सुलभो देवि किमु स्वर्गादिकं फलम् ॥
लोके प्रसिद्धप्राधान्यादष्टमूर्तिं हरिः यतः ।
रामप्रतिष्ठितं लिङ्गं स्वयम्भूतश्च शङ्करः ॥
पञ्चलिङ्गोमृतेशश्चेत्यष्टमूर्तिरहं स्थितः ।
नदीमध्ये बहिश्चापि क्षेत्रेस्मिन् स्वयमुत्थितः ॥
स्थितं सहस्रं लिङ्गानां प्राधान्यादुक्तमष्टधा ।
वाराणस्यां यथोङ्कारः कृत्तिवासाः कपर्दिनः ॥
विश्वेशो मध्यमेशश्च तद्धि लिङ्गात्मकं परम् ।
पञ्चभूतात्मकान्याहुः पञ्चलिङ्गानि भामिनि ॥
अवृतो यजमानोर्को रामेशश्शङ्करः शशी ।
लिङ्गनामाष्टकं ह्येतत्स्मृतं जन्माघनाशनम् ॥
शिवलोकप्रदं दृष्टमर्चितं मुक्तिदायकम् ॥
नारद उवाच ।
इत्यादद्यनन्तमाहात्म्यं दिव्यं स्कन्दाय च प्रभुः ।
प्रोक्ता जगद्धितार्थाय तस्थौ तत्र गणैस्सह ॥
क्षेत्रं प्रदक्षिणं कृत्वा भूप्रदक्षिणजं फलम् ।
लभन्तेत्र नरा यस्मात्सर्वं तत्र सदा स्थितम् ॥
पञ्चलिङ्गानि नित्यानि धनुषां तु शतद्वये ।
रुद्रपादौ स्थितौ दृष्ट्वा विप्रा धन्याश्च वै नराः ॥
रुद्रः कपालीतीर्थानि चरन् ब्रह्मकपालभृत् ।
तत्र स्थित्वार्चयेत्पञ्चलिङ्गब्रह्ममयं शिवम् ॥
तस्य प्रत्यङ्मुखौ पादौ स्थितावद्यापि सुव्रताः ।
जगद्धितार्थं विन्यस्तौ जगत्पापहरौ शुभौ ॥
पिण्डप्रदानं तत्रैव गयायामिव शस्यते ।
दातुश्च तत्पितॄणां च सुलभं हि गतिप्रदम् ॥
त्रिरात्रे सङ्गमे स्नात्वा मुच्यते सर्वपातकैः ।
संवत्सरं तु निवसञ्च्छिवसालोक्यमाप्नुयात् ॥
तत्रैव मरणान्मोक्षं ततः प्राप्नोत्यसंशयः ।
प्रसङ्गेनापि योगश्चेत्कदाचित्सङ्गमेश्वरम् ॥
निर्गुणस्यापि तत्तस्य पर्याप्तं जन्मनः फलम् ।
अन्यदेशे मनुष्येभ्यस्तत्रस्थास्तु नरा वराः ॥
तत्रस्थास्तु नरास्सर्वे महेश्वरगणेश्वराः ।
जन्मस्थितिप्रणाशो वा प्राकृतैर्नात्र लभ्यते ॥
तस्मिन्न किञ्चिद्गृह्येत न हिंस्यात्स्वेदजानपि ।
सर्वाघसङ्क्षयं धर्ममर्थकामावथापि वा ॥
मोक्षं च शीघ्रमन्विच्छन्निवसेत्सङ्गमे सुधीः ।
तस्यैव तीर्थस्नानानुप्रभावात्स्वर्गं प्रयाता बहुशोथ शूराः ॥
विप्रर्षिराजर्षिसुरर्षिवर्या महाधिकारान्लभन्त पूर्वम् ॥
इति श्रीस्कान्दपुराणे कृष्णवेणीमाहात्म्ये सप्तकोटिसङ्गमशङ्ख-
चक्रतीर्थवर्णनं नाम दशमोध्यायः ॥
ऋणापाकरणतीर्थवैभवकथनम्
नारद उवाच ।
इदमप्यपरं गुह्यं शृणुध्वं मुनिसत्तमाः ।
