मातृकाचक्रविवेकः

मातृकाचक्रविवेकः

॥ ॐ श्रीगणेशाय नमः ॥ ॥ ॐ गुं गुरुभ्यो नमः ॥ ॥ मातृकाचक्रविवेकः ॥ (स्वतन्त्रानन्दनाथविरचितः)

प्रथमः खण्डः । तात्पर्यविवेकः

जाग्रत्सुषुप्तिकृतदक्षिणवामभागां स्वप्नस्वभावपरिकॢप्तजघन्यभागाम् । तुर्यातितुर्यघटिताननहृत्प्रदेशां प्राणेश्वरीं परशिवस्य परामृशामः ॥ १॥ स्पर्शस्वरोल्लिखितजागरसुप्त्यवस्था- मन्तःस्थसूचितसुषुप्त्युदित प्रबोधाम् । ऊष्मोक्तजागरदशोदितसुप्त्यवस्थां मन्त्रोत्करस्य जननीं मनसा विशामः ॥ २॥ सङ्कोचसंश्रयणवर्जनभावभङ्ग्या जाग्रत्सुषुप्तिदशयोर्गमकौ प्रयत्नौ । द्वौ स्पृष्टताविवृतते विदितौ सुधीभिः स्पर्शस्वराक्षरगतौ परिशीलयामः ॥ ३॥ स्पृष्टिर्यवर्गविषया विवृतत्वयुक्ता स्पृष्ट्यन्विता विवृतता च शवर्गनिष्ठा । तौ स्वप्नतुर्यदशयोर्गमकौ प्रयत्ना- वेतौ स्मराम्यसकलापरिपूर्तिपूर्त्योः ॥ ४॥ पूर्णैव पूर्तिरविकल्पपदे सुषुप्तौ जाग्रत्यपूर्तिरपि संसृतिधाम्नि तद्वत् । जाग्रत्सुषुप्तिसमवायपदे तुरीये स्वप्ने च तादृशि तयोरसमग्रतैव ॥ ५॥ स्वप्नः सुषुप्त्यनुगतं ननु जाग्रदेव तुर्यं च जाग्रदनुवृत्तसुषुप्तिरेव । स्वप्नस्तथा च सति जाग्रत एव भेद- स्तुर्या दशापि च तथैव सुषुप्तिभेदः ॥ ६॥ ज्ञानात्मनान्तरुदिते खलु बोधसुप्ति- स्वप्नस्तुरीयमिति नामविशेषभाजौ । बाह्ये क्रियात्मकतयोदितयोस्तयोः स्या- दाख्या प्रबोध इति सुप्तिरिति प्रसिद्धा ॥ ७॥ जाग्रद्बहिर्विलसनं ननु भेदसृष्टेः स्वप्नोन्तरुल्लसनमित्युभयी दशैव । तुर्याभिधानमुपयात्यविभेदसृष्टौ सृष्टिद्वयस्य जनिविश्रमभूस्सुषुप्तिः ॥ ८॥ सृष्टा बहिः शिवचिता प्रकृतिर्विसर्ग- स्तां स्वात्मना कवलयन् शिव एष बिन्दुः । संसारविश्रमजुषोरिति नामधेये संसारिणौ पशुशिवौ च पशुः शिवश्च ॥ ९॥ द्वैतात्मकं भवति संसरणं पशोस्त- दद्वैतरूपमभवस्य परस्य शम्भोः । मिश्रं त्रिरूपमपि संसरणं यतः स्या- द्विश्रान्तिभाक्तदिह धाम परं हि बिन्दुः ॥ १०॥ गौणो हि बिन्दुरिति वित्तिरभेदरूपा शैवी तनूर्भवति भेदपदं तु वेद्यम् । जीवस्य संवरकमस्य ततः स्वरूपं सर्गैर्भवेद्व्यवहृतिर्महतामितीयम् ॥ ११॥ चैत्यं विमर्शपरिणामदशाविमर्श- श्चिद्धर्म एष च चितो जननाल्लयाच्च । नास्त्येव सा चिदपि यद्यविमृष्टरूपा धर्मस्ततो भवति चिच्च विमर्शशक्तेः ॥ १२॥ चिच्चैत्ययोरिति समे सति धर्मधर्मि- भावे परस्परपदाक्रमणं स्वभावः । चैत्यावृता भवति चित्पशुरेष चैत्य- मावृण्वती चिदपि याति शिवप्रसिद्धिम् ॥ १३॥ चिच्चैत्ययोः समतया स्तिमिते स्वभावे मिश्रं तु मध्यमपदं परशम्भुरूपम् । चिच्चैत्यमिश्रणतया तदयं त्रिरूपो धर्मी च तत्तदुचितश्च तथा विमर्शः ॥ १४॥ चित्तिश्च चैत्यमपि तच्च विमर्शतत्त्वं ज्ञानक्रिये न हि तयोः परमार्थभेदः । ज्ञानं गृहीतकठिनत्वगुणं क्रिया स्या- ज्ज्ञानं भवेद्विरलिमाश्रयिणी क्रियैव ॥ १५॥ ज्ञानस्य सिध्यति विना क्रियया न रूपं तस्यास्तथैव न हि तेन विनोपलम्भः । तस्मात्तयोर्यमलतैव मतं हि सैद्धं पूर्वापरत्वकलनं त्विह पूर्वपक्षः ॥ १६॥ अर्धं क्रिया भवति दक्षिणमन्यदर्धं ज्ञानं समत्वमनयोरपि मध्यमिच्छा । इच्छैव बीजमचलान्तरबाह्यगत्या ज्ञानं क्रिया च खलु मूलमिहाङ्कुरश्च ॥ १७॥ ज्ञानं क्रिया तदुभयैकरसापि चेच्छा तत्त्वत्रयं भवति नित्ययुतस्वभावम् । ज्ञानस्य मानमिति मेयमिति क्रियाया मातेति चेतरपदस्य हि नामभेदाः ॥ १८॥ ज्ञानं च कर्म च परस्परमूलमिच्छा मूलं तयोस्तदुभयं खलु मूलमस्याः । मूर्तित्रयं मतमिदं त्रयमेव सृष्टि- स्थित्यन्तकारणतया त्रिगुणस्वभावम् ॥ १९॥ एतत्त्रयात्मकतया सकलं त्रिरूपं सुप्त्यादिका अपि दशाश्च तथैव तिस्रः । सुप्तिः क्रियाजडतया भवति प्रबन्धो ज्ञानं विमिश्रमनयोः पदमन्यदिच्छा ॥ २०॥ अन्योन्यलीनवपुषोरिह चैत्यचित्योः सुप्त्यादिषु त्रिषु पदेषु भवो द्विरूपः । श्लिष्टः प्रवृत्तिविनिवृत्तिमयो विभाव्यः श्रीचक्रमूलमनुसंस्थितिदर्शनेन ॥ २१॥ इच्छा सुषुप्तिरबहिर्जनितः प्रबोधो ज्ञानं क्रिया भवति जागरणं जडस्य । तुर्यस्थजागरपदादिसुषुप्तिसीमा इच्छादयः खलु दशास्त्वजडाः शिवस्य ॥ २२॥ अन्तर्मुखी भवति बिन्दुगतिर्विसर्ग- स्योक्ता गतिर्गुरुजनेन बहिर्मुखीति । पूर्वः सुषुप्तिपदमध्यमुपैति जाग्रन् मध्यात्तमृच्छति परस्तु सुषुप्तिमध्यात् ॥ २३॥ सुप्त्यादि जाग्रदवधि त्रितयं दशानां जन्तोः प्रवृत्तिवपुषोऽथ निवृत्तिमूर्तेः । तज्जाग्रदाद्यवधिभूतसुषुप्ति शम्भो- रारोहसीमसमुपक्रमणोवरोहः ॥ २४॥ तस्मात्प्रवृत्तिविनिवृत्तिमयोभयार्थः स्वप्नः सुषुप्तिरपि जाग्रदपीति गोप्यम् । भेदानि भेदमयजीवशिवाङ्गकानां षण्णां विमिश्रणमिदं प्रकृत्तिर्दशानाम् ॥ २५॥ स्वप्नप्रजागरसुषुप्तिमयाष्टकोण- पङ्क्त्यस्रयुग्ममनुकोणविराजमाने । यन्त्रेश्वरे हि शिवजीवसमन्वयोऽयं दृष्टः समस्तपरमार्थविदीष्टदेवे ॥ २६॥ सुप्तिः शशी जडतया तपनोऽपि जाग्र- च्चैत्यस्य सन्तपनमात्रचिदात्मकत्वात् । स्वप्नोनलोगिलितचैत्यतया पशुत्वे सोऽप्यर्क एव दहनः सकलं शिवत्वे ॥ २७॥ चैत्यातिविस्फुरणसीम्नि खलु प्रतिष्ठा जाग्रत्यणोरथ तुरीयपदान्तरर्थे । शम्भोर्विमर्शवति जाड्यमलव्यपेते जाग्रत्सुषुप्तिदशयोः सममध्यभागे ॥ २८॥ माता शशी भवति मेयपदं पशुत्वे वह्निः प्रमाणमिह तिग्मरुचिः क्रियाग्र्यम् । मातानलः शिवपदे हिमगुः प्रमेयं ज्ञानाग्र्यभाग इह तुर्यरविः प्रमाणम् ॥ २९॥ चैत्यप्रमातुरिह यज्जडमेव मानं तच्चित्प्रमाणमनुजीवति तद्धि चैत्यम् । चित्तत्त्वमेव नियमादनुजीवदेतन्- नात्यश्नुते स्वमिव चित्तदिदं विभेदि ॥ ३०॥ जाड्यादचिन्न विमृशत्यपि मातृभावे तां चित्कलेव गिलितात्मपदां मृशन्ति । मोहेन कल्पयति मातृदशाममुष्या व्याप्तिर्हि मातृपदलक्षणतोपपन्ना ॥ ३१॥ मानं तृतीयपदभागपि बाह्यतस्तु मध्ये विमिश्रणमिदं खलु मेयमात्रोः । मिश्रं हि मध्यमपदे निखिलस्य दृष्टं द्वैरूप्यमस्य च नपुंसकता च धाम्नः ॥ ३२॥ रश्मीननूदयति बिम्बमतः स्वरेषु सर्गः सितांशुरणुबिन्दुरिनश्च कादौ । यादौ शिखी महितबिन्दुरिति त्रिखण्ड्या वर्णक्रमेण विदितं त्रिमहोमयत्वम् ॥ ३३॥ खण्डक्रमेण शशिनो दहनाङ्गतोक्ता तद्व्युत्क्रमेण जडभानुगुणत्वमग्नेः । खण्डेषुच क्रमविलोमजपेन चैत्य- चित्योः परस्परपदाक्रमरीतिरुक्ता ॥ ३४॥ स्वप्नश्च जाग्रदपि वासरपूर्वयामौ तुर्यं पदद्वयवदुत्तरयामयुग्मम् । सुप्तिस्तुरीयलयभूः प्रथमं क्षपार्धं स्वप्नप्रजागरदशालयभूर्द्वितीयम् ॥ ३५॥ इति श्रीमातृकाचक्रविवेके तात्पर्यविवेकः प्रथमः खण्डः ॥ १॥

द्वितीयः खण्डः । सुषुप्तिविवेकः

मायाबलात्प्रथमभासि जडस्वभावं विद्योदयादथ विकस्वरचिन्मयत्वम् । सुप्त्याह्वयं किमपि विश्रमणं विभाति चित्रक्रमं चिदचिदेकरसस्वभावम् ॥ १॥ माता नभःक्षितिविमिश्रपदं प्रमाणं वायुः शिखी च सलिलं च मही च मेयम् । ज्ञानात्मपूर्वपठितं युगलत्रयेऽपि पश्चादुदीरितमिहाभिमतं क्रियात्म ॥ २॥ वर्णाः स्ववायुशिखितोयधराः क्रमेण स्युः कण्ठतालुकशिरोरदनोष्ठजाताः । स्थानोच्चयापचयजौ महदल्पभावौ स्याद्व्युत्क्रमः पशुपदे सलिलानिलादौ ॥ ३॥ इच्छाद्वयं भवति तालुभवोष्ठ्यवर्णौ मूर्धन्यदन्त्यतनुमानयुगं क्रियादि । सङ्कोचभावतदभाववशादकार- सर्गोऽपि बिन्दुरपि सञ्श्रितमातृभावः ॥ ४॥ मूलद्वये स्फुरति मातृयमस्तदन्त- रिच्छाद्वयं भवति मानयुगं तदन्तः । एतत्समं पदमतो विषमं द्विरूपं चैत्योच्छ्रये स्फुरति जातु चिदुच्छ्रये च ॥ ५॥ साम्यं भवेत्प्रकृतमत्र चमत्क्रियैव वैषम्यमद्भुततरा हि विमर्शवृत्तिः । निष्पन्दतां समपदे सततं भजन्ति प्रस्पन्दते च चिदचित्कलितोच्छ्रितत्वात् ॥ ६॥ चैत्यं यदोल्लसति सङ्घटितस्वकेच्छं चित्स्वं स्वभावमणुमाश्रयते निजेच्छाम् । अन्तर्भवेदथ चिदुल्लसने तु चेत्यं पञ्चाङ्गकं जडपदं चतुरङ्गमन्यत् ॥ ७॥ अन्तर्बहिः करणजृम्भणयोरदीर्घ- दीर्घस्वरेषु जडसंसरणं द्विरूपम् । ए ऐ इति द्वयमिहोल्लिखति क्रमेण स्वीयेच्छया पदयुगे घटनं जडस्य ॥ ८॥ अन्तर्बहिः करणवृत्तिवशाददीर्घ- दीर्घं स्वरेष्वजडसंसरणं द्विरूपम् । ओ औ इति द्वयमिहोल्लिखति क्रमेण स्वीयेच्छया द्विरजडस्य पदस्य योगम् ॥ ९॥ भेदेऽपि बिन्दुरविभेदपदेविसर्गो ज्ञानक्रियास्थला तयाऽऽन्तरबाह्यसीम्नोः । दृष्टाविह प्रकरणस्य बलात्स्वभावं नैवाप्नुतः स्फुटमभेदविभेदरूपम् ॥ १०॥ बिन्दुः कला अपि विसर्गकला गुणाः स्युः सर्गः कला अपि च बिन्दुकलाङ्गभूताः । बिन्द्वग्निरष्टकलैव विसर्गपायी सर्गस्तु षोडशकलावृतबिन्दुरिन्दुः ॥ ११॥ बिन्दोः कला अपि विसर्गकलाश्च सप्त सप्तैतदन्वयवशेन चतुर्दशारम् । बिन्द्वग्निरष्टदलपद्मगतस्तदन्तः सर्गश्च षोडशदलाब्जगतोऽस्य चान्तः ॥ १२॥ ह्रस्वस्वराष्टदलभागनलो हि दीर्घ- मात्रात्मषोडशदलाम्बुजभाक्छशाङ्कः । चन्द्रार्कयोस्त्रिगुणिताऽष्टकलात्मनोः स्या- द्बिन्दौ प्लुताष्टकदलात्मनियुक्तिरग्नौ ॥ १३॥ इति मातृकाचक्रविवेके सुषुप्तिविवेको द्वितीयः खण्डः ॥ २॥

