कमलाम्बिकास्तवः २
कमलालयतीरस्या चिद्घना कमलाम्बिका ।
कमलासनसम्पूज्या भाति कामकलात्मिका ॥
अन्वैच्छस्तपसा श्रमणऋषयो मन्त्रार्थसंवेदिनः
वाग्देवीं वरदे मनीषिण उमे देवाश्च यां त्वां शिवे ।
सा त्वं श्रीकमलालये परशिवाभिन्नात्मिके चिद्घने
किं प्राप्तुं कमलाम्बिके वरतपोवेषा विभास्यम्बिके ॥ १॥
मातः किं मधुकैटभासुहरणात्कासारदैत्यार्दनात्
किं धूम्राम्बकचण्डमुण्डहननात् किं रक्तबीजाशनात् ।
किं वा शुम्भनिशुम्भदैत्यहननात् पापं किमासादितं
कूले श्रीकमलालयस्य कुरुषे दुर्गे किमर्थं तपः ॥ २॥
अव्यक्तं परमेश्वराकृतिरहो व्यक्तं त्वदाकारकं
दृश्यं यद्धि चराचरात्मकमिदं विश्वं विभात्यम्बिके ।
तद्बोधस्य विधायिनी परशिवाभिन्ने त्वमेव स्वयं
श्रीमातः कमलाम्बिके श्रुतिशिरस्त्वेवं ब्रवीतीश्वरि ॥ ३॥
करब्रह्माकृतिमन्त्रिणीपरिनमद्यल्लाङ्गलिन्याश्रितं
बिन्द्वन्ते स्थितिकारणात्मकमिति स्वैकानुभूत्या बुधाः ।
मातः श्रीकमलाम्बिकेति विलसन्नामाक्षरार्थं तव
प्राहुस्त्वेवमगात्मजे परचिदानन्दस्वरूपे शिवे ॥ ४॥
मूलाधारतले परमिति शिवे नादात्मिकां त्वां बुधाः
पश्यन्तीमिति नाभिपद्मविवरे त्वां वै महान्तो विदुः ।
हृत्पद्मे कमलाम्बिके परशिवे त्वां मध्यमां ज्ञानिनः
कण्ठे व्यक्तरवां वराक्षरतनो त्वां वैखरीं सञ्जगुः ॥ ५॥
ये त्वामक्षरपीठगां हृदयगाम्भोजस्थितां सर्वदा
ध्यायन्त्यक्षररूपिणीं भवमहापाशाद्विमुच्य स्वयम् ।
चिन्मुद्राङ्कितसद्गुरोः करुणया बोधं समासाद्य ते
सानन्दं विहरन्ति सत्सुखमहाम्भोधौ निमग्नाशयाः ॥ ६॥
मूलाधारगताम्बुजाद्विधिबिलस्थाम्भोजपर्यन्तगां
तन्वीं त्वां बिसतन्तुवद्रविशतानेकद्युतिं भास्वराम् ।
ये त्वां श्रीकमलाम्बिके हृदि सदा शीताम्शुवच्छीतलां
तेजोदण्डसमाकृतिं परशिवे ध्यायन्ति धन्या हि ते । ७॥
चिच्चन्द्रबिम्बोत्थसुधास्वरूपपञ्चोपचारैः परमर्चयन्ति ।
त्वां पञ्चभूतानि हि मूर्तिमन्ति मातः शिवे श्रीकमलालयस्थे ॥ ८॥
भूतानि जातानि परेशि तत्तन्मात्रासमं त्वत्कमलालयस्थे ।
भूम्यन्तरिक्षानिलवह्निकानि त्वय्येव लीनानि भवन्ति मातः ॥ ९॥
ज्योतिर्मयाया हृदयत्रिकोणमध्यस्थितायास्तव पादपद्मे ।
लीनं विचिन्त्य स्वमहो महान्तः नयन्ति कालं कमलालयस्थे ॥ १०॥
श्रीकादिविद्ये कमलालयस्थे त्वन्मूलविद्याजपतो महान्तः ।