स्कन्देन सृष्टो यत्प्राह शङ्करो लोकशङ्करः ॥
स्कन्दः
ऋणैस्त्रिभिश्च संयुक्तः पुरुषोजायते खलु ।
इज्याऽध्ययनसन्तानैर्देवादीनामिति श्रुतिः ॥
ऋणापाकरणं सम्यगकुर्वन्निह वै मृतः ।
निगृह्यते द्विजोत्यर्थं परलोके न संशयः ॥
ऋणापाकरणं चैव दुष्करं प्रतिभाति मे ।
कर्मतन्त्रस्य जीवस्य ततस्तत्सङ्कटं परम् ॥
अज्ञानिनश्चरोगाद्यैरिह विघ्नैरथापि वा ।
एतत्कथं न कुर्वन्ति कुर्युर्वा करुणानिधे ॥
ईश्वरः
साधु वत्स त्वया पृष्टं प्रायशो भवदुःखतः ।
ऋणेभ्यो बिभ्यतस्साधो ऋणमुक्तिं शृणुष्व ह ॥
सर्वपातकनाशाय नरश्चेदिच्छति स्वयम् ।
निष्कृतिर्नत्वशक्या सा कृष्णवेणी हि विद्यते ॥
कृष्णवेण्योभयतटे योजनाभ्यन्तरे स्थितम् ।
तत्क्षेत्रं मुक्तिदं प्राहुरन्तरासह्यसागरौ ॥
ग्रामेवायदिवारण्ये गिरौ यत्र च तत्र वा ।
कृष्णवेण्यम्भसि स्नातो वाजपेयफलं लभेत् ॥
षष्टिवर्षसहस्राणि भागीरथ्यवगाहनम् ।
कृष्णवेणीनदीस्नानसमं कन्यागते रवौ ॥
कन्यागते सोमवारे नृणां विष्णुशुभे दिने ।
वेण्यां च वपनं स्नानं कोटिजन्माघनाशनम् ॥
कृष्णायां वपनं स्नानमृक्षे चैव तु वैष्णवे ।
सोमवारे विष्णुदिने वेण्यां तु वपनं नृणाम् ॥
कोटिजन्माघनाशस्स्यादृक्षे चैव तु वैष्णवे ।
कन्यागते गुरौ यद्यत्सप्तकोट्यघनाशनम् ॥
ऋणत्रयं स्वकं चैव पितृमातृकृतं तथा ।
निश्शेषं कुर्वतो जन्तोर्नदी कृष्णा परायणम् ॥
तस्यान्तु तीर्थप्रवरं सङ्गमं लोकविश्रुतम् ।
स्नानमात्रेण सर्वेषां मोचनं पापनाशनम् ॥
तत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
दाल्भ्यो नाम द्विजः कश्चिदातिथ्यं कृतवान् पुरा ॥
गृहीत्वा स्वगृहे शाकं प्रयच्छामीति पुत्रक ।
नादत्तं विस्मृतं तेन ऋणमप्यधिकं भवेत् ॥
कालेन च मृतस्सोऽपि तिर्यक्त्वं प्रतिपन्नवान् ।
महाचले गिरौ शून्ये पर्वते कण्टकावृते ॥
निर्जले व्याघ्रभूयिष्ठे सृगालत्वं प्रपन्नवान् ।
पुनः गृध्रत्वमापन्नः पुनश्चैव सृगालताम् ॥
पूर्वजन्मस्मृतिश्चैव तपोमाहात्म्यकारणात् ।
उद्विग्नः किङ्करोमीति दुःखार्तो विन्ध्यपर्वते ॥
वेणीनदीमनुप्राप्तो गौतमं तत्र दृष्टवान् ।
जानात्येव स तत्सर्वं यद्दाल्भ्येन कृतं पुरा ॥
तेनोक्त्वा मुनिवर्येण ऋणपापनिवृत्तये ॥
गौतमः
दाल्भ्यत्वमसि धर्मज्ञो ऋणसम्बन्धकारणात् ।
