मातृकाचक्रविवेकः
॥ ॐ श्रीगणेशाय नमः ॥
॥ ॐ गुं गुरुभ्यो नमः ॥
॥ मातृकाचक्रविवेकः ॥
(स्वतन्त्रानन्दनाथविरचितः)
प्रथमः खण्डः । तात्पर्यविवेकः
जाग्रत्सुषुप्तिकृतदक्षिणवामभागां
स्वप्नस्वभावपरिकॢप्तजघन्यभागाम् ।
तुर्यातितुर्यघटिताननहृत्प्रदेशां
प्राणेश्वरीं परशिवस्य परामृशामः ॥ १॥
स्पर्शस्वरोल्लिखितजागरसुप्त्यवस्था-
मन्तःस्थसूचितसुषुप्त्युदित प्रबोधाम् ।
ऊष्मोक्तजागरदशोदितसुप्त्यवस्थां
मन्त्रोत्करस्य जननीं मनसा विशामः ॥ २॥
सङ्कोचसंश्रयणवर्जनभावभङ्ग्या
जाग्रत्सुषुप्तिदशयोर्गमकौ प्रयत्नौ ।
द्वौ स्पृष्टताविवृतते विदितौ सुधीभिः
स्पर्शस्वराक्षरगतौ परिशीलयामः ॥ ३॥
स्पृष्टिर्यवर्गविषया विवृतत्वयुक्ता
स्पृष्ट्यन्विता विवृतता च शवर्गनिष्ठा ।
तौ स्वप्नतुर्यदशयोर्गमकौ प्रयत्ना-
वेतौ स्मराम्यसकलापरिपूर्तिपूर्त्योः ॥ ४॥
पूर्णैव पूर्तिरविकल्पपदे सुषुप्तौ
जाग्रत्यपूर्तिरपि संसृतिधाम्नि तद्वत् ।
जाग्रत्सुषुप्तिसमवायपदे तुरीये
स्वप्ने च तादृशि तयोरसमग्रतैव ॥ ५॥
स्वप्नः सुषुप्त्यनुगतं ननु जाग्रदेव
तुर्यं च जाग्रदनुवृत्तसुषुप्तिरेव ।
स्वप्नस्तथा च सति जाग्रत एव भेद-
स्तुर्या दशापि च तथैव सुषुप्तिभेदः ॥ ६॥
ज्ञानात्मनान्तरुदिते खलु बोधसुप्ति-
स्वप्नस्तुरीयमिति नामविशेषभाजौ ।
बाह्ये क्रियात्मकतयोदितयोस्तयोः स्या-
दाख्या प्रबोध इति सुप्तिरिति प्रसिद्धा ॥ ७॥
जाग्रद्बहिर्विलसनं ननु भेदसृष्टेः
स्वप्नोन्तरुल्लसनमित्युभयी दशैव ।
तुर्याभिधानमुपयात्यविभेदसृष्टौ
सृष्टिद्वयस्य जनिविश्रमभूस्सुषुप्तिः ॥ ८॥
सृष्टा बहिः शिवचिता प्रकृतिर्विसर्ग-
स्तां स्वात्मना कवलयन् शिव एष बिन्दुः ।
संसारविश्रमजुषोरिति नामधेये
संसारिणौ पशुशिवौ च पशुः शिवश्च ॥ ९॥
द्वैतात्मकं भवति संसरणं पशोस्त-
दद्वैतरूपमभवस्य परस्य शम्भोः ।
मिश्रं त्रिरूपमपि संसरणं यतः स्या-
द्विश्रान्तिभाक्तदिह धाम परं हि बिन्दुः ॥ १०॥
गौणो हि बिन्दुरिति वित्तिरभेदरूपा
शैवी तनूर्भवति भेदपदं तु वेद्यम् ।
जीवस्य संवरकमस्य ततः स्वरूपं
सर्गैर्भवेद्व्यवहृतिर्महतामितीयम् ॥ ११॥
चैत्यं विमर्शपरिणामदशाविमर्श-
श्चिद्धर्म एष च चितो जननाल्लयाच्च ।
नास्त्येव सा चिदपि यद्यविमृष्टरूपा
धर्मस्ततो भवति चिच्च विमर्शशक्तेः ॥ १२॥
चिच्चैत्ययोरिति समे सति धर्मधर्मि-
भावे परस्परपदाक्रमणं स्वभावः ।
चैत्यावृता भवति चित्पशुरेष चैत्य-
मावृण्वती चिदपि याति शिवप्रसिद्धिम् ॥ १३॥
चिच्चैत्ययोः समतया स्तिमिते स्वभावे
मिश्रं तु मध्यमपदं परशम्भुरूपम् ।
चिच्चैत्यमिश्रणतया तदयं त्रिरूपो
धर्मी च तत्तदुचितश्च तथा विमर्शः ॥ १४॥
चित्तिश्च चैत्यमपि तच्च विमर्शतत्त्वं
ज्ञानक्रिये न हि तयोः परमार्थभेदः ।
