नवावरणस्थ देवी गायत्रीमन्त्राः

नवावरणस्थ देवी गायत्रीमन्त्राः

गायत्रीं तु समुच्चार्य तत्तदावृतिदेवताः । पूजनीयाः प्रयत्नेन सर्वकामार्थसिद्धये ॥ १॥ इति वचनाच्छ्रीचक्रावरणदेवीनां गायत्र्यः प्रोच्यन्ते - ॐ ऐं ह्रीं श्रीं - तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् । - इति गणपति गायत्री ॥ ॐ ऐं ह्रीं श्रीं - आपदुद्धरणाय विद्महे वटुकेश्वराय धीमहि तन्नो वीरः प्रचोदयात् । - इति वटुक गायत्री ॥ ॐ ऐं ह्रीं श्रीं - दिगम्बराय विद्महे कपालहस्ताय धीमहि तन्नः क्षेत्रपालः प्रचोदयात् । - इति क्षेत्रपाल गायत्री । ॐ ऐं ह्रीं श्रीं - व्यापिकायै विद्महे नानारूपायै धीमहि तन्नो योगिनी प्रचोदयात् । - इति योगिनी गायत्री । ॐ ऐं ह्रीं श्रीं - देवराजाय विद्महे वज्रहस्ताय धीमहि तन्नः शक्रः प्रचोदयात् । - इतीन्द्र गायत्री । ॐ ऐं ह्रीं श्रीं - रुद्रनेत्राय विद्महे शक्तिहस्ताय धीमहि तन्नो वह्निः प्रचोदयात् । - इति वह्नि गायत्री । ॐ ऐं ह्रीं श्रीं - वैवस्वताय विद्महे दण्डहस्ताय धीमहि तन्नो यमः प्रचोदयात् । - इति यम गायत्री । ॐ ऐं ह्रीं श्रीं - निशाचराय विद्महे खड्गहस्ताय धीमहि तन्नो निरृतिः प्रचोदयात् । - इति निरृति गायत्री । ॐ ऐं ह्रीं श्रीं - शुद्धहस्ताय विद्महे पाशहस्ताय धीमहि तन्नो वरुणः प्रचोदयात् । - इति वरुण गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वप्राणाय विद्महे यष्टिहस्ताय धीमहि तन्नो वायुः प्रचोदयात् । - इति वायु गायत्री । ॐ ऐं ह्रीं श्रीं - यक्षेश्वराय विद्महे गदाहस्ताय धीमहि तन्नो यक्षः प्रचोदयात् । - इति कुबेर गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वेश्वराय विद्महे शूलहस्ताय धीमहि तन्नो रुद्रः प्रचोदयात् । - इति शिव गायत्री । ॐ ऐं ह्रीं श्रीं - चतुराननाय विद्महे वेदवत्राय धीमहि तन्नो ब्रह्मा प्रचोदयात् । - इति ब्रह्म गायत्री । ॐ ऐं ह्रीं श्रीं - पातालवासिने विद्महे सहस्रवदनाय धीमहि तन्नोऽनन्तः प्रचोदयात् । - इत्यनन्त गायत्री । ॐ ऐं ह्रीं श्रीं - शतकोटिने विद्महे महावज्राय धीमहि तन्नो वज्रं प्रचोदयात् । - इति वज्र गायत्री । ॐ ऐं ह्रीं श्रीं - तीक्ष्णभल्लाय विद्महे दीर्घदण्डाय धीमहि तन्नः शक्तिः प्रचोदयात् । - इति शक्ति गायत्री । ॐ ऐं ह्रीं श्रीं - शत्रुघ्नाय विद्महे दीर्घकायाय धीमहि तन्नो दण्डः प्रचोदयात् । - इति दण्ड गायत्री । ॐ ऐं ह्रीं श्रीं - तीक्ष्णधाराय विद्महे त्रिमूर्त्यात्मकाय धीमहि तन्नः खङ्गः प्रचोदयात् । - इति खड्ग गायत्री । ॐ ऐं ह्रीं श्रीं - जगदाकर्षणाय विद्महे महापाशाय धीमहि तन्नः पाशः प्रचोदयात् । - इति पाश गायत्री । ॐ ऐं ह्रीं श्रीं - वशीकरणाय विद्महे महाङ्कुशाय धीमहि तन्नोऽङ्कुशः प्रचोदयात् । - इत्यङ्कुश गायत्री । ॐ ऐं ह्रीं श्रीं - अयःसारायै विद्महे दीर्घगात्र्यै धीमहि तन्नो गदा प्रचोदयात् । - इति गदा गायत्री । ॐ ऐं ह्रीं श्रीं - तीक्ष्णशिखाय विद्महे महाकायाय धीमहि तन्नः शूलं प्रचोदयात् । - इति शूल गायत्री । ॐ ऐं ह्रीं श्रीं - रमावासाय विद्महे सहस्रपत्राय धीमहि तन्नः पद्मं प्रचोदयात् । - इति पद्म गायत्री । ॐ ऐं ह्रीं श्रीं - सुदर्शनाय विद्महे महाज्वालाय धीमहि तन्नश्चक्रं प्रचोदयात् । - इति सुदर्शन गायत्री । अथ षडङ्गदेवतानां गायत्र्यः- ॐ ऐं ह्रीं श्रीं - हृदयदेव्यै विद्महे नमः पदस्थायै धीमहि तन्नो देवी