श्रीमीनाक्षीशतकम् अथवा मीनाक्षीस्तवराजम्
श्रीमीनाक्षीध्यानम् ।
शब्दब्रह्ममयी चराचरमयी ज्योतिर्मयी वाङ्मयी
नित्यानन्दमयी निरञ्जनमयी तत्त्वमयी चिन्मयी ।
तत्त्वातीतमयी परात्परमयी मायामयी श्रीमयी
सर्वैश्वर्यमयी सदाशिवमयी मां पाहि मीनाम्बिके ॥
(श्रीमच्छङ्करभगवत्पादाचार्यविरचित श्रीमीनाक्षीस्तोत्रान्तर्गतम्)
श्रीसच्चिदानन्दभारतीमहास्वामिनां ध्यानश्लोकः -
सत्यस्वरूपं सद्ज्ञाननिष्ठं साक्षाच्छिवं परम् ।
सदा दानरतं दान्तं सच्चिदानन्दमाश्रये ॥
श्रीगणाधिपतये नमः ।
श्रीसच्चिदानन्दगुरुभ्यो नमः ॥
श्रीमीनाक्षीशतकम्
बालार्ककोटिरुचिरे वरदे वरेण्ये
बाले बलप्रमथने मदनप्रवीणे ।
लीलासहस्रनिपुणेशमहाविहार-
शीले सुमीननयने कुरु मङ्गलानि ॥ १॥
शर्वाणि वाणि कमले कमलासनस्थे
मीनाक्षि काङ्क्षितवरप्रदकामरूपे ।
सव्येतरेण च करेण गृहीतचारु-
क्रीडाशुके करुणया कुरु साक्षरं माम् ॥ २॥
कल्याणदे कमललोचनकञ्जवक्त्रे
कामाक्षि कामिनि कलानिपुणे कुलीने ।
कामारिणा हृतनिजार्धशरीरभागे
कारुण्यतः कुरु भवत्पदि मां च भक्तम् ॥ ३॥
अत्यन्तचारुवसने रसनाग्रनृत्यत्-
विद्याविशारदविधातृसुरप्रपूज्ये ।
याज्यादिगीतमखगेयपुरोनुवाक्ये
वाक्ये ममेश्वरि सुधां प्रणिधेहि मातः ॥ ४॥
यागस्सरागविहितस्सुपवित्रतीर्थ-
सार्थैरवाप्यमथ भोग उपात्तभोगः ।
योगो नियोगपरिदूषित एष तस्मात्
मीनाक्षि तावक पदस्मरणं प्रदेहि ॥ ५॥
गोपीजनप्रभवकामविहारवीर्य-
विख्यातकीर्तिपरमः पुरुषः पुराणः ।
तत्पौरुषाकृतिरिति प्रभुरम्बिके त्वां
श्रीशङ्करः किल पुरा समुदाजहार ॥ ६॥
ब्रह्माण्डमण्डलमिदं हि महानिधानं
भावत्कमङ्गलमहायशसामपारम् ।
त्रेतायुगोदितधरातनयाधिनाथ-
श्रीरामनामजपपूरितपुण्यपुञ्जे ॥ ७॥
त्वं कामधेनुरथ कल्पतरुस्त्वमेव
चिन्तामणिर्मणिवरो मम मीननेत्रे ।
रम्याणि तावकचरित्रसहस्रकाणि
श्रीपाण्ड्यराजतनये रमयन्ति चास्मान् ॥ ८॥
कल्याणकारणशरासनशासितारिः
कारुण्यपूर्णसुमनाः स पुरा पुरारिः ।
देवि त्वदीयतपसा किल सन्तुतोष
भ्राजद्वृषोपरि वसन् वृतपञ्चवक्त्रः ॥ ९॥
हालास्यनायकि हरो हृतकामदर्पः
सर्पौघमण्डितवपुर्भृतसत्कपालः ।
शूलप्रधावितरतत्सुरवैरिसङ्घो
हुङ्कारदुष्टदमनस्तव सौम्यरूपः ॥ १०॥
नारायणप्रणतपादपवित्रपांसु
पांसुप्रतारितसमस्तनिरस्तबोधे ।
कस्तूरिकातिलकनामकभृङ्गसङ्ग-
भ्राजन्मुखाख्यकमले विमले नमस्ते ॥ ११॥
माणिक्यगर्भितलसत्सुभगत्वदीय-
नाभीसरोजवरवासपरा रमैषा ।
भूषासहस्रपरिभूषितरम्यरूप-
योषाविशेषपरिपूजितपत्सरोजे ॥ १२॥
त्वन्नूपुरध्वनिविमोहितविश्वमेतत्
चिन्ता परं किमनया कृतमत्र भद्रम् ।
त्वां सर्वकर्मफलदां सकलस्वतन्त्रां