ज्योतिर्मयं ते परचित्स्वरूपं भजन्ति विश्वोत्थविकारहीनम् ॥ ११॥
तेजोरूपविराजिते परशिवाभिन्नप्रकाशात्मिके
त्वं मातर्वियदादिविश्वजननी सर्वावभासिन्युमे ।
स्वाभेदप्रविराजमानपरचिन्मात्रा त्वया प्रेरिताः
मान्याः श्रीकमलाम्बिके बुधवराः कर्माचरन्त्यम्बिके ॥ १२॥
विश्वाकृती राजसि जाग्रति त्वं स्वप्ने शिवे तैजसरूपधर्व्री ।
प्राज्ञस्वरुपासि सुषुप्तिकाले तुरीयरूपा कमलालयस्थे ॥ १३॥
इदन्तया श्रीजगदीश्वरि त्वं सामान्यतः श्रीपरचित्स्वरुपे ।
अहन्तया श्रीकमलालयस्थे विशेषतो भासि सदाशिवे त्वम् ॥ १४॥
शक्त्याकृतिः श्रीकमलालयस्थे जगत्सिसृक्षासमये शिवस्य ।
तत्पूर्वकाले निजरूपतस्त्वं विराजसे विश्वतनो परेशि ॥ १५॥
त्वत्पादपद्मं वरदे प्रणन्तुं स्तोतुं महेश्यर्चयितुं ह्यशक्तः ।
कथं भविष्यामि शिवे भवाब्धेः शक्तः परं पारमुमे सुतर्तुम् ॥ १६॥
अज्ञानदुष्टग्रहपीडितानां नृणामपाङ्गेक्षणसद्विभूतिः ।
महौषधिर्मन्त्रविदस्तवेति प्राहुर्महान्तो गुरुरूपधर्त्रि ॥ १७॥
कमलालयतटशोभितविमलालयविलसत्
कमलापतिकमलासनकमलार्चितविभवम् ।
कमलाङ्घ्रिककमलाननकमलाम्बकविलसत्
कमलाभिधमह आन्तरकमले मम कलये ॥ १८॥
मातः परेशि कमलालयहंसिरूपे
नातः परं गदितुमस्ति हि किञ्चिदम्ब ।
मच्चित्तपङ्कजतले कमलाम्बिके त्वं
सच्चित्तनो विहर हंसिवदम्बुजे त्वम् ॥ १९॥
कटकमासगतार्यमोडुनि कनकरत्नभूषिता
कटितटोल्लसदिन्दुकुन्दसुकान्तिभृद्धवलाम्बरा ।
कुटिलकुन्तलकोमला ग्रथितप्रलम्बकचाग्रका
कुटजकुन्दसुमाल्यका कमलाम्बिका प्रविराजते ॥ २०॥
कमलतटनिवासां कामितार्थप्रदात्रीं
समलमतिसुदूरां सामगानप्रियां ताम् ।
शमलगिरिसुवज्रां श्यामलादिप्रपूज्यां
विमलहृदयवासां व्योमरूपां भजेऽहम् ॥ २१॥
यजनपरमनुजवरशिववदनजार्चितां
भजनपरसनकमुखमुनिहृदयसंस्थिताम् ।
अजजनकहयवदनहरिहयसुपूजितां
भज हृदय रविजलजगुरुवरदशङ्करीम् ॥ २२॥
करे विराजत्कमनीयपङ्कजां नरेन्द्रयोगीन्द्रनमत्पदाम्बुजाम् ।
धराधरेन्द्रस्य तपःप्रभावजां वरेण्यरुपां कलये शिवामजाम् ॥ २३॥
स्वाभेदतः श्रीकमलाम्बिके त्वां स्वान्तस्थहृत्पद्मतले महान्तः ।
ध्यायन्ति ये ते परचित्स्वरूपे स्वानन्दवाराम्निधिं सन्निमग्नाः ॥ २४॥
मुद्राक्षमालाम्बुजपाशहस्तां स्ववामजानूर्ध्वगतान्यजानुम् ।
