श्रीपरामहायोनिकवचसाधना
॥ श्रीमहा-त्रिपुर-सुन्दर्यै नमः ॥
॥ पूर्व पीठिका ॥
ॐ नमः शिवाय गुरवे, नाद-विन्दु-कलात्मने ।
श्री गणेशाय नमः । श्री मन्महा-त्रिपुर-सुन्दर्यै नमः ।
॥ श्री भैरव उवाच ॥
क्रम-दीक्षा-विधानानि, मयोक्तानि महेश्वरि! ।
त्वयात्मनः कुलागारे, कवचं यत् सु-गोपितम् ॥ १॥
अधुना कृपया त्वं च, तत्-सर्वं वक्तुमर्हसि ।
॥ श्री भैरव्युवाच ॥
शृणु ! नाथ प्रवक्ष्यामि, तन्त्र-सारमिदं महत् ॥ २॥
एतच्छ्री-कवचस्यास्य, पर-ब्रह्म ऋषिः शिवः ।
महती जगतीच्छन्दश्चिच्छक्तिर्देवतोच्यते ॥ ३॥
ऐं वीजं ह्रीं तथा शक्तिः, सकलह्रीं कीलकं तथा ।
पर-ब्रह्म-प्राप्ति-हेतौ, विनियोगः प्रकीर्तितः ॥ ४॥
अथ ॥ विनियोग ॥
ॐ अस्य श्री परा-महा-योनि-कवचस्य श्री पर-ब्रह्म-शिवः ऋषिः ।
महती जगतीः छन्दः । श्री चिच्छक्तिः देवता । ऐं वीजम् । ह्रीं शक्तिः ।
सकलह्रीं कीलकम् । पर-ब्रह्म-प्राप्ति-हेतौ पाठे विनियोगः ।
॥ ऋष्यादि-न्यास ॥
श्री पर-ब्रह्म-शिवः-ऋषये नमः शिरसि ।
महती जगतीः - छन्दसे नमः मुखे ।
श्री चिच्छक्तिः - देवतायै नमः हृदये ।
ऐं-वीजाय नमः गुह्ये ।
ह्रीं-शक्त्ये नमः नाभौ ।
सकलह्रीं-कीलकाय नमः पादयोः ।
पर-ब्रह्म-प्राप्ति-हेतौ पाठे विनियोगाय नमः सर्वाङ्गे (सर्वाङ्गे) ।
॥ ध्यान ॥
ॐ आधारे तरुणार्क-बिम्ब-रुचिरं हेम-प्रभं वाग्भवम् ।
बीजं मन्मथमिन्द्र-गोप-सदृशं हृत्-पङ्कजे संस्थितम् ॥
विष्णु-ब्रह्म-पदस्थ-शक्ति-कलितं सोम-प्रभा-भासुरम् ।
ये ध्यायन्ति पद-त्रयं तव शिवे ! ते यान्ति सौख्यं पदम् ॥
अथ कवच पाठ ।
ॐ ह्री स्त्रीं हूं फट् उग्र-तारा, मूलाधारं ममावतु ।
ह्रीं भुवनेश्वरी पातु, स्वाधिष्ठानं च मे सदा ॥ १॥
क्रीं हूं ह्रीं दक्षिणा पातु, मणिपुरं तथा मम ।
नमो भगवत्यै हस्ख्फ्रें, कुब्जिकायै श्रां श्रीं श्रूं श्रां श्रीं श्रूम् ।
ङञणनमे-अघोरा-मुखि छां छीं किणि-किणि विच्चे ॥ २॥
अनाहतं सदा पातु, कुब्जिका परमेश्वरी ।
फ्रें ख्फ्रें गुह्य-काली सा, विशुद्धं मे च रक्षतु ॥ ३॥
क-ए-ई-ल-ह्रीं ह-स-क-ह-ल-ह्रीं स-क-ल-ह्रीं श्रीं ।
आज्ञा-चक्रं महा-देवी, षोडशी पातु मे सदा ॥ ४॥