केचिद्विदुर्न खलु केचन बोधशून्याः ॥ १३॥
देदीप्यमानतनुमध्यगहेमपट्टो
जाज्वल्यमानशुभरत्नमणिप्रकूटः ।
रम्भोरुयुग्मपरिवेष्टितरागरक्त-
वासस्तु वासवमनः कुरुते सरागम् ॥ १४॥
त्वत्कुक्षिनिष्ठमिदमम्ब जगत्त्रयञ्च
त्वत्तेजसा खलु विभान्ति समस्तलोकाः ।
आज्ञाधरास्तव महेश्वरि ते दिगीश-
ब्रह्मेशविष्णव इमेऽप्यभवद्गुणस्ते ॥ १५॥
काञ्चीस्रगम्ब तव पुष्पितहाटकान्त-
र्विभ्राजमानवरदीपशतप्रभौघाम् ।
सत्किङ्किणीगणझणावृतहैमनाग-
श्रीमन्मुखानतशुकावलिराजितश्रीः ॥ १६॥
आसीत्त्वदीयजघनं घनमित्यवेक्ष्य
मेघस्स गर्जितदिवः कुपितोऽधुनापि ।
तद्युक्तमेव हि तदस्तु घने घनत्वं
तच्चेत्त्वदीयजघनेन समास्थितं स्यात् ॥ १७॥
शैलोपमस्तनविधूतमहाभयोऽयं
त्वामाश्रितो मदन एष महेशशत्रुः ।
तं तादृशं गिरिवरं प्रतिपद्य शौर्यं
तेजस्समाजकृतसालविधिस्तनोति ॥ १८॥
त्वत्कण्ठनालपरिचुम्बितलालसेव
लक्ष्मीर्विभाति तव कण्ठगभूषणौघैः ।
हस्तोल्लसज्झणझणीकृतकङ्कणानि
कार्तस्वरप्रभवसुप्रभयार्जितानि ॥ १९॥
रत्नप्रभाधलधलीकृतसत्कपोल-
श्रीकुण्डलोज्वललसच्छरदिन्दुवक्त्रे ।
माये महेश्वरमनोहररम्यरूपे
मां पाहि मीननयने मधुराधिनाथे ॥ २०॥
त्वद्बाहुदण्डमुपलभ्य शशास शम्भुं
चेतोभवश्चिरमनङ्गतयातिकोपः ।
तस्मादगेश्वरसुते जगदीश्वरोऽपि
स्थाणुत्वमभ्युपगतः खलु खिन्नचेताः ॥ २१॥
त्वत्पाणिसौन्दरपराजितपङ्कजानि
त्वच्छोणपादयुगले निपतन्ति नित्यम् ।
नम्रा अपि प्रभुजनेषु सुदुर्जयेषु
धार्यन्त एव शिरसा सकलैर्जनैस्ते ॥ २२॥
राजज्जपाकुसुमरागनिभप्रभाणि
सर्वाणि देवि तव पाणिपदोद्भवानि ।
शर्वाणि तावकनखानि तवोचितानि
सौन्दर्यसारघटितानि सुमङ्गलानि ॥ २३॥
माधुर्यवर्यमहिमापहृताङ्गरङ्ग-
भृङ्गक्रमोल्लसितसत्कमलाढ्यहस्ते ।
गाम्भीर्यगुम्फितलसद् हृदये दयास्मिन्
दैत्यप्रहारपरशुप्रवरप्रिय स्यात् ॥ २४॥
हारो विहारविषयाब्धिजमौक्तिकौघ-
श्रेणीसहस्रपरिनिष्ठितसारतेजाः ।
त्वत्कण्ठगश्शिवद एष ममास्तु मातः
शान्तिप्रदश्च शतकोटियुगेषु सिद्धः ॥ २५॥
त्वन्नासिकापुटविडम्बितभद्ररूपा
भद्रे विभाति भगवत्यधुनेन्दिराहो ।
सा श्रीर्जुहोति वदने मदनाग्निहोत्रे
लावण्यकल्पितमहोल्लसदाज्यधाराम् ॥ २६॥
श्रृङ्गारशान्तिनिलये शिवदेवकान्ते
रागानुरञ्जितरदे वरचारुवीणे ।
पक्षे सितप्रथमतो भुवि दृष्टबाल-
चन्द्रोपमं भुवि पतेत्त्वयि मेऽम्ब चेतः ॥ २७॥
सङ्गीतशास्त्ररसिके वस पुष्पराग-
व्यक्तानुवादपरमाङ्गुलिपञ्चकाढ्ये ।
बिम्बाधरे बलसमाहृतरत्नसार-
नासामणिभ्रमणसम्भ्रमसम्भृतास्ये ॥ २८॥
सौवर्णगोपुरपुरोगतपौरराज-
च्चक्षुश्चकोरपरितोषणचन्द्ररूपे ।
चाञ्चल्यरूपगुणसम्भृतचन्द्रसूर्य-
नेत्रोभयोदयविभासितसर्वलोके ॥ २९॥