ज्ञानं गृहीतकठिनत्वगुणं क्रिया स्या-
ज्ज्ञानं भवेद्विरलिमाश्रयिणी क्रियैव ॥ १५॥
ज्ञानस्य सिध्यति विना क्रियया न रूपं
तस्यास्तथैव न हि तेन विनोपलम्भः ।
तस्मात्तयोर्यमलतैव मतं हि सैद्धं
पूर्वापरत्वकलनं त्विह पूर्वपक्षः ॥ १६॥
अर्धं क्रिया भवति दक्षिणमन्यदर्धं
ज्ञानं समत्वमनयोरपि मध्यमिच्छा ।
इच्छैव बीजमचलान्तरबाह्यगत्या
ज्ञानं क्रिया च खलु मूलमिहाङ्कुरश्च ॥ १७॥
ज्ञानं क्रिया तदुभयैकरसापि चेच्छा
तत्त्वत्रयं भवति नित्ययुतस्वभावम् ।
ज्ञानस्य मानमिति मेयमिति क्रियाया
मातेति चेतरपदस्य हि नामभेदाः ॥ १८॥
ज्ञानं च कर्म च परस्परमूलमिच्छा
मूलं तयोस्तदुभयं खलु मूलमस्याः ।
मूर्तित्रयं मतमिदं त्रयमेव सृष्टि-
स्थित्यन्तकारणतया त्रिगुणस्वभावम् ॥ १९॥
एतत्त्रयात्मकतया सकलं त्रिरूपं
सुप्त्यादिका अपि दशाश्च तथैव तिस्रः ।
सुप्तिः क्रियाजडतया भवति प्रबन्धो
ज्ञानं विमिश्रमनयोः पदमन्यदिच्छा ॥ २०॥
अन्योन्यलीनवपुषोरिह चैत्यचित्योः
सुप्त्यादिषु त्रिषु पदेषु भवो द्विरूपः ।
श्लिष्टः प्रवृत्तिविनिवृत्तिमयो विभाव्यः
श्रीचक्रमूलमनुसंस्थितिदर्शनेन ॥ २१॥
इच्छा सुषुप्तिरबहिर्जनितः प्रबोधो
ज्ञानं क्रिया भवति जागरणं जडस्य ।
तुर्यस्थजागरपदादिसुषुप्तिसीमा
इच्छादयः खलु दशास्त्वजडाः शिवस्य ॥ २२॥
अन्तर्मुखी भवति बिन्दुगतिर्विसर्ग-
स्योक्ता गतिर्गुरुजनेन बहिर्मुखीति ।
पूर्वः सुषुप्तिपदमध्यमुपैति जाग्रन्
मध्यात्तमृच्छति परस्तु सुषुप्तिमध्यात् ॥ २३॥
सुप्त्यादि जाग्रदवधि त्रितयं दशानां
जन्तोः प्रवृत्तिवपुषोऽथ निवृत्तिमूर्तेः ।
तज्जाग्रदाद्यवधिभूतसुषुप्ति शम्भो-
रारोहसीमसमुपक्रमणोवरोहः ॥ २४॥
तस्मात्प्रवृत्तिविनिवृत्तिमयोभयार्थः
स्वप्नः सुषुप्तिरपि जाग्रदपीति गोप्यम् ।
भेदानि भेदमयजीवशिवाङ्गकानां
षण्णां विमिश्रणमिदं प्रकृत्तिर्दशानाम् ॥ २५॥
स्वप्नप्रजागरसुषुप्तिमयाष्टकोण-
पङ्क्त्यस्रयुग्ममनुकोणविराजमाने ।
यन्त्रेश्वरे हि शिवजीवसमन्वयोऽयं
दृष्टः समस्तपरमार्थविदीष्टदेवे ॥ २६॥
सुप्तिः शशी जडतया तपनोऽपि जाग्र-
च्चैत्यस्य सन्तपनमात्रचिदात्मकत्वात् ।
स्वप्नोनलोगिलितचैत्यतया पशुत्वे
सोऽप्यर्क एव दहनः सकलं शिवत्वे ॥ २७॥
चैत्यातिविस्फुरणसीम्नि खलु प्रतिष्ठा
जाग्रत्यणोरथ तुरीयपदान्तरर्थे ।
शम्भोर्विमर्शवति जाड्यमलव्यपेते
जाग्रत्सुषुप्तिदशयोः सममध्यभागे ॥ २८॥
माता शशी भवति मेयपदं पशुत्वे
वह्निः प्रमाणमिह तिग्मरुचिः क्रियाग्र्यम् ।
मातानलः शिवपदे हिमगुः प्रमेयं
ज्ञानाग्र्यभाग इह तुर्यरविः प्रमाणम् ॥ २९॥
चैत्यप्रमातुरिह यज्जडमेव मानं
तच्चित्प्रमाणमनुजीवति तद्धि चैत्यम् ।
चित्तत्त्वमेव नियमादनुजीवदेतन्-
नात्यश्नुते स्वमिव चित्तदिदं विभेदि ॥ ३०॥