तिर्यक्त्वं दुःखबहुलं प्राप्तवानसि सुव्रत ॥
दाल्भ्यः
भगवन् किं मया कार्यं न जानामीह निष्कृतिम् ।
यद्यस्तिमयि कारुण्यं कथयाघनिवृत्तये ॥
गौतमः
कृष्णवेणी नदी नाम ह्युद्गता सह्यपर्वतात् ।
सृष्टा च ब्रह्मणा पूर्वं सर्वपापनिवृत्तये ॥
देवर्षिसिद्धसेव्या सा त्रैलोक्यहितकारिणी ।
कल्पकोटिजनस्याशु पापं नाशयति क्षणात् ॥
तत्स्नानादचिरेणैव मनुष्यत्वं भविष्यति ।
ततो गत्वा ऋणान्मोक्षं तत्र स्नानं समाचर ॥
स्कन्दः
दाल्भ्याय गौतमः पूर्वं सर्वपापनिवृत्तये ।
दाल्भ्य-गौतम संवादः
कस्मिन्वै कृष्णवेण्यां तु स्नानं साधनमुक्तवान् ।
ईश्वरः
दाल्भ्यगौतमसंवादं पापघ्नं प्रियदर्शनम् ।
वदाम्यहं त्वयि प्रीत्या शृणु पुत्र षडानन ॥
गत्वाहं कृष्णवेण्यां च कुत्र स्नानं समाचरे ।
ब्रूहि त्वं मुनिवर्येति पृष्टः प्राह स गौतमः ॥
तीर्थनाम प्रभावं च ज्ञातुं वक्तुं च तत्त्वतः ।
स समर्थोस्ति लोकेस्मिन् तथा विप्रस्तु तेन्विह ॥
वक्ष्याम्यहं च दाल्भ्याद्य तव पापनिवृत्तये ।
मलापहारिणी नाम नदी सह्यसमुद्गता ॥
निर्मिता चैव कल्याणी ब्रह्मणा पापशान्तये ।
तस्यास्तु सलिलं सद्यः परं हरति किल्बिषम् ॥
तदाश्रिताश्च ये वर्याः प्रयान्ति परमां गतिम् ।
तस्याश्च सङ्गमं गत्वा पवित्रं पापनाशनम् ॥
रुद्रं पशुपतिं स्थाणुं तत्र स्नात्वा नमस्कुरु ।
मृगरूपं परित्यज्य ऋषित्वं प्राप्स्यसि ध्रुवम् ॥
य कश्चिदपि तत्रैव स्नानाद् ज्ञानं समश्नुते ।
मर्त्यलोके ये मर्त्या भक्त्या गच्छन्ति सङ्गमम् ॥
प्रयान्ति नूनं ते मोक्षं स्नानं कृत्वा स्मरन्ति ये ।
अहो धन्यतरा मर्त्याः कीर्तयन्ति स्मरन्ति च ॥
सङ्गमं परमं स्नानं नूनं ते मोक्षभागिनः ।
इति देवाश्च पितरो गायन्ति सततं दिवि ॥
कृष्णवेणी नदी नाम यत्र यत्रैव गच्छति ।
स्नातस्य तत्र तत्रैव शतधेनुफलं लभेत् ॥
पौर्णमास्याममायां चाप्यष्टम्यां चन्द्रसूर्ययोः ।
ग्रहणे स्नानमात्रेण गोसहस्रफलं लभेत् ॥
जपो दानं तपो होमः श्राद्धं सद्गुरुसेवनम् ।
अक्षयं तु भवेद्दाल्भ्य पापं चापि विनश्यति ॥
नदीनामुत्तमा वेणी देवानामुत्तमो हरिः ।
विद्यानामुत्तमो वेदो वर्णानां विप्र उत्तमः ॥
कृष्णवेणीजलं पीत्वा किरातेष्वपि यो वसेत् ।
तं तु षण्मासपर्यन्तं तद्दोषो न समाश्रयेत् ॥
निद्रामात्रं प्रकुर्वन्ति यदि तत्तीरवासिनः ।
