पार्वतीतपश्चर्यावर्णनम्
(शिवरहस्यान्तर्गते ईशाख्ये)
हिमवान् उवाच ।
हितं वदामि ते पुत्रि श्रुणु मत्तस्तपः स्थिता ।
ममैव मौलिविवरे केदारार्चनतत्परा ॥ १९॥
नानामुनिजनाकीर्णे नानासिद्धविराजिते ।
नानापक्षिरुतापारमृगसङ्घनिषेविते ॥ २०॥
सरोवरैकबहुले प्रफुल्लकमलोत्पले ।
अत्र केदारनाथस्य पूजनान्मुक्तिभाङ्नरः ॥ २१॥
बहवोऽत्र समभ्यर्च्य सुराश्च मुनयः पुरा ।
लेभिरे वाञ्छितान् कामान् तपसा तोष्य शङ्करम् ॥ २२॥
सुब्रह्मण्य उवाच ।
इत्युक्तां तां समालिङ्ग्य मेनया हिमभूधरः ।
पार्वतीयैर्गणैर्युक्तो नानावर्णैर्दुरासदैः ॥ २३॥
मेनया च समैनाको गिरिकन्यायुतो ययौ ।
नानादुन्दुभिनिर्घोषैः पटहानकगोमुखैः ॥ २४॥
पुष्पलाजोरुवर्षेण हर्षेण महता युतः ।
देव्या विमानमारुह्य पुष्पदामावलम्बिना ॥ २५॥
पताकाचामर भ्राजिदिव्यच्छत्रेण भास्वता ।
नीराजयन्ति तां देवीं गिरिसंस्था वराङ्गनाः ॥ २६॥
तपस्यभिप्रयातां तां देवा देवीं दिवि स्थिताः ।
सुमैर्ववर्षुश्च तदा गन्धर्वाप्सरसो जगुः ॥ २७॥
ननृतुर्मुनयस्तत्र जेपुः शान्तिं तदाखिलाः ।
विमानादवरुह्याशु केदारशिखरे स्वके ॥ २८॥
उत्फुल्लसहकारौघे तमालालिविराजिते ।
तालसङ्घर्षिमरुता राजिते पानसैर्वनैः ॥ २९॥
फुल्लमन्दारविपिने कर्णिकारालिशोभिते ।
कदम्बकेतकीगुच्छसञ्छन्नालिविराजिते ॥ ३०॥
दाडिमीनिबिडे वृक्षैः फलपुष्पावनामितैः ।
चम्पकोद्दामगन्धाढ्ये कृतमालविराजिते ॥ ३१॥
अशोकदेवदारूणां तरुभिर्बिल्वसंयुते ।
अशोकैः शोकहारैश्च मातुलुङ्गैः फलानतैः ॥ ३२॥
करजैः ककुभैश्चैव कपित्थैर्बदरैर्युते ।
नारङ्गरञ्जिते तत्र पक्षिसङ्घविराजिते ॥ ३३॥
नदन्नत्यूहकारण्डचक्रवाकोपकूजिते ।
भ्रमत्सारङ्गमातङ्गपतङ्गव्रजषट्पदे ॥ ३४॥
मुनीनामाश्रमयुते श्रमहारिणि वारिणि ।
उत्फुल्लकरवीरालिकदलीदललोलिते ॥ ३५॥
नारिकेलद्रुमैश्चैव नानातरुविराजिते ।
शिखण्डिताण्डवकृतकेकालापविनादिते ॥ ३६॥
पुंस्कोकिलोरुविरुते हंसक्रेङ्कारघोषिते ।
समुत्फुल्लाब्जिनीं गाह्य परिधाय दुकूलकम् ॥ ३७॥
गिरिणा समनुज्ञाता तपसे धृतनिश्चया ।
धृतत्रिपुण्ड्ररुद्राक्षा कङ्कणाङ्गदवर्जिता ॥ ३८॥
सूक्ष्मपर्णैकवसना अपर्णा तृणसंस्तरा ।
कृतधम्मिल्लजटिला सखीभिः सा मनोरमा ॥ ३९॥
विमुक्तमुक्तामाला साऽभूषयत्तत्तपोवनम् ।
स्ववक्त्रजातसौन्दर्यं पद्मेषु निदधे शिवा ॥ ४०॥
स्वनेत्रनीलिमानं सा ददौ नीलोत्पले शिवा ।
स्वनासापुटसंशोभां ददौ चम्पककुड्मले ॥ ४१॥
स्वाधरस्य च रागं सा विद्रुमेषु न्यधात्तदा ।
रदनावलिसंशोभां कुन्देषु समकल्पयत् ॥ ४२॥
कपोलयोर्यत्सौन्दर्यं आदर्शेषु ददौ तदा ।
कण्ठमण्डलशोभां च शङ्खेषु परितन्वती ॥ ४३॥