श्रृङ्गारचारुवचने रचनाप्रवीणे
श्रीवत्सलाञ्छनमहोदयहेतुभूते ।
श्रीसुन्दरेशदयिते प्रणतोस्मि च त्वां
श्रीप्राप्तये श्रितजनावनलालसोऽहम् ॥ ३०॥
तेजस्तरङ्गितसुमङ्गलतारकस्थ-
लावण्यजालजलपूरितसागरान्तः ।
शीघ्रप्रचारणपटू इव देवि मत्स्यौ
नेत्रे उभे च तव पाण्ड्यसुते विभातः ॥ ३१॥
सत्कुङ्कुमाङ्कितललाटमहाप्रभावः
कैर्वर्ण्यते जगति सर्वमनोहरास्ये ।
चन्द्रप्रकाशघटितस्फटिकोपमान-
कामातिगप्रभुमनः कलुषीकरोति ॥ ३२॥
त्वत्क्लेशपाशपरिसृष्टजपाविशेष-
स्पष्टस्फुरत्कठिनपीननितम्बदेशे ।
तादृग्जपाकलितशोभनगन्धयुक्त-
श्रीमल्लिकाकुसुमकल्पितमालिकौघे ॥ ३३॥
मानोन्नते मदनचारणचक्रभूते
मार्ताण्डमण्डलमहासनपद्मसंस्थे ।
माहेश्वरि प्रशमयाशु ममान्तहीनां
तृष्णां त्रिणेत्रदयिते दययार्द्रभावे ॥ ३४॥
माङ्गल्यमन्दिरमिदं मदनोदयाढ्यं
साङ्गं सुलक्षणमरक्षणजातकार्श्यम् ।
अव्यक्तवादपरकोकिलवाणि वाणी-
मुल्लङ्घ्य तिष्ठति शरीरमलङ्कृतं ते ॥ ३५॥
मन्दाकिनीवरसरित्सलिलाभिषेके
मन्दस्मिते मलयचन्दनचर्चिताङ्गि ।
मन्दारनामकमहीरुहपुष्पपूज्ये
मन्दप्रसिद्धगमने महसा विभासि ॥ ३६॥
वैडूर्यवज्रघटितात्ममहाकिरीटे
घण्टारवैरथ विधेयसुधूपदीपे ।
नानाविधार्चकसमर्पितभक्ष्यभोज्ये
पूर्णे वसान्तरिह मे चिरमन्नपूर्णे ॥ ३७॥
दिव्याम्बरे कनकरत्नविभूषिताङ्गे
दिक्पालवन्दितपदे परमार्थरूपे ।
नीराजनोज्ज्वलमहोल्लसदात्मरूपे
नित्ये जये विजयदे जय विश्वरूपे ॥ ३८॥
कर्पूरदीपविहितात्मशुभे शुभाना-
माधारभूतचरणे करुणारसाढ्ये ।
गानैरनेकविधरागविशेषयुक्तै-
र्गीते सुमङ्गलपदे त्वयि देहि दास्यम् ॥ ३९॥
प्रत्यक्षलक्षणपदे परमप्रमाणे
प्रामाण्यवादविदिते परमार्थनिष्ठे ।
नित्यानुमेयनिजरूपधरे धरण्यां
नैवोपमानमिह ते कृतशब्दशास्त्रे ॥ ४०॥
वेदत्रयो विदितकर्मकृतक्रमश्री-
प्राधान्यवाक्यनिचयप्रतिपाद्यरूपे ।
कल्याणि कारणविशेषविशिष्टकार्य-
न्यायाभिधानसुनये जय देवि नित्यम् ॥ ४१॥
श्रृङ्गारमङ्गलमहोज्ज्वलदिव्यभाषे
भाषाविशेषविषयीकृतभावरूपे ।
शेषादिविद्वदनुभावितशब्दरूपे
साङ्गैस्समस्तनिगमैरपि वेद्यरूपा ॥ ४२॥
सौवर्णपात्रघटितं परमामृतान्नं
साज्यं सशर्करमिदं रसनाप्रमोदम् ।
त्वद्भुक्तशिष्टमिह भूमितले भजेम
भ्राजत्सुधारसमनेकबुधैरुपास्यम् ॥ ४३॥
सन्ध्यासु सद्विजवरैरनुगीयमाने
गायत्रि गानपरमे सुपवित्रगात्रि ।
सावित्रि सर्ववरदे सवितृस्वरूपे
तार्तीयरूपसवनेऽसि सरस्वती त्वम् ॥ ४४॥
राजत्सुरत्नशुभमण्टपकान्तरस्थै-
र्दीपैरनेकशतकोटिसहस्रसङ्ख्यैः ।
त्वन्मन्दिरं जननि भाति महाप्रकाशं
कैलासश्रृङ्गमिव भूमितलेऽपि साक्षात् ॥ ४५॥
अम्ब त्वदीयशुभमन्दिरपट्टशालाः