प्राणसन्धारणे पुण्यं लभन्ते तपसः फलम् ॥
नदीनामादिभूता सा कामधेनुरिव स्वयम् ।
ये पिबन्ति च तत्तोयं नूनन्ते मुक्तिभागिनः ॥
पदे पदे च तत्रैव तीर्थानि प्रभवन्त्युत ।
तस्मादगम्यं तत्तीर्थं पापिनां दुर्मनस्विनाम् ॥
दानरूपेण तत्रैव तिलांशं यः प्रयच्छति ।
मेरुतुल्यफलं प्राप्य तदन्ते मुक्तिमाप्नुयात् ॥
अणोरणुतरं पापं तत्र कृत्वा नराधमाः ।
ब्रह्माण्डं सदृशं दुःखं प्राप्नुवन्ति सुदुस्सहम् ॥
अन्यत्र यत्कृतं पापं सङ्गमे नश्यति क्षणात् ।
अत्रैव यत्कृतं पापं न तदन्यत्र नश्यति ॥
तत्र पापफलं भोक्तुं कल्पकोटिशतेष्वपि ।
कृमित्वं स्थावरत्वं च गच्छन्ति न हि संशयः ॥
क्रोशमात्रं तु विस्तीर्णं सङ्गमक्षेत्रमुत्तमम् ॥
तत्र स्नात्वा महानद्यां गोसहस्रफलं लभेत् ।
तत्रापि सङ्गमे स्नानमुत्कृष्टं द्विजसत्तमाः ॥
अश्वमेधसहस्राणां फलं प्राप्नोति मानवः ।
भ्रूणहत्यादिभिः पापैस्तदाचैनोपपातकैः ॥
विमुक्तास्स्नानमात्रेण मर्त्या यान्ति परं पदम् ।
तत्र पिण्डप्रदानेन मुक्तिरेव न संशयः ॥
पिण्डमात्रप्रदानेन विघ्नाश्शान्तिं प्रयान्ति वै ।
व्याधयश्चापिशान्तास्स्युरैश्वर्यं कामदं भवेत् ॥
भरतश्चदिलीपश्च ययातिर्नहुषस्तथा ।
भगीरथोथ रामश्च मान्धातृप्रमुखास्तथा ॥
असितो देवलश्चैव दत्तात्रेयपुरोगमाः ।
तत्र स्नात्वा तपः कृत्वा भक्तिज्ञानपदेस्थिताः ॥
अन्ये च ऋषयो देवास्तत्र तिष्ठन्ति नित्यशः ।
रामः पुरा जगन्नाथो भार्गवः क्षत्रियान्तकः ॥
तत्र कृत्वा तपो घोरं पापशान्तिं प्रपन्नवान् ।
शूर्पारिश्च महेन्द्रश्च सङ्गमक्षेत्रमुत्तमाः ॥
त्रिषु स्थानेषु देवेशो रामस्तिष्ठति सर्वदा ।
प्रातः कालेतु शूर्पारं मध्याह्ने सिन्धुसङ्गमे ॥
रात्रौ महेन्द्रे वसति रामः क्षत्रकुलान्तकः ।
अतस्त्रयं महापुण्यं रामस्यैवाश्रयादिदम् ॥
पृथिव्यामन्तरिक्षे वा यानि तीर्थानि सन्ति वै ।
तानि तत्र वसन्त्येव धातुर्वचनकारणात् ॥
तत्र स्नात्वा नमस्कुर्यान्नामभिश्शश्वतं शिवम् ।
माघमासे नरस्स्नात्वा कार्तिके मुक्तिमाप्नुयात् ॥
परशुरामतीर्थयात्राप्रसङ्गः
ऋषय ऊचुः ।
अहोमाहात्म्यमतुलं प्रसादाद्भवतश्श्रुतम् ।
भूयः कथयतामत्र तपश्चक्रे कथं प्रभुः ॥
नारद उवाच ।
त्रिस्सप्तकृतो नृपतीन्निर्मूलितकृतवान् भुवि ।
