मार्कण्डेयमुनिप्रोक्तं सरस्वतीस्तोत्रम्

मार्कण्डेयमुनिप्रोक्तं सरस्वतीस्तोत्रम्

तस्मिन् प्लक्षे स्थितां दृष्ट्वा मार्कण्डेयो महामुनिः । प्रणिपत्य तदा मूर्ध्ना तुष्टावाथ सरस्वतीम् ॥ ५॥ मार्कण्डेय उवाच । त्वं देवि सर्वलोकानां माता देवारणिः शुभा । सदसद्देवि यत्किञ्चिन्मोक्षदाय्यर्थवत्पदम् ॥ ६॥ तत्सर्वं त्वयि संयोगि योगिवद्देवि संस्थितम् । अक्षरं परमं देवि यत्र सर्वं प्रतिष्ठितम् । अक्षरं परमं ब्रह्म विश्वं चैतत्क्षरात्मकम् ॥ ७॥ दारुण्यवस्थितो वह्निर्भूमौ गन्धो यथा ध्रुवम् । तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ॥ ८॥ ॐ काराक्षरसंस्थानं यत्तद्देवि स्थिरास्थिरम् । तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च ॥ ९॥ त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् । त्रीणि ज्योतींषि वर्गाश्च त्रयो धर्मादयस्तथा ॥ १०॥ त्रयो गुणास्त्रयो वर्णास्त्रयो देवास्तथा क्रमात् । त्रैधातवस्तथावस्थाः पितरश्चैवमादयः ॥ ११॥ एतन्मात्रात्रयं देवि तव रूपं सरस्वति । विभिन्नदर्शनामाद्यां ब्रह्मणो हि सनातनीम् ॥ १२॥ सोमसंस्था हविःसंस्था पाकसंस्था सनातनी । तास्त्वदुच्चारणाद्देवि क्रियन्ते ब्रह्मवादिभिः ॥ १३॥ अनिर्देश्यपदं त्वेतदर्द्धमात्राश्रितं परम् । अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ॥ १४॥ तवैतत्परमं रूपं यन्न शक्यं मयोदितुम् । न चास्येन न वा जिह्वाताल्वोष्ठादिभिरुच्यते ॥ १५॥ स विष्णुः स वृषो ब्रह्मा चन्द्रार्कज्योतिरेव च । विश्वावासं विश्वरूपं विश्वात्मानमनीश्वरम् ॥ १६॥ साङ्ख्यसिद्धान्तवेदोक्तं बहुशाखास्थिरीकृतम् । अनादिमध्यनिधनं सदसच्च सदेव तु ॥ १७॥ एकं त्वनेकधाप्येकभाववेदसमाश्रितम् । अनाख्यं षड्गुणाख्यं च बह्वाख्यं त्रिगुणाश्रयम् ॥ १८॥ नानाशक्तिविभावज्ञं नानाशक्तिविभावकम् । सुखात्सुखं महात्सौख्यं रूपं तत्त्वगुणात्मकम् ॥ १९॥ एवं देवि त्वया व्याप्तं सकलं निष्कलं च यत् । अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥ २०॥ येऽर्था नित्या ये विनश्यन्ति चान्ये येऽर्थाः स्थूला ये तथा सन्ति सूक्ष्माः । ये वा भूमौ येऽन्तरिक्षेऽन्यतो वा तेषां देवि त्वत्त एवोपलब्धिः ॥ २१॥ यद्वा मूर्तं यदमूर्तं समस्तं यद्वा भूतेष्वेकमेकं च किञ्चित् । यच्च द्वैते व्यस्तभूतं च लक्ष्यं तत्सम्बद्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥ २२॥ इति वामनपुराणे द्वात्रिंशाध्यायान्तर्गतं मार्कण्डेयमुनिप्रोक्तं सरस्वतीस्तोत्रं समाप्तम् । वामनपुराण । अध्याय ३२/६-२२॥ vAmanapurANa . adhyAya 32/6-22.. Proofread by PSA Easwaran
% Text title            : Markandeyamuniproktam Sarasvati Stotram
% File name             : mArkaNDeyamuniproktaMsarasvatIstotram.itx
% itxtitle              : sarasvatIstotram (mArkaNDeyamuniproktaM vAmanapurANAntargatam)
% engtitle              : mArkaNDeyamuniproktaM sarasvatIstotram
% Category              : devii, devI, vAmanapurANa, sarasvatI, stotra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : sarasvatI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : vAmanapurANa | adhyAya 32/6-22||
% Indexextra            : (Scans 1, 2, 3, 4, Hindi 1, 2, English, Marathi)
% Latest update         : September 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org