जाड्यादचिन्न विमृशत्यपि मातृभावे
तां चित्कलेव गिलितात्मपदां मृशन्ति ।
मोहेन कल्पयति मातृदशाममुष्या
व्याप्तिर्हि मातृपदलक्षणतोपपन्ना ॥ ३१॥
मानं तृतीयपदभागपि बाह्यतस्तु
मध्ये विमिश्रणमिदं खलु मेयमात्रोः ।
मिश्रं हि मध्यमपदे निखिलस्य दृष्टं
द्वैरूप्यमस्य च नपुंसकता च धाम्नः ॥ ३२॥
रश्मीननूदयति बिम्बमतः स्वरेषु
सर्गः सितांशुरणुबिन्दुरिनश्च कादौ ।
यादौ शिखी महितबिन्दुरिति त्रिखण्ड्या
वर्णक्रमेण विदितं त्रिमहोमयत्वम् ॥ ३३॥
खण्डक्रमेण शशिनो दहनाङ्गतोक्ता
तद्व्युत्क्रमेण जडभानुगुणत्वमग्नेः ।
खण्डेषुच क्रमविलोमजपेन चैत्य-
चित्योः परस्परपदाक्रमरीतिरुक्ता ॥ ३४॥
स्वप्नश्च जाग्रदपि वासरपूर्वयामौ
तुर्यं पदद्वयवदुत्तरयामयुग्मम् ।
सुप्तिस्तुरीयलयभूः प्रथमं क्षपार्धं
स्वप्नप्रजागरदशालयभूर्द्वितीयम् ॥ ३५॥
इति श्रीमातृकाचक्रविवेके तात्पर्यविवेकः प्रथमः खण्डः ॥ १॥
द्वितीयः खण्डः । सुषुप्तिविवेकः
मायाबलात्प्रथमभासि जडस्वभावं
विद्योदयादथ विकस्वरचिन्मयत्वम् ।
सुप्त्याह्वयं किमपि विश्रमणं विभाति
चित्रक्रमं चिदचिदेकरसस्वभावम् ॥ १॥
माता नभःक्षितिविमिश्रपदं प्रमाणं
वायुः शिखी च सलिलं च मही च मेयम् ।
ज्ञानात्मपूर्वपठितं युगलत्रयेऽपि
पश्चादुदीरितमिहाभिमतं क्रियात्म ॥ २॥
वर्णाः स्ववायुशिखितोयधराः क्रमेण
स्युः कण्ठतालुकशिरोरदनोष्ठजाताः ।
स्थानोच्चयापचयजौ महदल्पभावौ
स्याद्व्युत्क्रमः पशुपदे सलिलानिलादौ ॥ ३॥
इच्छाद्वयं भवति तालुभवोष्ठ्यवर्णौ
मूर्धन्यदन्त्यतनुमानयुगं क्रियादि ।
सङ्कोचभावतदभाववशादकार-
सर्गोऽपि बिन्दुरपि सञ्श्रितमातृभावः ॥ ४॥
मूलद्वये स्फुरति मातृयमस्तदन्त-
रिच्छाद्वयं भवति मानयुगं तदन्तः ।
एतत्समं पदमतो विषमं द्विरूपं
चैत्योच्छ्रये स्फुरति जातु चिदुच्छ्रये च ॥ ५॥
साम्यं भवेत्प्रकृतमत्र चमत्क्रियैव
वैषम्यमद्भुततरा हि विमर्शवृत्तिः ।
निष्पन्दतां समपदे सततं भजन्ति
प्रस्पन्दते च चिदचित्कलितोच्छ्रितत्वात् ॥ ६॥
चैत्यं यदोल्लसति सङ्घटितस्वकेच्छं
चित्स्वं स्वभावमणुमाश्रयते निजेच्छाम् ।
अन्तर्भवेदथ चिदुल्लसने तु चेत्यं
पञ्चाङ्गकं जडपदं चतुरङ्गमन्यत् ॥ ७॥
अन्तर्बहिः करणजृम्भणयोरदीर्घ-
दीर्घस्वरेषु जडसंसरणं द्विरूपम् ।
ए ऐ इति द्वयमिहोल्लिखति क्रमेण
स्वीयेच्छया पदयुगे घटनं जडस्य ॥ ८॥
अन्तर्बहिः करणवृत्तिवशाददीर्घ-
दीर्घं स्वरेष्वजडसंसरणं द्विरूपम् ।
ओ औ इति द्वयमिहोल्लिखति क्रमेण
स्वीयेच्छया द्विरजडस्य पदस्य योगम् ॥ ९॥
भेदेऽपि बिन्दुरविभेदपदेविसर्गो
ज्ञानक्रियास्थला तयाऽऽन्तरबाह्यसीम्नोः ।
दृष्टाविह प्रकरणस्य बलात्स्वभावं
नैवाप्नुतः स्फुटमभेदविभेदरूपम् ॥ १०॥
बिन्दुः कला अपि विसर्गकला गुणाः स्युः
सर्गः कला अपि च बिन्दुकलाङ्गभूताः ।