शैलोन्नता वरशिलारचिता विशालाः ।
बह्वन्तरान्तरविभागविशोभमानाः
न क्वापि भाग्यभरिते भुवि दृष्टपूर्वाः ॥ ४६॥
नन्दीशचण्डगजवक्त्रकुमारमुख्याः
श्रीवीरभूपविभवार्चितवीरभद्रः ।
सर्वेऽपि दैवतगणास्समुपासते त्वा-
मीशानदेवदयिते सशिवां शिवार्थम् ॥ ४७॥
सोपानपङ्क्तिसहितं तव सारसाख्यं
तीर्थं महोज्ज्वलजलं मुनिमुख्यसेव्यम् ।
पुण्यं पुराणमरविन्दसमं समन्ता-
त्त्वज्जन्मकारणमिति प्रथितं पृथिव्याम् ॥ ४८॥
किं तीर्थमत्र भुवि वा तव पुष्करिण्या
साम्यं प्रयातु बहुपुण्यजलौघयाम्ब ।
यत्राप्लुतोऽत्र मनुजोऽप्यजडो भुवि स्या-
न्नानाजलग्रहसमाकुलतोयजाले ॥ ४९॥
क्वैरावतस्तव गजेषु गुणोत्तरेषु
नोच्चैश्रवास्तव हयाधिकतां प्रयाति ।
तावत्कवाद्यनिनदौघधुतात्मदर्पाः
स्वर्गेऽपि देववरदुन्दुभयः किलासन् ॥ ५०॥
त्वद्गोपुराणि सुरशैलमहोन्नतानि
नानाविधानि मधुरापुरभूषणानि ।
आद्यन्तमध्यविचरद्वरवानराणि
मीनाक्षि तावकयशो विकिरन्ति दिक्षु ॥ ५१॥
श्रृङ्गोन्नता बहुदुघास्तव धेनवोऽमू-
स्तुष्टास्तुषारकिरणोद्भवचन्द्रिकाभाः ।
पुष्टाः पुराणपुरुषं भवमाश्रयन्त्यः
स्पृष्टाः पुनन्ति पुरुषैः पुरुषानशेषान् ॥ ५२॥
त्वत्पादपद्मयुगलस्मरणेन मातः
नित्यं प्रबोधसमये विबुधप्रबोध्ये ।
इष्टं च मृष्टमशनं भुवि धर्मनिष्ठा
बुद्धिस्समृद्धिरथ गेहगता भवेन्नः ॥ ५३॥
श्रीचक्रतः कृतमहोज्जवलमन्दिरा त्वं
भक्तेषु यासि च भजत्सु तथेन्दिरात्वम् ।
इन्दूपमानवदने सदने मदीय-
हृत्पद्मरूपिणि सदा भव सुस्थिरा त्वम् ॥ ५४॥
यां देवतास्स्वरिति भूतलमेव मत्वा
नित्यं प्रभातसमये सह शङ्करेण ।
ताम्बूलचर्वणपरान्नवरत्नपीठे
भेजुर्भजन्ति भवतीमपि तां भजेऽहम् ॥ ५५॥
वैराग्यशान्तिनिलयं पुरुषं पुराणं
नित्यक्रियादिभिरुपासितमन्तशून्यम् ।
मूर्धस्थगाङ्गसलिलं जटिलं त्रिनेत्रं
भस्मप्रियं भजसि भूतसहायमीशम् ॥ ५६॥
फालानलं भवमजं भवनाशहेतुं
कालं कलानिधिमनन्तदृशं विशुद्धम् ।
वैय्याघ्रचर्मवसनं जितकाममीशं
आकाशकेशमनिशं भजसे भवानि ॥ ५७॥
निर्धूतमानमनघं विजितेन्द्रियञ्च
वेदान्तवेद्यमनहङ्कृतिमप्रमेयम् ।
लोकोत्तरोर्जितगुणे गुणहीनमेव
राजन्यदेवतनये वृणुषे किमेतत् ॥ ५८॥
त्वद्रूपवित्स च हरोऽथ हरस्य रूपं
त्वं वेत्सि मत्स्यनयने विनयानतास्ये ।
इत्थं परस्परगतं खलु सख्यमम्ब
कोवेह वेद युवयोश्शिवयोर्महत्वम् ॥ ५९॥
त्वामद्रिराजतनयामथ भूतलस्य
भद्रार्थमागतवतीं विदुरात्मवन्तः ।
त्वं पद्ममालिनि च मानिनि मानयुक्तं
मां मीनलोचनधरे कुरु गौरवर्णे ॥ ६०॥
देवि स्वयंवरपदं प्रतिपद्य देवः
प्रत्यक्षतस्तव कुचद्वयमैक्षतेति ।
आश्चर्यमत्र विबुधैरपि नैव कार्यं
लोकेष्वमीषु सकलेषु स हि त्रिनेत्रः ॥ ६१॥
शम्भोर्विवाहसमये शिवपार्श्वगां त्वां
आलोक्य नाकसदनास्सकलास्सयोषाः ।
भ्रान्ता बभूवुरथ तेऽम्ब कटाक्षमूढा
तेऽपि स्म ते विलिखितेरविधिर्विधिश्च ॥ ६२॥
श्रीकण्ठचारुकरकञ्जयुगप्रबद्ध-
माङ्गल्यसूत्रपरिशोभितकम्बुकण्ठि ।
ब्रह्मेह शाश्वतमनाकृति यावदेव
तावच्छिवानि शिवतस्तव सन्ति देवि ॥ ६३॥
भिक्षाशनं खलु तदापि न भग्नमस्मिन्
शम्भौ भवत्करगृहीतवरान्नदानैः ।
इत्थं प्रियङ्करतया सह भोजनेऽम्ब
शम्भुप्रियेति कथितासि जगत्त्रयेऽपि ॥ ६४॥
त्वत्कञ्जवक्त्रपरिशोभितमन्दहास-
भ्रूल्लासदर्शनपरः परमेश्वरोऽपि ।
सानन्दमन्दहसनानुविधेयसार-
सम्भावनस्स च बभूव पुरा त्रयीशः ॥ ६५॥
पाणिग्रहेण परितुष्टमनास्तवाभूत्
शम्भुः प्रभुर्विभुरभूतविभाविताङ्गि ।
संसारगह्वरमहागहनं प्रविष्टः
संसारिणां गतिरयं गुणसाक्षिभूतः ॥ ६६॥
शम्भुप्रभावशुभवर्णनयाभियुक्त-
जिह्वा जयत्यथ विभावितशुद्धवर्णा ।
इत्थं पतिं खलु निषेव्य परं पुमांसं
संसाधिताखिलसुखानि विशालनेत्रे ॥ ६७॥
ह्रीङ्कारवादसुलभे हितदे समस्त-
लोकस्य लोचनगताञ्जनशोभनाढ्ये ।
श्रीसुन्दरेश्वरपदे विहितान्तरङ्गे
श्रीमत्तरङ्गितपदस्तुतिभिस्स्तुताङ्गे ॥ ६८॥
सन्तोषयुक्तहृदये सति सारवाक्ये
वाक्ये महत्यपि विभातवरात्मनिष्ठे ।
मह्यं प्रदेहि वरदे भुवि च प्रतिष्ठां
काष्ठां कलादिरहितामथ योगिलभ्याम् ॥ ६९॥
रङ्गस्थलीविहितनर्तनवार्तयाहो
सर्वेऽपि देवि तव सन्निधिमेत्य देवाः ।
हृष्यन्ति हन्त मनसा वचसा च भूयः
पुष्णन्ति भद्रवपुषा च विषादशून्याः ॥ ७०॥
त्वत्पादसारसनिबद्धसमृद्धबाल-
घण्टारवैर्घलघलीकृतनाट्यरङ्गे ।
नाट्यानुरञ्जितनयोज्ज्वलचारुलीला-
कोलाहलाहृतसमस्तसुरान्तरङ्गे ॥ ७१॥
तालप्रभेदगतिनृत्यमहाविहार-
नित्योत्सवेन परितोषितनागहारे ।
त्वत्साम्यमेति न रमा न सरस्वती च
शक्रप्रिया न च शची न च देववध्वः ॥ ७२॥
त्वद्वक्त्रनिस्सृतमृदूज्ज्वलसारवल्गु-
व्यक्तस्वरामृतरसाक्षरवाक्यलेशैः ।
क्षोणीभृतो हरिहरौ विधिमुख्यदेवाः
सर्वेऽपि विस्मितहृदः किल नृत्यकाले ॥ ७३॥
नैव श्रमो न च तवाम्ब वराङ्गजात-
स्वेदाम्बु शून्यगतयो न च तालभेदाः ।
नैवासि शङ्कितमनाः पुनरेव धीराः
पश्यत्सु दैवतजनेष्वपि रङ्गदेशे ॥ ७४॥
चन्द्रोदये सति शरद्यतुलश्रियाहो
वारान्निधिर्ध्वनिजितेतरशब्दजालः ।
वर्धेत हर्षवशगो निशि वा यथैव-
मुत्साह एष तव वृद्धिमुपैति नित्ये ॥ ७५॥
चक्राकृतिभ्रमणधूतपटान्तभात-
कार्तस्वराभशुभजानुविहार एषः ।
लक्ष्मीं तनोतु नितरामरविन्दपाद-
स्पर्शप्रभूतधरणीतलशब्दरम्यः ॥ ७६॥
नासक्तमत्र च मनो भुवि कस्य वाऽभूत्
साक्षादपि त्रिणयनः कृतकाममैत्रः ।
यत्राभवन्नियतचित्ततया समाधि-
स्थित्येव योगपरमस्तव नृत्यसारे ॥ ७७॥
आनन्दपूर्णहृदये विशदात्मलीले
माङ्गल्यसूचकमनोहरचारुशीले ।
चाञ्चल्यगर्भितशरीरविशेषणाङ्गे
रङ्गस्थले जय जये जितजातरूपे ॥ ७८॥
नृत्येन मीननयने न हि सा हि रम्भा
नैवोर्वशी नवनवेन तिलोत्तमा च ।
हा प्रीतिमत्त्वजनने तव देवि शक्ता-
स्तिस्रस्तिसृष्वपि लसज्जगतीषु गीताः ॥ ७९॥
त्वादृग्जनेषु तपसा प्रथितेषु लोके
नानाकलानिपुणतेति न चित्रमत्र ।
नारायणोऽपि नवनीतहरो यतोऽभूत्
नृत्येन तोषितसमस्तवधूसमूहः ॥ ८०॥
कारुण्यशङ्करमजे कमनीयरूपं
कान्तासहस्रपरिभावितपद्मवक्त्रम् ।
विभ्राजिताखिलदिगन्तरचन्द्रमौलिं
सन्तोषयन्तमनिशं कुरुते विनोदैः ॥ ८१॥
ताटङ्कबालनविभातविचित्रवर्ण-
विद्योतमानसकपोलविमोहितोऽयम् ।
तामेव नित्यमगजामतिसम्प्रहृष्टो
ध्यायत्यनन्यविषयो वृषवाहनोऽपि ॥ ८२॥
देवि त्वदास्यसरसीरुहसक्तभृङ्ग-
झङ्कारलक्षणमहामदनप्रसङ्गः ।
सङ्गीतशास्त्ररहसाकृतनित्यसङ्गः
शृङ्गारशास्त्रशिरसा श्रितदीर्घशृङ्गः ॥ ८३॥
त्वद्भोगलम्पटमना हि महानुभावः
शर्वस्स कोटिमदनोपमरम्यरूपः ।
नित्यं तवैव गृहवासपरो बभूव
त्वन्मोहितो रतिविशालसुखानुरक्तः ॥ ८४॥
त्वद्वक्त्रचुम्बनसुपीतसुधारसोऽयं
पञ्चाननः परिगृहीतसपञ्चबाणः ।
नोचेत्कुतो धवलिमात्र महेशगात्रे
स्याच्चन्द्रचारुकिरणोद्भवचन्द्रिकेव ॥ ८५॥
आघ्राय तावकमुखाम्बुजगन्धमीशो
मेने तपः फलमहस्स तपोनिधानः ।
आलिङ्ग्य गाढमनघो भवतीं कृशाङ्गीं
कामोदधौ सह ममज्ज विधूतलज्जः ॥ ८६॥
हासैर्विहारपरमैः कृतकौतुकाभ्यां
पूर्वोत्तरक्रमविशेषविशोभिताभ्याम् ।
संवर्धितोऽनल इवाज्यहुतो युवाभ्यां
कामानलः किल रहो गृहमध्यमानः ॥ ८७॥
मेने कृतार्थमगराजमजो गृहेशो
यस्यासि मीननयने दुहिता सभद्रा ।
त्वत्कामकौतुकमनः परितुष्टभावः
पूर्णोऽपि पूर्णरतिमेत्य विधूतशोकः ॥ ८८॥
भोगीन्द्रकल्पितकरस्थितकङ्कणश्रीः
भोगश्रमेण सहितश्शयनं चिकीर्षुः ।
नान्यं गिरिं व्रजति हन्त गिरीश्वरोऽयं
मत्वा गिरिं गुरुतरं जघनं घनं ते ॥ ८९॥
कस्तूरिकैव तव कण्ठगता समृद्धा
भस्मप्रियस्य च गले प्रतिबिम्बताऽभूत् ।
तेनातिशुभ्रशुभगात्रधरोऽपि शम्भुः
त्वत्सङ्गतस्सति बभूव स नीलकण्ठः ॥ ९०॥
कामाङ्किताकृतिविशेषविराजमानौ
ताम्बूलरक्तवदनौ श्रमतोयसिक्तौ ।
क्षेमङ्करौ च जगतः पितरौ युवाङ्कैः
सेव्यौ समस्तवरदौ भुवि देवि न स्तः ॥ ९१॥
सूर्योदयाभरदने सुरपूज्यपादे
सूतादिभिस्स्तुतगुणे सुखबोधसारे ।
सूतेषु सूक्तिरचितेषु सुखेन बोध्ये
सूच्यग्रबुद्धिविशदे सुतमम्ब पाहि ॥ ९२॥
सङ्गीतसारहृदये समदृष्टियुक्ते
सम्यक्शुकेन्द्रपरिभाषितनामजाले ।
सायन्तनागतसमानसखीसमेते
संसारसागरगतं परिपाहि मां त्वम् ॥ ९३॥
सन्तानकाम्यफलदे सवितृप्रसूते
सन्देहसाधितरमे समयप्रतिष्ठे ।
साध्यामृताख्यवरतीर्थविशोधितान्त-
स्साधारणेतरमनः करणैरुपास्ये ॥ ९४॥
मात्राचतुष्टयपदे सुखबोधमात्रे
यात्राविचारणपरे परमात्मरूपे ।
मात्रास्मि पालितभवो जगताममीषां
नेत्रा च नेत्रपरिदूषितपद्मजाते ॥ ९५॥
मीनाक्षि तावकरथोत्सवसम्भ्रमार्थ-
माहेप्रयुक्तवचसः पथि संसरन्ति ।
पश्येम मीननयनामथ सुन्दरेशं
शीघ्रं सखे सर सरेति दिगन्तसंस्थाः ॥ ९६॥
एवं जनास्तु शतशोऽथ सहस्रशोऽमि
त्वामेत्य नित्यमविलम्बितदीक्षयाम्ब ।
युक्तां च युक्तहृदयाश्शुचयस्समौनाः
नेत्रोन्नताः प्रतिदिनं भवतीं भजन्ते ॥ ९७॥
त्वद्वाहनानि वृषसिंहगजाश्वहंस-
मुख्यानि मानवकृतानि महोन्नतानि ।
अङ्गानि तावकरथोत्सवकर्मणश्च
साङ्गानि सर्वनयनोत्सवसाधनानि ॥ ९८॥
प्राकारसारपरिकल्पिततत्सरन्ध्र-
मूर्धावलीमुदितमानसराजहंसे ।
नेत्रावलीकलितहेमरथोपरिस्थ-
कान्तानुधावितरथे रथघोषपूर्णे ॥ ९९॥
साक्षादिवामरनगश्शतहेमश्रृङ्गो-
रत्नौघराजितरथः प्रचलत्पताकः ।
आभाति भानुकिरणप्रतिभासमान-
स्तम्भायुतोज्ज्वलसुवर्णवधूसमूहः ॥ १००॥
तावत्कभावितसुवर्णकलाविसृष्ट-
स्तम्भस्फुरद्धटितचक्ररथोपमाम्ब ।
सा स्याच्छशाङ्कशतकोटिमहोदय श्री-
रेकत्र चेन्मिलति देवि शरन्निशायाम् ॥ १०१॥
वैकुण्ठगश्रियमसाविह नीलकण्ठः
कण्ठीरवेण सदृशस्वकविक्रमेण ।
किं वाऽहरद्धरतया यदि वा न तत्स्या-
द्धैमस्स ते रथवरः कथमीदृशस्स्यात् ॥ १०२॥
तद्वेगवेगितरयो रथिनां वरिष्ठः
पौरप्रदक्षिणपरः परमेश्वरोऽयं
भूतानि भावितशिवानि शिवार्जितानि
कुर्वन्कृपालुरभितः खलु याति शीघ्रम् ॥ १०३॥
तद्घोषघोषितदिशो दश काशितास्तत् -
तेजोभिरुत्थितरजः कणसम्भृतास्ताः ।
सेना चतुर्विधबला च सराजवीरा
त्वामेव याति परमोत्सवपारवश्यात् ॥ १०४॥
त्वद्दर्शनेन च जगज्जितसर्वकाम-
माबालवृद्धपशुपालकविश्वभूतम् ।
रामास्सुमङ्गलभवास्तव दर्शनेन
रामाभिरामहृदयाम्बुजसद्मसंस्थे ॥ १०५॥
शम्भुर्हिरण्यकवचावृतदिव्यमूर्तिः
केयूरहारमकुटैश्च विराजमानः ।
गच्छन्पुरस्स भवतीमनुसम्प्रयान्तीं
प्रत्यङ्मुखः किल पुनः परिवीक्षतेऽम्ब ॥ १०६॥
देवि त्वदीयगुणसृष्टगुणो हरोऽयं
त्वद्वक्त्रसोभगरसं परिपीय दृग्भिः ।
किञ्चिद्गलद्वसनभातघनस्तनाग्रां
दृष्ट्वा मृडस्स भवतीं पुनरेति हृष्टः ॥ १०७॥
तं तादृशं च रथिनं रथमध्यसंस्था
कामेन कान्तरिपुणा प्रतिबोधितेव ।
विद्रावयस्यतुलवेगरथे रथाङ्ग-
स्पर्शैर्दृढैश्चटचटीकृतभूतले त्वम् ॥ १०८॥
एवंविधानि चरितानि बहूनि दृष्ट्वा
सर्वेकृतार्थमनसो भुवि भूतसङ्घाः ।
कल्याणदेकमललोचनकालकाल-
कान्ते कृतोत्सवचये जय लोकमातः ॥ १०९॥
देवि त्वदीयशुभगात्रवराभिषेकैः
