॥ कमलात्रिशती ॥

गङ्गाधरमखिविरचिता । परमाभरणं विष्णोर्वक्षसि सा सागरेन्द्रवरपुत्री । या मूर्तिर्मती काले क्षमा जनानां कृतापराधानाम् ॥ १ ॥ सा नः श्रेयो दद्यात् कमला कमलासनादिजननीं याम् । संप्राप्य सहचरीं हरिरवति जगन्त्यनाकुलं सततम् ॥ २ ॥ नित्यश्रेयोदाने ख्याता या हरिगृहस्य सर्वस्वम् । श्रुतिमौलिस्तुतविभवा सा भातु पुरः सदास्माकम् ॥ ३ ॥ विष्णुक्रीडालोला विख्याता दीनरक्षणे लक्ष्मीः । जननी नः स्फुरतु सदा तेन वयं किल कृतार्थाः स्मः ॥ ४ ॥ निर्वाणाङ्कुरजननी काले सा सार्वभौमपददोग्ध्री । निरसतिमोहसमूहा मम दैवतमादृतं गुरुभिः ॥ ५ ॥ विष्णोर्वक्षसि लसिता शीतमयूखस्य सोदरी कमला । कमलायतनयना नः पातु सदा पापराशिभ्यः ॥ ६ ॥ कविपरिषदा च वेदैः नित्यं स्तुतनिजमहोदया कमला । मनसि मम संनिधत्तां त्वमितानन्दाय लोकनाथेन ॥ ७ ॥ दुग्धोदधितनया सा दुरितनिहन्त्री कृतप्रणामानाम् । आनन्दपदविधात्री पत्या साकं पदे पदे लोके ॥ ८ ॥ मन्मथजननी सा मामवतु सरोजा(क्ष)गेहिनी कमला । यामाराध्य बुधेन्द्रा विशन्ति परमं तु तत् पदं विष्णोः ॥ ९ ॥ सत्सूक्तिकृतिविधात्री नमतामम्बा त्रिलोक्यास्तु । नित्यप्रसादभूम्ना रक्षति मामादरात् कमला ॥ १० ॥ मम सूक्तिरञ्जलिपुटः प्रणतिश्चानेकसंख्याका । कुतुकात् क्षीरोदसुताममितानन्दाय गाहते कमलाम् ॥ ११ ॥ या पारमार्थ्यसरणिः सा कमला निश्चिता वेदैः । सैषा हि जगन्माता संसृतितापापहन्त्री च ॥ १२ ॥ मन्दस्मितमधुराननममन्दसंतोषदायि भजतां तत् । कमलारूपं तेजो विभातु नित्यं मदीयहृत्कमले ॥ १३ ॥ काले क्षपयति कमला कटाक्षधाट्या हि मामकं दुरितम् । अत एवाश्रितरक्षणदीक्षेत्येवं जनो वदति ॥ १४ ॥ नवनवहर्म्यविधात्री नाकिकिरीटार्चिता च सा देवी । ज्योतिर्मण्डललसिता मुनिहृदयाब्जासना च सद्गतिदा ॥ १५ ॥ संवीक्ष्य जलधितनयां भूयो भूयः प्रणम्य भक्तगणः । निरसितदुरितौघः सन् स्तौति मुदा मोक्षसिद्धये कमलाम् ॥ १६ ॥ राकानिशीव देव्यां दृष्टायां भक्तगणवाणी । भजते जलनिधिशैलीं साङ्गोपाङ्गं कृतानन्दा ॥ १७ ॥ दुर्गतिभीत्या खिन्नः सोऽहं शरणं भजामि तां कमलाम् । शरणार्थिनां हि रक्षाकृदिति ख्याता हि या लोके ॥ १८ ॥ न हि कलयते हृदन्ते मन्दारं कामधेनुं वा । यः सेवते मुकुन्दप्रियां श्रियं नित्यभावेन ॥ १९ ॥ कैटभमर्दनमहिषीं ममाञ्जलिर्गाहतां काले । न हि नाथनीयमत्र क्षमातले सा प्रसन्नास्तु ॥ २० ॥ संतापपीडितं मामवतु सदा श्रीर्हरिप्रिया माता । रक्षितवायसमुख्या कृपानिधिः पुण्यकृद्दृश्या ॥ २१ ॥ न हि केवलं प्रणामैः स्तुत्या भक्त्या समाराध्या । सत्येन धर्मनिवहैर्भावेन च कमलगेहिनी कमला ॥ २२ ॥ कदाचित्कविलोकेऽप्यक्षीणानन्ददायिनी कमला । रक्षतु कटाक्षकलिकाङ्कूरैर्भक्तानिहादरतः ॥ २३ ॥ कलिपापग्लपितानां मुरमर्दनदिव्यगेहिनी लक्ष्मीः । राजति शरणं परमं वशीकृतेशा च विबुधगणसेव्या ॥ २४ ॥ नित्योल्लसदुरुमाला वक्षसि कमला हरेर्भाति । निजतनुभासा द्योतितकौस्तुभमणिरम्बुधेस्तनया ॥ २५ ॥ मातर्मङ्गलदायिन्यमरेन्द्रवधूसमर्चिताङ्घ्रियुगे । मां पाह्यपायनिवहात् संततमकलक्षमामूर्ते ॥ २६ ॥ यदि कलिता चोपेक्षा नश्येत् किल तावकी महती । कीर्तिरतोऽम्ब कटाक्षैः परिषिञ्च मुदा मुहुः शीतैः ॥ २७ ॥ धनधान्यसुतादिरुचिग्रस्तं मां पाहि कमले त्वम् । तेनोर्जितकीर्तिः स्या मातस्त्वं सर्वरक्षिणी ख्याता ॥ २८ ॥ तव पादाम्बुजयुगलध्यानं मातर्मदीयमघमाशु । कबलीकरोति काले तेनाहं सिद्धसंकल्पः ॥ २९ ॥ अञ्जलिकलिका हि कृता यदि तस्यै मुरनिहन्तृदयितायै । रसनाग्रे खेलनभाक् तस्य तु पुंसो गिरां देवी ॥ ३० ॥ मातस्तव मूर्तिरियं सुधामयी निश्चिता निपुणैः । यत् तद्दर्शनभूम्ना निरस्ततापा बुधा भवन्त्यचिरात् ॥ ३१ ॥ कलितजगत्त्रयरक्षाभराणि मयि देवि संविधेहि मुदा । त्वद्वीक्षणानि कमले तेनाहं सिद्धसंकल्पः ॥ ३२ ॥ वरदे मुरारिदयिते जयन्ति ते वीक्षणानि यानि दिवि । संप्राप्य तानि मघवा विजितारिर्देवसंघवन्द्यश्च ॥ ३३ ॥ मोहान्धकारभास्करमम्ब कटाक्षं विधेहि मयि कमले । येनाप्तज्ञानकलाः स्तुवन्ति विबुधास्त्वदीयसदसि कलम् ॥ ३४ ॥ कामक्रोधादिमहासत्त्वनिरासं कृपासारात् । कुरु मातर्मम संसृतिभीतिं च निराकुरु त्वमेवारात् ॥ ३५ ॥ मूढानामपि हृद्यां कवितां दातुं यदीयपरिचर्या । प्रभवति काले सा हि श्रीरम्बा नः प्रसन्नास्तु ॥ ३६ ॥ दिव्यक्षेत्रेषु बुधा दिनकरमध्ये च वेदमौलौ च । यत्स्थानमिति वदन्ति श्रीरेषा भाति संश्रितहरिर्हि ॥ ३७ ॥ निजलीलाक्रान्तहरी रक्षति कमला कटाक्षधाट्या नः । शरणार्थिनश्च काले विहगोरगपशुमुखानुर्व्याम् ॥ ३८ ॥ समराङ्गणेषु जयदा त्रिदशानां मौलिभिर्मान्या । आपदि रक्षणदक्षा सा कमला नः प्रसन्नास्तु ॥ ३९ ॥ नित्यानन्दासनभाड् नवनिधिवन्द्या च सागरेन्द्रसुता । विलसति माधववक्षसि पालितलोकत्रया च जननी नः ॥ ४० ॥ मुनिनुतनिजपरिपाटी वाग्धाटी दानलोलुपा भजताम् । शिक्षितरिपुजनकोटी विलसति धृतशातकुम्भमयशाटी ॥ ४१ ॥ निखिलागमवेद्यपदा नित्यं सद्भिः समाराध्या । संसृतिपाशनिहन्त्री या तस्यै चाञ्जलिः क्रियते ॥ ४२ ॥ भूयांसि नमांसि मया भक्तेन कृतानि कमलजाङ्घ्रियुगे । नित्यं लगन्तु तेन हि सर्वा राजन्ति संपदो मान्याः ॥ ४३ ॥ नित्यं निर्मलरूपे बरदे वाराशिकन्यके मातः । सद्गणरक्षणदीक्षे पाहीति वदन्तमाशु मां पाहि ॥ ४४ ॥ भुवनजननि त्वमारात् कृतरक्षणसंततिः क्षमामूर्ते । प्रतिवस्तु रमे कलितस्वरूपशक्त्या हि राजसे जगति ॥ ४५ ॥ जय जय कलशाब्धिसुते जय जय हरिवल्लभे रमे मातः । प्रातरिति विबुधवर्याः पठन्ति नामानि ते हि मे गुरवः ॥ ४६ ॥ नेत्ररुचिविजितशारदपद्मे पद्मे नमस्तुभ्यम् । तेन वयं गतविपदः सा मुक्तिः करगता कलिता ॥ ४७ ॥ सततं बद्धाञ्जलिपुटमुपास्महे तच्छुभप्रदं तेजः । यत् कमलोदरनिलयं कमलाक्षप्रीतिवीचिकापूरम् ॥ ४८ ॥ स्फुरतु मम वचसि कमले त्वदीयवैभवसुधाधारा । नित्यं व्यक्तिं प्राप्ता धुतनुतजनखेदजालका महती ॥ ४९ ॥ कमले तव नुतिविषये बुद्धिर्जाता हि मे सहसा । तेन मम भागधेयं परिणतमित्येव नित्यसंतुष्टः ॥ ५० ॥ कवितारसपरिमलितं करोति वदनं नतानां या । स्तोतुं तां मे ह्यारात् सा देवी सुप्रसन्नास्तु ॥ ५१ ॥ हरिगृहिणि तावकं नुतरूपं ये भुवि निजे हृदम्भोजे । ध्यायन्ति तेषु विबुधा अपि कल्पककुसुममर्पयन्ति मुदा ॥ ५२ ॥ नानावरदानकलालोलुपहृदये हृदम्भुजस्थे माम् । रक्षापायात् सहसा कुरु भक्तं दोषहीनं च ॥ ५३ ॥ निजघनकेशरुचा जितनीलाम्बुधरे शशाङ्कसहजन्मन् । पद्मे त्वदीयरूपं मनोहरं भातु मे हृदये ॥ ५४ ॥ घनकुङ्कुमलसिताङ्गं मुक्ताहारादिभूषितं मधुरम् । मन्दस्मितमधुरास्यं सूर्येन्दुविलोचनं च बुधमान्यम् ॥ ५५ ॥ निबिडकुचकुम्भयुगलं निजदृग्जितहरिणशाबकाक्षियुगम् । लीलागतिजितकलभं मधुवैरिमनोहरं च सुरमान्यम् ॥ ५६ ॥ दिशि दिशि विस्तृतसंपद्विलासमधुरं च कुन्ददन्तालि । मदनजनकं च विष्णोः सर्वस्वं सर्वदानचणम् ॥ ५७ ॥ कुलदैवतमस्माकं संविद्रूपं नतार्तिहररूपम् । नानादुर्गतिहरणक्षमममरीसेवितं सकलम् ॥ ५८ ॥ पञ्चदशवर्णमानं पयोजवक्त्रं पितामहसमर्च्यम् । जगदवनजागरूकं हरिहरसंमान्यवैभवं किमपि ॥ ५९ ॥ करुणापूरितनयनं परमानन्दप्रदं च परिशुद्धम् । आगमगणसंवेद्यं कोशगृहं सर्वसंपदां नित्यम् ॥ ६० ॥ मातस्तावकपादाम्बुजयुगलं संततं स्फुरतु । तेनाहं तव रूपं द्रक्ष्याम्यानन्दसिद्धये सकलम् ॥ ६१ ॥ देव्या कटाक्षिताः किल पुरुषा वा योषितः पशवः । मान्यन्ते सुरसंसदि कल्पककुसुमैः कृतार्हणाः काले ॥ ६२ ॥ सुमनोवाञ्छादाने कृतावधानं धनं विष्णोः । धिषणाजाड्यादिहरं यद्वीक्षणमामनन्ति जगति बुधाः ॥ ६३ ॥ अन्तरपि बहिरुदारं तव रूपं मन्त्रदेवतोपास्यम् । जननि स्फुरतु सदा नः संमान्यं श्रेयसे काले ॥ ६४ ॥ मुररिपुपुण्यश्रेणीपरिपाकं तावकं रूपम् । कमले जननि विशुद्धं दद्याच्छ्रेयो मुहुर्भजताम् ॥ ६५ ॥ पुण्यश्रेणी कमला सा जननी भक्तमानसे स्थितिभाक् । तेजस्ततिभिर्मोहितभुवना भुवनाधिनाथगृहिणीयम् ॥ ६६ ॥ जलनिधिकन्यारूपं हरिमान्यं सर्वसंपदां हेतुः । चिरकृतसुकृतविशेषान्नयनयुगे भाति सर्वस्य ॥ ६७ ॥ जलनिधितपःफलं यन्मुनिजनहृदयाब्जनित्यकृतनृत्तम् । करुणालोलापाङ्गं तत् तेजो भातु निःसमं वदने ॥ ६८ ॥ शमितनतदुरितसंघा हरये निजनेत्रकल्पितानङ्गा । कृतसुरशात्रवभङ्गा सा देवी मङ्गलैस्तुङ्गा ॥ ६९ ॥ निखिलागमसिद्धान्तं हरिशुद्धान्तं सदा नौमि । तेनैव सर्वसिद्धिः शास्त्रेषु विनिश्चिता विबुधैः ॥ ७० ॥ कृष्णकृतविविधलीलं तव रूपं मातरादरान्मान्यम् । स्फुरतु विलोचनयुगले नित्यं संपत्समृद्ध्यै नः ॥ ७१ ॥ करुणाकटाक्षलहरी कामायास्तु प्रकामकृतरक्षा । लक्ष्म्या माधवमान्या सत्सुखदाने दिशि ख्याता ॥ ७२ ॥ अपवर्गसिद्धये त्वामम्बामम्भोजलोचनां लक्ष्मीम् । अवलम्बे हरिदयिते पद्मासनमुखसुरेन्द्रकृतपूजाम् ॥ ७३ ॥ तावककटाक्षलहरीं निधेहि मयि देवि कमले त्वम् । तेन मनोरथसिध्हिर्भुवि परमे धामनि प्रचुरा ॥ ७४ ॥ त्वामादरेण सततं वीक्षेमहि मातरब्जकृतवासाम् । विष्णोर्वक्षोनिलयामक्षयसुखसिद्धये लोके ॥ ७५ ॥ सा नः सिध्यतु सिद्ध्यै देवानां वाङ्ममनोऽतीता । हरिगृहिणी हरिणाक्षी पालितलोकत्रया च जननीयम् ॥ ७६ ॥ सकलचराचरचिन्मयरूपं यस्या हि देवतोपास्यम् । सा ददतु मङ्गलं मे नित्योज्ज्वलमादराज्जननी ॥ ७७ ॥ शीतमयूखसहोदरि तां त्वामम्बां हि शीलये नित्यम् । निरसितवैरिगणोऽहं हरिचरणन्यस्तरक्षश्च ॥ ७८ ॥ दिक्षि विदिक्षु कृतश्रीः सा मे जननी नदीशतनयेयम् । हरिणा साकं भजतु प्राकाश्यं हृदि सतां समृद्ध्यै नः ॥ ७९ ॥ वारिनिधिवंशसंपद् दिव्या काचिद्धरेर्मान्या । अर्चन्ति यां तु मुनयो योगारम्भे तथान्ते च ॥ ८० ॥ धृतसुममधुपक्रीडास्थानायितकेशभारायै । नम उक्तिरस्तु मात्रे वाग्जितपीयूषधारायै ॥ ८१ ॥ संदेहे सिद्धान्ते वादे वा समरभूमिभागे वा । या राजति बहुरूपा सा देवी विष्णुवल्लभा ख्याता ॥ ८२ ॥ प्रतिफलतु मे सदा तन्मुनिमानसपेटिकारत्नम् । विष्णोर्वक्षोभूषणमादृतनिर्गतिजनावनं तेजः ॥ ८३ ॥ बालकुरङ्गविलोचनधाटीरक्षितसुरादि मनुजानाम् । नयनयुगासेव्यं तद् भातीह धरातले तेजः ॥ ८४ ॥ माधवदृक्साफल्यं भक्तावलिदृश्यकामधेनुकला । लक्ष्मीरूपं तेजो विभातु मम मानसे वचसि ॥ ८५ ॥ हरिसरसक्रीडार्थं या विधृतानेकरूपिका माता । सा गेहभूषणं नः स्फुरतु सदा नित्यसंपूज्या ॥ ८६ ॥ द्वारवतीपुरभागे मैथिलनगरे च यत्कथासारः । सा देवी जलधिसुता विहरणभाङ् मामके मनसि ॥ ८७ ॥ जलनिधितपोमहिम्ने देव्यै परमात्मनः श्रियै सततम् । भूयांसि नमांसि पुनः सर्वा नः संपदः सन्तु ॥ ८८ ॥ परमौषधं हि संसृतिव्याधेर्यत् कीर्तितं निपुणैः । तदहं भजामि सततं लक्ष्मीरूपं सदानन्दम् ॥ ८९ ॥ दशरथसुतकोदण्डप्रभावसाक्षात्कृते कृतानन्दा । सीतारूपा माते जज्ञे यज्ञक्षितौ हि सा सिद्ध्यै ॥ ९० ॥ मुनिजनमानसनिलये कमले ते चरणपङ्कजं शिरसि । अवतंसयन्नुदारं विशामि देवैः सुधर्मां वा ॥ ९१ ॥ धनमदमेदुरसेवां त्यक्तवाहं ते पदाम्भोजम् । शरणं यामि पुमर्थस्फूर्तिकलायै भृशं दीनः ॥ ९२ ॥ न घटय कुत्सितसेवां दुष्टैर्वा संगमं मातः । कुरु मां दासं संसृतिपापं च हर शीघ्रम् ॥ ९३ ॥ मयि नमति विष्णुकान्ते तवाग्रतस्तापभारार्ते । मातः सहसा सुमुखी भव बाले दोषनिलये च ॥ ९४ ॥ हन्त कदा वा मातस्तव लोचनसेचनं भवेन्मयि भोः । ईत्थं प्रातः स्तुवतां त्वमेव रक्षाकरी नियतम् ॥ ९५ ॥ संसाररोगशान्तिप्रदमेतल्लोचनं मातः । तावत्कमहमुपासे दिव्यौषधमाशु सागरेन्द्रसुते ॥ ९६ ॥ संसृतिरोगार्तानां तव नामस्मरणमत्र धरणितले । पूजाप्रदक्षिणादिकमार्या मुख्यौषधं वदन्ति किल ॥ ९७ ॥ मातर्विना धरण्यां सुकृतानां खण्डमिह जन्तुः । ध्यानं वा न हि लभते प्रणतिं वा संपदां जननीम् ॥ ९८ ॥ गुरुवरकटाक्षविभवाद् देवि त्वाङ्घ्रिप्रणामधुतपापः । तव च हरेर्दासः सन् विशामि देवेश मानितां च सभाम् ॥ ९९ ॥ मुरहरनेत्रमहोत्सवतारुण्यश्रीर्निरस्तनतशत्रुः । ललितलिकुचाभकुचभरयुगला दृग्विजितहरिणसंदोहा ॥ १०० ॥ कारुण्यपूर्णनयना कलिकल्मषहारिणी च सा कमला । मुखजितशारदकमला वक्त्राम्भोजे सदा स्फुरतु माता ॥ १०१ ॥ तावककटाक्षसेचनविभवां निर्धूतदुरितसंघा हि । परमं सुखं लभन्ते परे तु लोके च सूरिभिः सार्धम् ॥ १०२ ॥ तव पादपद्मविसृमरकान्तिझरीं मनसि कलयंस्तु । निरसितनरकादिभयो विराजते नाकिसदसि सुरवन्द्यः ॥ १०३ ॥ हन्त सहस्रेष्वथ वा शतेषु सुकृती पुमान् मातः । तावकपादपयोरुहवरिवस्यां कलयते सकलम् ॥ १०४ ॥ जननि तरङ्गय नयने मयि दीने ते दयास्निग्धे । तेन वयं तु कृतार्था नातः परमस्तिः नः प्रार्थ्यम् ॥ १०५ ॥ तावककृपावशादिह नानायोगादिनाशितभया ये । तेषां स्मरणमपि द्राक् श्रियावहं नित्यमाकलये ॥ १०६ ॥ नैव प्रायश्चित्तं दुरितानां मामकानां हि । त्वामेव यामि शरणं तस्माल्लक्ष्मि क्षमाधारे ॥ १०७ ॥ मुरवैरिमान्यचरिते मातस्त्वामखिललोकसाम्राज्ये । पश्यन्ति दिवि सुरेन्द्रा मुनयस्तत्त्वार्थिनश्च नित्यकलाम् ॥ १०८ ॥ स्वीयपदप्राप्त्यै ननु विबुधेशा जलधिकन्यके मातः । आराध्य दिव्यकुसुमैस्तव पादाब्जं परं तुष्टाः ॥ १०९ ॥ सृष्टिस्थित्यादौ हरिरम्ब तवापाङ्गवीक्षणादरवान् । जगदेतदवति काले त्वं च हरिर्नः क्रमात् पितरौ ॥ ११० ॥ राज्यसुखलाभसंपत्प्राप्त्यै क्षितिपाश्च ये च विप्राद्याः । गाङ्गजलैरपि कुसुमैर्वरिवस्यां ते क्रमेण कलयन्ति ॥ १११ ॥ संत्यक्तकामतदनुजडम्भासूयादयो नराः कमले । आराध्य त्वां च हरिं काले चैकासनस्थितां धन्याः ॥ ११२ ॥ जननी कदा पुनीते मम लोचनमार्गमादरादेषा । ये किल वदन्ति धन्यास्तेषां दर्शनमहं कलये ॥ ११३ ॥ करधृतलीलापद्मा पद्मा पद्माक्षगेहिनी नयने । सिञ्चति सकलश्रेयःप्राप्त्यै निर्व्याजकारुण्या ॥ ११४ ॥ नानाविधविद्यानां लीलासदनं सरोजनिलयेयम् । कविकुलवचःपयोजद्युमणिरुचिर्भाति नः पुरत्ः ॥ ११५ ॥ अतसीकुसुमद्युतिभाङ् नाकिगणैर्वन्द्यपादपद्मयुगा । सरसिजनिलया सा मे प्रसीदतु क्षिप्रमादरात् सिद्ध्यै ॥ ११६ ॥ जगदीशवल्लभे त्वयि विन्यस्तभरः पुमान् सहसा । तीर्त्वा नाकिस्थानं विशति परं वैष्णवं सुरैर्मान्यम् ॥ ११७ ॥ मातर्ज्ञानविकासं कारय करुणावलोकनैर्मधुरैः । तेनाहं धन्यतमो भवेयमार्यावृते सदसि ॥ ११८ ॥ हरिवक्षसि मणिदीपप्रकाशवत्यान्या मात्रा । नित्यं वयमिह दासाः श्रिया सनाथा मुदा परं नौमः ॥ ११९ ॥ विद्रावयतु सरोजासने त्वदीया कटाक्षधाटी नः । अज्ञानाङ्कुरमुद्रां पुनरपि संसारभीतिदां सहसा ॥ १२० ॥ तावककटाक्षसूर्योदये मदीयं हृदम्भोजम् । भजते विकासमचिरात् तमोविनाशश्च निश्चितो विबुधैः ॥ १२१ ॥ लक्ष्मीकटाक्षलहरी लक्ष्मीं पक्ष्मलयति क्रमान्नमताम् । पादपयोरुहसेवा परं पदं चित्सुखोल्लासम् ॥ १२२ ॥ चिद्रूपा परमा सा कमलेक्षणनायिका मुदे भजताम् । यत्प्रणयकोपकाले जगदीशः किंकरो भवति ॥ १२३ ॥ काचन देवी विहरतु मम चित्ते संततं सिद्ध्यै । यापत्यं कलशाब्धेरुरगेशयसत्कलत्रं च ॥ १२४ ॥ अष्टसु महिषीष्वेका कमला मुख्या हि निर्दिष्टा । अनयैव सर्वजगतामुदयादिस्तन्यते काले ॥ १२५ ॥ कैवल्यानन्दकलाकन्दमहं संततं वन्दे । तत्तु मुकुन्दकलत्रं चिन्तितफलदानदीक्षितं किमपि ॥ १२६ ॥ ईक्षे कमलामेनामम्बामम्भोजलोचनां सततम् । मन्दस्मितमधुरास्यां नित्यं चाज्ञातकोपमुखदोषाम् ॥ १२७ ॥ अङ्कितमाधववक्षःस्थला सरोजेक्षणा च हरिकान्ता । कबलयति मानसं मे दयाप्रसारादिभिर्नित्यम् ॥ १२८ ॥ भूत्यै मम भवतु द्रागज्ञानध्वंसिनी नमताम् । नाथानुरूपरूपा श्रुत्यन्तेड्या दशावतारेषु ॥ १२९ ॥ सकलजनरक्षणेशु प्रणिहितनयना त्रिलोकमाता नः । पुष्णाति मङ्गलानां निकरं सेवाक्रमेण incomplete ॥ १३० ॥ पद्मासनजननी मां पातु मुदा सुन्दरापाङ्गैः । सर्वैश्वर्यनिदानं यामाहुर्वैदिका दीप्ताम् ॥ १३१ ॥ नानालंकारवती मुनिमानसवासिनी हरेः पत्नी । त्रैलोक्यविनुतविभवा मां पायादापदां निचयात् ॥ १३२ ॥ विद्रावयतु भयं नः सा कमला विष्णुवल्लभा माता । अब्धिः संक्षुभितोऽभूत् यदर्थमार्येण रामेण ॥ १३३ ॥ भूयो यदर्थमिन्द्रः सुरतरुकुसुमार्थिना च कृष्णेन । हतगर्वोऽजनि युद्धे सा नित्यं श्रेयसे भूयात् ॥ १३४ ॥ त्वामाराध्य जना अपि धनहीनाः सौधमध्यतलभाजः । नानादेशवनीपकजनस्तुता भान्ति नित्यमेव रमे ॥ १३५ ॥ संसृतितापो न भवति पुनरपि यत्पादपङ्कजं नमताम् । सा मयि कलितदया स्यादम्बा विष्णोः कलत्रमनुरूपम् ॥ १३६ ॥ जननीकटाक्षभाजामिह मर्त्यानां सुरास्तु किंकरताम् । रिपवो गिरितटवासं भजन्ति वेश्मानि सिद्धयः सर्वाः ॥ १३७ ॥ स्मरणाद्वा भजनाद्वा यस्याः पादाम्बुजस्य भुवि धन्याः । हन्त रमन्ते स्तम्बेरमनिवहावृतगृहाङ्गणे मनुजाः ॥ १३८ ॥ चिरकृतसुकृतनिषेव्या सा देवी विष्णुवल्लभा ख्याता । यस्याः प्रसादभूम्ना जाताः पश्वादयो वदान्या हि ॥ १३९ ॥ अम्ब मधुरान् कटाक्षान् तापहरान् विकिर मयि कृपाजलधे । ये विन्यस्ताः करिवरमारुतिमुखभक्तवर्येषु ॥ १४० ॥ अमृतलहरीव मधुरा जलधररुचिरा नतार्तिहरशीला । सर्वश्रेयोदात्री काचिद् देवी सदा विभातु हृदि ॥ १४१ ॥ गीताचार्यपुरन्ध्री त्वदीयनामप्रभावकलनाद्यैः । यमभयवार्ता दूरे हरिसांनिध्यं कुतो न स्यात् ॥ १४२ ॥ जलनिधितनये कान्ते विष्णोरुष्णांशुचन्द्रनयने ते । चतुराननादयस्तु ख्याता बालाः श्रुतौ चोक्ताः ॥ १४३ ॥ मनसिजवैरं गात्रं वाणी सौधारसी च यद्भजताम् । श्लाध्या संपत् सज्जनसमागमश्चाशु सिध्यन्ति ॥ १४४ ॥ सफलयतु नेत्रयुगलं हतनतदुरिता च सा परा देवी । जलनिधिकन्या मान्या पत्यवतारानुकूलनिजचरिता ॥ १४५ ॥ नित्यं स्मरामि देवीं नमतां सर्वार्थदायिनीं कमलाम् । यामाहुर्भवनिगलध्वंसनदीक्षां च incomplete ॥ १४६ ॥=२० सकलजगदघनिवारणसंकल्पां मधुजितो दयिताम् । जीवातुमेव कलये मोक्षार्थिजनस्य भूमिसुताम् ॥ १४७ ॥ मन्दानामपि दयया तमोनिरासं वितन्वन्ती । सर्वत्र भाति कमला तनुरिव विष्णोर्निरस्ताघा ॥ १४८ ॥ बालमरालीगत्यै सुरपुरकन्यादिमहितकलगीत्यै । विरचितनानानीत्यै चेतो मे स्पृहयते बहुलकीर्त्यै ॥ १४९ ॥ अभिलषितदानकुशला वाग्देवीवन्दिता च सा कमला । नित्यं मानसपद्मे संचारं कलयते मुहुः कुतुकात् ॥ १५० ॥ मुरमथननयनपङ्कजविलासकलिका सुरेशमुखसेव्या । भूतमयी सावित्री गयत्री सर्वदेवता जयति ॥ १५१ ॥ सा हि परा विद्या मे लक्ष्मीरक्षोभणीयकीर्तिकला । हृद्यां विद्यां दयादद्य श्रेयःपरंपरासिद्ध्यै ॥ १५२ ॥ कामजननी हि लक्ष्मीः नानालीलादिभिर्निजं नाथम् । मोहयति विष्णुमचिरात् प्रकृतीनां क्षेमसिद्ध्यर्थम् ॥ १५३ ॥ मनसिजसाम्राज्यकलानिदानमार्याभिवन्दितं किमपि । लक्ष्मीरूपं तेजो विलसति मम मनसि विष्णुसंक्रान्तम् ॥ १५४ ॥ विष्णुमनोरथपात्रं संतप्तस्वर्णकाम्यनिजगात्रम् । आश्रितजलनिधिगोत्रं रक्षितनतबाहुजच्छात्रम् ॥ १५५ ॥ कविकुलजिह्वालोलं मुरमर्दनकलितरम्यबहुलीलम् । निरसितनतदुष्कालं वन्दे तेजः सदालिनुतशीलम् ॥ १५६ ॥ आदिमपुरुषपुरन्ध्रीमम्बामम्भोजलोचनां वन्दे । यां नत्वा गततापास्त्यक्त्वा देहं विशन्ति परमपदम् ॥ १५७ ॥ लक्ष्म्या हरिरपि भाति प्रकृतिक्षेमाय दीक्षितायासौ । मम लोचनयोः पुरतो लसतु गभीरं क्रियासिद्ध्यै ॥ १५८ ॥ जननि कदा वा नेष्याम्यहमारादर्चितत्वदीयपदः । निमिषमिव हन्त दिवसन् दृष्ट्वा त्वामादरेण कल्याणीम् ॥ १५९ ॥ संपूर्णयौवनोज्ज्वलदेहां यां वीक्ष्य शौरिरपि । कुसुमशरविद्धचेताः किंकरभावं स्वयं प्राप्तः ॥ १६० ॥ अनुनयशीलस्तदनु प्रणयक्रोधादिना भीतः । आदिमपुरुषः सोऽयं सा लक्ष्मीर्न श्रियै भवतु ॥ १६१ ॥ मणिकुण्डललसितास्यं कृपाकरं किमपि कुङ्कुमच्छायम् । हरिणा कृतसंचारं तेजो मे भातु सर्वदा सिद्ध्यै ॥ १६२ ॥ साम्राज्यमङ्गलश्रीः श्रीरेषा पुष्कराक्षस्य । गन्धर्वकन्यकाद्यैर्गङ्गातीरेषु गीतकीर्तिर्हि ॥ १६३ ॥ कविताभाग्यविधात्री परिमलसंक्रान्तमधुपगणकेशा । मम नयनयोः कदा वा सा देवी कलितसंनिधानकला ॥ १६४ ॥ कीर्तिः स्वयं वृणीते वाग्देवी चापि विजयलक्ष्मीश्च । तं नरमचिराल्लोके यो लक्ष्मीपादभक्तस्तु ॥ १६५ ॥ सन्मित्रं पाण्डित्यं सद्दाराः सत्सुताद्याश्च । जायन्ते तस्य भुवि श्रीभक्तो यश्च निर्दिष्टः ॥ १६६ ॥ परमाचार्यैर्विनुतां तामम्बामादरान्नौमि । परमैश्वर्यं विष्णोरपि या वेदेषु निर्दिष्टा ॥ १६७ ॥ कविकुलसूक्तिश्रेणीश्रवणानन्दोल्लसद्वतंससुमा । सा देवी मम हृदये कृतसांनिध्या विराजते परमा ॥ १६८ ॥ तापार्तास्तु तटाकं यथा भजन्ते रमां देवीम् । संसृतितप्ताः सर्वे यान्ति हि शरणं शरण्यां ताम् ॥ १६९ ॥ सर्वज्ञत्वं श्लाध्यं धराधिपत्यं रमे देवि । यद्यत् प्रार्थ्यं दयया तद् दिश मोक्षं च मे जननि ॥ १७० ॥ विद्युतमचञ्चलां त्वां कृष्णे मेघे पयोधिवरकन्ये । नित्यमवैमि श्रेयःसिध्य मातः प्रसन्ने नः ॥ १७१ ॥ त्वामम्ब संततरुचिं कृष्णो मेघः समासाद्य । सद्वर्त्मनि वर्षति किल काङ्क्षाधिकमादरेण वार्धिसुते ॥ १७२ ॥ अम्ब त्वमेव काले मुकुन्दमपि दर्शयन्तीह । श्रेयःसिद्ध्यै नमतां भासि हृदि श्रुतिशिरःसु सल्लोके ॥ १७३ ॥ विनमदमरेशसुदतीकचसुममकरन्दधारया स्निग्धम् । तव पादपद्ममेतत् कदा नु मम मूर्ध्नि भूषणं जननि ॥ १७४ ॥ अपवर्गसौख्यदे ते दयाप्रसारः कथं वर्ण्यः । यामवलम्ब्य हि यष्टिं न पतति संसारपङ्किले मार्गे ॥ १७५ ॥ सूक्ष्मात् सूक्ष्मतरं ते रूपं पश्यन्ति योगिनो हृदये । तां त्वामहं कदा वा द्रक्ष्येऽलंकारमण्डितां मातः ॥ १७६ ॥ चिरतरतपसा क्लिष्टे योगिहृदि स्थानभाग् रमा देवी । दर्शनमचिराद् दयया ददाति योगादिहीनानाम् ॥ १७७ ॥ तीरं संसृतिजलधेः पूरं कमलाक्षलोचनप्रीतेः । सारं निगमान्तानां दूरं दुर्जनततेर्हि तत्तेजः ॥ १७८ ॥ लक्ष्मीरूपं तेजो ममाविरस्तु श्रियै नित्यम् । यन्नित्यधर्मदारान् विष्णोरमितौजसः प्राहुः ॥ १७९ ॥ जलधिसुते त्वं जननी स वासुदेवः पिता च नः कथितः । शरणं युवां प्रपन्ना नातो दुर्गतिपरिस्फूर्तिः ॥ १८० ॥ हरिनीलरत्नभासा प्रकशितात्मा समुद्रवरकन्या । मङ्गलमातनुतेयं कटाक्षकलिकाप्रसारैस्तु ॥ १८१ ॥ मच्चित्तमत्तवारणबन्धनमधुना त्वदीयपादयुगे । कलयामि रमे मातर्मां रक्ष क्षिप्रमेव संसृतितः ॥ १८२ ॥ मोचय संसृतिबन्धं कटाक्षकलिकाङ्कुरै रमे मातः । नातः परमर्थ्यमिह क्षमातले त्वं दयामूर्तिः ॥ १८३ ॥ मञ्जुलकवितासंततिबीजाङ्कुरदायिसारसालोका । जननि तवापाङ्गश्रीः जयति जगत्त्राणकलितदीक्षेयम् ॥ १८४ ॥ अम्ब तवापाङ्गश्रीरपाङ्गकेलीशतानि जनयन्ती । मुरहन्तुर्हृदि जयति व्रीडामदमोहकामसारकरी ॥ १८५ ॥ बद्धमपि चित्तमेतद् यमनियमाद्यैः परिष्कारैः । धावति बलाद् रमे तव पादाब्जं यामि शरणमहम् ॥ १८६ ॥ मत्तगजमान्यगमना मधुरालापा च मान्यचरिता सा । मन्दस्मेरमुखाब्जा कमला मे हृदयसारसे लसतु ॥ १८७ ॥ शास्त्रस्मरणविहीनं पापिनमेनं जनं रमा देवी । दयया रक्षति काले तस्यास्तेन प्रथा महती ॥ १८८ ॥ मुखविजितचन्द्रमण्डलमिदमम्भोरुहविलोचनं तेजः । ध्याने जपे च सुदृशां चकास्ति हृदये कवीश्वऱाणां च ॥ १८९ ॥ अम्ब विवेकविदूरं जनमेनं शिशिरलोचनप्रसरैः । शिशिरय कृपया देवि त्वमेव माता हि लोकस्य ॥ १९० ॥ कोपदुपेक्षसे यदि मातर्मे रक्षकः कः स्यात् । मयि दीने को लाभस्तव तु दयायाः प्रसारिण्याः ॥ १९१ ॥ भवचण्डकिरणतप्तः श्रान्तोऽहं ज्ञानवारिदूरस्थः । शिशिरामङ्घ्रिच्छायां तव मातर्यामि शरणमारात्तु ॥ १९२ ॥ मातरशोकोल्लासं प्रकटय तव कोमलकटाक्षैः । यैर्दीना नरपतयः कलिता वारणशतावृते गेहे ॥ १९३ ॥ जयति रमे तव महती कृपाझरी सर्वसंमान्या । क्षेमंकरी यदेषा प्रतिकल्पं सर्वजगतां च ॥ १९४ ॥ अज्ञानकूपकुहरे पतितं मां पाहि कमले त्वम् । नगरे वा ग्रामे वा वनमध्ये दिक्षु रक्षिणी त्वमसि ॥ १९५ ॥ तव चरणौ शरणमिति ब्रुवन्नहं मातरब्धितनये त्वम् । हरिणा सहिता दयया प्राह्यविलम्बेन दीनं माम् ॥ १९६ ॥ परिसरनतविबुधालीकिरीटमणिकान्तिवल्लरीविसरैः । कृतनीराजनविधि ते मम तु शिरोभूषणं हि पदयुगलम् ॥ १९७ ॥ मम हृदयपङ्कजवनीविकासहेतौ दिनाधिपायेताम् । तव तु कटाक्षप्रसरः दीपायेतां तमोनिराकरणे ॥ १९८ ॥ यावच्छरणं याति क्षितितनये त्वां हि जन्तुरिह मूढः । तावत् तस्य तु रसनाङ्गणे तु वाणी समाकलितनृत्ता ॥ १९९ ॥ पङ्कजनिलये तावकचरणं शरणं समाकलये । तेन हि सर्वकृतानां भविष्यतां हानिरेव दुरितानाम् ॥ २०० ॥ श्रुत्यन्तसेवितं ते चरणसरोजं प्रणम्य किल जन्तुः । छत्रोल्लसितशिराः सन् वनीपकान् दानवारिणा सिञ्चन् ॥ २०१ ॥ विष्वक्सेनमुखाद्यैः सेवितमम्ब त्वदीयपादयुगम् । अवतंसयन्ति सन्तः कलितापप्रशमनायास्तु ॥ २०२ ॥ दुग्धोदधितनये त्वां दिशागजेन्द्राः सुवर्णघटतोयैः । मणिमण्टपमध्यतले समभ्यषिञ्चन् हरिप्रीत्यै ॥ २०३ ॥ दिग्गजपुष्पकरकुम्भैरभिषिक्तां त्वां हरिः प्रीत्या । उदवहदारान्मुनिगणमध्ये सर्वश्रियो मूलम् ॥ २०४ ॥ जातपराक्रमकलिका दिशि दिशि किंनरसुगीतनिजयशसः । धन्या भान्ति हि मनुजाः यद्वीक्षालवविशेषतः काले ॥ २०५ ॥ नमदमरीकचभरसुममरन्दधाराभिषिक्तं ते । पदकमलयुगलमेतच्छ्रेयःस्फूर्त्यै सदा भवतु ॥ २०६ ॥ रागद्वेषादिहतं मामव कमले हरेः कान्ते । दर्शय दयया काले ह्यपवर्गस्थानमार्गं च ॥ २०७ ॥ न हि जाने वर्णयितुं परमे स्थने त्वदीयविभवमहम् । मुनयश्च सुरा वेदा यतो निवृत्ताः क्षमातनये ॥ २०८ ॥ मनुजाः कटाक्षिताः किल तथाम्बया मेदिनीपुत्र्या । सत्सुतकलत्रसहिताः सुरभिं कालेन निर्विशान्ति मुदा ॥ २०९ ॥ जलधीशकन्यका सा लसतु पुरोऽस्माकमादरकृतश्रीः । यत्प्रणमनाज्जनानां कवितोन्मेषः सदीडिते भाति ॥ २१० ॥ दूरिकरोतु दुरितं त्वद्भक्तिर्मामकं कमले । अहमपि सुरेशसेव्ये तव सदसि विशामि कीर्तिगानपरः ॥ २११ ॥ परमज्ञानविधात्री तव पादपयोजभक्तिरस्माकम् । किं वाशास्यमतोऽन्यत् समुद्रतनये हरेर्जाये ॥ २१२ ॥ अम्ब कदा वा लप्स्ये मदीयपापापनोदाय । तव पादकमलसेवामब्जभवाद्यैस्तु संप्रार्थ्याम् ॥ २१३ ॥ मन्दानामपि मञ्जुलकवित्वरसदायिनी जननी । कापि करुणामयी सा लसतु पुरस्तात् सदास्माकम् ॥ २१४ ॥ सकलकविलोकविनुते कमले कमलाक्षि वल्लभे विष्णोः । त्वन्नामानि हि कलये वने जले शत्रुपीडायाम् ॥ २१५ ॥ दिवि वा भुवि दिक्षु जले वह्नौ वा सर्वतः कमले । जन्तूनां किल रक्षा त्वदधीना कीर्त्यते विबुधैः ॥ २१६ ॥ कुशलविधये तदस्तु त्रिविक्रमासेव्यरम्यनिजकेलि । कबलितपदनतदैन्यं तरुणाम्बुजलोचनं तेजः ॥ २१७ ॥ जननी सुवर्णवृष्टिप्रदायिनी भाति विष्णुवक्षःस्था । कमला कलितक्षेमा प्रकृतीनां शीतलापाङ्गैः ॥ २१८ ॥ जगतामादिमजननी लसति कवेरात्मजापुलिने । क्षेत्रेषूत्तमजुष्टेष्वयोनिजा लोकरक्षायै ॥ २१९ ॥ कुचशोभाजितविष्णुः कुङ्कुमपङ्काङ्किता कमला । काञ्च्यां राजति काञ्चीमणिगणनीराजिताङ्घ्रियुगा ॥ २२० ॥ मन्दारकुसुममदहरमन्दस्मितमधुरवदनपङ्करुहा । हृद्यतमनित्ययौवनमण्डितगात्री विराजते कमला ॥ २२१ ॥ कंसरिपुगेहिनी सा हंसगतिर्हंसमान्यनिजचरिता । संसारतापहानिं कलयतु काले रमास्माकम् ॥ २२२ ॥ मनसिजजननी जननी चास्माकमिहादरात् काले । शीतललोलापाङ्गैस्तरङ्गयति श्रेयसां सरिणम् ॥ २२३ ॥ तव मन्दहासकलिकां भजे भुजङ्गे शयानं तम् । या कलयति गतकोपं बालानां नः कृतापराधानाम् ॥ २२४ ॥ सा साधयेदभीष्टं कमला श्रीर्विष्णुवक्षःस्था । यस्याः पदविन्यासः श्रुतिमौलिषु तन्यते महालक्ष्म्याः ॥ २२५ ॥ शान्तिरसनित्यशेवधिमम्बां सेवे मनोरथावाप्त्यै । यामाराध्य सुरेशाः स्वपदं प्रापुर्हि तादृक्षम् ॥ २२६ ॥ धातुरपि वेदवचसां दूरे यत्स्थानमामनन्ति बुधाः । सास्तु मुदे श्रीरेषा मुरमर्दनसत्कलत्रममितौजः ॥ २२७ ॥ भवदुःखराशिजलधेर्हठात् तरित्रीं परं विद्मः । तामम्बां कमलस्थां मुरारिवक्षोमणिप्रदीपां च ॥ २२८ ॥ मुनिसार्वभौमवर्णितमहाचरित्रं हरेः कलत्रं तत् । पथि मङ्गलाय भवतु प्रस्थानजुषां कृपाधारम् ॥ २२९ ॥ खण्डितवैरिगणेयं मण्डितभक्ता सुताद्यैश्च । भासुरकीर्तिर्जयति क्षोणीसुरवन्द्यचरणाब्जा ॥ २३० ॥ नतपालिनि मां पाहि त्रिजगद्वन्द्ये निधेहि मयि दयया । तावककटाक्षलहरीः शक्तिमये सकलसिद्धीनाम् ॥ २३१ ॥ भवसागरं तितीर्षुस्तव चरणाब्जं महासेयुम् । मातः कदा नु लप्स्ये घनतापोर्म्यादिपीडितो दीनः ॥ २३२ ॥ कविवाग्वासन्तीनां वसन्तलक्ष्मीर्मुरारिदयिता नः । परमां मुदं विधत्ते काले काले महाभूत्यै ॥ २३३ ॥ सुरहरपरतन्त्रं तद् गततन्द्रं वस्तु निस्तुलमुपासे । तेनैवाहं धन्यो मद्वंश्या निरसितात्मतापभराः ॥ २३४ ॥ तृष्णां शमयति देवी राघवदयिता नतालिसुरवल्ली । इट्यार्यवचो धैर्यं जनयति काले धरापुत्रि ॥ २३५ ॥ रघुपतिदयिते मातः काकासुररक्षणादिना लोके । तावककरुणामहिमा प्रथितः किल भूतिदायी नः ॥ २३६ ॥ प्रचुरतदुरितपालीसमावृतानां कलौ हि तप्तानाम् । तावकदया हि मातः शरणं वरमिति सतां गणः स्तौति ॥ २३७ ॥ अत्यन्तशीतलां तां कटाक्षधाटीमुपासेऽहम् । तेन मम त्रिदशानां न कोऽपि भेदो धरातनये ॥ २३८ ॥ यैः सेवा संकलिता तव पादाब्जे धरातनये । तेषामज्ञानझरी याति हि विलयं क्षणेनैव ॥ २३९ ॥ ज्ञानारविन्दविलसनमचिरादस्य स्तुतौ हि कविवर्याः । संपद् दिव्या च तथा विबुधावलिमाननीयात्र ॥ २४० ॥ मातस्तव पादाब्जं यस्य ललाटे कृतोरुनिजकान्ति । तत्पादपद्ममचिराद् विमानगा देवता वहति ॥ २४१ ॥ आज्ञावशेन देव्या लसन्ति दिवि देवतामान्याः । इन्द्राद्याः स च धाता दिक्पालाश्चापि गन्धर्वाः ॥ २४२ ॥ कैवल्यानन्दकलादात्रीं कमलामहर्निशं नौमि । तेनैव जन्म सफलं तीर्थादिनिषेवणाद्यच्च ॥ २४३ ॥ यच्च हरिपादपङ्केरुहपरिचरणादिना लोके । तत् सर्वमाशु घटयति सहसा मन्दस्य मे माता ॥ २४४ ॥ नानाश्रुत्यन्तकलापरिमलपरिवाहवासितं मातः । तव चरणकमलयुगलं ममावतंसः क्षणं भातु ॥ २४५ ॥ नतदेवनगरनारीधम्मिल्ललसत्सुमालिकृतनादाः । प्रातर्मुरजविलासं कलयन्ति भृशं तवाग्रतो भृङ्गाः ॥ २४६ ॥ पापप्रशमनदीक्षाकलाधुरीणाः पयोजनिलये ते । मां च पवित्रीकुर्युः पादपरागाः कृपावशतः ॥ २४७ ॥ हन्त कदा वा लप्स्ये तवाङ्घ्रिशुश्रूषणासक्तिम् । सहजानन्दं तेन हि पदं क्रमात् प्राप्यमादिष्टम् ॥ २४८ ॥ नलिनीविलासरुचिरां मयि देवि त्वत्कटाक्षलहरीं हि । काले निधेहि दयया स्फीता ते कीर्तिरादृता सर्वैः ॥ २४९ ॥ विनिहतदुरितस्तोमा कापि मदीये हृदम्भोजे । लसतु परदेवताख्या माधवनेत्रप्रियंकरी कलिका ॥ २५० ॥ पञ्चायुधगुरुमन्त्रं कलनूपुरनिनदमादरात् कमले । कलयति रमाधवगृहं यातुं काले त्वयि प्रवृत्तायाम् ॥ २५१ ॥ नतनाकिलोकवनिताललाटसिन्दूरशोणकान्तिभृतोः । कलये नमांसि कमले तव पादपयोजयोर्नित्यम् ॥ २५२ ॥ कमलसुषुमानिवासस्थानकटाक्षं चिराय कृतरक्षम् । रक्षोगणभीतिकरं तेजो भाति प्रकाममिह मनसि ॥ २५३ ॥ ज्योत्स्नेव शिशिरपाता कटाक्षधाटी त्वदीया हि । अम्ब मुकुन्द ( ... incomplete ... ) कुरुते ॥ २५४ ॥ तापहररसविवर्षंअधृतकुतुका कापि नीलनलिनरुचिः । कादम्बिनी पुरस्तदास्तां नः संततं जननी ॥ २५५ ॥ सफलयतु नेत्रयुगलं मामकमेतत् त्वदीयरूपमहो । यत् कमलनेत्रसुचरितपचेलिमं वैदिकी श्रुतिर्ब्रूते ॥ २५६ ॥ माधवनेत्रपयोजामृतलहरी भाति तावकं रूपम् । अम्ब युवामाद्यौ नः पितरौ वने सुखावाप्त्यै ॥ २५७ ॥ सरसकवितादिसंपद्विलसनमारादुशान्ति कविवर्याः । यत्प्रीणनेन सा मे भवतु विभूत्यै हि सा कमला ॥ २५८ ॥ मनसिजजयादिकार्यं यदपाङ्गलवान्नृणां भवति । तत्पदमानन्दकलं सेव्यं च भजे रमां जननीम् ॥ २५९ ॥ शिथिलततमःसमूहा भक्तानां सा रमा देवी । जनयति धैर्यं च हरेः काले या सर्वदा सेव्या ॥ २६० ॥ यद्भ्रूविलासवशतः शक्तः सृष्ट्यादिकं कर्तुम् । हरिरपि लोके ख्यातः सा नः शरणं जगन्माता ॥ २६१ ॥ नयनयुगलीं कदा मे सिञ्चति एव्याः परं रूपम् । यद्भजनान्न हि लोके दृष्टं श्लाध्यं परं वस्तु ॥ २६२ ॥ सुचरितफलं त्वदीयं रूपं नः कलितभक्तीनाम् । अत एव मामकानां पापानां विरतिरूर्जिता कमले ॥ २६३ ॥ सुकृतिविभवादुपास्या कमला सा सर्वकल्याणा । हरिवक्षसि कृतवासा रक्षति लोकानहोरात्रम् ॥ २६४ ॥ संविद्रूपा हि हरेः कुटुम्बिनी भाति भक्तहृदयेषु । सर्वश्रेयःप्राप्त्यै यां विदुरार्या रमां कमलाम् ॥ २६५ ॥ विषयलहरीप्रशान्त्यै कमलापादाम्बुजं नौमि । पूर्वं शुकादिसुधियो यद्ध्यानाद् गलितशत्रुभयाः ॥ २६६ ॥ ललितगमनं त्वदीयं कलनूपुरनादपूरितं मातः । नौमि पदाम्बुजयुगलं भवतापनिरासनायाद्य ॥ २६७ ॥ विरलीकरोति तापं कमलाया मन्दहासझरी । यत्सेवनेषु समुदितकौतुकरसनिर्भरो हरिर्जयति ॥ २६८ ॥ प्रतिफलतु संततं मे पुरतो मातस्त्वदीयरूपमिदम् । यद्दर्शनरसभूम्ना हरिरपि नानास्वरूपभाक् काले ॥ २६९ ॥ अम्ब तव चरणसेवां संततमहमादरात् कलये । तेन मम जन्म सफलं त्रिदशानामिव मुनीन्द्राणाम् ॥ २७० ॥ दुर्वारगर्वदुर्मतिदुरर्थनिरसनकलानिपुणाः । तव चरणसेवयैव हि कमले मातर्बुधा जगति ॥ २७१ ॥ आनदमेति मातस्तव नामोच्चारणेन सिन्धुभवे । संप्राप्तत्वद्रूपं मम मानसमात्तयोगकलम् ॥ २७२ ॥ तव दृष्टिपातविभवात् सर्वे लोके विधूततापभराः । यान्ति मुदा त्रिदशैः सह विभानमारुह्य मातरहो ॥ २७३ ॥ को वा न श्रयति बुधः श्रेयोऽर्थी तामिमां कमलाम् । यां पन्नगारिवाहनसद्गर्मिणीमर्चयन्ति सुरनाथाः ॥ २७४ ॥ तामरविन्दनिवासामम्बां शरणार्थिनां कलितरक्षाम् । बहुरूपेष्वघनिचयेष्वपि निश्चित्यात्मनो धैर्यम् ॥ २७५ ॥ करुणाप्रवाहझर्या गतपङ्क भूतलं मातः । सत्वाङ्कुरादिलसितं जयति पयोराशिककन्यके कमले ॥ २७६ ॥ विधिशिववासवमुख्यैर्वन्द्यपदाब्जे नमस्तुभ्यम् । मातर्विष्णोर्दयिते सर्वज्ञत्वं च मे कलय ॥ २७७ ॥ परदेवते प्रसीद प्रसीद हरिवल्लभे मातः । त्वामाहुः श्रुतयः किल कल्याणगुणाकरां नित्याम् ॥ २७८ ॥ क्षन्तव्यमम्ब मामकमघराशिं क्षपय वीक्षणतः । सत्वोन्मेषं देहि प्रिये हरेर्दासमपि कुरु माम् ॥ २७९ ॥ वाञ्छितसिद्धिर्न स्याद् यदि पादाब्जे कृतप्रणामानाम् । हानिस्त्वदीययशसामिति केचिद्धैर्यवन्तश्च ॥ २८० ॥ सदसदनुग्रहदक्षां त्वां मातः संततं नौमि । ग्रहपीडा नैव भवेद्यमपीडा दूरतः काले ॥ २८१ ॥ विद्याः कलाश्च काले कृपया कलय प्रसीदाशु । मातस्त्वमेव जगतां सर्वेषां रक्षणं त्वया क्रियते ॥ २८२ ॥ उछेष्वपि नीचेषु प्रकाशते तुल्यमेव तव रूपम् । एतद् दृष्ट्वा धैर्यं घनागसोऽप्यम्ब जायते ननु मे ॥ २८३ ॥ का शङ्का तव वैभवजालं वक्तुं दिगन्तरे मातः । वरहारालंकारां सेवन्ते त्वां हरित्पतयः ॥ २८४ ॥ कमलायाश्च हरेरपि संदृष्यं दिव्यदांपत्यम् । तावेव नः पती किल जन्मान्तरपुण्यपरिपाकात् ॥ २८५ ॥ सर्वासामुपनिषदां विद्यानां त्वंपरं स्थानम् । अल्पधियो वयमेते त्वत्स्तोत्रे भोः कथं शक्ताः ॥ २८६ ॥ साष्टाङ्गप्रणतिरियं प्रकल्पिता मातरद्य तव चरणे । तेनाहं हि कृतार्थः किं प्रार्थ्यं वस्त्वतः कमले ॥ २८७ ॥ स्तोत्रमिदंहि मया ते चरणाम्भोजे समर्पितं भक्त्या । तव च गुरोरपि वीक्षा तत्र निदानं परं नान्यत् ॥ २८८ ॥ देहान्ते ननु मातर्मोक्षं त्रिदशैः समं देहि । अहमपि साम पठन् सन् त्वां च हरिं यामि शरणार्थी ॥ २८९ ॥ शुकवाणीमिव मातर्निरर्थकां मद्वचोभङ्गीम् । आराच्छृणोषि दयया तदेव चोत्तमपदव्यक्त्यै ॥ २९० ॥ विद्यां कलां वरिष्ठां अम्ब त्वां संततं वन्दे । या व्याकरोषि काले विद्वद्भिर्वेदतत्त्वादि ॥ २९१ ॥ वैदुष्यं वाण्याः सत्संपज्झर्यो यदीयवीक्षणतः । सिध्यन्त्यपि देवानां सा नः शरणं रमा देवी ॥ २९२ ॥ विपुलं श्रियो विलासं श्रद्धां भक्त्यादिकं देहि । अम्ब प्रसीद काले तव पादाब्जैकसेविनामिह नः ॥ २९३ ॥ केचित् प्राञ्चः कमलां प्राप्य हि शरणं विपत्काले । झटिति विधूनिततापाः सा मे देवी प्रसन्नास्तु ॥ २९४ ॥ मरकतकान्तिमनोहरमूर्तिः सैषा रमा देवी । पाति सकलानि काले जगन्ति करुणावलोकाद्यैः ॥ २९५ ॥ भागीरथीव वाणी तव नुतिरूपा विराजते परमा । इह मातर्यद्भजनं सर्वेषां सर्वसंपदां हेतुः ॥ २९६ ॥ कलशपयोदधितनये हरिप्रिये लक्ष्मि मातरम्बेति । तव नामानि जपन् सन् त्वद्दासोऽहं तु मुक्तये सिद्धः ॥ २९७ ॥ निखिलचराचररक्षां वितन्वती विष्णुवल्लभा कमला । मम कुलदैवतमेषा जयति सदाराध्यमान्यपादकमला ॥ २९८ ॥ सर्वजन्नुतविभवे संततमपि वाञ्छितप्रदे देवि । अम्ब त्वमेव शरणं तेनाहं प्राप्तसर्वकार्यार्थः ॥ २९९ ॥ कमले कथं नु वर्ण्यस्तव महिमा निगममौलिगणवेद्यः । इति निश्चित्य पदाब्जं तव वन्दे मोक्षकामोऽहम् ॥ ३०० ॥ त्वामम्ब बालिशोऽहं त्वचमत्कारैर्गिरां गुम्भैः । अयथायथक्रमं हि स्तुवन्नपि प्राप्तजन्मसाफल्यः ॥ ३०१ ॥ इति श्रीकमलात्रिशती समाप्ता
Encoded and proofread by Sridhar Seshagiri seshagir at engineering.sdsu.edu
% Text title            : kamalAtrishatI
% File name             : kamalA300.itx
% itxtitle              : kamalAtrishatI
% engtitle              : kamalAtrishatI
% Category              : shatI, devii, lakShmI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Author                : gaNgAdharamakhivirachitA
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Sridhar  Seshagiri sridhar.seshagiri at gmail.com
% Proofread by          : Sridhar  Seshagiri sridhar.seshagiri at gmail.com
% Latest update         : July 15, 2003
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP