श्रीमूकाम्बिका सुप्रभातम्

श्रीमूकाम्बिका सुप्रभातम्

उत्तिष्ठोत्तिष्ठ मूकाम्बा उत्तिष्ठ जगदीश्वरि । निद्रां मुञ्च महामाये त्रिलोकीं परिपालय ॥ १॥ ब्रह्मर्षिसिद्धमुनिसङ्घमुपेत्य देवि त्वद्द्वारदेशमधितिष्ठति दर्शनार्थम् । निद्रां जहि ह्यमलभक्तजनानुकम्पे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २॥ ब्रह्मेन्द्ररुद्रवरुणा भगवाननन्त- शेषो धनेश शशिभास्करवह्निमुख्याः । तत्त्वं त्वदीयमवगन्तुमुपस्थितास्ते मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३॥ वाल्मीकिकश्यपपराशरगौतमादि- भृग्वङ्गिरा सनकनारदवामदेवाः । द्वार्यागताः सगुणरूपमुपासितुं ते मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४॥ विद्याधरप्रमथकिन्नरयक्षनाग- गन्धर्वसिद्धपितरश्च समास्थितास्ते । द्रष्टुं तवाङ्घ्रियुगलं कृतकृत्यतार्थं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ५॥ त्वद्दर्शनाय विधिवद्विहिताग्निहोत्रा तिष्ठन्त्युपायनकरा ऋषयो मुनीन्द्राः । उत्तिष्ठ जागृहि महेश्वरि मुञ्च निद्रां मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ६॥ क्षेत्रं महद्फलदमन्यसुकर्मकर्तुः कोलापुरं तव महीतलपुण्यभूमिम् । आयान्ति साधकजनास्तपसेऽतिदूरात् मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ७॥ इत्थं पुरश्चरणयोग्यमतिप्रशान्तं क्षेत्रं पवित्रमिह सिद्धजना वसन्ति । त्वत्सन्निधौ भवभयार्तिविनाशनाय मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ८॥ त्रैयन्तवेद्यविभवे निगमातिदूरे सृष्टिस्थितिप्रलयकारिणि सर्वनाथे । भक्तार्तिनाशिनि सदाचरणप्रसन्ने मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ९॥ कल्याणि मङ्गलमये निजबोधरूपे भक्तेष्टदाननिरते भवसिन्धुसेतो । कोलर्षिनारदमुखैरुपगीतकीर्ते मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १०॥ श्रीमन्महेश्वरि सदाशिववल्लभेति कामेश्वरीति भजतां भयहारिणीति । वागीश्वरीति मनसां वचसामगम्ये मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ११॥ सर्वाश्रिते जननि चन्द्रकलावतंसे कम्भासुरासुहरशक्तिधरे भवानि । मूकाम्बिकेति सततं प्रवदन्ति सन्तः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १२॥ इन्द्रादि सर्वविबुधामलशक्तिराशे मूकासुराख्यखलदानवदर्पनाशे । चन्द्रार्धधारिणि लसच्छुभभालदेशे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १३॥ शैलाधिराजतनये परदिव्यरूपे शुम्भासुरप्रमुखदैत्यविनाशशीले । सद्वृत्तभक्तजनदुःखभयार्तिहन्त्रि मुकाम्बिके परशिवे तव सुप्रभातम् ॥ १४॥ त्वं भक्तरक्षणविधौ विविधस्वरूपं धृत्वा विनाशयसि दुष्टजनं सलीलम् । एतेन ते प्रकटिता भजकानुकम्पा मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १५॥ ज्योतिर्मयं निखिलदैवतसारभूतं सर्वार्तिहं मुनिसुरार्चितदिव्यलिङ्गम् । कोलापुरे लसति गर्भगृहे त्वदीये मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १६॥ निष्कामभक्तनिवहाच्च सकामकाच्च जिज्ञासवत्सहृदयाच्च नितान्तभक्त्या । स्वस्वाधिकारमनुसृत्य भजन्ति सर्वे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १७॥ श्रद्धालवो जपतपश्चरणानुरक्ताः कुर्वन्ति साधनमसह्यमपि त्वदीयाः । सिद्धिं प्रयान्ति च ततत्पदमग्रहेण variation ततः परमश्रमेण मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १८॥ संसारसागरसमुद्धराणैकहेतोः सर्वाभिलाषमपहाय भजन्त्यनन्याः। तेषां प्रसीदसि मनोरथपूरणाय मूकाम्बिके परशिवे तव सुप्रभातम् ॥ १९॥ त्वत्पादपद्मभजनार्चनतत्पराणां मातर्भयं भरसि भावुकसज्जनानाम् । त्वत्सेवनाद्विगतकल्मषमानसानां मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २०॥ सौम्यं वपुः सुललितं तव सुप्रसन्नं शिष्टेषु कोमलतमं सदयं तथापि । दुष्टेषु निर्दयमतीव भयं करोति मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २१॥ सञ्चिन्तये यदि गतं तव सौम्यरूपं श्रीपाञ्चजन्यवरदाभयचक्रहस्तम् । पद्मासनोपरि रतं स्मितहास्ययुक्तं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २२॥ आलस्यदोषनिहताः खलु भाग्यहीनाः प्रारब्धकर्म बलवन्मनुजा वदन्ति । ते तु प्रयत्नविमुखाः प्रपतन्ति दुःखे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २३॥ चित्तस्य शुद्धिमखिलस्य ममास्तु कर्म सत्कर्मशुद्धहृदये मनुजो विकारी । शुद्धिं विना न मनसो निजबोधलाभः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २४॥ सर्वत्र चञ्चलतरं भ्रममाणदीनं मां पालय ह्यविरतं दययेति मातः । विश्वासतस्तवपदं शरणं प्रपद्ये मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २५॥ नाहं तपश्चरणमर्चनसाधनं वा जानामि कर्तुमभयं कुरु पाहि मातः । जाने न केवलविधिं किमपीह दीनः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २६॥ भावेन देशमनिशं वशमानयन्ति भावोऽपि कारणमतः कवयो वदन्ति । त्याकेशसादृशमिहाद्य भवानि भावं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २७॥ यद्भावनान्वितहृदा भवतीं भजन्ति तद्भावनानुसरणं च तव स्वभावः । तस्माद्भजामि भवबन्धविमोचनाय मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २८॥ यादन्तरङ्गदमनं विषयेषु शान्तिः दान्तिश्च बाह्यविषयेषु विनिग्रहाख्या । शीतोष्णदुःखसूखयोः सहनं तितिक्षा मूकाम्बिके परशिवे तव सुप्रभातम् ॥ २९॥ वेदोक्तकर्मनिचयाचरणेन नित्यं वाक्कायमानसिकपापसमूलनाशम् । वाञ्छन्ति भावुकजनस्त्वदनुग्रहेण मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३०॥ शक्तिस्तु सर्वजगतां तव देव्यधीना विश्वं सृजस्यवसि हंसि च देवि काले । लिलेयमीश्वरि तवातुलदिव्यरूपे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३१॥ मोहान्धकारचरमूढजनो न चैतत् जानाति देवि जगतीति तवैव माया । मायास्वरूपमवलम्ब्य तनोषि विश्वं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३२॥ सृष्ट्वा चराचरमिदं जगदात्मशक्त्या तस्मिन्प्रविश्य विविधं च तनोषि रूपम् । तस्मान्न चास्ति किमपीह विना त्वयात्र मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३३॥ धूम्राक्षलोहितभवौ मधुकैटभौ च चण्डं च मुण्डमपि शुम्भनिशुम्भ सौख्यौ । दुर्गेति हंसि जगतः सुखशान्तिसिद्ध्यै मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३४॥ दुर्गेति दुर्गतिहरं तव नामधेयं श्रीशाम्भवीति च सुखङ्करमप्रमेयम् । संसारसागरसमुद्धरणं शिवेति मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३५॥ तेजोमयं सुरमणीयमति प्रसन्नं अत्यन्तसुन्दरमतीव मनोभिरामम् । स्वेच्छाधृतं ललितरूपमिदं त्वदीयं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३६॥ सच्चित्सुखं तु निगमागमशास्त्रसारं ज्ञानं तु शोभनमतीन्द्रियकं सुवेद्यम् । श्रुत्यैव सद्गुरुमुखादधिगम्यमम्ब मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३७॥ केचित् स्वकर्मफलमेव वदन्ति धीराः भक्तिं तथा नवविधामपरे महान्तः । अन्ये विरक्तिमतुलां परमाप्तिमाहुः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३८॥ श्रद्धासि देवि निखिलागमकर्ममूला भ्रान्तिश्च मोहजननेन भयार्तिमूला । त्वत्सेवया जनहितं विधितुं समर्थः मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ३९॥ कामेश्वरि प्रणतभक्तजनानुकम्पे सर्वान्तरङ्गयमुने परिपूर्णरूपे । मामुद्धरोद्धर भवाद्भवतापहन्त्रि मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४०॥ बुद्धिप्रचोदिनि चराचरविश्वरूपे निष्कल्मषं कुरु महेशि ममान्तरङ्गम् । मज्जन्मसार्थकमिहास्तु तव प्रसादात् मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४१॥ सा त्वं दयामयि मयेप्सित भुक्तिमुक्तिं सर्वं प्रदापय जगज्जननीशपूज्ये । सर्वज्ञतासि तव देवि महानुभावे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४२॥ ऐश्वर्यवन्तरहितं कमलालये त्वं ज्ञानं च सर्वविषयं तव देहि मह्यम् । आनन्दतुन्दिलमनोरथमप्रमेयं मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४३॥ एकापि सर्वगतया त्वमनेकरूपा अन्तो न लभ्यत इति त्वमनन्तरूपा । सूक्ष्मातिसूक्ष्मकतया त्वमलक्ष्यरूपा मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४४॥ शान्तं विशिष्टकमनीयकलाविचित्रं सान्निध्यपूर्णमतिसुन्दरमन्दिरं ते । प्राराजते कुटजपर्वतमूलदेशे मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४५॥ अष्टाधिकेषु विविधेष्वपि शक्तिपीठेषु अष्टादशेष्वपि तथा नवकोटिमूर्तिः । एकाप्यनेकशुभरूपधरा विभासि मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४६॥ नानुष्ठितं किमपि सार्थककारि कार्यं लब्ध्वापि चोत्तमजनिं सुविचारमग्नम् । तापत्रयार्थभयभीतमिमं प्रपाहि मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४७॥ त्वन्नामरूपममलं निगमार्थसारं नित्यं निरञ्जनमनन्तमजं पुराणम् । ब्रह्मेति शाश्वतमखण्डसुखं वदन्ति मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४८॥ स्वान्तःसुखाय वरदे सुमतिप्रकाशं कृत्वाव मामिति पुनःपुनरर्थयामि । सच्चित्सुखानुभवशान्तिहृदं कुरुष्व मूकाम्बिके परशिवे तव सुप्रभातम् ॥ ४९॥ त्वद्दासदासगणनायकसत्यशास्त्री याचत्यनन्तभव आर्तजनानुकम्पे । भक्तिं प्रयच्छ भवतापविनाशयित्रि कोलापूरेश्वरि शिवे तव सुप्रभातम् ॥ ५०॥ मङ्गलं तेऽस्तु मूकाम्बा मङ्गलं सर्वमङ्गले । मङ्गलं तव सद्रूपं त्रैलोक्यं मङ्गलं कुरु ॥ ५१॥ इति श्रीमूकाम्बिका सुप्रभातं समाप्तम् । Proofread by PSA Easwaran, NA
% Text title            : Mukambika Suprabhatam
% File name             : mUkAmbikAsuprabhAtam.itx
% itxtitle              : mUkAmbikAsuprabhAtam
% engtitle              : mUkAmbikAsuprabhAtam
% Category              : devii, suprabhAta, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : PSA Easwaran, NA
% Indexextra            : (Scan, Video)
% Latest update         : June 29, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org