प्रचोदयात् । - इति हृदयदेवी गायत्री । ॐ ऐं ह्रीं श्रीं - शिरोदेव्यै च विद्महे स्वाहाकारायै धीमहि तन्नो देवी प्रचोदयात् । - इति शिरोदेवी गायत्री । ॐ ऐं ह्रीं श्रीं - शिखादेव्यै च विद्महे वषट्कारायै धीमहि तन्नो देवी प्रचोदयात् । - इति शिखादेवी गायत्री । ॐ ऐं ह्रीं श्रीं - कवचदेव्यै च विद्महे हुँकारायै च धीमहि तन्नो देवी प्रचोदयात् । - इति कवचदेवी गायत्री । ॐ ऐं ह्रीं श्रीं - नेत्रदेव्यै च विद्महे वौषट्कारायै धीमहि तन्नो देवी प्रचोदयात् । - इति नेत्रदेवी गायत्री । ॐ ऐं ह्रीं श्रीं - अस्त्रदेव्यै च विद्महे फट्कारायै च धीमहि तन्नो देवी प्रचोदयात् । - इति अस्त्रदेवी गायत्री । इति षडङ्गदेवतानां गायत्र्यः ॥ अथ षोडशनित्यानां गायत्र्यः ॐ ऐं ह्रीं श्रीं - कामेश्वर्यै विद्महे नित्यक्लिन्नायै धीमहि तन्नो नित्या प्रचोदयात् । - इति कामेश्वरी गायत्री । ॐ ऐं ह्रीं श्रीं - भगमालिन्यै विद्महे सर्ववशङ्कर्यै धीमहि तन्नो नित्या प्रचोदयात् । - इति भगमालिनी गायत्री । ॐ ऐं ह्रीं श्रीं - नित्यक्लिन्नायै विद्महे नित्यमदद्रवायै धीमहि तन्नो नित्या प्रचोदय - इति नित्यक्लिन्ना गायत्री । ॐ ऐं ह्रीं श्रीं - भेरुण्डायै विद्महे विषहरायै धीमहि तन्नो नित्या प्रचोदयात् । - इति भेरुण्डा गायत्री । ॐ ऐं ह्रीं श्रीं - वह्निवासिन्यै विद्महे सिद्धिप्रदायै धीमहि तन्नो नित्या प्रचोदयात् । - इति वह्निवासिनी गायत्री । ॐ ऐं ह्रीं श्रीं - महावज्रेश्वर्यै विद्महे वज्रनित्यायै धीमहि तन्नो नित्या प्रचोदयात् । - इति महावज्रेश्वरी गायत्री । ॐ ऐं ह्रीं श्रीं - शिवदूत्यै विद्महे शिवङ्कर्यै धीमहि तन्नो नित्या प्रचोदयात् । - इति शिवदूती गायत्री । ॐ ऐं ह्रीं श्रीं - त्वरितायै विद्महे महानित्यायै धीमहि तन्नो देवी प्रचोदयात् । - इति त्वरिता गायत्री । ॐ ऐं ह्रीं श्रीं - कुलसुन्दर्यै विद्महे कामेश्वर्यै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति कुलसुन्दरी गायत्री । ॐ ऐं ह्रीं श्रीं - नित्याभैरव्यै विद्महे नित्यानित्यायै धीमहि तन्नो योगिनी प्रचोदयात् । - इति नित्याभैरवी गायत्री । ॐ ऐं ह्रीं श्रीं - विजयादेव्यै विद्महे महानित्यायै धीमहि तन्नो देवी प्रचोदयात् । - इति विजयादेवी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वमङ्गलायै विद्महे सर्वात्मिकायै धीमहि तन्नो नित्या प्रचोदयात् । - इति सर्वमङ्गला गायत्री । ॐ ऐं ह्रीं श्रीं - ज्वालामालिन्यै विद्महे महाज्वालायै धीमहि तन्नो देवी प्रचोदयात् । - इति ज्वालामालिनी गायत्री । ॐ ऐं ह्रीं श्रीं - विचित्रायै विद्महे महानित्यायै धीमहि तन्नो देवी प्रचोदयात् । - इति चित्रा गायत्री । ॐ ऐं ह्रीं श्रीं - क ए ई ल ह्रीं त्रिपुरसुन्दरी विद्महे ह स क ह ल ह्रीं पीठकामिनी धीमहि स क ल ह्रीं तन्नः क्लिन्ने प्रचोदयात् । - इति श्री ललितामहानित्या गायत्री । इति षोडशनित्यानां गायत्र्यः ॥ अथ गुरुमण्डलदेवतानां गायत्र्यः ॐ ऐं ह्रीं श्रीं - उड्डीशनाथाय विद्महे श्रीदुर्वाससे धीमहि तन्नः कौलिः प्रचोदयात् । ॐ ऐं ह्रीं श्रीं - षष्ठनाथाय विद्महे श्रीकुमाराय धीमहि तन्नः लक्ष्मीः प्रचोदयात् । ॐ ऐं ह्रीं श्रीं - मित्रनाथाय विद्महे श्रीकण्ठाय धीमहि तन्नः कुब्जिः प्रचोदयात् । ॐ ऐं ह्रीं श्रीं - हंसहंसाय विद्महे परमहंसाय धीमहि तन्न हंसः प्रचोदयात् । इति गुरुमण्डलदेवतानां गायत्र्यः ॥