बिन्द्वग्निरष्टकलैव विसर्गपायी
सर्गस्तु षोडशकलावृतबिन्दुरिन्दुः ॥ ११॥
बिन्दोः कला अपि विसर्गकलाश्च सप्त
सप्तैतदन्वयवशेन चतुर्दशारम् ।
बिन्द्वग्निरष्टदलपद्मगतस्तदन्तः
सर्गश्च षोडशदलाब्जगतोऽस्य चान्तः ॥ १२॥
ह्रस्वस्वराष्टदलभागनलो हि दीर्घ-
मात्रात्मषोडशदलाम्बुजभाक्छशाङ्कः ।
चन्द्रार्कयोस्त्रिगुणिताऽष्टकलात्मनोः स्या-
द्बिन्दौ प्लुताष्टकदलात्मनियुक्तिरग्नौ ॥ १३॥
इति मातृकाचक्रविवेके सुषुप्तिविवेको द्वितीयः खण्डः ॥ २॥
तृतीयः खण्डः । स्वप्नविवेकः
विश्वस्य कारणदशेति विचारितैवं
कार्यक्रमो भवति कार्यमिदं विमर्शात् ।
विश्रान्तमात्मनि पराह्वयवाचि सुप्तौ
विश्वं वमत्यथ विबोधपदे विमर्शः ॥ १॥
वाणी परा खलु ऋकारऌकाररूपा
सङ्कोचगन्धसहिता गगनेऽपि सुप्तौ ।
सङ्कोच एव चिदचिद्गगनस्य वाणी
तद्व्योम सङ्कुचति च प्रकृतौ विमर्शे ॥ २॥
धर्मे स्वके स्वरसवाहिनि वाक्स्वरूपे
लग्नं परं गगनमप्युपयाति सत्ताम् ।
सत्त्वाय नित्यमुपगूढाविमर्शतत्त्वं
तद्धर्मतां गगनमप्युपयाति चित्रम् ॥ ३॥
तस्मात्परैव जननी समुपासनीया
व्योम्नः परस्य गतजाड्यमियं हिरूपम् ।
बध्नाति चेयमिदमंशसमुच्छ्रयेण
जन्तून् विमोचयति चोन्नमिताऽहमंशात् ॥ ४॥
त्रेधेदमित्यहमिति स्फुरणात्मिकाया-
स्तस्याः स्वरूपमुभयांशसमाऽसमत्वे ।
तद्धर्मसङ्गतिवशेन तथा त्रिरूपो
धर्मीं च चैत्यचितिमेलनसिद्धरूपः ॥ ५॥
विश्रान्तिधामनि निजाश्रययोर्विमर्श-
श्चिच्चैत्ययोर्भवपदे स्वयमाश्रयोऽपि ।
एतद्द्वयं निजसमाश्रयमेव कुर्वन्
स्वैरक्रमेण विलसत्यबहिर्बहिश्च ॥ ६॥
स्वप्ने स्फुरत्यबहिरिन्द्रियमूर्तिरन्त-
र्बाह्ये बहिःकरणमूर्तिरथ प्रबोधे ।
सङ्कोचमाश्रयति पूर्वपदेऽत्र किञ्चि-
दत्यर्थमुत्तरपदे तु तमादधाति ॥ ७॥
सङ्कोचवर्त्तिपरसीमनि बाह्यरङ्गे
व्याप्तिं समर्पयति नान्तरधाम्नि पूर्णे ।
विश्रान्तिमर्पयति पूर्णतरामितोऽपि
माया चमत्कृतिमवाप्य जडो विमर्शः ॥ ८॥
इच्छाद्वयान्तरितमानयुगे यवर्गे
स्वाप्ने जडा खलु दशा समवेक्षणीया ।
मातृत्वमत्र मनसो हि लकारमूर्तेः
स्वप्नो हि मानसिकसंसरणं प्रसिद्धम् ॥ ९॥
स्वस्यैव शक्तिरवमर्शमयी स्वगर्भे
ग्रस्तस्तयैव मनसा वपुरादिमूर्त्या ।
आत्मास्वरश्मिपटलस्थगितोऽर्यमेव
नाभाति किञ्चिदपि कञ्चुकपञ्चकान्तः ॥ १०॥
आत्मान्वितं वपुरहङ्कृति धीमनांसि
त्रीण्यान्तराणि करणानि पदं प्रमातुः ।
एतन्मनोविलसितं यदि पञ्चरूपं
मायापदं पदमिदं प्रकृतेस्तु साक्षात् ॥ ११॥
मायापदे स्वमन एव शरीरताभा-
गित्यादिशन्त्यणुविदोऽत्र वकारगर्भे ।
तद्बाह्यतोऽपि च लकारमनुस्मरन्तः
पञ्चाङ्गकं पदमिदं चतुरङ्गमेव ॥ १२॥
पृथ्वी लकार इह देहमयी स्वधामा
कर्तृज्ञतेस्य मरुदग्निमयौ यरेफौ ।
व्याप्यैतयोः क्षितिजलौ विकृते लवौ च
