निरृतिकृता सीतास्तुतिः
निरृतिरुवाच ।
अभूदधर्मप्रसरः पुरा यत् पापात्मिका सृष्टिरभूत्तरामम,
ततोऽपि संरक्षित आत्मनो जनस्तस्मै नमस्तेऽखिलधर्ममूर्तये ॥ १॥
कलिः कलङ्की कठिनः कलाहरः सर्वात्मना पापरुचिर्जनुष्मताम् ।
यन्नामनोदेन विलुप्तवैभवस्तस्मे प्रमोदावनिसुश्रिये नमः ॥ २॥
भावाश्चये काममदादयोऽनिशं महोर्जिताश्चैव महाबला नृषु ।
त्वकीर्ततस्ते विफलात्मतामगुस्तस्मै समस्तोद्धरणात्मने नमः ॥ ३॥
नमो नमस्ते जनकेन्द्रनन्दिनी प्रमोदकुन्दावनकुञ्जवासिनि ।
नमो नमस्ते रसिकेन्द्रसङ्गते स्फुरन्महाभोगसमूहभोगिनि ॥ ४॥
शृङ्गारमूर्तेः स्मर आधिदैवकः श्रीरामचन्द्रस्य मनोविमोहनः ।
तदंशमात्रा स्फुटमुद्गतो भवे चक्रे मुनीनां महतां विमोहनम् ॥ ५॥
एवं त्वदीयाखिल लीलारसार्थं सम्पुष्टरूपाः क्रोधमोहादिभावाः ।
तेषामंशा विषयानन्दयोगाज्जनं निबध्नन्तिनिजेन कर्मणा ॥ ६॥
पञ्चेन्द्रियाणां खलु याश्चवृत्तयस्त्वद्भक्तिभाजामकूलतां दधुः ।
ता एव लग्ना विषयेषु भूयसिश्वभ्रे लोकं पातयित्वा प्रवृद्धाः ॥ ७॥
त्वं शैशवे जानकीति प्रगीता सीतेति चाद्यैः कविभिः सुधीभिः ।
तारुण्यमभ्येत्य च मोदिनीति प्रमोदारण्ये सहजानन्दिनीति ॥ ८॥
एकैकं ते नाम सर्वेषु वेदेष्वाख्यातं चेदेष लोको गृणाति ।
तस्यानुभावाद्याति भावं परं ते प्रेमाख्यं यः कोटिजन्मातिपूतः ॥ ९॥
यज्ञैर्दानैस्तपसाचातिमात्रैर्वृतः सुपुण्यातिशयेन कश्चित् ।
त्वत्पादाब्जं भजते देवि सीते तस्य क्षणात्सुलभो रामचन्द्रः ॥ १०॥
शेषो रविर्वायु पुत्रोऽथ रुद्रः साक्षात्स्वयम्भूर्भगवान् विरञ्चिः ।
इन्द्रश्चन्द्रः सनकाद्याश्च सर्वे जानन्ति त्वाम्मीशि भजन्ति भक्त्या ॥ ११॥
ज्ञानात्मको भगवान् श्रीहयास्यस्त्वद्भक्तिमात्रादुत्युलकः सदैव ।
गृणाति त्वां कुम्भजाप प्रसादाद्यत्कुभजस्त्वां भजते नित्यमेव ॥ १२॥
स्वायम्भुवो मनुराख्यातधर्मः सर्वं ते चाब्रूत राद्धान्तमेकम् ।
त्वद्भक्त्याख्ययेनरामः प्रसन्नो नित्यानन्दं स्वपदं सन्ददाति ॥ १३॥
नान्यः पन्था विद्यते स्वात्मलब्ध्यै नान्यो भावो विद्यते चापि लोके ।
नान्यः जानं विद्यते सर्ववेदेष्वेकं सीतानाममात्रं विहाय ॥ १४॥
ज्ञानं सीतानामतुल्यं न किञ्चिच्छास्त्रं सीतानामतुल्यं न किञ्चित् ।
कृत्यं सीतानामतुल्यं न किञ्चिद्वेघं सीतानामतुल्यं न किञ्चित् ॥ १५॥
एकं शास्त्रं गीयते यत्र सीता एका लोके देवता चापि सीता ।
एको मन्त्रश्चापि सीतेति नाम कर्माप्येकं पूज्यते यत्र सीता ॥ १६॥
सर्वे देवा यत्पराः सम्बभूवुः सर्वे यज्ञा यत्पराः सम्बभूवुः ।
सर्वे मार्गा यत्पराः सम्बभूवुः सा त्वं सीतानाम लोके प्रसिद्धा ॥ १७॥
सीता नित्या जानकी मोदिनीति प्रेमा क्षेमा सहजानन्दिनीति ।
ध्यायञ्छृण्वन् सगिरन् कीर्तयंश्च जन्तुर्नित्यं मुच्यते सर्वबन्धात् ॥ १८॥
पाहि त्राहि त्रिभुवनमिदं स्वाश्रयं नित्यसिद्धे
पाहि त्राहि त्रिभुवनजनान् स्वाश्रयान् देवि सीते ।
