नारायणप्रोक्तं गोमतीसागरसङ्गमतीर्थमाहात्म्यवर्णनम्

नारायणप्रोक्तं गोमतीसागरसङ्गमतीर्थमाहात्म्यवर्णनम्

श्रीनारायण उवाच । ततो गच्छेन्महालक्ष्मि! गोमत्युदधिसङ्गमे । मुक्तिद्वारं तु तत्प्रोक्तं कलिकाले न संशयः ॥ १॥ गङ्गासागरसंयोगे सिन्धुसागरसङ्गमे । फलं यत्तल्लभ्यतेऽत्र गोमत्युदधिसङ्गमे ॥ २॥ पापं प्रणश्यते स्नात्वा ह्यर्घ्यं दद्याद्विधानतः । कुशांश्च करयोर्धृत्वा नारिकेलफलं तथा ॥ ३॥ अर्घं दद्यान्नमस्कृत्य श्रीकृष्णपरमात्मने । तीर्थराज नमस्तुभ्यं त्राहि संसारसागरात् ॥ ४॥ रत्नाकर गृहाणाऽर्घं गोमत्या सह ते नमः । अर्घं दत्वा शिखां बध्वा स्मृत्वा च जलशायिनम् ॥ ५॥ कुर्यात् स्नानं प्राङ्मुखश्च पितॄन् सन्तर्पयेत्ततः । पितृश्राद्धं तथा कृत्वा दद्याच्च दक्षिणां शुभाम् ॥ ६॥ सुवर्णं वाससी दद्यात् कञ्चुकोष्णीषमित्यपि । महादानानि दद्याच्च यदीच्छेत् क्षेममात्मनः ॥ ७॥ लक्ष्म्याः सह हरिः साक्षाद्विष्णुर्मे प्रीयतामिति । उक्त्वा दद्याद्विविधानि दानानि भोजनानि च ॥ ८॥ तुलापुरुषदानं च कुर्यात्सागरसङ्गमे । सप्त द्वीपनृपो भूत्वा वैकुण्ठं याति मानवः ॥ ९॥ तुलया तोलयेत् स्वं यः सुवर्णरजतादिभिः । वस्त्रकुङ्कुमकर्पूरशर्कराफलसद्रसैः ॥ १०॥ सोऽत्र भोगान् सुखान् भुक्त्वा मोक्षं याति सुरार्चितः । स्वर्णदानं वाजपेयं स्नानं गोमतिवारिणि ॥ ११॥ कन्यादानं भूमिदानं विद्यादानं विधानतः । गोमत्याः सङ्गमे कुर्यात् याति ब्रह्मपदं हि सः ॥ १२॥ स्वर्णधेनुं घृतधेनुं तिलधेनुं प्रदाय वै । वस्त्रादिशर्कराधेनुं दत्वा याति परं पदम् ॥ १३॥ युगादितिथिमुख्यासु पञ्चकास्वष्टकासु च । वैधृतौ च व्यतीपाते गजच्छायाह्वये तथा ॥ १४॥ षष्ठ्यमैकादश्यष्टमीद्वादशीश्राद्धसद्व्रते । स्नात्वा नीरनिधौ तद्वद्गोमतीचक्रतीर्थयोः ॥ १५॥ गोमत्युदधिसंयोगे स्नात्वा ब्रह्मपदं लभेत् । अमावास्यादिने श्राद्धं कार्यं गोमतिसङ्गमे ॥ १६॥ पक्षश्राद्धकृतं पुण्यं दिनैकेन लभेज्जनः । श्रद्धाहीनं मन्त्रहीनं पात्रहीनमथापि वा ॥ १७॥ द्रव्यहीनं कालहीनं मन ऐकाग्र्यवर्जितम् । परिपूर्णममाश्राद्धं पितॄणामुदधौ भवेत् ॥ १८॥ गोमती कमला चन्द्रभागा तदोदधौ वसेत् । गयायां पिण्डदानेन प्रयागे चास्थिपातनात् ॥ १९॥ अमायां श्राद्धदानेन शाश्वतं पुण्यमाप्यते । यदीच्छेत् सर्वतीर्थेषु स्नानं व्रतधरः पुमान् ॥ २०॥ स्नानं कुर्वीत भक्त्या वै गोमत्युदधिसङ्गमे । अपुत्रा मृतपुत्रा वा काकवन्ध्या स्रवत्सुता ॥ २१॥ दोषैः प्रमुच्यते नारी गोमत्युदधिसङ्गमे । श्राद्धं दानं तथा पितृतर्पणं जलदर्शनम् ॥ २२॥ व्रतं स्नानं तथा पुण्यं जपो होमश्च कीर्तनम् । शाश्वतीतृप्तिकृत्पुण्यं गोमत्युदधिसङ्गमे ॥ २३॥ मातृपक्षाः पितृपक्षा भगिनीपक्षकास्तथा । पुत्रीपक्षाः श्वश्रूपक्षास्तथा श्वशुरपक्षकाः ॥ २४॥ पितृस्वसृपक्षगाश्च स्नुषापक्षास्तथा जनाः । सपत्नीपक्षगाश्चापि रक्षिकापक्षगा अपि ॥ २५॥ भ्रातृजायापक्षगाश्च स्वसृपुत्र्यादिपक्षगाः । पितृभ्रातृसुतापत्नीप्रभतिपक्षका अपि ॥ २६॥ मित्रबान्धवभृत्यानां येऽपि सम्बन्धधारकाः । जन्मान्तरगता ये च नारकाः खनिगर्भगाः ॥ २७॥ ते सर्वे संस्मृताः श्राद्धे गोमत्युदधिसङ्गमे । स्नाने दाने संस्मृताश्च तृप्तिं यान्ति तु शाश्वतीम् ॥ २८॥ सर्वपापैः प्रमुच्यन्ते मुक्तिं यान्ति न संशयः । श्रावणद्वादशीयोगे समभ्यर्च्य तु वामनम् ॥ २९॥ परमं लोकमाप्नोति स्नात्वा गोमतिसङ्गमे । पीताम्बरधरो भूत्वा दिव्याभरगभूषितः ॥ ३०॥ चतुर्भुजधरश्चैव वनमालाविभूषितः । सेव्यमानः सुरस्त्रीभिर्विमानकृतवाहनः ॥ ३१॥ संस्तूयमानः ऋषिभिः श्रीहरेरर्चको जनः । गोमतीसङ्गमे पूतो याति विष्णोः परं पदम् ॥ ३२॥ गोमतीसागरे स्नात्वा गच्छेत् सप्तप्रकुण्डकान् । सर्वैराराधितः कृष्णो हरिराविर्बभूव ह ॥ ३३॥ सह लक्ष्म्या हरिं दृष्ट्वा सनकाद्या महर्षयः । सप्तमिष्टजलगर्तान् कृत्वा सिषिचुरिन्दिराम् ॥ ३४॥ ततो लक्ष्मीह्रदा एते कलौ ते रुक्मिणीह्रदाः । भृगुणा सेविताश्चैते भगुतीर्थमिति स्मृतम् ॥ ३५॥ तत्र प्रक्षाल्य चरणौ तथाऽऽचम्य कुशाँस्ततः । सङ्गृह्य प्राङ्मुखो भूत्वाऽर्घं गृह्णीत्वाऽक्षतादिभिः ॥ ३६॥ हस्तौ च मस्तकोपरि समुन्नीय फलादिभिः । अर्घं दातव्यमेवात्र ह्रदे रुक्मिणिसंज्ञिते ॥ ३७॥ स्नानं कुर्यात्ततो ध्यात्वा तीर्थानि पितृदेवताः । देवमानवपितॄँश्च सन्तर्प्य हरिभावतः ॥ ३८॥ विप्रानाहूय च श्राद्धं प्रकुर्वीत च भक्तितः । दक्षिणां रजतं स्वर्णे फलं मिष्टान्नमम्बरम् ॥ ३९॥ भोजनं चापि दम्पत्योर्दद्याच्च भूषणादिकम् । शाटीं च कञ्चुकीं श्रेष्ठां घर्घरीं कर्पटादिकम् ॥ ४०॥ पितृपङ्क्तीश्च सम्पूज्य नारीश्चान्याः कुमारिकाः । सम्पूज्य दद्याद् दानानि रुक्मिणी प्रीयतामिति ॥ ४१॥ वसते च सदा लक्ष्मीस्तस्य गेहे न संशयः । स्मृद्धिं सर्वां समाप्नोति लक्ष्मीस्तस्य प्रसीदति ॥ ४२॥ सप्तस्वपि हृदेष्वेव दानं दद्यात् पृथक् पृथक् । तत्सर्वं चाऽक्षयं विन्देल्लक्ष्मीलोके सुखप्रदम् ॥ ४३॥ अलक्ष्मीर्नश्यति तस्य लक्ष्मीर्यस्य प्रसीदति । पशुपुत्रगृहवाटीक्षेत्रभवनशालयः ॥ ४४॥ भवन्ति सततं श्रेष्ठा लक्ष्मीर्यस्य प्रसीदति । स्वर्णादिवर्धनं तस्य लक्ष्मीस्तुष्टा तु यं प्रति ॥ ४५॥ सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति । सप्तह्रदेषु लक्ष्म्यात्मनारीणां भोजनं वरम् ॥ ४६॥ दानं च पूजनं चैव सम्मानं भूषणादिकम् । श‍ृङ्गारं वाहनं यानं देहोपकरणादिकम् ॥ ४७॥ पृथक् पृथक् प्रदद्याद्वै लक्ष्मीर्मे प्रीयतामिति । वसत्येव सदा गेहे लक्ष्मीस्तस्य न संशयः ॥ ४८॥ हीनभाग्यो न च भवेन्न भवेत्परयाचकः । अग्र्यो भवति सर्वेषु यः स्नाति रुक्मिणीह्रदे ॥ ४९॥ पुनरागमनं न स्याद् वैकुण्ठं याति मानवः । सपत्नीकश्चतुर्भुजः शाश्वतं सुखमश्नुते ॥ ५०॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेगोमती- सागरसङ्गमतीर्थलक्ष्मीसप्तह्रदतीर्थविधान- निरूपणनामैकविंशाधिकद्विशततमोऽध्यायः ॥ २२१॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने २२१-अध्यायान्तर्गतं नारायणप्रोक्तं गोमतीसागरसङ्गमतीर्थमाहात्म्यवर्णनं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड १। अध्याय २२१/१-५०॥ lakShmInArAyaNIyasaMhitA . khaNDa 1. adhyAya 221/1-50.. Proofread by PSA Easwaran
% Text title            : Narayanaproktam Gomatisagarasangamatirthamahatmyavarnanam
% File name             : nArAyaNaproktaMgomatIsAgarasangamatIrthamAhAtmyavarNanam.itx
% itxtitle              : gomatIsAgarasaNgamatIrthamAhAtmyavarNanam (nArAyaNaproktaM lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : nArAyaNaproktaM gomatIsAgarasangamatIrthamAhAtmyavarNanam
% Category              : devii, devI, nadI, lakShmInArAyaNIyasaMhitA, mAhAtmya, tIrthakShetra
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : nadI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 1 | adhyAya 221/1-50||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : January 13, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org