स्वात्मस्थितस्य वपुषः करणानि गर्भे ॥ १३॥
मग्नः पुमान्वपुषि चित्तमहङ्क्रियायां
बुद्धौ जडांशजठरेऽप्यजडस्तदंशः ।
इत्थं प्रमातरि जडांशगताऽजडांशे
ज्ञानक्रियान्तरवभाति महानजाण्डः ॥ १४॥
पिण्डाण्डमूलमपि मूलमिवास्य भाति
ब्रह्माण्डमन्तरमपि बाह्यमिवास्य चित्रम् ।
मायाविमोहितदृशा तदणुर्निरीक्ष्य
स्वाङ्गानि पञ्च कलयत्यणुशक्तिकानि ॥ १५॥
सङ्कॢप्तवायुशिखिभूजलखापकर्षा
बन्धाः स्युरन्तरणुकस्य कलाप्यविद्या ।
रागश्च कालनियती इति कञ्चुकास्ते
मायात्मनः प्रथमकञ्चुकता सुषुप्तेः ॥ १६॥
कर्तृत्वशक्तिरनिलः सकलज्ञताग्नि-
र्भूः पूर्णताऽविलयताम्बु वियद्विभुत्वम् ।
पञ्चापि शक्तय इमा वितताः स्वरूपं
शम्भोर्भवन्त्यपि च सङ्कुचिताः पशोस्तु ॥ १७॥
स्यात्पञ्चशक्तिमयता प्रकृतिः शिवस्य
स्वान्तर्जगत्कलनमप्यथ देहिनस्तु ।
बाह्ये जगत्कलनमेव भवेद्विभेदः
स्वाभ्यन्तरस्थजगतोऽपि विमोहशक्त्या ॥ १८॥
अन्तःस्थितस्य मनसो न हि पूर्तियोग-
श्चैत्यस्य तत्कबलितत्वविनिश्चयायाः ।
तद्वच्चितेरपि न पूर्तिरतो दशेयं
पक्षद्वये स्फुरदपूर्त्यभिपूर्तियोगा ॥ १९॥
अध्वा भवेच्चिदपकर्षवशादशुद्धः
शुद्धस्त्वसौ (शुद्धस्तनौ)भवति चैत्यपदापकर्षात् ।
चिच्चैत्ययोरुपचयाऽपचयाऽविशेषान्-
मिश्रो हि मायिकपदं भवतीदमध्वा ॥ २०॥
आत्मा वकारवपुषाणुरुकार एव
देहात्मनैव खलु संसृतिरस्य जन्तोः ।
देहं च तात्त्विकममुष्य सुषुप्तमेव
स्वप्ने तदत्र मन एव शरीरताभाक् ॥ २१॥
इति मातृकाचक्रविवेके स्वप्नविवेकस्तृतीयः खण्डः ॥ ३॥
चतुर्थः खण्डः । जाग्रद्विवेकः
इत्यन्तरीषदिह सङ्कुचिते विमर्शे
सङ्कोचमाश्रयति बाह्यपदे प्रगाढम् ।
प्रत्येकमेव कलयन्त्यथ भावमेवं
भूतानि पञ्च जगतो नियतः कलापः ॥ १॥
यद्वर्णपञ्चकमपूर्वकमादिवर्ग्य-
मन्तःस्थतां भजति सङ्कुचिते तदीषत् ।
तत्कादिवर्गतनुसङ्कुचितं नितान्त-
मूष्मात्मकं च दधतेऽङ्कुरिताभिपूर्ति ॥ २॥
स्थानेन साधितधराप्रभृतिस्वभावे
वर्णोत्करे भवति मातृपदं पवर्गः ।
आत्मा मनस्तदनु बुद्धिरहङ्क्रिया च ।
प्राक् चेतसः प्रकृतिरप्यवरोहभङ्ग्या ॥ ३॥
श्रोत्रादिकं खलु तवर्गमयं विलोमा-
द्वागादि पञ्चकमिदं च टवर्गरूपम् ।
शब्दादि खाद्यपि चवर्गकवर्गरूप-
मेतानि वायुदहनाम्बुमहीविलासाः ॥ ४॥
देहात्मिका प्रकृतिरान्तररूपमुर्व्याः
सूक्ष्मं जलस्य खलु रूपमहङ्क्रिया स्यात् ।
अग्नेस्तु बुद्धिरनिलस्य मनोऽन्तरात्मा
सर्गः खलु प्रकृतिजः क्षितिसर्गबीजम् ॥ ५॥
देहात्मनोः प्रकृतिपूरुषयोः प्रमाता
देहोत्र तस्य निलयोऽपि तदङ्गमात्मा ।
आत्मा यथा भवति मातृपदं वपुश्चेत्
तल्लीनमस्त्यविरहः शिवयोः स्वभावः ॥ ६॥
जाड्यादहङ्कृतिरिति प्रथते विमर्शो
बुद्धिर्जडाजडतया मनसस्त्वजाडयात् ।
त्रैगुण्यमेतदबहिः करणत्रयं स्यात्
सौषुप्तजाग्रदवशेषदशानिदानम् ॥ ७॥