पाहि त्राहि स्वरमणकरं रामचन्द्रस्थ लोकं
भूयो भूयो जगति भवती भ्राजतां नित्यमेव ॥ १९॥
जगत्स्वामिनी भामिनी कामिनी त्वं जगत्तोषिणी पोषिणी रामयो वा ।
जगद्वन्दिता नन्दिता नन्दिनीत्वं चिरं देवि दीप्यत्स्वभक्तानवन्ती ॥ २०॥
अये रामचन्द्रप्रिये पूर्णरूपे परा चेन्दिरा त्वत्कटाक्षोप्थरूपा ।
परा भारती भ्राजमानाभवे त्वं प्रिया रामचन्द्रस्य नित्यं रमस्व ॥ २१॥
स्वाराज्यसाम्राज्यराज्याधिदेवी स्वानन्दसम्पत्समूहाधिराज्ञी ।
प्रेमानुभावप्रभावप्रसन्नाक्राडस्व नित्यं जनानां मनस्सु ॥ २२॥
चिदानन्दाकारं तव वपुरशेषागमगणैः
स्तुतं वन्द्यं ब्रह्मादिभिरतुलभक्तिप्रवताम् ।
प्रयातैः संसेव्यं गुणरहितया प्रेमकलया
चिरं चित्ते मातः स्वयमुपरमेद्येन च भवः ॥ २३॥
त्वदीयं लावण्यं निखिलनिगमैरादिकविभिः
प्रगीतं यल्लेशोऽभ्युदयतिशशाङ्कप्रभृतिषु ।
श्रिया जुष्टेषूच्चैः प्रकृतिषु जगद्वस्तुषु यतो
जनानां दृङ्मोहो भवति भवतो विस्मृतिरपि ॥ २४॥
अहो भाग्यं नरेन्द्रस्य जनकस्य यदालये ।
प्रमोदवनतोऽभ्येत्य परा लक्ष्मीर्विराजते ॥ २५॥
किं भाग्यं मिथिलापुरीगृहजुषां भावोद्धुराणां
नृणां येषां दृष्टिपथं प्रयाति सुषमा लोकोत्तरं तावकी ।
ब्रह्माद्यरपि वा स्मृता क्षणमपि स्वाराज्यलक्ष्मीमदं
दूरीकृत्य तनौ तनोति पुलकान् प्रेमाङ्कुरं चेतसि ॥ २६॥
अद्यापि त्वं प्रमुदविपिने क्रीडसि स्वैर्विलासै
स्तेनैवाविर्भवसि वपुषा दृश्यसेऽत्रापि चैवम् ।
कुन्दारण्ये कलयसितरां चैव लीलां विशालां
तेनैवासि श्रुतिषु गदिता व्यापिका ब्रह्मरूपा ॥ २७॥
अहो ईदृशी श्रीरिहाभून्नपूर्वं स्फुटं याजनि व्यक्तमेवावतारे ।
पुरे चापि देशे वने वीथिकासु प्रभाते यथा सूर्यरोचिः प्रसङ्गात् ॥ २८॥
तमो विनष्टं सकलभवेऽस्मिन् प्रफुल्लतां मानसपङ्कजानि ।
सातामगुः सम्प्रति तद्द्रुहां च शिरोऽवतंसान्यपतन् पृथिव्याम् ॥ २९॥
आब्रह्मलोकं जगदेतदद्धा प्रसन्नतां यन्नितरां जगाम ।
तेनैव भावानि सुमङ्गलानि महानुभावैर्विदितानि लोके ॥ ३०॥
जय जय जाह्नवीविमलकीर्तिकदम्बरी
जय जय सज्जनावलिमनोज्ञशुभाचरिता ।
जय जय भावनामयसुमङ्गलादिव्यतनो
जय जय जानकीत्वममिताद्भुतमाङ्गलिके ॥ ३१॥
पाहि पाहि जगत्सर्वं रमय स्वामिकं निजम् ।
श्रीरामं चिद्घनानन्दं लीला विस्तारयामुना ॥ ३२॥
यथा पूर्वं रमयसि प्रमोदविपिनान्तरे ।
तथाधुनापि रमय रामचन्द्रं रमापतिम् ॥ ३३॥
प्रमोदविपिने यस्ते लीलापरिकरोऽखिलः ।
अधुनापि स एवात्र जायतां मनसो मुदे ॥ ३४॥
एवं स्तुत्वा निरृतिर्देवतात्मा तस्या अग्रेन्यपतदण्डवत्सः ।
भूयो भूयस्तनुसञ्जातरोमा नत्वानत्वाहृदि हर्षं चकार ॥ ३५॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
सीताजन्मोत्सवे निरृतिकृतस्तुतिर्नाम त्रयोविंशोऽध्यायः ॥ २३॥
भुशुण्डिरामायणम् । पश्चिमखण्ड । अध्याय २३/१-३५॥
bhushuNDirAmAyaNam . pashchimakhaNDa . adhyAya 23/1-35..
Encoded and proofread by Mrityunjay Rajkumar Pandey