प्रथमावरणदेवतानां गायत्र्यः

अथ सिद्धीनां गायत्र्यः- ॐ ऐं ह्रीं श्रीं - अणिमासिद्ध्यै विद्महे वराभयहस्तायै धीमहि तन्नः सिद्धिः प्रचोदयात् । - इत्यणिमासिद्धी गायत्री । ॐ ऐं ह्रीं श्रीं - लघिमासिद्ध्यै विद्महे निधिवाहनायै धीमहि तन्नः सिद्धिः प्रचोदयात् । - इति लघिमासिद्धी गायत्री । ॐ ऐं ह्रीं श्रीं - महिमासिद्ध्यै विद्महे महासिद्ध्यै धीमहि तन्नः सिद्धिः प्रचोदयात् । - इति महिमासिद्धी गायत्री । ॐ ऐं ह्रीं श्रीं - ईशित्वसिद्ध्यै विद्महे जगद्व्यापिकायै धीमहि तन्नः सिद्धिः प्रचोदयात् । - इतीशित्वसिद्धी गायत्री । ॐ ऐं ह्रीं श्रीं - वशित्वसिद्ध्यै विद्महे शोणवर्णायै धीमहि तन्नः सिद्धिः प्रचोदयात् । - इति वशित्वसिद्धी गायत्री । ॐ ऐं ह्रीं श्रीं - प्राकाम्यसिद्ध्यै विद्महे निधिवाहनायै धीमहि तन्नः सिद्धिः प्रचोदयात् । - इति प्राकाम्यसिद्धी गायत्री । ॐ ऐं ह्रीं श्रीं - इच्छासिद्ध्यै विद्महे पद्महस्तायै धीमहि तन्नः सिद्धिः प्रचोदयात् । - इतीच्छासिद्धी गायत्री । ॐ ऐं ह्रीं श्रीं - भुक्तिसिद्ध्यै विद्महे महासिद्ध्यै धीमहि तन्नः सिद्धिः प्रचोदयात् । - इति भुक्तिसिद्धी गायत्री । ॐ ऐं ह्रीं श्रीं - रससिद्ध्यै विद्महे भक्तवत्सलायै धीमहि तन्नः सिद्धिः प्रचोदयात् । - इति रससिद्धी गायत्री । (प्राप्तिसिद्धी गायत्री) ॐ ऐं ह्रीं श्रीं - मोक्षसिद्ध्यै विद्महे महानिर्मलायै धीमहि तन्नः सिद्धिः प्रचोदयात् । - इति मोक्षसिद्धी गायत्री । (सर्वकामसिद्धी गायत्री) इति सिद्धीनां गायत्र्यः ॥ अथ मातृगायत्र्यः - ॐ ऐं ह्रीं श्रीं - ब्राह्मशक्त्यै विद्महे पीतवर्णायै धीमहि तन्नो ब्राह्मी प्रचोदयात् । - इति ब्राह्मी गायत्री । ॐ ऐं ह्रीं श्रीं - श्वेतवर्णायै विद्महे शूलहस्तायै धीमहि तन्नो माहेश्वरी प्रचोदयात् । - इति माहेश्वरी गायत्री । ॐ ऐं ह्रीं श्रीं - शिखिवाहनायै विद्महे शक्तिहस्तायै धीमहि तन्नः कौमारी प्रचोदयात् । - इति कौमारी गायत्री । ॐ ऐं ह्रीं श्रीं - श्यामवर्णायै विद्महे चक्रहस्तायै धीमहि तन्नो वैष्णवी प्रचोदयात् । - इति वैष्णवी गायत्री । ॐ ऐं ह्रीं श्रीं - श्यामलायै विद्महे हलहस्तायै धीमहि तन्नो वाराही प्रचोदयात् । - इति वाराही गायत्री । ॐ ऐं ह्रीं श्रीं - श्यामवर्णायै विद्महे वज्रहस्तायै धीमहि तन्न ऐन्द्री प्रचोदयात् । - इति माहेन्द्री गायत्री । ॐ ऐं ह्रीं श्रीं - कृष्णवर्णायै विद्महे शूलहस्तायै धीमहि तन्नश्चामुण्डा प्रचोदयात् । - इति चामुण्डादेवी गायत्री । ॐ ऐं ह्रीं श्रीं - पीतवर्णायै विद्महे पद्महस्तायै धीमहि तन्नो लक्ष्मीः प्रचोदयात् । - इति महालक्ष्मी गायत्री । इति मातृगायत्र्यः ॥ अथ मुद्रागायत्र्यः - ॐ ऐं ह्रीं श्रीं - सर्वसङ्क्षोभिण्यै विद्महे वरहस्तायै धीमहि तन्नो मुद्रा प्रचोदयात् । - इति सर्वसङ्क्षोभिणी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वविद्राविण्यै विद्महे महाद्राविण्यै धीमहि तन्नो मुद्रा प्रचोदयात् । - इति सर्वविद्राविणी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वाकर्षिण्यै विद्महे महामुद्रायै धीमहि तन्नो मुद्रा प्रचोदयात् । - इति सर्वाकर्षिणी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्ववशङ्कर्यै विद्महे महावश्यायै धीमहि तन्नो मुद्रा प्रचोदयात् । - इति सर्ववशङ्करी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वोन्मादिन्यै विद्महे महामायायै धीमहि तन्नो मुद्रा प्रचोदयात् । - इति सर्वोन्मादिनी गायत्री । ॐ ऐं ह्रीं श्रीं - महाशायै विद्महे शोणवर्णायै धीमहि तन्नो मुद्रा प्रचोदयात् । - इति सर्वमहाङ्कुशादेवी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वखेचर्यै विद्महे गगनवर्णायै धीमहि तन्नो मुद्रा प्रचोदयात् । - इति सर्वखेचरि गायत्री । ॐ ऐं ह्रीं श्रीं - बीजरूपायै विद्महे महाबीजायै धीमहि तन्नो मुद्रा प्रचोदयात् । - इति सर्वबीजादेवी गायत्री । ॐ ऐं ह्रीं श्रीं - महायोन्यै विद्महे विश्वजनन्यै धीमहि तन्नो मुद्रा प्रचोदयात् । - इति सर्वयोनी गायत्री । ॐ ऐं ह्रीं श्रीं - त्रिखण्डायै विद्महे त्रिकात्मिकायै धीमहि तन्नो मुद्रा प्रचोदयात् । - इति सर्वत्रिखण्डादेवी गायत्री । इति मुद्रागायत्र्यः ॥