देही गुणत्रयमयप्रकृतिर्दशासु
सुप्त्यादिकासु नियमात्परिबम्भ्रमीति ।
तास्वप्यहङ्कृतिपुरःसरणात्त्रिपुट्यां
मेयोन्नतिं कलयति प्रमुखक्रियांशम् ॥ ८॥
मेयादिका सततयुक्त्रिपुटी मनस्तां
मेयादि भासयति मूढमहङ्क्रियात्म ।
मात्रादि भासयति चाथ निजस्वभावा-
द्बुद्धिश्च मध्यमपदे मन एव बोध्यम् ॥ ९॥
तस्मात्पकारवपुषः प्रकृतेः प्रमातु-
रात्मा मकारवपुरन्तर एव लीनः ।
तन्मध्यता(तः)स्थितिरहङ्कृतिधीहृदां स्या-
देतत्प्रमातृपदमिन्द्रियलग्नविश्वम् ॥ १०॥
एतच्च मातृपदमिन्द्रियसंश्रितं च
तत्संश्रयश्च मन एव तदिन्द्रियं स्यात् ।
तद्ग्रामणीन्द्रियकुलस्य विमर्शशक्ति-
श्चिच्चेत्यमिश्रमखिलं खलु तद्विलासः ॥ ११॥
स्वप्ने च जागरणमातृपदे च वेद्य-
मिच्छात्मनो मनस एव विभाति कुक्षौ ।
पूर्वत्र मातृ मन एव शरीरताभाक्
प्रत्यक्षमुत्तरपदे तु शरीरमेव ॥ १२॥
चेतश्चमत्कृतिपदं वमति स्वलीनं
विश्वं बहिः श्रुतिमुखेन्द्रियवर्गभावात् ।
तत्रापि धीन्द्रियगणः पवनोऽपि पृथ्वी
ज्ञेयैर्जलैरपि मरुद्भिरुदीरितोऽन्तः ॥ १३॥
कर्मेन्द्रियाणि कठिनत्वपरान्तभाञ्जि
वह्न्याकृतीनि खपदस्थधराश्रितानि ।
पृथ्वीमयप्रकृतिखग्रहणोन्मुखानि
बोध्यानि भूतविततेरिह वैपरीत्ये ॥ १४॥
मानात्मकस्य तरणेर्द्वयतो हि सिद्धिः
मायाबलात्प्रथमतात्र च मेयकोट्याः ।
ग्राह्यग्रहीतृपदवर्णसमन्वयेन
योज्याः कला बहिरथान्तरपि क्रमज्ञैः ॥ १५॥
माता दशेन्द्रियमयोदशकं च मेयं
तन्मेलनाद्दशकलात्मदशारयुग्मम् ।
अन्तः कलाद्वयमिह प्रकृतौ निलीन
स्त्रैगुण्यमातरि पुमाँश्चतुरस्रबिम्बे ॥ १६॥
मानात्मनैव चिदचित्स्थितिरत्रचक्रे
भेदात्मके न भवतीह विसर्गबिन्दोः ।
मस्यानुषक्तिरपि मुख्यसमन्वयस्य
बिन्द्वेकभोगपदमातृपुरोचितस्य ॥ १७॥
स्वप्ने स्मृतं तदनु जाग्रति सत्यकल्पं
बन्धं प्रपद्य वपुषा स्वविमर्शशक्त्या ।
क्षित्या च तत्परवशो हृतमातृभावो
मध्यन्दिनद्युमणिरेषमकारबिन्दुः ॥ १८॥
यत्पादिवर्गवमुखार्णचतुष्टयस्य
सङ्कोचवर्जनमिदं खलुतन्त्रनीत्या ।
तुर्यस्थितं हमुखशान्तचतुष्टयात्म-
योज्यं क्रमेण बहिरन्तरभेदसृष्ट्योः ॥ १९॥
इति श्रीमातृकाचक्रविवेक जाग्रद्विवेकश्चतुर्थः खण्ड ॥ ४॥
पञ्चमः खण्डः । तुर्यविवेकः
अक्षेषु वेद्यविलयः खलु शुद्धविद्या
देहे तदक्षविलयो भवतीश्वरत्वम् ।
ईशो हि विश्वमयदेहकृताभिमानो
जाग्रच्छिवस्य पशुजागरचक्रलग्नम् ॥ १॥
यद्बाह्यबाह्यपदमज्जनमन्तरन्त-
स्तच्चित्पदे जडपदे विपरीतमेतत् ।
अक्षात्मवेद्यमिह शः स हि शुद्धविद्या
देहाविभिन्नकरणेन्द्रियमीश्वरः षः ॥ २॥
ज्ञानेन्द्रियं स हि सदाशिव आत्मनैक्ये
स्वात्मा खविश्रममयो ह इतीह शक्तिः ।
एतत्तुरीयपदमङ्गचतुष्टयाढ्यं
बाह्यान्तरालपदयोः श्रितरूपसाम्यम् ॥ ३॥
एत्पदं पदमखण्डितमेव शुद्ध-