योगासनस्थां कमलालयस्थां भजे सदा श्रीकमलाम्बिके त्वाम् ॥ २५॥
वीणावादनतत्परां विधिनुतामेणाङ्कतुल्याननां
वाणीनिर्जितकीरकोकिलखगश्रेणिं सुगानप्रियाम् ।
वेणीबन्धलसत्सुमां वरमहामाणिक्यभूषान्वितां
वाणीस्थां कमलाम्बिकां मम शिवप्राणात्मिकां संश्रये ॥ २६॥
ईशानकोणे कमलालयस्य श्रीत्यागराजस्य तु वायुकोणे ।
ईशानदृष्टिः कमलाम्बिकाख्या या भाति सा श्रीरमृता सतां हि ॥ २७॥
अबलालयवद्विराजित श्रीकमलालयसंस्थितां कुमारीम् ।
सफले लयहीनमूर्तिमम्बां जनिरप्यवलोकयतां नृणां दृक् ॥ २८॥
तवैव भासा कमलालयस्थे सम्प्राप्तवान्भास्करतां दिनेशः ।
त्वत्पादपद्मोत्थसुधाब्धिमग्नः सुधांशुतां प्राप निशापतिर्हि ॥ २९॥
श्रीकामराजाख्यसुमन्त्रलक्ष्ये नाकाधिराजस्तुतपादपद्मे ।
एकापि भक्तावलिरक्षणार्थं नैकासि मातः कमलालयस्थे ॥ ३०॥
वर्णादिरूपे शिवशक्त्यभेदमूर्ते चिदानन्दरसप्रदात्रि ।
मातः शिवे त्वं शिवशक्तिभेदवर्णस्वरूपेण विराजितासि ॥ ३१॥
त्वत्पादपद्मोथसुधासुपानात् सदा निजानन्दरसैकनिष्ठाः
मदादिहीनाः कमलालयस्थे माद्यन्ति मर्त्यास्तव भक्तवर्याः ॥ ३२॥
अनुग्रहस्ते यदि सत्यमम्ब न मे भयं श्रीकमलालयस्थे ।
अनुग्रहो नो यदि सत्यमम्ब न मेऽभयं कामकलास्वरूपे ॥ ३३॥
मदम्बिका हृत्कमलान्तरस्था चिदम्बिका श्रीकमलालयस्था ।
अनन्तसौख्यं कमलासनस्था तनोतु देवी कमलाम्बिका मे ॥ ३४॥
यत्सङ्कल्पविकल्पबीजजनितं त्वन्तर्महीसम्भवं
कृत्याकृत्यजलप्रवर्धितमुमे जन्मादिहेतुं परम् ।
धर्माधर्मफलप्रदं तव वरज्ञानासिना ये नराः
पुण्यापुण्यमहाद्रुमं नगसुते छिन्दन्ति धीरा हि ते ॥ ३५॥
अनिन्धनं समेधिते निरन्तरं हृदन्तरे
चिदाशुशुक्षणौ महाविमोहरात्रिनाशके ।
अवाच्यवैभवे परे विचित्रभाविकासिते
जुहोम्यहं धरादिमं शिवान्ततत्त्वमम्बिके ॥ ३६॥
लाक्षारसारक्तपदाम्बुजाढ्या द्राक्षासुमाधुर्यवचोविधात्री ।
आक्षारूपा कमलालयेऽम्ब साक्षाद्विभाति स्वकभक्तपक्षा ॥ ३७॥
अक्षरत्रयरूपिणीमखिलाक्षवृत्तिविनाशिनीं
ऋक्षराजसुभाविताममृताक्षराङ्घ्रियुगां भजे ।
अक्षरासनसंस्थितामजशिक्षकेभमुखप्रियां
चिक्षुरादिविनाशिनीं वरलक्षणां कमलाम्बिकाम् ॥ ३८॥
अदीक्षितानां हि मनोऽक्ष्यलक्ष्या सुदीक्षितानां तु मनोऽक्षिलक्ष्या