द्वितीयावरणदेवतानां गायत्र्यः

अथ षोडशदलदेवतानां गायत्र्यः ॐ ऐं ह्रीं श्रीं - कामाकर्षिण्यै विद्महे रक्तवस्त्रायै धीमहि तन्नः कला प्रचोदयात् । - इति कामाकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - बुद्ध्याकर्षिण्यै विद्महे बुद्ध्यात्मिकायै धीमहि तन्नः कला प्रचोदयात् । - इति बुद्ध्याकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - अहङ्काराकर्षिण्यै विद्महे तत्त्वात्मिकायै धीमहि तन्नः कला प्रचोदयात् । - इति अहङ्काराकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - शब्दाकर्षिण्यै विद्महे सर्वशब्दात्मिकायै धीमहि तन्नः कला प्रचोदयात् । - इति शब्दाकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - स्पर्शाकर्षिण्यै विद्महे स्पर्शात्मिकायै धीमहि तन्नः कला प्रचोदयात् । - इति स्पर्शाकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - रूपाकर्षिण्यै विद्महे रूपात्मिकायै धीमहि तन्नः कला प्रचोदयात् । - इति रूपाकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - रसाकर्षिण्यै विद्महे रसात्मिकायै धीमहि तन्नः कला प्रचोदयात् । - इति रसाकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - गन्धाकर्षिण्यै विद्महे गन्धात्मिकायै धीमहि तन्नः कला प्रचोदयात् । - इति गन्धाकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - चित्ताकर्षिण्यै विद्महे चित्तात्मिकायै धीमहि तन्नः कला प्रचोदयात् । - इति चित्ताकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - धैर्याकर्षिण्यै विद्महे धैर्यात्मिकायै धीमहि तन्नः कला प्रचोदयात् । - इति धैर्याकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - स्मृत्याकर्षिण्यै विद्महे स्मृतिस्वरूपिण्यै धीमहि तन्नः कला प्रचोदयात् । - इति स्मृत्याकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - नामाकर्षिण्यै विद्महे नामात्मिकायै धीमहि तन्नः कला प्रचोदयात् । - इति नामाकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - बीजाकर्षिण्यै विद्महे बीजात्मिकायै धीमहि तन्नः कला प्रचोदयात् । - इति बीजाकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - आत्माकर्षिण्यै विद्महे आत्मस्वरूपिण्यै धीमहि तन्नः कला प्रचोदयात् । - इति आत्माकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - अमृताकर्षिण्यै विद्महे अमृतस्वरूपिण्यै धीमहि तन्नः कला प्रचोदयात् । - इति अमृताकर्षणी गायत्री । ॐ ऐं ह्रीं श्रीं - शरीराकर्षिण्यै विद्महे शरीरात्मिकायै धीमहि तन्नः कला प्रचोदयात् । - इति शरीराकर्षणी गायत्री । इति कामाकर्षिण्यादीनां षोडशदलदेवतानां गायत्र्यः ॥

तृतीयावरणदेवतानां गायत्र्यः

अथ अष्टदलदेवतानां गायत्र्यः ॐ ऐं ह्रीं श्रीं - अनङ्गकुसुमायै विद्महे रक्तकञ्चुकायै धीमहि तन्नो देवी प्रचोदयात् । - इति अनङ्गकुसुमा गायत्री । ॐ ऐं ह्रीं श्रीं - अनङ्गमेखलायै विद्महे पाशहस्तायै धीमहि तन्नो देवी प्रचोदयात् । - इति अनङ्गमेखला गायत्री । ॐ ऐं ह्रीं श्रीं - अनङ्गमदनायै विद्महे शरहस्तायै धीमहि तन्नो देवी प्रचोदयात् । - इति अनङ्गमदना गायत्री । ॐ ऐं ह्रीं श्रीं - अनङ्गमदनातुरायै विद्महे धनुर्हस्तायै धीमहि तन्नो देवी प्रचोदयात् । - इति अनङ्गमदनातुरा गायत्री। ॐ ऐं ह्रीं श्रीं - अनङ्गरेखायै विद्महे दीर्घकेशिन्यै धीमहि तन्नो देवी प्रचोदयात् । - इति अनङ्गरेखा गायत्री । ॐ ऐं ह्रीं श्रीं - अनङ्गवेगिन्यै विद्महे सृणिहस्तायै धीमहि तन्नो देवी प्रचोदयात् । - इति अनङ्गवेगिनी गायत्री । ॐ ऐं ह्रीं श्रीं - अनङ्गाङ्कुशायै विद्महे नित्यक्लेदिन्यै धीमहि तन्नो देवी प्रचोदयात् । - इति अनङ्गाकुशा गायत्री । ॐ ऐं ह्रीं श्रीं - अनङ्गमालिन्यै विद्महे सुप्रसन्नायै धीमहि तन्नो देवी प्रचोदयात् । - इति अनङ्गमालिनी गायत्री । इत्यष्टदलदेवतानां गायत्र्यः ॥