तस्योपशान्त्यै तीर्थानि चचार खलु भार्गवः ॥
स्कन्दे परशुरामं तं क्षत्रहत्यामलीमसम् ।
प्रदर्शनाय लोकानामृषिसङ्घवृतो ययौ ॥
स्नातस्समस्ततीर्थेषु पूजयन्निष्टदेवताः ।
अलब्धाघक्षयो देवः प्रययौ सह मलापहम् ॥
सह्यपादात्सृता लोकहितायामृतवाहिनी ।
या सर्वमलहन्तृत्वात्प्रख्यातात्र मलापहा ॥
योजने योजने यस्यां तीर्थानां शतमुत्तमम् ।
लिङ्गद्वयं च प्रख्यातं सुरसिद्धनिषेवितम् ॥
सह्यप्राणात्सृतां देवीं सेव्यमानो जगत्पतिः ।
आनुलोम्यात्पितॄन्देवानर्चयन् सङ्गमं ययौ ॥
अथैतस्य कुठाराग्रे क्षत्रहत्यातिविह्वला ।
निर्गत्य मूर्त्या विप्रेषु पश्यत्स्वित्याह भार्गवम् ॥
त्वद्देहाश्रयणे भीता त्वयैवानुमता प्रभो ।
कुठाराग्रे स्थिता त्वत्र ज्वालानद्यां निमज्जिता ॥
सेयमम्बुमयी देवी धर्माणां तु सुधामयी ।
ज्वालामयी त्वधर्माणामित्युक्त्वा वा गतालयम् ॥
नारद उवाच ।
अथ हृष्टश्च भगवान् भार्गवो मुनिसन्निधौ ।
प्रदर्श्याश्चर्यमेतत्तु प्रशसंस मलापहाम् ॥
श्रीरामोवाच ।
प्रायश्चित्तार्थिनां विप्रा महापातकिनामपि ।
मलापहैव शरणं विरक्तानां न संशयः ॥
नद्योन्याश्च प्रशंस्यन्तां स्वर्गादिफलदानने ।
मलापहरणे त्वस्यास्समा काचिन्न विद्यते ॥
उदग्वहति सा यत्र स्नानदानजपादिकम् ।
तत्रप्रशस्यतेत्यर्थं भानुवारेत्वनन्तकम् ॥
तत्रापि कपिलातीर्थाद्यावदेव तु सङ्गमात् ।
अत्रापि सुलभा मुक्तिः यथा कामयते नरः ॥
नारद उवाच ।
इत्युक्त्वा जगतान्नाथः प्रहृष्टैस्तैर्द्विजैस्सह ।
विधिवत्सङ्गमे स्नात्वा तर्पयन् पितृदेवताः ॥
अथासौ सङ्गमेक्षेत्रे देवयात्राक्रमं नृणाम् ।
दर्शयन्मुनिभिस्सा
इति ।
Encoded and proofread by Dr.G.Sankaranarayanan
P. R. Kannan.
Sri Krishnaveni Mahatmyam, a part of Skanda Purana, was
available in a manuscript form in Telugu script with a
scholar in Vijayawada. Through the efforts of Sri Sankaracharya
Swamijis of Kanchi Kamakoti Peetham, who were at Vijayawada for
Chaturmasyam in July-Sep 2016, this manuscript came to light and
was transcribed into Devanagari script by Dr.G.Sankaranarayanan
of Sanskrit Department in Sri Chandrasekharendra Saraswathi
University in Enathur near Kanchipuram