सदीक्षिता श्रीकमलालयस्था मदीक्षणस्यास्तु हृदोऽपि लक्ष्या ॥ ३९॥
कमलेति तवाक्षरत्रयाणि कमनीयतमानि शुभप्रदानि ।
कमलालयगे मलत्रयाणि कमलादिनुते हरन्ति मातः ॥ ४०॥
मातर्देवि त्वत्पराभक्तिमार्गं हित्वा मोक्षस्यैकहेतुं मृडानि ।
अन्यः पन्था विद्यते नायनायेत्येवं वेदो व्यक्तमेव ब्रवीति ॥ ४१॥
स्वाराज्यमाप्नोति स एव नूनम् स्वाभेदतः श्रीकमलालयस्थाम् ।
स्वान्ताम्बुजे यो विमले ह्युपास्ते स्वाचार्यसन्दर्शितमार्गनिष्ठः ॥ ४२॥
विद्याप्रपञ्चे विहरन्ति सन्तोऽविद्याप्रपञ्चे विहरन्ति मूढाः ।
विद्याकृते श्रीकमलालयस्थेऽविद्याकृते त्वत्कृपयैव नूनम् ॥ ४३॥
मकारवर्जं तव वामनेत्रबिन्द्वाढ्यमाद्ये कमलेति नाम ।
श्रीकामराजाख्यवरार्णरूपं भजन्ति मान्याः स्वकबोधसिध्यै ॥ ४४॥
उमेति वर्णद्वयमादिशक्ते नवाकृते तेऽक्षरतां हि मातः ।
प्रदर्शयत्येव परास्वरूपे गुरुस्वरूपे कमलालयस्थे ॥ ४५॥
चतुर्भिराद्यैः समुपास्यमानां चतुर्विधैक्यानुभवैकवेद्याम् ।
चतुःश्रुतीनामपि सारभूतां चतुर्मुखेड्यां कमलां भजेऽहम् ॥ ४६॥
श्रीनाथनामक्रिययैव नामविकारहीनं हि तव स्वरूपम् ।
आनन्दभैरव्यगभाग्यभूते स्वानन्दमाप्नोति नरो विपाप्मा ॥ ४७॥
भीरुं रक्षतु भैरवी भयहरा घोराद्भवाम्भोनिधेः
कल्याणी कमलाम्बिका विहरतु स्वान्तस्थपद्मे सदा ।
कां भो जात भजस्व कादिमनुराड्रूपां कुलाम्भोजगां
अम्बां विश्वविमोहिनीं विधिनुतां पश्यान्तरे रागिणीम् ॥ ४८॥
मम चेतः कमलं मलत्रयाढ्यं विमलाङ्घ्रिद्वयसन्निवेशनात्ते ।
अमलं कमलाम्ब कुरुष्व तस्मान्मम लाभः परमो न तेऽम्ब हानिः ॥ ४९॥
स्वरेशचन्द्रद्वयशक्तिबीजत्रयाढ्यमाद्ये कमलेति नाम ।
मकारवर्जं तव मूलविद्यां विद्योतयत्येव गुरुस्वरूपे ॥ ५०॥
शान्तस्वरूपा विमलप्रकाशा त्वमात्मरूपा च गुहान्तरस्था ।
मातश्चिदानन्दतनुर्विभासि त्वमम्बिकेऽनन्तसुखप्रदात्रि ॥ ५१॥
अनन्तसूत्रग्रथिता सुवर्णमालाऽतिमाधुर्यवचस्सुमाढ्या ।
गुरुस्वरूपा कमलाम्बिका या तदङ्घ्रिपद्मं समलङ्करोतु ॥ ५२॥
इति श्रीगुहानन्दमण्डलीसंस्थापकतदध्यक्ष
श्रीमच्चिदानन्दनाथाख्यसद्गुरुपादाब्जामृतपायिना
अनन्तानन्दनाथेन रचितः श्रीकमलाम्बिकास्तवः सम्पूर्णः ॥
Encoded by Chandra V Ramani chandravr at gmail.com
Proofread by Chandra V Ramani, PSA Easwaran