तुरीयावरणदेवतानां गायत्र्यः

अथ चतुर्दशारदेवतागायत्र्यः - ॐ ऐं ह्रीं श्रीं - सर्वसङ्क्षोभिण्यै विद्महे बाणहस्तायै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति सर्वसङ्क्षोभिणी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वविद्राविण्यै विद्महे कार्मुकहस्तायै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति सर्वविद्राविणी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वाकर्षिण्यै विद्महे शोणवर्णायै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति सर्वाकर्षिणी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वाह्लादिन्यै विद्महे जगद्व्यापिन्यै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति सर्वाह्लादिनी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वसम्मोहिन्यै विद्महे जगन्मोहिन्यै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति सर्वसम्मोहिनी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वस्तम्भन्यै विद्महे जगत्स्तम्भिन्यै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति सर्वस्तम्भिनी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वजृम्भिण्यै विद्महे जगद्रञ्जिन्यै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति सर्वजृम्भिणी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्ववशङ्कर्यै विद्महे महावशङ्कर्यै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति सर्ववशङ्करि गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वरञ्जिन्यै विद्महे वैडूर्यवर्णायै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति सर्वरञ्जिनी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वोन्मादिन्यै विद्महे जगन्मायायै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति सर्वोन्मादिनी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वार्थसाधिन्यै विद्महे पुरुषार्थदायै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति सर्वार्थसाधिनी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वसम्पत्प्रपूरिण्यै विद्महे सम्पदात्मिकायै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति सर्वसम्पत्तिपूरणी गायत्री। ॐ ऐं ह्रीं श्रीं - सर्वमन्त्रमय्यै विद्महे मन्त्रमात्रे धीमहि तन्नः शक्तिः प्रचोदयात् । - इति सर्वमन्त्रमयि गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वद्वन्द्वक्षयङ्कर्यै विद्महे कालात्मिकायै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति सर्वद्वन्द्वक्षयङ्करि गायत्री । इति चतुर्दशारदेवतागायत्र्यः ॥

पञ्चमावरणदेवतानां गायत्र्यः

अथ बहिर्दशारदेवता गायत्र्यः ॐ ऐं ह्रीं श्रीं - सर्वसिद्धिप्रदायै विद्महे श्वेतवर्णायै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वसिद्धिप्रदा गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वसम्पत्प्रदायै विद्महे महालक्ष्म्यै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वपत्प्रदा गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वप्रियङ्क विद्महे कुन्दवर्णायै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वप्रियङ्करि गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वमङ्गलकारिण्यै विद्महे मङ्गलात्मिकायै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वमङ्गलकारिणी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वकामप्रदायै विद्महे कल्पलतात्मिकायै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वकामप्रदा गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वदुःखविमोचिन्यै विद्महे हर्षप्रदायै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वदुःखविमोचिनी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वमृत्युप्रशमन्यै विद्महे सर्वसञ्जीविन्यै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वमृत्युप्रशमनी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वविघ्ननिवारिण्यै विद्महे सर्वकामायै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वविघ्ननिवारिणी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वाङ्गसुन्दर्यै विद्महे जगद्योन्यै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वाङ्गसुन्दरि गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वसौभाग्यदायिन्यै विद्महे जगज्जनन्यै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वसौभाग्यदायिनी गायत्री। इति बहिर्दशारदेवतागायत्र्यः ॥

षष्ठ्यावरणदेवतानां गायत्र्यः

अथ अन्तर्दशारदेवतागायत्र्यः ॐ ऐं ह्रीं श्रीं - सर्वज्ञायै विद्महे महामायायै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वज्ञा गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वशक्त्यै विद्महे महाशक्त्यै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वशक्ति गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वैश्वर्यप्रदायै विद्महे ऐश्वर्यात्मिकायै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वैश्वर्यप्रदा गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वज्ञानमय्यै विद्महे ज्ञानात्मिकायै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वज्ञानमयि गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वव्याधिविनाशिन्यै विद्महे औषधात्मिकायै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वव्याधिविनाशिनी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वाधारस्वरूपिण्यै विद्महे आधारात्मिकायै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वाधारस्वरूपा गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वपापहरायै विद्महे सर्वतीर्थस्वरूपिण्यै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वपापहरा गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वानन्दमय्यै विद्महे महानन्दायै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वानन्दमयि गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वरक्षास्वरूपिण्यै विद्महे सर्वरक्षणायै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वरक्षास्वरूपिणी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वेप्सितफलप्रदायै विद्महे फलात्मिकायै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वेप्सितप्रदा गायत्री। इति अन्तर्दशारदेवतागायत्र्यः ॥

सप्तमावरणदेवतानां गायत्र्यः

अथ अष्टारदेवता गायत्र्यः ॐ ऐं ह्रीं श्रीं - वशिनीदेव्यै विद्महे पुस्तकहस्तायै धीमहि तन्नो वाचा प्रचोदयात् । - इति वशिनी गायत्री । ॐ ऐं ह्रीं श्रीं - कामेश्वर्यै विद्महे वाग्देव्यै धीमहि तन्नो वाचा प्रचोदयात् । - इति कामेश्वरि गायत्री । ॐ ऐं ह्रीं श्रीं - मोदिनीदेव्यै विद्महे महावाण्यै धीमहि तन्नो वाचा प्रचोदयात् । - इति मोदिनी गायत्री । ॐ ऐं ह्रीं श्रीं - विमलादेव्यै विद्महे मालाधरायै धीमहि तन्नो वाचा प्रचोदयात् । - इति विमला गायत्री । ॐ ऐं ह्रीं श्रीं - अरुणावाग्देव्यै विद्महे श्वेतवर्णायै धीमहि तन्नो वाचा प्रचोदयात् । - इति अरुणा गायत्री । ॐ ऐं ह्रीं श्रीं - जयिनीदेव्यै विद्महे महावागीश्यै धीमहि तन्नो वाचा प्रचोदयात् । - इति जयिनी गायत्री । ॐ ऐं ह्रीं श्रीं - सर्वेश्वर्यै विद्महे सर्ववागीश्यै धीमहि तन्नो वाचा प्रचोदयात् । - इति सर्वेश्वरि गायत्री । ॐ ऐं ह्रीं श्रीं - कौलिनीदेव्यै विद्महे कुलमार्गगायै धीमहि तन्नो वाचा प्रचोदयात् । - इति कौलिनि गायत्री । - इति अष्टारदेवतागायत्र्यः ॥ अथ अष्टान्तरालचक्रदेवता गायत्र्यः । ॐ ऐं ह्रीं श्रीं - महाबाणिन्यै विद्महे पुष्पात्मिकायै धीमहि तन्नो बाणा प्रचोदयात् । - इति बाणिनी गायत्री । ॐ ऐं ह्रीं श्रीं - पुष्पचापिन्यै विद्महे पुण्ड्रात्मिकायै धीमहि तन्नश्चापा प्रचोदयात् । - इति चापिनी गायत्री । ॐ ऐं ह्रीं श्रीं - पुष्पपाशिन्यै विद्महे पाशच्छेदिन्यै धीमहि तन्नः पाशिनी प्रचोदयात् । - इति पाशिनी गायत्री । ॐ ऐं ह्रीं श्रीं - अङ्कुशिन्यै विद्महे पुष्पात्मिकायै धीमहि तन्नः सृणिः प्रचोदयात् । - इति अङ्कुशिनी गायत्री । इति अष्टारान्तरालचक्रदेवतागायत्र्यः ॥

अष्टमावरणदेवतानां गायत्र्यः

अथ त्रिकोणाग्रस्थदेवता गायत्र्यः - ॐ ऐं ह्रीं श्रीं - कामरूपवासिन्यै विद्महे ब्रह्मशक्त्यै धीमहि तन्नः कामेश्वरी प्रचोदयात् । - इति महाकामेश्वरि गायत्री । ॐ ऐं ह्रीं श्रीं - पूर्णपीठस्थायै विद्महे विष्णुशक्त्यै धीमहि तन्नः वज्रेश्वरी प्रचोदयात् । - इति महावज्रेश्वरि गायत्री । ॐ ऐं ह्रीं श्रीं - जालन्धरस्थायै विद्महे रुद्रशक्त्यै धीमहि तन्नः भगमालिनी प्रचोदयात् । - इति महाभगमालिनी गायत्री । ॐ ऐं ह्रीं श्रीं - ओड्याणस्थायै विद्महे परब्रह्मशक्त्यै धीमहि तन्नः सुन्दरी प्रचोदयात् । - इति महाश्रीसुन्दरी गायत्री इति त्रिकोणाग्रस्थदेवतागायत्र्यः ॥

