कल्याणीकमलाव्रतनिरूपणम्
अथाऽन्यत्ते शुभं लक्ष्मि कल्याणीकमलाव्रतम् ।
अशेषयज्ञफलदमशेषाघविनाशनम् ॥ ७६॥
अशेषदुष्टशमनमशेषसुरपूजितम् ।
पवित्राणां पवित्रं च मङ्गलानां सुमङ्गलम् ॥ ७७॥
दैवतं दैवतानां च पुराणानां पुरातनम् ।
माघशुक्लैकादशिकाव्रतं कल्याणदं शुभम् ॥ ७८॥
घृतेनाऽभ्यञ्जनं कृत्वा दशम्यां च तिलैर्जलैः ।
स्नात्वा प्रातर्हरिकृष्णं पूजयेत् सर्ववस्तुभिः ॥ ७९॥
नमोऽनादिकृष्णनारायणाय पादयोर्नमः ।
सर्वात्मने नमः के च वैकुण्ठाय नमो मुखे ॥ ८०॥
श्रीवत्सधारिणे वक्षःस्थले नमो मुहुर्मुहुः ।
शङ्खचक्रगदापद्मवरदानप्रधारिणे ॥ ८१॥
नमो बाहुषु सर्वेषूदरे दामोदराय च ।
मेढ्रे नमः सुखदाय ऊर्वोः सौभाग्यदाय च ॥ ८२॥
जान्वोर्नमो भूतध्राय जङ्घयोर्मोक्षदाय च ।
पादयोः पापनाशाय श्रीकृष्णाय नमो नमः ॥ ८३॥
नमः कल्याणकारिण्यै कमलायै नमो नमः ।
नमः श्रीललितालक्ष्म्यै जयालक्ष्म्यै नमो नमः ॥ ८४॥
नमः श्रीमाणिकीलक्ष्म्यै नारायणीश्रियै नमः ।
नमः श्रीसुखदालक्ष्म्यै शिवराज्ञीश्रियै नमः ॥ ८५॥
नमः श्रीपार्वतीलक्ष्म्यै कान्ताप्रमाश्रियै नमः ।
नमः श्रीकम्भरालक्ष्म्यै महालक्ष्मीश्रियै नमः ॥ ८६॥
नमः श्रीसन्तुष्टिलक्ष्म्यै कार्ष्णीश्रियै नमो नमः ।
नमः श्रीराधिकालक्ष्म्यै रमालक्ष्म्यै नमो नमः ॥ ८७॥
एवं नत्वा च गोविन्दं श्रियं नत्वा पुनः पुनः ।
सर्वोपचारकैश्चोभौ कल्याणदौ प्रपूजयेत् ॥ ८८॥
गन्धैर्माल्यैर्धूपदीपैर्भक्ष्यैर्नानाविधैरपि ।
जलैस्ताम्बूलकैश्चारार्त्रिकैः पुष्पार्पणैस्तथा ॥ ८९॥
प्रीयतां मम गोपालः श्रीपतिः पुरुषोत्तमः ।
प्रीयतां मम कल्याणीमहालक्ष्मीनरायणी ॥ ९०॥
एवमुच्चार्य शयने स्थापयेत् परमेश्वरीम् ।
मध्याह्ने पूजयेच्चापि भोजयेच्च निशामुखे ॥ ९१॥
सोत्सवं पूजयेच्चापि भोजयेत् पायसादिकम् ।
सुप्त्वा चैकादशीप्रातरुत्थाय स्नानमाचरेत् ॥ ९२॥
पूजयेद्विधिना लक्ष्मीं कल्याणीं मण्डपे शुभे ।
सर्वतोभद्रके रम्ये मण्डले विष्णुना सह ॥ ९३॥
पूजयित्वा च गोदाने शय्यादानं घटार्पणम् ।
लक्ष्म्यर्पणं रत्नभूषाम्बरपात्रधनार्पणम् ॥ ९४॥
धान्यभोजनभोग्याद्यर्पणं कुर्याद्व्रती प्रगे ।
भोजयेछ्रीमहालक्ष्मीं दुग्धं फलादिकं शुभम् ॥ ९५॥
मध्याह्ने पूजयेच्चापि भोजयेत् पायसादिकम् ।
सायं सम्पूजयेच्चापि रात्रौ जागरणं चरेत् ॥ ९६॥
द्वादश्यां प्रातरेवाऽपि प्रपूज्य विधिना दिशेत् ।
गुरवे साधवे साध्व्यै दानानि च द्विजातये ॥ ९७॥
भोजयेत्सुमृष्टमिष्टान्नानि विप्रान् सतस्तथा ।
बालकान् बालिका नारीः साधून् सम्भोजयेत्तथा ॥ ९८॥
दद्याद्दानानि बहूनि परिहारं ततश्चरेत् ।
लक्ष्मीनारायणसंहितायाः कथामिमां वदेत् ॥ ९९॥
पठनाच्छ्रवणादस्य स्मरणाच्चानुमोदनात् ।
भुक्तिर्मुक्तिर्भवेच्चापि कल्याणानि बहूनि च ॥ १००॥
पुराजन्मनि चाभीरीकन्या कल्याणिनीव्रतम् ।
कृत्वा नारायणपुत्री ऊर्वशी समजायत ॥ १०१॥
पुरा वैश्यकुटुम्बोत्था पुलोमकन्यका त्विदम् ।
व्रतं कृत्वा महेन्द्राणी व्यजायत दिवेश्वरी ॥ १०२॥
पुरा कृत्वा व्रतं चैतत् सुरपुत्रो द्विजस्ततः ।
सूर्यो बभूव स्वर्गेशः सहस्ररश्मिवान् प्रभुः ॥ १०३॥
तस्मात् कल्याणिकालक्ष्मीव्रतं स्वेष्टोत्तमप्रदम् ।
माघे दिनत्रयं कार्यं सर्वकल्याणसम्प्रदम् ॥ १०४॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१३८-अध्यायान्तर्गतं कल्याणीकमलाव्रतनिरूपणं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १३८/७६-१०४॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 138/76-104..
Proofread by PSA Easwaran