हारिद्रतीर्थमभवच्छुभदं वधूनाम् ।
तद्धारणस्मृतिनतीक्षणसंस्तवैस्तु
स्यादेव सर्वफलसिद्धिरिहैव नॄणाम् ॥ ११०॥
कञ्जातपुष्पवदने कमनीयगात्रे
कारुण्यरूपरसपूरितचारुनेत्रे ।
तस्मै नमो नम इदं तव संविधात्रे
तुभ्यं च तस्य च विधातुरथैव मात्रे ॥ १११॥
सौभाग्यदे च धनदे जगदाधिपत्य-
प्रागल्भ्यदे पुरुषदे प्रमदाजनेषु ।
योषित्प्रदेऽद्य सुतजन्ममहोत्सवस्य
दात्री त्वमेव मतिदानरता नमत्सु ॥ ११२॥
देवि श्रुतिश्रुतिमतां वचसां विदूरे
विद्राविताखिलशुभेतरकर्मजाले ।
ओङ्कारनादपरिभावितदिव्यरूपे
त्वङ्कारभेदरहिता वस मेऽन्तरङ्गे ॥ ११३॥
ताटङ्कयुग्मसहिता धृतकण्ठभूषा
लावण्यजाललसिता बहुभूषणाढ्या ।
दृष्टासि च स्तुतपदासि मयेह मातः
मां मैव विस्मर महेश्वरि मीननेत्रे ॥ ११४॥
त्वत्कीर्तितो जगदिदं परिपूर्णमम्ब
मीनाक्षि हाटकमयाम्बुजमध्यसंस्थे ।
ब्राह्म्यादिशक्तिरचितावरणे शिवाख्ये
हालास्यनायकि सदाऽपि नमो नमस्ते ॥ ११५॥
श्रृङ्गारपूर्णशतकं परिपूर्णमेतत्
मीनाक्षिकाशुभपवित्रचरित्रगर्भम् ।
सन्तानरूपफलदं कृतमङ्गलं तत्
सम्पत्प्रदं भुवि नृणां पठतां सुभद्रम् ॥ ११६॥
सर्वेषु वैदिकपदेषु यथानुपूर्वी
नित्या तथास्तु मम वाग्रचिते प्रबन्धे ।
सा सर्वविस्मयकरी कवितारसज्ञ-
सन्तोषदा मम हिमाचलजा कृपातः ॥ ११७॥
श्रीपाणड्यराजतनयानिलयं प्रपद्य
प्रातः पठन्ति मनुजा भुवि ये तु भक्त्या ।
माध्यन्दिने च सवनेषु च योऽथ सायं
ते वेदशास्त्रधनभोगसमृद्धिगास्स्युः ॥ ११८॥
आनन्ददायकशुकाक्षरवन्मदीय-
मानन्ददायकमिदं भवताद्बुधेभ्यः ।
आनन्दरूपपरमेशितुरप्यपूर्व-
मानन्दमेव तनुते भुवि या तदीयम् ॥ ११९॥
आचार्यशङ्करमहोज्ज्वलसम्प्रदायः
श्रीनारसिंहगुरुपुण्यकटाक्षपूतः ।
लीलाभिरेनमतनोत्स मुदैव सच्चि-
दानन्दसंयमिवरस्तवमम्बिकायाः ॥ १२०॥
पुण्यश्लोकः परमपुरुषस्सुन्दरेशो महात्मा
पुण्यश्लोका झषकनयना पार्वती पाण्ड्यजा सा ।
पुण्यश्लोकाः मम च दशकद्व्युत्तरा ये शतान्ताः
पुण्यश्लोकाः पठननिरताः पाण्ड्यपुत्रीस्तवस्य ॥ १२१॥
इति श्रीसच्चिदानन्द-भारती स्वामिभिः कृतम् ।
मीनाक्षीस्तवराजं ये पठन्ति नरसत्तमाः ॥
त्रिदिवं ते तृणीकृत्य कैलासे वासमाप्नुयुः ।
कुर्वन्ति येऽत्र सन्देहं नरकार्हा भवन्ति ते ॥ १२२॥
॥ इति श्रीसच्चिदानन्दभारतीमहास्वामिभिः विरचितं
श्रीमीनाक्षीशतकं अथवा श्रीमीनाक्षीस्तवराजं सम्पूर्णम् ॥
The referenced book in print had missing
syllables in verse lines 100.1 and 101.1.
The words नगः and कला are added for
their metrical suitability and meaning.
Encoded by Aaditya Kalyanaraman
Proofread by Aaditya Kalyanaraman, Rajani Arjun Shankar