मूर्तिरहस्यम्
श्रीगणेशाय नमः ॥
ऋषिरुवाच ॥
नन्दा भगवती नाम या भविष्यति नन्दजा ।
सा स्तुता पूजिता ध्याता वशीकुर्याज्जगत्त्रयम् ॥ १॥
कनकोत्तमकान्तिः सा सुकान्तिकनकाम्बरा ।
देवी कनकवर्णाभा कनकोत्तमभूषणा ॥ २॥
कनकाङ्कुशपाशाब्जैरलङ्कृतचतुर्भुजा ।
इदिरा कमला लक्ष्मीः सा श्रीरुक्माम्बुजासना ॥ ३॥
या रक्तदन्तिका नाम देवी प्रोक्ता मयानघ ।
तस्याः स्वरूपं वक्ष्यामि शृणु सर्वभयापहम् ॥ ४॥
रक्ताम्बरा रक्तवर्णा रक्तसर्वाङ्गभूषणा ।
रक्तायुधा रक्तनेत्रा रक्तकेशातिभीषणा ॥ ५॥
रक्ततीक्ष्णनखा रक्तदशना रक्तदंष्ट्रिका ।
पतिं नारीवानुरक्ता देवी भक्तं भजेज्जनम् ॥ ६॥
वसुधेव विशाला सा सुमेरुयुगलस्तनी ॥
दीर्घौ लम्बावतिस्थूलौ तावतीव मनोहरौ ॥ ७॥
कर्कशावतिकान्तौ तौ सर्वानन्दपयोनिधी ।
भक्तान्सपाययेद्देवी सर्वकामदुधौ स्तनौ ॥ ८॥
खड्गपात्रं च मुसलं लाङ्गलं च बिभर्ति सा ।
आख्याता रक्तचामुण्डा देवी योगेश्वरीति च ॥ ९॥
अनया व्याप्तमखिलं जगत्स्थावरजङ्गमम् ।
इमां यः पूजयेद्भक्त्या स व्याप्नोति चराचरम् ॥ १०॥
अधीते य इमं नित्यं रक्तदन्त्या वपुःस्तवम् ।
तं सा परिचरेद्देवी पतिं प्रियमिवाङ्गना ॥ ११॥
शाकम्भरी नीलवर्णा नीलोत्पलविलोचना ।
गम्भीरनाभिस्त्रिवलीविभूषिततनूदरी ॥ १२॥
सुकर्कशसमोत्तुङ्गवृत्तपीनघनस्तनी ।
मुष्टिं शिलीमुखैः पूर्णं कमलं कमलालया ॥ १३॥
पुष्पपल्लवमूलादिफलाढ्यं शाकसञ्चयम् ।
काम्यानन्तरसैर्युक्तं क्षुत्तृण्मृत्युजरापहम् ॥ १४॥
कार्मुकं च स्फुरत्कान्ति बिभर्ति परमेश्वरी ।
शाकम्भरी शताक्षी स्यात् सैव दुर्गा प्रकीर्तिता ॥ १५॥
शाकम्भरीं स्तुवन्ध्यायन् जपन्सम्पूजयन्नमन् ।
अक्षव्यमश्नुते शीघ्रमन्नपानादि सर्वशः ॥ १६॥
भीमापि नीलवर्णा सा दंष्ट्रादशनभासुरा ।
विशाललोचना नारी वृत्तपीनघनस्तनी ॥ १७॥
चन्द्रहासं च डमरुं शिरःपात्रं च बिभ्रती ।
एकवीरा कालरात्रिः सैवोक्ता कामदा स्तुता ॥ १८॥
तेजोमण्डलदुर्धर्षा भ्रामरी चित्रकान्तिभृत् ।
चित्रभ्रमरसङ्काशा महामारीति गीयते ॥ १९॥
इत्येता मूर्तयो देव्या व्याख्याता वसुधाधिप ।
जगन्मातुश्चडिकायाः कीर्तिताः कामधेनवः ॥ २०॥
इदं रहस्यं परमं न वाच्यं यस्य कस्यचित् ।
व्याख्यानं दिव्यमूर्तीनामधीष्वावहितः स्वयम् ॥ २१॥
देव्या ध्यानं तवाख्यातं गुह्याद्गुह्यतरं महत् ।
तस्मात्सर्वप्रयत्नेन सर्वकामफलप्रदम् ॥ २२॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये
मूर्तिरहस्यं सम्पूर्णम् ॥ अध्याय १६
See also prAdhAnikarahasyam and vaikRitikarahasyaM
Proofread by Pallasena Narayanaswami ppnswami at gmail.com