मातुलुङ्गेषु कुचयोस्तुङ्गशोभां न्यधाच्च सा ।
जघनस्थलशोभां च कुम्भिमस्ते ददौ शिवा ॥ ४४॥
स्वोरुशोभां च रम्भायां निदधे हिमशैलजा ।
प्रपदस्य च सौन्दर्यं कमठेषु ददौ शिवा ॥ ४५॥
कटिभागस्थसौन्दर्यं सिह्मेषु निदधे तदा ।
नखानां च रुचिं देवी सामिचन्द्रे ददौ शिवा ॥ ४६॥
भूशय्या साऽभवद्बाला वर्षं पवनभोजना ।
वर्षं पर्णफलाहारा निराहारा च हायनम् ॥ ४७॥
हेमन्ते जलमध्यस्था वसन्ते स्थण्डिलेशया ।
ग्रीष्मे पञ्चाग्निनिरता वर्षास्वभ्रावकाशगा ॥ ४८॥
रुद्रमावर्तयन्ती सा पञ्चाक्षरपरायणा ।
तपस्यन्तीं तथा देवीं मुदा तत्र महर्षयः ॥ ४९॥
समवेताः सदारास्ते विस्मयन्तश्च संस्थिताः ।
नित्यं सैकतलिङ्गे सा पूजयामास शङ्करम् ॥ ५०॥
तत्रत्यवृक्षाश्च मृगाः पक्षिणो रक्षयन्ति ताम् ।
करिणः पुष्करासारैस्तस्या अङ्गमशीतयन् ॥ ५१॥
शिखण्डिनः स्वपिञ्छाग्रैर्गीष्मार्तां तामवीजयन् ।
चमराः पुच्छगुच्छैस्तां धुन्वन्तो दंशवारकाः ॥ ५२॥
कोकिला रागसल्लासैस्स्तुवन्त इव संस्थिताः ।
शाखिनः स्वस्वशाखाभिः छादयन्त्यातपार्दिताम् ॥ ५३॥
गिरिराडपि तां देवीं विलोक्यायाति याति च ।
सख्योऽभवन् तदा तस्या मुनिपत्न्यः कुमारिकाः ॥ ५४॥
सुपुष्पापचयैस्तत्र कन्दमूलफलादिभिः ।
शीतपानीय दानेनाप्यसेवन्त महेश्वरीम् ॥ ५५॥
केदारेश्वरपूजायां निरता द्वादशाब्दकम् ।
पञ्चामृताऽऽसेचनेन गन्धपुष्पैर्मनोहरैः ॥ ५६॥
धूपर्दीपैश्च नैवेद्यैः प्रणामप्रक्रमादिभिः ।
पूजयामास सा देवी गिरिराजसुमौलिगा ॥ ५७॥
तेन सम्प्रेषितेनैव सम्भारेण वरा शिवा ।
सम्पूजयेत्स्तुवन्त्येवं स्तोत्रेण परमेश्वरम् ॥ ५८॥
भाद्रशुक्ल तृतीयायां सिक्तायां महेश्वरम् ।
समर्चयन्ती रात्रौ सा बिल्वपत्रैर्महेश्वरम् ॥ ५९॥
साऽकरोज्जागरं देवी केदारेशस्तवे रता ।
विरता सर्वभोगेभ्यः शर्ववि(सं)न्यस्तमानसा ॥ ६०॥
॥ इति शिवरहस्यान्तर्गते महादेवीतपश्चर्यावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । अध्यायः १० देवीतपश्चर्या । १९-६० ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . adhyAyaH 10 devItapashcharyA . 19-60 ..
Notes:
Pārvatī पार्वती; intending to marry to none other than Śiva शिव, moves to a suitable place, as guided by Her Parents (Menā मेना and Himavān हिमवान्), for conducting worship of Śiva शिव and the required tapas तपस्. She worshiped Śiva शिव variously as Kedāreśvara केदारेश्वर, via Saikataliṅga सैकतलिङ्ग, during night of BhādrapadaŚuklaTṛtīyā भाद्रपदशुक्लतृतीया with BilvaPatra बिल्वपत्र, etc.
Proofread by Ruma Dewan