नवमावरणदेवता गायत्र्यः

अथ बिन्दौ गायत्री । ॐ ऐं ह्रीं श्रीं - क ए ई ल ह्रीं त्रिपुरसुन्दरि विद्महे ह स क ह ल ह्रीं पीठकामिनि धीमहि स क ल ह्रीं तन्नः क्लिन्ने प्रचोदयात् । - इति पराभट्टारिका गायत्री ॥ अथ चक्रेश्वरीणां गायत्र्यः ॐ ऐं ह्रीं श्रीं - त्रिपुरादेव्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । - इति त्रिपुरा गायत्री । ॐ ऐं ह्रीं श्रीं - त्रिपुरेश्वर्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । - इति त्रिपुरेशी गायत्री । ॐ ऐं ह्रीं श्रीं - त्रिपुरसुन्दर्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । - इति त्रिपुरसुन्दरी गायत्री । ॐ ऐं ह्रीं श्रीं - त्रिपुरवासिन्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । - इति त्रिपुरवासिनी गायत्री । ॐ ऐं ह्रीं श्रीं - त्रिपुराश्रियै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । - इति त्रिपुराश्री गायत्री । ॐ ऐं ह्रीं श्रीं - त्रिपुरमालिन्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । - इति त्रिपुरमालिनी गायत्री । ॐ ऐं ह्रीं श्रीं - त्रिपुरासिद्धायै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । - इति त्रिपुरासिद्धा गायत्री । ॐ ऐं ह्रीं श्रीं - त्रिपुराम्बायै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । - इति त्रिपुराम्बा गायत्री । ॐ ऐं ह्रीं श्रीं - महात्रिपुरसुन्दर्यै विद्महे कामेश्वर्यै धीमहि तन्नः क्लिन्ना प्रचोदयात् । - इति महात्रिपुरसुन्दरी गायत्री । इति चक्रेश्वरीगायत्र्यः ॥ अथ पञ्चपञ्चिकागणगायत्र्यः - अथ पञ्चलक्ष्म्यः गायत्र्यः- ॐ ऐं ह्रीं श्रीं - श्रीविद्यायै विद्महे महाश्रियै धीमहि तन्नः श्रीः प्रचोदयात् । - इति श्रीविद्या गायत्री । ॐ ऐं ह्रीं श्रीं - लक्ष्म्यै देव्यै विद्महे श्रीदेव्यै धीमहि तन्नः श्रीः प्रचोदयात् । - इति लक्ष्मीदेवी गायत्री । ॐ ऐं ह्रीं श्रीं - महालक्ष्म्यै विद्महे महाश्रियै धीमहि तन्नः श्रीः प्रचोदयात् । - इति महालक्ष्मी गायत्री । ॐ ऐं ह्रीं श्रीं - त्रिशक्तिलक्ष्म्यै विद्महे महाभैरव्यै धीमहि तन्नः श्रीः प्रचोदयात् । - इति त्रिशक्तिलक्ष्मी गायत्री । ॐ ऐं ह्रीं श्रीं - साम्राज्यलक्ष्म्यै विद्महे जयङ्कर्यै धीमहि तन्नः श्रीः प्रचोदयात् । - इति साम्राज्यलक्ष्मीगायत्री । इति पञ्चलक्ष्म्यः गायत्र्यः ॥ अथ पञ्चकोशाः - ॐ ऐं ह्रीं श्रीं - श्रीविद्यायै विद्महे महाकोशेश्वर्यै धीमहि तन्नः कोशा प्रचोदयात् । - इति श्रीविद्या गायत्री । ॐ ऐं ह्रीं श्रीं - परञ्ज्योतिषे विद्महे प्रणवात्मिकायै धीमहि तन्नः कोशा प्रचोदयात् । - इति परञ्ज्योतिष गायत्री । ॐ ऐं ह्रीं श्रीं - परनिष्कलायै विद्महे परशाम्भव्यै धीमहि तन्नः कोशा प्रचोदयात् । - इति परनिष्कला गायत्री । ॐ ऐं ह्रीं श्रीं - अजपायै विद्महे हंसात्मिकायै धीमहि तन्नः कोशा प्रचोदयात् । - इति अजपा गायत्री । ॐ ऐं ह्रीं श्रीं - मातृकायै विद्महे वागीश्वर्यै धीमहि तन्नः कोशा प्रचोदयात् । - इति मातृका गायत्री । इति पञ्चकोशाः गायत्र्यः ॥ अथ पञ्चकल्पलताः - ॐ ऐं ह्रीं श्रीं - श्रीविद्यायै विद्महे कल्पलतेश्वर्यै धीमहि तन्नः कल्पलता प्रचोदयात् । - इति श्रीविद्या गायत्री । ॐ ऐं ह्रीं श्रीं - त्वरितादेव्यै विद्महे महादेव्यै धीमहि तन्नः कल्पलता प्रचोदयात् । - इति त्वरिता गायत्री । ॐ ऐं ह्रीं श्रीं - पारिजातेश्वर्यै विद्महे कामप्रदायै धीमहि तन्नः कल्पलता प्रचोदयात् । - इति पारिजातेश्वरी गायत्री । ॐ ऐं ह्रीं श्रीं - त्रिकूटायै विद्महे जगज्जनन्यै धीमहि तन्नः कल्पलता प्रचोदयात् । - इति त्रिकूटा गायत्री । ॐ ऐं ह्रीं श्रीं - पञ्चबाणेश्यै विद्महे सर्वसङ्क्षोभिण्यै धीमहि तन्नः कल्पलता प्रचोदयात् । - इति पञ्चबाणेशी गायत्री । इति पञ्चकल्पलताः गायत्र्यः ॥ अथ पञ्चकामदुघानां गायत्र्यः - ॐ ऐं ह्रीं श्रीं - श्रीविद्यायै विद्महे कामदुघेश्वर्यै धीमहि तन्नः कामदुघा प्रचोदयात् । - इति श्रीविद्या गायत्री । ॐ ऐं ह्रीं श्रीं - अमृतपीठेश्यै विद्महे अमृतेश्वर्यै धीमहि तन्नः कामदुघा प्रचोदयात् । - इति अमृतपीठा गायत्री । ॐ ऐं ह्रीं श्रीं - सुधासूत्यै विद्महे सुधात्मिकायै धीमहि तन्नः कामदुघा प्रचोदयात् । - इति सुधासूता गायत्री । ॐ ऐं ह्रीं श्रीं - अमृतेश्वर्यै विद्महे विश्वदीपिन्यै धीमहि तन्नः कामदुघा प्रचोदयात् । - इति अमृतेश्वरी गायत्री । ॐ ऐं ह्रीं श्रीं - अन्नपूर्णायै विद्महे सर्वसञ्जीविन्यै धीमहि तन्नः कामदुघा प्रचोदयात् । - इति अन्नपूर्णा गायत्री । इति पञ्चकामदुघानाङ्गायत्र्यः ॥ अथ पञ्चरत्नविद्यानां गायत्र्यः - ॐ ऐं ह्रीं श्रीं - श्रीविद्यायै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् । - इति श्रीविद्या गायत्री । ॐ ऐं ह्रीं श्रीं - सिद्धलक्ष्म्यै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् । - इति सिद्धलक्ष्मी गायत्री । ॐ ऐं ह्रीं श्रीं - मातङ्गिन्यै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् । - इति मातङ्गी गायत्री । ॐ ऐं ह्रीं श्रीं - भुवनेश्वर्यै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् । - इति भुवनेश्वरी गायत्री । ॐ ऐं ह्रीं श्रीं - वाराह्यै विद्महे रत्नेश्वर्यै धीमहि तन्नो देवी प्रचोदयात् । - इति वाराही गायत्री । - इति पञ्चरत्नविद्याः गायत्र्यः ॥ इति पञ्चपञ्चिकागणगायत्र्यः ॥ अथ षड्दर्शनगायत्र्यः । ॐ ऐं ह्रीं श्रीं - चतुराननाय विद्महे वेदवत्राय धीमहि तन्नो ब्रह्मा प्रचोदयात् । - इति ब्रह्म गायत्री । (वैदीकदर्शनम्) ॐ ऐं ह्रीं श्रीं - नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् । - इति विष्णु गायत्री । (वैष्णवदर्शनम्) ॐ ऐं ह्रीं श्रीं - आदित्याय विद्महे मार्ताण्डाय धीमहि तन्नः सूर्यः प्रचोदयात् । - इति सूर्य गायत्री । (सौरदर्शनम्) ॐ ऐं ह्रीं श्रीं - सर्वेश्वराय विद्महे शूलहस्ताय धीमहि तन्नो रुद्रः प्रचोदयात् । - इति शिव गायत्री । (शैवदर्शनं ) ॐ ऐं ह्रीं श्रीं - महासिद्धाय विद्महे सर्वज्ञाय धीमहि तन्नो बुद्धः प्रचोदयात् । - इति बुद्ध गायत्री । (बौद्धदर्शनम्) ॐ ऐं ह्रीं श्रीं - सर्वसम्मोहिन्यै विद्महे विश्वजनन्यै धीमहि तन्नः शक्तिः प्रचोदयात् । - इति शक्ति गायत्री । (शाक्तदर्शनम्) इति षड्दर्शनगायत्र्यः ॥ अथ समयविद्यानां गायत्र्यः । पूर्वसमया - ॐ ऐं ह्रीं श्रीं - सर्वोन्मन्यै विद्महे विश्वजनन्यै धीमहि तन्नो देवी प्रचोदयात् । - इति सर्वोन्मनी गायत्री । दक्षिणसमया- ॐ ऐं ह्रीं श्रीं - बगलाम्बायै विद्महे ब्रह्मास्त्रविद्यायै धीमहि तन्नः स्तम्भिनी प्रचोदयात् । - इति बगलाम्बा गायत्री । पश्चिमसमया- ॐ ऐं ह्रीं श्रीं - कालरात्र्यै विद्महे कालेश्वर्यै धीमहि तन्नो मोहिनी प्रचोदयात् । - इति कालरात्री गायत्री । तन्त्रान्तरेषु जयदुर्गा-कुब्जिका प्रत्यङ्गिरा-दुर्गाः पश्चिमसमये देवता इति । तथा- ॐ ऐं ह्रीं श्रीं - नारायण्यै विद्महे दुर्गायै धीमहि तन्नो गौरी प्रचोदयात् । - इति जयदुर्गा गायत्री । ॐ ऐं ह्रीं श्रीं - कुब्जिकायै विद्महे नरान्त्रमालायै धीमहि तन्नो देवी प्रचोदयात् । - इति कुब्जिका गायत्री । ॐ ऐं ह्रीं श्रीं - अपराजितायै विद्महे प्रत्यङ्गिरायै धीमहि तन्नः उग्रा प्रचोदयात् । - इति प्रत्यङ्गिरा गायत्री । ॐ ऐं ह्रीं श्रीं - महादेव्यै विद्महे दुर्गायै धीमहि तन्नो देवी प्रचोदयात् । - इति दुर्गा गायत्री । उत्तरसमया- ॐ ऐं ह्रीं श्रीं - वज्रवैरोचिन्यै विद्महे छिन्नमस्तायै धीमहि तन्नो देवी प्रचोदयात् । - इति छिन्नमस्ता गायत्री । ॐ ऐं ह्रीं श्रीं - कालिकायै विद्महे श्मशानवसिन्यै धीमहि तन्नो घोरे प्रचोदयात् । - इति काली गायत्री । ॐ ऐं ह्रीं श्रीं - तारायै विद्महे छिन्नमस्तायै धीमहि तन्नो देवी प्रचोदयात् । - इति तारा गायत्री । (आम्नायविद्यानां गायत्र्योऽत्रैवान्तर्भूता बोद्धव्याः ।) इति नवावरणस्थ देवी गायत्रीमन्त्राः सम्पूर्णाः । ॐ तत् सत् ॥ Proofread by Rajesh Thyagarajan
% Text title            : Navavaranastha Devi Gayatri Mantrah
% File name             : navAvaraNasthadevIgAyatrImantrAH.itx
% itxtitle              : navAvaraNasthadevIgAyatrImantrAH
% engtitle              : navAvaraNasthadevIgAyatrImantrAH
% Category              : devii, devI, dashamahAvidyA, gAyatrI, mantra, sangraha, major_works
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : dashamahAvidyA
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : parishiShTa of panchadashIstavarAjamAlikA compiled by Lalitha Ramani
% Indexextra            : (Scan)
% Latest update         : August 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org