तृतीयः खण्डः । स्वप्नविवेकः

विश्वस्य कारणदशेति विचारितैवं कार्यक्रमो भवति कार्यमिदं विमर्शात् । विश्रान्तमात्मनि पराह्वयवाचि सुप्तौ विश्वं वमत्यथ विबोधपदे विमर्शः ॥ १॥ वाणी परा खलु ऋकारऌकाररूपा सङ्कोचगन्धसहिता गगनेऽपि सुप्तौ । सङ्कोच एव चिदचिद्गगनस्य वाणी तद्व्योम सङ्कुचति च प्रकृतौ विमर्शे ॥ २॥ धर्मे स्वके स्वरसवाहिनि वाक्स्वरूपे लग्नं परं गगनमप्युपयाति सत्ताम् । सत्त्वाय नित्यमुपगूढाविमर्शतत्त्वं तद्धर्मतां गगनमप्युपयाति चित्रम् ॥ ३॥ तस्मात्परैव जननी समुपासनीया व्योम्नः परस्य गतजाड्यमियं हिरूपम् । बध्नाति चेयमिदमंशसमुच्छ्रयेण जन्तून् विमोचयति चोन्नमिताऽहमंशात् ॥ ४॥ त्रेधेदमित्यहमिति स्फुरणात्मिकाया- स्तस्याः स्वरूपमुभयांशसमाऽसमत्वे । तद्धर्मसङ्गतिवशेन तथा त्रिरूपो धर्मीं च चैत्यचितिमेलनसिद्धरूपः ॥ ५॥ विश्रान्तिधामनि निजाश्रययोर्विमर्श- श्चिच्चैत्ययोर्भवपदे स्वयमाश्रयोऽपि । एतद्द्वयं निजसमाश्रयमेव कुर्वन् स्वैरक्रमेण विलसत्यबहिर्बहिश्च ॥ ६॥ स्वप्ने स्फुरत्यबहिरिन्द्रियमूर्तिरन्त- र्बाह्ये बहिःकरणमूर्तिरथ प्रबोधे । सङ्कोचमाश्रयति पूर्वपदेऽत्र किञ्चि- दत्यर्थमुत्तरपदे तु तमादधाति ॥ ७॥ सङ्कोचवर्त्तिपरसीमनि बाह्यरङ्गे व्याप्तिं समर्पयति नान्तरधाम्नि पूर्णे । विश्रान्तिमर्पयति पूर्णतरामितोऽपि माया चमत्कृतिमवाप्य जडो विमर्शः ॥ ८॥ इच्छाद्वयान्तरितमानयुगे यवर्गे स्वाप्ने जडा खलु दशा समवेक्षणीया । मातृत्वमत्र मनसो हि लकारमूर्तेः स्वप्नो हि मानसिकसंसरणं प्रसिद्धम् ॥ ९॥ स्वस्यैव शक्तिरवमर्शमयी स्वगर्भे ग्रस्तस्तयैव मनसा वपुरादिमूर्त्या । आत्मास्वरश्मिपटलस्थगितोऽर्यमेव नाभाति किञ्चिदपि कञ्चुकपञ्चकान्तः ॥ १०॥ आत्मान्वितं वपुरहङ्कृति धीमनांसि त्रीण्यान्तराणि करणानि पदं प्रमातुः । एतन्मनोविलसितं यदि पञ्चरूपं मायापदं पदमिदं प्रकृतेस्तु साक्षात् ॥ ११॥ मायापदे स्वमन एव शरीरताभा- गित्यादिशन्त्यणुविदोऽत्र वकारगर्भे । तद्बाह्यतोऽपि च लकारमनुस्मरन्तः पञ्चाङ्गकं पदमिदं चतुरङ्गमेव ॥ १२॥ पृथ्वी लकार इह देहमयी स्वधामा कर्तृज्ञतेस्य मरुदग्निमयौ यरेफौ । व्याप्यैतयोः क्षितिजलौ विकृते लवौ च स्वात्मस्थितस्य वपुषः करणानि गर्भे ॥ १३॥ मग्नः पुमान्वपुषि चित्तमहङ्क्रियायां बुद्धौ जडांशजठरेऽप्यजडस्तदंशः । इत्थं प्रमातरि जडांशगताऽजडांशे ज्ञानक्रियान्तरवभाति महानजाण्डः ॥ १४॥ पिण्डाण्डमूलमपि मूलमिवास्य भाति ब्रह्माण्डमन्तरमपि बाह्यमिवास्य चित्रम् । मायाविमोहितदृशा तदणुर्निरीक्ष्य स्वाङ्गानि पञ्च कलयत्यणुशक्तिकानि ॥ १५॥ सङ्कॢप्तवायुशिखिभूजलखापकर्षा बन्धाः स्युरन्तरणुकस्य कलाप्यविद्या । रागश्च कालनियती इति कञ्चुकास्ते मायात्मनः प्रथमकञ्चुकता सुषुप्तेः ॥ १६॥ कर्तृत्वशक्तिरनिलः सकलज्ञताग्नि- र्भूः पूर्णताऽविलयताम्बु वियद्विभुत्वम् । पञ्चापि शक्तय इमा वितताः स्वरूपं शम्भोर्भवन्त्यपि च सङ्कुचिताः पशोस्तु ॥ १७॥ स्यात्पञ्चशक्तिमयता प्रकृतिः शिवस्य स्वान्तर्जगत्कलनमप्यथ देहिनस्तु । बाह्ये जगत्कलनमेव भवेद्विभेदः स्वाभ्यन्तरस्थजगतोऽपि विमोहशक्त्या ॥ १८॥ अन्तःस्थितस्य मनसो न हि पूर्तियोग- श्चैत्यस्य तत्कबलितत्वविनिश्चयायाः । तद्वच्चितेरपि न पूर्तिरतो दशेयं पक्षद्वये स्फुरदपूर्त्यभिपूर्तियोगा ॥ १९॥ अध्वा भवेच्चिदपकर्षवशादशुद्धः शुद्धस्त्वसौ (शुद्धस्तनौ)भवति चैत्यपदापकर्षात् । चिच्चैत्ययोरुपचयाऽपचयाऽविशेषान्- मिश्रो हि मायिकपदं भवतीदमध्वा ॥ २०॥ आत्मा वकारवपुषाणुरुकार एव देहात्मनैव खलु संसृतिरस्य जन्तोः । देहं च तात्त्विकममुष्य सुषुप्तमेव स्वप्ने तदत्र मन एव शरीरताभाक् ॥ २१॥ इति मातृकाचक्रविवेके स्वप्नविवेकस्तृतीयः खण्डः ॥ ३॥

चतुर्थः खण्डः । जाग्रद्विवेकः

इत्यन्तरीषदिह सङ्कुचिते विमर्शे सङ्कोचमाश्रयति बाह्यपदे प्रगाढम् । प्रत्येकमेव कलयन्त्यथ भावमेवं भूतानि पञ्च जगतो नियतः कलापः ॥ १॥ यद्वर्णपञ्चकमपूर्वकमादिवर्ग्य- मन्तःस्थतां भजति सङ्कुचिते तदीषत् । तत्कादिवर्गतनुसङ्कुचितं नितान्त- मूष्मात्मकं च दधतेऽङ्कुरिताभिपूर्ति ॥ २॥ स्थानेन साधितधराप्रभृतिस्वभावे वर्णोत्करे भवति मातृपदं पवर्गः । आत्मा मनस्तदनु बुद्धिरहङ्क्रिया च । प्राक् चेतसः प्रकृतिरप्यवरोहभङ्ग्या ॥ ३॥ श्रोत्रादिकं खलु तवर्गमयं विलोमा- द्वागादि पञ्चकमिदं च टवर्गरूपम् । शब्दादि खाद्यपि चवर्गकवर्गरूप- मेतानि वायुदहनाम्बुमहीविलासाः ॥ ४॥ देहात्मिका प्रकृतिरान्तररूपमुर्व्याः सूक्ष्मं जलस्य खलु रूपमहङ्क्रिया स्यात् । अग्नेस्तु बुद्धिरनिलस्य मनोऽन्तरात्मा सर्गः खलु प्रकृतिजः क्षितिसर्गबीजम् ॥ ५॥ देहात्मनोः प्रकृतिपूरुषयोः प्रमाता देहोत्र तस्य निलयोऽपि तदङ्गमात्मा । आत्मा यथा भवति मातृपदं वपुश्चेत् तल्लीनमस्त्यविरहः शिवयोः स्वभावः ॥ ६॥ जाड्यादहङ्कृतिरिति प्रथते विमर्शो बुद्धिर्जडाजडतया मनसस्त्वजाडयात् । त्रैगुण्यमेतदबहिः करणत्रयं स्यात् सौषुप्तजाग्रदवशेषदशानिदानम् ॥ ७॥ देही गुणत्रयमयप्रकृतिर्दशासु सुप्त्यादिकासु नियमात्परिबम्भ्रमीति । तास्वप्यहङ्कृतिपुरःसरणात्त्रिपुट्यां मेयोन्नतिं कलयति प्रमुखक्रियांशम् ॥ ८॥ मेयादिका सततयुक्त्रिपुटी मनस्तां मेयादि भासयति मूढमहङ्क्रियात्म । मात्रादि भासयति चाथ निजस्वभावा- द्बुद्धिश्च मध्यमपदे मन एव बोध्यम् ॥ ९॥ तस्मात्पकारवपुषः प्रकृतेः प्रमातु- रात्मा मकारवपुरन्तर एव लीनः । तन्मध्यता(तः)स्थितिरहङ्कृतिधीहृदां स्या- देतत्प्रमातृपदमिन्द्रियलग्नविश्वम् ॥ १०॥ एतच्च मातृपदमिन्द्रियसंश्रितं च तत्संश्रयश्च मन एव तदिन्द्रियं स्यात् । तद्ग्रामणीन्द्रियकुलस्य विमर्शशक्ति- श्चिच्चेत्यमिश्रमखिलं खलु तद्विलासः ॥ ११॥ स्वप्ने च जागरणमातृपदे च वेद्य- मिच्छात्मनो मनस एव विभाति कुक्षौ । पूर्वत्र मातृ मन एव शरीरताभाक् प्रत्यक्षमुत्तरपदे तु शरीरमेव ॥ १२॥ चेतश्चमत्कृतिपदं वमति स्वलीनं विश्वं बहिः श्रुतिमुखेन्द्रियवर्गभावात् । तत्रापि धीन्द्रियगणः पवनोऽपि पृथ्वी ज्ञेयैर्जलैरपि मरुद्भिरुदीरितोऽन्तः ॥ १३॥ कर्मेन्द्रियाणि कठिनत्वपरान्तभाञ्जि वह्न्याकृतीनि खपदस्थधराश्रितानि । पृथ्वीमयप्रकृतिखग्रहणोन्मुखानि बोध्यानि भूतविततेरिह वैपरीत्ये ॥ १४॥ मानात्मकस्य तरणेर्द्वयतो हि सिद्धिः मायाबलात्प्रथमतात्र च मेयकोट्याः । ग्राह्यग्रहीतृपदवर्णसमन्वयेन योज्याः कला बहिरथान्तरपि क्रमज्ञैः ॥ १५॥ माता दशेन्द्रियमयोदशकं च मेयं तन्मेलनाद्दशकलात्मदशारयुग्मम् । अन्तः कलाद्वयमिह प्रकृतौ निलीन स्त्रैगुण्यमातरि पुमाँश्चतुरस्रबिम्बे ॥ १६॥ मानात्मनैव चिदचित्स्थितिरत्रचक्रे भेदात्मके न भवतीह विसर्गबिन्दोः । मस्यानुषक्तिरपि मुख्यसमन्वयस्य बिन्द्वेकभोगपदमातृपुरोचितस्य ॥ १७॥ स्वप्ने स्मृतं तदनु जाग्रति सत्यकल्पं बन्धं प्रपद्य वपुषा स्वविमर्शशक्त्या । क्षित्या च तत्परवशो हृतमातृभावो मध्यन्दिनद्युमणिरेषमकारबिन्दुः ॥ १८॥ यत्पादिवर्गवमुखार्णचतुष्टयस्य सङ्कोचवर्जनमिदं खलुतन्त्रनीत्या । तुर्यस्थितं हमुखशान्तचतुष्टयात्म- योज्यं क्रमेण बहिरन्तरभेदसृष्ट्योः ॥ १९॥ इति श्रीमातृकाचक्रविवेक जाग्रद्विवेकश्चतुर्थः खण्ड ॥ ४॥

पञ्चमः खण्डः । तुर्यविवेकः

अक्षेषु वेद्यविलयः खलु शुद्धविद्या देहे तदक्षविलयो भवतीश्वरत्वम् । ईशो हि विश्वमयदेहकृताभिमानो जाग्रच्छिवस्य पशुजागरचक्रलग्नम् ॥ १॥ यद्बाह्यबाह्यपदमज्जनमन्तरन्त- स्तच्चित्पदे जडपदे विपरीतमेतत् । अक्षात्मवेद्यमिह शः स हि शुद्धविद्या देहाविभिन्नकरणेन्द्रियमीश्वरः षः ॥ २॥ ज्ञानेन्द्रियं स हि सदाशिव आत्मनैक्ये स्वात्मा खविश्रममयो ह इतीह शक्तिः । एतत्तुरीयपदमङ्गचतुष्टयाढ्यं बाह्यान्तरालपदयोः श्रितरूपसाम्यम् ॥ ३॥ एत्पदं पदमखण्डितमेव शुद्ध- विद्यादिकस्य खलु तत्त्वचतुष्टयस्य । वेद्याद्युदञ्चितचितिस्फुरणक्रमेण तत्तद्दशावतरणं विबुधैर्विभाव्यम् ॥ ४॥ सादाशिवः स खलु बिन्दुमयस्तवर्ग- स्तत्रेश्वराङ्गमयमान्तरधामयोग्यः । ज्ञानक्रिये न सुशिवस्य सदाशिवेशा- वन्तर्बहिश्च नियताङ्गिपदौ क्रमेण ॥ ५॥ इच्छापपञ्चकवबिन्दुमयी हशक्ति- र्ज्ञानक्रियासमपदं खलु सोभयात्मा । बिन्दौ समुन्मिषति सर्गपदे क्रमेण संसृष्टिरापरिसमाप्तितयोर्विभाव्या ॥ ६॥ पुर्वत्र नैवहि परो नियतः परत्र पूर्वो भवेन्नियत एव शषादिवृन्दे । एकत्र संविदुदयेऽप्यपरत्र भास- स्तस्या इतीदमथवा सममेव बिन्दुः ॥ ७॥ जाग्रच्छिवस्य पशुजागरयुक्तदैश- मन्तर्दशारमिह कोणगतं बहुत्वम् । भेदोदयोल्लसित मेतदभेदकोट्यां प्राप्नोति सङ्ग्रहामिति प्रतिपद्रहस्यम् ॥ ८॥ यः पार्थिवे चिदुदयः स हि शुद्धविद्या यः प्राकृते स पुनरीश्वरता किलाऽण्डे । यो मायिके स तु सदाशिवतेति शादे स्त्रैरुप्यधीरिहरहस्यतमं गुरूणाम् ॥ ९॥ बिन्दूदये विशति सर्ग इमं तथैव सर्गोदये तमथ सोऽपि पदे तदन्तः । कःस्याद्धकारहृदिलश्च वकारगर्भे बाह्ये तु चित् प्रकृतिसर्गमुखे विभक्ता ॥ १०॥ अन्तः पदं भवति तच्चतुरङ्गमैक्या- च्चिच्चैत्ययोः करणसीम्न्यपि भावितैक्यम् । पञ्चाङ्गकं भवति बाह्यपदं प्रकृत्यां चिद्वह्निगर्भकुहरादथ निर्गतायाम् ॥ ११॥ ज्ञानक्रियोन्मुखहकारमयाद्वयेच्छा- विश्रान्तिरन्तरबहिर्मुखविश्रमात्मा । कूटाक्षरात्मतनुरेष शिवः सुषुप्ति- विश्रान्तिरेव सविकल्पकलाल्पगन्धा ॥ १२॥ नास्त्यस्ति वेत्त्युदितसंशयजाग्रतीह सुप्तौ । । । । शिवे (भवति)(जाग्र)जगदभेदरूपम् । ज्ञानक्रियात्मकतया प्रतिरूपभिन्न- मेवं चतुर्विधमधिश्रितबीजमात्रम् ॥ १३॥ ज्ञानं द्वयाद्वयमयं लसकाररूपं तादृक् च कर्म कषकारमयं विदुस्तत् । श्लिष्टं पुरः स्फुरितसद्वयकोटि ळ क्ष- (श्लिष्टं पुरः स्फुरित सद्वयकोटिलक्ष-) रूपं परस्परगतं च समं च कूटम् ॥ १४॥ ज्ञानात्मजागरसुषुप्त्यवधी मकार- कूटात्मकौ पशुशिवौ गुणकोणबिन्द्वोः । श्लिष्टौवशादिचतुरस्रयुगान्वयोत्थ- नागाश्ररश्म्युदरगौ ननु सर्गबिन्दू ॥ १५॥ ज्ञानक्रियात्मकसुषुप्तिविबोधमध्य- संस्थौ क्षमावुभयपक्षगबिन्दुसर्गौ । सव्यापकौ तदुभयस्य तदङ्गिभूतौ जाग्रत्सुषुप्तिसमवायपदेऽनुषक्तौ ॥ १६॥ सङ्कोचपूर्तिपरसीमपदोभयार्था श्रीचक्रमध्यनिलया त्रिपुरेश्वरी सा । त्रेधा विसर्गपदमेकविधं पदं च बिन्दोस्तुरीयमिति बाहुचतुष्टयाढ्या ॥ १७॥ सौषुप्तजाग्रदबहिः पदजागरेषु तोयक्षमानिलमयेष्व कलात्मशक्त्या । आत्तेचवर्गयमयस्वगुणेक्षुचाप- पुष्पेषुपाशनिगृहीतचिता त्रिबाहुः ॥ १८॥ तुर्येऽग्निधाम्नि हचिता ससृणिप्रणुन्न- चैत्यातिपश्विभजडत्वरुजैकबाहुः । एवं चतुर्भुजविभाव्यचतुर्थदशाङ्गा क्ष्मात्माङ्गिनी जयति मध्यपदेऽपितुर्या ॥ १९॥ सुप्तिप्रभृत्युदितचैत्यविजृम्भितस्य जाग्रत्पदप्रभृतिचिद्विनिमज्जनं यत् । तुर्यं पदं च खलु तत्र सुषुप्तिभागो यश्चिन्मयः शिववपुस्तदतीव तुर्यम् ॥ २०॥ तुर्यं द्विखण्ड मभवस्य जघन्यभागो मूर्धाऽतितुर्यमनयोरनुभूः क्षमध्यम् । जाग्रच्छिराःस्वपनसुप्तिजघन्यभागो मप्राणकः पशुरसौ विपरतिबोधः ॥ २१॥ मात्मा पशुः प्रकृतिरेव तया निगीर्णो हात्मापि चित्प्रकृतिरेव निवृत्तिरूपा । इत्थं द्विधा प्रकृतिविश्रमभूः क्षकारः शम्भुः परः परत एव भवेत्प्रकृत्याः ॥ २२॥ यद्वा शिवः क्ष इह म प्रतियोगिभावात् सौषुप्तमेव परशम्भुपदं चिदात्मा । यच्चक्रमध्यपदता तदधीशता च शम्भोः(स्तदस्य)सदेश्यगुणगन्धितयार्च्यभावात् ॥ २३॥ चन्द्राग्निभुक्छशिभुगग्निरथः समस्वं भानुः पदे पद इदं त्रितयं स्वरादौ । खण्डत्रयात्मकमखण्डपदं च तद्वत् तद्विश्रमः प्रतिदशं समसङ्ख्यतैषाम् ॥ २४॥ भेदाविभेदसमतातनुभिः सुषुप्ति- स्वप्नप्रजागरपदैस्त्रिगुणीकृताभिः । पृथ्वादिखान्ततिथिभिर्ननु शुक्लपक्षः कृष्णस्तुजागरपदादिकतन्निवृत्या ॥ २५॥ देहात्मिका प्रकृतिरेव परा विमर्शः सैव प्रवृत्तिविनिवृत्त्युभयादिभूता । वागर्थमिश्रवपुरिन्द्वनलार्यमत्र- य्येकैक युक्त्रिपुटिका नवमूर्तिरेका ॥ २६॥ चैतन्यता च जडता च विमर्शचित्यो- स्तुल्या यदिन्द्वनलयोरुभयं तदिच्छा । स्यात्कर्म चावगलितं तु मिथो जडत्वात् ज्ञानं तयोः समपदं च तथा द्विरूपम् ॥ २७॥ पक्षद्वयेऽपि परिवृत्तिवशात्त्रयाणा- मिच्छादिकत्रितयताप्रतिधाम धाम्नाम् । षट्स्वत्रवृत्तिषु च कारणकार्यतास्या- द्बिन्दुक्षयोर्मभबयोः पफवर्ग(र्ण)योश्च ॥ २८॥ चन्द्राग्निविश्रमणयोः स्वरयादिधाम्नोः र्विश्वस्य बीजदशयोः प्रथमे पदे चित् । चित्ये निमज्जति परत्र चितौ तु चैत्य- मेतत्समस्तमुभयोल्लसिते तु भानौ ॥ २९॥ इन्दौ च हव्यभुजिचोदरसीम्नि यत्स्या- च्चक्रद्वयं चिदचिदभ्यवमर्दरूपम् । बिम्बद्वयीयुगलमेतदशीतिभानो- र्बिम्बस्थले हि चतुरश्र(स्र)तया समस्तम् ॥ ३०॥ तस्माच्चतुष्पदमिदं चतुरस्रबिम्बं चिच्चैत्यनिर्जरसरिद्यमुनाप्रयागः । अर्च्यं भवेत्प्रथमतोऽथतदङ्गभूत- चिच्चैत्यचक्रयजनं त्वितिपूर्वतस्तत् ॥ ३१॥ अन्तःस्थमेव चतुरस्रमुषर्बुधेन्द्वो- रर्कात्मकं चिदचिदुद्भवमेतदङ्गम् । एवं च सत्यपि जडाजडसारमेतत् प्रागेव पूज्यमिति पूर्णपदे कृतं तत् ॥ ३२॥ इति परमरहस्यं मातृकार्थस्वरूपं स्फुटतरमुपदिष्टं चक्रराजाभिनीतम् । लगति यदयमर्थः शक्तिविद्धेऽन्तरङ्गे न तु तुनरपरत्र प्रत्यवायो(ऽस्ति)न तन्मे ॥ ३३॥ इति मातृकाचक्रविवेके तुर्यविवेकः पञ्चमः खण्डः ॥ ५॥ इति स्वतन्त्रानन्दनाथविरचितः मातृकाचक्रविवेकः (मूलं) सम्पूर्णः ॥ Encoded and proofread by Ruma Dewan
% Text title            : Matrikachakravivekah
% File name             : mAtRRikAchakravivekaH.itx
% itxtitle              : mAtRikAchakravivekaH (svatantrAnandanAthavirachitaH)
% engtitle              : mAtRRikAchakravivekaH
% Category              : devii, devI, tantra, mantra
% Location              : doc_devii
% Sublocation           : devii
% Author                : svatantrAnandanAtha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Indexextra            : (Scans 1, 2, 3)
% Latest update         : January 18, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org