मनसादेवी स्तोत्रम्
महेन्द्र उवाच । (पुरन्दर उवाच)
देवीं त्वां स्तोतुमिच्छामि साध्विनीं प्रवरां पराम् ।
परात्परां च परमां न हि स्तोतुं क्षमोऽधुना ॥ १॥
स्तोत्राणां लक्षणं वेदे स्वभावाख्यानतः परम् ।
न क्षमः प्रकृतिं वक्तुं गुणानां तव सुव्रते ॥ २॥
शुद्धसत्त्वस्वरूपा त्वं कोपहिंसाविवर्जिता ।
न च शप्तो मुनिस्तेन त्यक्तया च त्वया यतः ॥ ३॥
त्वं मया पूजिता साध्वि जननी च यथाऽदितिः ।
दयारूपा च भगिनी क्षमारूपा यथा प्रसूः ॥ ४॥
त्वया मे रक्षिताः प्राणाः पुत्रद्वाराः सुरेश्वरि ।
अहं करोमि त्वां पूज्यां मम प्रीतिश्च वर्धते ॥ ५॥
नित्यं यद्यपि पूज्या त्वं भवेऽत्र जगदम्बिके ।
तथाऽपि तव पूजां वै वर्धयामि पुनः पुनः ॥ ६॥
ये त्वामाषाढसङ्क्रान्त्यां पूजयिष्यन्ति भक्तितः ।
पञ्चम्यां मनसाऽऽख्यायां मासान्ते वा दिने दिने ॥ ७॥
पुत्रपौत्रादयस्तेषां वर्धन्ते च धनानि च ।
यशस्विनः कीर्तिमन्तो विद्यावन्तो गुणान्विताः ॥ ८॥
ये त्वां न पूजयिष्यन्ति निन्दन्त्यज्ञानतो जनाः ।
लक्ष्मीहीना भविष्यन्ति तेषां नागभयं सदा ॥ ९॥
त्वं स्वर्गलक्ष्मीः स्वर्गे च वैकुण्ठे कमला कला ।
नारायणांशो भगवान् जरत्कारुर्मुनीश्वरः ॥ १०॥
तपसा तेजसा त्वां च मनसा ससृजे पिता ।
अस्माकं रक्षणायैव तेन त्वं मनसाभिधा ॥ ११॥
मनसा वेदितुं शक्ता चाऽऽत्मना सिद्धयोगिनी । (मनसादेवि शक्त्यां त्वं स्वात्मना सिद्धयोगिनी)
तेन त्वं मनसादेवी पूजिता वन्दिता भवे ॥ १२॥
यां भक्त्या मनसा देवाः पूजयन्त्यनिशं भृशम् ।
तेन त्वं मनसादेवी प्रवदन्ति पुराविदः ॥ १३॥
सत्त्वरूपा च देवी त्वं शश्वत्सत्त्वनिषेवया ।
यो हि यद्भावयेन्नित्यं शतं प्राप्नोति तत्समम् ॥ १४॥
इदं स्तोत्रं पुण्यबीजं तां सम्पूज्य च यः पठेत् ।
तस्य नागभयं नास्ति तस्य वंशोद्भवस्य च । var तस्यवंशे भवेच्च यः
विषं भवेत्सुधातुल्यं सिद्धस्तोत्रं यदा पठेत् ॥ १५॥
पञ्चलक्षजपेनैव सिद्धस्तोत्रो भवेन्नरः ।
सर्पशायी भवेत्सोऽपि निश्चितं सर्ववाहनः ॥ १६॥
इति श्रीब्रह्मवैवर्ते महापुराणे द्वितीये प्रकृतिखण्डे
मनसोपाख्याने श्रीमनसादेवी स्तोत्रं सम्पूर्णम् ॥
इति देवीभागवते नवमस्कन्धे अष्टचत्वारिंशाध्यायान्तर्गतं
भगवती मानसपूजाविधानं समाप्तम् ॥ (११६-१४०)
The verses above the first from Devi Bhagavata are
(देवीभागवततः)
नारद उवाच
केन स्तोत्रेण तुष्टाव महेन्द्रो मनसां सतीम् ॥ ११६॥
पूजाविधिक्रमं तस्याः श्रोतुमिच्छामि तत्त्वतः ।
श्रीनारायण उवाच
सुस्नातः शुचिराचान्तो धृत्वा धौते च वाससी ॥ ११७॥
रत्नसिंहासने देवीं वासयामास भक्तितः ।
स्वर्गङ्गाया जलेनैव रत्नकुम्भस्थितेन च ॥ ११८॥
स्नापयामास मनसां महेन्द्रो वेदमन्त्रतः ।
वाससी वासयामास वह्मिशुद्धे मनोहरे ॥ ११९॥
सर्वाङ्गे चन्दनं कृत्वा पादार्घ्यं भक्तिसंयुतः ।
गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवाम् ॥ १२०॥
सम्पूज्यादौ देवषट्कं पूजयामास तां सतीम् ।
ॐ ह्रीं श्रीं मनसादेव्यै स्वाहेत्येवं च मन्त्रतः ॥ १२१॥
दशाक्षरेण मूलेन ददौ सर्वं यथोचितम् ।
दत्त्वा षोडशोपचारान्दुर्लभान्देवनायकः ॥ १२२॥
पूजयामास भक्त्या च विष्णुना प्रेरितो मुदा ।
वाद्यं नानाप्रकारं च वादयामास तत्र वै ॥ १२३॥
बभूव पुष्पवृष्टिश्च नभसो मनसोपरि ।
देवप्रियाज्ञया तत्र बह्मविष्णुशिवाज्ञया ॥ १२४॥
तुष्टाव साश्रुनेत्रश्च पुलकाङ्कितविग्रहः ।
पुरन्दर उवाच -
Pरूफ़्रेअद् ब्य् Pषा Eअस्वरन्