विद्यादिकस्य खलु तत्त्वचतुष्टयस्य ।
वेद्याद्युदञ्चितचितिस्फुरणक्रमेण
तत्तद्दशावतरणं विबुधैर्विभाव्यम् ॥ ४॥
सादाशिवः स खलु बिन्दुमयस्तवर्ग-
स्तत्रेश्वराङ्गमयमान्तरधामयोग्यः ।
ज्ञानक्रिये न सुशिवस्य सदाशिवेशा-
वन्तर्बहिश्च नियताङ्गिपदौ क्रमेण ॥ ५॥
इच्छापपञ्चकवबिन्दुमयी हशक्ति-
र्ज्ञानक्रियासमपदं खलु सोभयात्मा ।
बिन्दौ समुन्मिषति सर्गपदे क्रमेण
संसृष्टिरापरिसमाप्तितयोर्विभाव्या ॥ ६॥
पुर्वत्र नैवहि परो नियतः परत्र
पूर्वो भवेन्नियत एव शषादिवृन्दे ।
एकत्र संविदुदयेऽप्यपरत्र भास-
स्तस्या इतीदमथवा सममेव बिन्दुः ॥ ७॥
जाग्रच्छिवस्य पशुजागरयुक्तदैश-
मन्तर्दशारमिह कोणगतं बहुत्वम् ।
भेदोदयोल्लसित मेतदभेदकोट्यां
प्राप्नोति सङ्ग्रहामिति प्रतिपद्रहस्यम् ॥ ८॥
यः पार्थिवे चिदुदयः स हि शुद्धविद्या
यः प्राकृते स पुनरीश्वरता किलाऽण्डे ।
यो मायिके स तु सदाशिवतेति शादे
स्त्रैरुप्यधीरिहरहस्यतमं गुरूणाम् ॥ ९॥
बिन्दूदये विशति सर्ग इमं तथैव
सर्गोदये तमथ सोऽपि पदे तदन्तः ।
कःस्याद्धकारहृदिलश्च वकारगर्भे
बाह्ये तु चित् प्रकृतिसर्गमुखे विभक्ता ॥ १०॥
अन्तः पदं भवति तच्चतुरङ्गमैक्या-
च्चिच्चैत्ययोः करणसीम्न्यपि भावितैक्यम् ।
पञ्चाङ्गकं भवति बाह्यपदं प्रकृत्यां
चिद्वह्निगर्भकुहरादथ निर्गतायाम् ॥ ११॥
ज्ञानक्रियोन्मुखहकारमयाद्वयेच्छा-
विश्रान्तिरन्तरबहिर्मुखविश्रमात्मा ।
कूटाक्षरात्मतनुरेष शिवः सुषुप्ति-
विश्रान्तिरेव सविकल्पकलाल्पगन्धा ॥ १२॥
नास्त्यस्ति वेत्त्युदितसंशयजाग्रतीह
सुप्तौ । । । । शिवे (भवति)(जाग्र)जगदभेदरूपम् ।
ज्ञानक्रियात्मकतया प्रतिरूपभिन्न-
मेवं चतुर्विधमधिश्रितबीजमात्रम् ॥ १३॥
ज्ञानं द्वयाद्वयमयं लसकाररूपं
तादृक् च कर्म कषकारमयं विदुस्तत् ।
श्लिष्टं पुरः स्फुरितसद्वयकोटि ळ क्ष-
(श्लिष्टं पुरः स्फुरित सद्वयकोटिलक्ष-)
रूपं परस्परगतं च समं च कूटम् ॥ १४॥
ज्ञानात्मजागरसुषुप्त्यवधी मकार-
कूटात्मकौ पशुशिवौ गुणकोणबिन्द्वोः ।
श्लिष्टौवशादिचतुरस्रयुगान्वयोत्थ-
नागाश्ररश्म्युदरगौ ननु सर्गबिन्दू ॥ १५॥
ज्ञानक्रियात्मकसुषुप्तिविबोधमध्य-
संस्थौ क्षमावुभयपक्षगबिन्दुसर्गौ ।
सव्यापकौ तदुभयस्य तदङ्गिभूतौ
जाग्रत्सुषुप्तिसमवायपदेऽनुषक्तौ ॥ १६॥
सङ्कोचपूर्तिपरसीमपदोभयार्था
श्रीचक्रमध्यनिलया त्रिपुरेश्वरी सा ।
त्रेधा विसर्गपदमेकविधं पदं च
बिन्दोस्तुरीयमिति बाहुचतुष्टयाढ्या ॥ १७॥
सौषुप्तजाग्रदबहिः पदजागरेषु
तोयक्षमानिलमयेष्व कलात्मशक्त्या ।
आत्तेचवर्गयमयस्वगुणेक्षुचाप-
पुष्पेषुपाशनिगृहीतचिता त्रिबाहुः ॥ १८॥
तुर्येऽग्निधाम्नि हचिता ससृणिप्रणुन्न-
चैत्यातिपश्विभजडत्वरुजैकबाहुः ।
एवं चतुर्भुजविभाव्यचतुर्थदशाङ्गा
