नारदाय सनतकुमारप्रोक्तं सावित्रीपञ्जरस्तोत्रम् २
सनत्कुमार उवाच ।
साधकानामियं विद्या भवेत्कामदुघा मुने ।
अथ ते सम्प्रवक्ष्यामि रहस्यं परमाद्भुतम् ॥ ८३-१२७॥
सावित्रीपञ्जरं नाम सर्वरक्षाकरं नृणाम् ।
व्योमकेशालकासक्तां सुकिरीटविराजिताम् ॥ ८३-१२८॥
मेघभ्रुकुटिलाक्रान्तां विधिविष्णुशिवाननाम् ।
गुरुभार्गवकर्णान्तां सोमसूर्याग्निलोचनाम् ॥ ८३-१२९॥
इडापिङ्गलिकासूक्ष्मावायुनासापुटान्विताम् ।
सन्ध्याद्विजोष्ठपुटितां लसद्वागुपजिह्विकाम् ॥ ८३-१३०॥
सन्ध्यासूर्यमणिग्रीवां मरुद्बाहुसमन्वितान् ।
पर्जन्यदहृदयासक्तां वस्वाख्यप्रतिमण्डलाम् ॥ ८३-१३१॥
आकाशोदरविभ्रान्तां नाभ्यवान्तरवीथिकाम् ।
प्रजापत्याख्यजघनां कटीन्द्राणीसमाश्रिताम् ॥ ८३-१३२॥
ऊर्वोर्मलयमेरुभ्यां शोभमानां सरिद्वराम् ।
सुजानुजह्नुकुशिकां वैश्वदेवाख्यसंज्ञिकाम् ॥ ८३-१३३॥
पादाङ्घ्रिनखलोमाख्यभूनागद्रुमलक्षिताम् ।
ग्रहराश्यर्क्षयोगादिमूर्तावयवसंज्ञिकाम् ॥ ८३-१३४॥
तिथिमासर्तुपक्षाख्यैः सङ्केतनिमिषात्मिकाम् ।
मायाकल्पितवैचित्र्यसन्ध्याख्यच्छदनावृताम् ॥ ८३-१३५॥
ज्वलत्कालानलप्रख्यां तडित्कोटिसमप्रभाम् ।
कोटिसूर्यप्रतीकाशां शशिकोटिसुशीतलाम् ॥ ८३-१३६॥
सुधामण्डलमध्यस्थां सान्द्रानन्दामृतात्मिकाम् ।
वागतीतां मनोऽगम्यां वरदां वेदमातरम् ॥ ८३-१३७॥
चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् ।
ध्यात्वा स्वात्माविभेदेन सावित्रीपञ्जरं न्यसेत् ॥ ८३-१३८॥
पञ्चरस्य ऋषिः सोऽहं छन्न्दो विकृतिरुच्यते ।
देवता च परो हंसः परब्रह्मादिदेवता ॥ ८३-१३९॥
धर्मार्थकाममोक्षाप्त्यै विनियोग उदाहृतः ।
षडङ्गदेवतामन्त्रैरङ्गन्यासं समाचरेत् ॥ ८३-१४०॥
त्रिधामूलेन मेधावी व्यापकं हि समाचरेत् ।
पूर्वोक्तां देवातां ध्यायेत्साकारां गुणसंयुताम् ॥ ८३-१४१॥
त्रिपदा हरिजा पूर्वमुखी ब्रह्मास्त्रसंज्ञिका ।
चतुर्विंशतितत्त्वाढ्या पातु प्राचीं दिशं मम ॥ ८३-१४२॥
चतुष्पदा ब्रह्मदण्डा ब्रह्माणी दक्षिणानना ।
षड्विंशतत्त्वसंयुक्ता पातु मे दक्षिणां दिशम् ॥ ८३-१४३॥
प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी ।
पातु प्रतीचीमनिशं मम ब्रह्मशिरोऽङ्किता ॥ ८३-१४४॥
सौम्यास्या ब्रह्मतुर्याढ्या साथर्वाङ्गिरसात्मिका ।
उदीचीं षट्पदा पातु षष्टितत्त्वकलात्मिका ॥ ८३-१४५॥
पञ्चाशद्वर्णरचिता नवपादा शताक्षरी ।
व्योमा सम्पातु मे वोर्द्ध्वशिरो वेदान्तसंस्थिता ॥ ८३-१४६॥
विद्युन्निभा ब्रह्मसन्ध्या मृगारूढा चतुर्भुजा ।
चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ॥ ८३-१४७॥
ब्रह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी ।
बिभ्रत्कमण्डलुं चाक्षं स्रुक्स्रुवौ पातु नैरृतिम् ॥ ८३-१४८॥
शुक्लवर्णा च सावित्री युवती वृषवाहना ।
कपालशूलकाक्षस्रग्धारिणी पातु वायवीम् ॥ ८३-१४९॥
श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना ।
शङ्खचक्राभयकरा पातु शैवीं दिशं मम ॥ ८३-१५०॥
चतुर्भुजा देवमाता गौराङ्गी सिंहवाहना ।
वराभयखड्गचर्मभुजा पात्वधरां दिशम् ॥ ८३-१५१॥
तत्तत्पार्श्वे स्थिताः स्वस्ववाहनायुधभूषणाः ।
स्वस्वदिक्षुस्थिताः पान्तु ग्रहशक्त्यङ्गसंयुताः ॥ ८३-१५२॥
मन्त्राधिदेवतारूपा मुद्राधिष्ठातृदेवताः ।
व्यापकत्वेन पान्त्वस्मानापादतलमस्तकम् ॥ ८३-१५३॥
इदं ते कथितं सत्यं सावित्रीपञ्जरं मया ।
सन्ध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ॥ ८३-१५४॥
पठनीयं प्रयत्नेन भुक्तिं मुक्तिं समिच्छता ।
इति नारदपुराणे उत्तरभागे त्र्यशीतितमाध्यायान्तर्गतं
नारदाय सनतकुमारप्रोक्तं सावित्रीपञ्जरस्तोत्रं समाप्तम् ।
बृहन्नारदीय, पूर्व, ८३/१५५॥
बृहन्नारदीयपुराण । पूर्वभाग । अध्याय ८३/१२८-१५४॥
bRRihannAradIyapurANa . pUrvabhAga . adhyAya 83/128-154..
Proofread by PSA Easwaran