क्ष्मात्माङ्गिनी जयति मध्यपदेऽपितुर्या ॥ १९॥
सुप्तिप्रभृत्युदितचैत्यविजृम्भितस्य
जाग्रत्पदप्रभृतिचिद्विनिमज्जनं यत् ।
तुर्यं पदं च खलु तत्र सुषुप्तिभागो
यश्चिन्मयः शिववपुस्तदतीव तुर्यम् ॥ २०॥
तुर्यं द्विखण्ड मभवस्य जघन्यभागो
मूर्धाऽतितुर्यमनयोरनुभूः क्षमध्यम् ।
जाग्रच्छिराःस्वपनसुप्तिजघन्यभागो
मप्राणकः पशुरसौ विपरतिबोधः ॥ २१॥
मात्मा पशुः प्रकृतिरेव तया निगीर्णो
हात्मापि चित्प्रकृतिरेव निवृत्तिरूपा ।
इत्थं द्विधा प्रकृतिविश्रमभूः क्षकारः
शम्भुः परः परत एव भवेत्प्रकृत्याः ॥ २२॥
यद्वा शिवः क्ष इह म प्रतियोगिभावात्
सौषुप्तमेव परशम्भुपदं चिदात्मा ।
यच्चक्रमध्यपदता तदधीशता च
शम्भोः(स्तदस्य)सदेश्यगुणगन्धितयार्च्यभावात् ॥ २३॥
चन्द्राग्निभुक्छशिभुगग्निरथः समस्वं
भानुः पदे पद इदं त्रितयं स्वरादौ ।
खण्डत्रयात्मकमखण्डपदं च तद्वत्
तद्विश्रमः प्रतिदशं समसङ्ख्यतैषाम् ॥ २४॥
भेदाविभेदसमतातनुभिः सुषुप्ति-
स्वप्नप्रजागरपदैस्त्रिगुणीकृताभिः ।
पृथ्वादिखान्ततिथिभिर्ननु शुक्लपक्षः
कृष्णस्तुजागरपदादिकतन्निवृत्या ॥ २५॥
देहात्मिका प्रकृतिरेव परा विमर्शः
सैव प्रवृत्तिविनिवृत्त्युभयादिभूता ।
वागर्थमिश्रवपुरिन्द्वनलार्यमत्र-
य्येकैक युक्त्रिपुटिका नवमूर्तिरेका ॥ २६॥
चैतन्यता च जडता च विमर्शचित्यो-
स्तुल्या यदिन्द्वनलयोरुभयं तदिच्छा ।
स्यात्कर्म चावगलितं तु मिथो जडत्वात्
ज्ञानं तयोः समपदं च तथा द्विरूपम् ॥ २७॥
पक्षद्वयेऽपि परिवृत्तिवशात्त्रयाणा-
मिच्छादिकत्रितयताप्रतिधाम धाम्नाम् ।
षट्स्वत्रवृत्तिषु च कारणकार्यतास्या-
द्बिन्दुक्षयोर्मभबयोः पफवर्ग(र्ण)योश्च ॥ २८॥
चन्द्राग्निविश्रमणयोः स्वरयादिधाम्नोः
र्विश्वस्य बीजदशयोः प्रथमे पदे चित् ।
चित्ये निमज्जति परत्र चितौ तु चैत्य-
मेतत्समस्तमुभयोल्लसिते तु भानौ ॥ २९॥
इन्दौ च हव्यभुजिचोदरसीम्नि यत्स्या-
च्चक्रद्वयं चिदचिदभ्यवमर्दरूपम् ।
बिम्बद्वयीयुगलमेतदशीतिभानो-
र्बिम्बस्थले हि चतुरश्र(स्र)तया समस्तम् ॥ ३०॥
तस्माच्चतुष्पदमिदं चतुरस्रबिम्बं
चिच्चैत्यनिर्जरसरिद्यमुनाप्रयागः ।
अर्च्यं भवेत्प्रथमतोऽथतदङ्गभूत-
चिच्चैत्यचक्रयजनं त्वितिपूर्वतस्तत् ॥ ३१॥
अन्तःस्थमेव चतुरस्रमुषर्बुधेन्द्वो-
रर्कात्मकं चिदचिदुद्भवमेतदङ्गम् ।
एवं च सत्यपि जडाजडसारमेतत्
प्रागेव पूज्यमिति पूर्णपदे कृतं तत् ॥ ३२॥
इति परमरहस्यं मातृकार्थस्वरूपं
स्फुटतरमुपदिष्टं चक्रराजाभिनीतम् ।
लगति यदयमर्थः शक्तिविद्धेऽन्तरङ्गे
न तु तुनरपरत्र प्रत्यवायो(ऽस्ति)न तन्मे ॥ ३३॥
इति मातृकाचक्रविवेके तुर्यविवेकः पञ्चमः खण्डः ॥ ५॥
इति स्वतन्त्रानन्दनाथविरचितः मातृकाचक्रविवेकः (मूलं) सम्पूर्णः ॥
Encoded and proofread by Ruma Dewan