हस्क्ष्म्लवरयूँ शक्ष्म्लवरयीम् ।
नाद-चक्रं च मे पातु, श्रीमदानन्द-भैरवः ॥ ५॥
ह्सौंः शौंः अर्ध-नारीश्वरी बिन्दुश्च मेऽवतु ।
हंसः सोऽहं सदा पातु, सहस्रारं सदा मम ॥ ६॥
कएईलह्रीं हसकहलह्रीं सकलह्रीं श्रीं ।
शिरो मे पातु सा देवी, महा-त्रिपुर-सुन्दरी ॥ ७॥
``कएईलह्रीं'' कामेशी, भ्रू-मध्यं मे सदाऽवतु ।
``हसकहलह्रीं'' वज्रेशी, दक्ष-नेत्रं सदाऽवतु ॥ ८॥
``सकलह्रीं'' वाम-नेत्रं, रक्षतु भग-मालिनी ।
``हस्रें हस्कलह्रीं ह्सौंः'', त्रि-नेत्रं पातु भैरवी ॥ ९॥
``ह्रीं श्रीं सौः'' त्रिपुरा-सिद्धा, कर्णौ मे परि-रक्षतु ।
``ह्रीं क्लीं क्षुं'' मां सदा पातु, मुखं त्रिपुर-मालिनी ॥ १०॥
``हसैं हस्क्लीं हसौं'' कण्ठं, पातु श्रीत्रिपुरा-श्रीर्मे ।
``हैं हक्लीं हसौं'' पातु, वक्षस्त्रिपुर-वासिनी ॥ ११॥
दौवारिजौ सदा पातु, ह्याणिमाद्यष्ट-सिद्धयः ।
``ह्रीं क्लीं सौः'' पातु मे नाभिं, परा त्रिपुर-सुन्दरी ॥ १२॥
दश-मुद्रा-युता देवी, ममोरु पातु सर्वदा ।
``ऐं क्लीं सौः'' पातु मे जानू, श्रीमहा-त्रिपुरेश्वरी ॥ १३॥
षड्-दर्शनं सदा पातु, जङ्घा-युग्मं च सर्वदा ।
``अं आं सौः'' त्रिपुरा पातु, पादौ च सतत नमः ॥ १४॥
``ॐ ह्रीं श्रीं'' पातु मां पूर्वे, श्रीमहा-भुवनेश्वरी ।
``कएईलह्रीं'' दक्षिणे मां, पराऽऽद्या परि-रक्षतु ॥ १५॥
``सौः ऐं क्लीं ह्रीं श्रीं'' श्रीकुजा, पश्चिमे मां सदाऽवतु ।
``श्रीं ह्रीं क्लीं ऐं सौः'' चोत्तरे मां, पातु योगेश्वरी परा ॥ १६॥
``हसकहलह्रीं'' पातु, मामधो वज्र-योगिनी ।
``सकलह्रीं'' सा ललिता, ह्यूर्ध्वे मां परि-रक्षतु ॥ १७॥
श्रीं-५ ॐ-३ क-५ ह-६ स-४ सौः-५ सदाऽवतु ।
सर्वाङ्गं मे च चिद्रूपा, महा-त्रिपुर-सुन्दरी ॥ १८॥
(श्रीं-५ -- श्रीं ह्री क्लीं ऐं सौः,
ॐ-३ -- ॐ ह्रीं श्रीं,
क-५ -- क ए ई ल ह्रीं,
ह-६ -- ह स क ह ल ह्रीं ,
स-४ -- स क ल ह्रीं,
सौः-५ -- सौः ऐं क्लीं ह्रीं श्रीं)
॥ फल-श्रुति ॥
इति ते कथितं देव!, ब्रह्मानन्द-मयं परम् ।
श्री महा-योनिराख्यातं, कवचं देव-दुर्लभम् ॥ १॥
मम तेजसा रचितं, श्रीविद्या-क्रम-संयुतम् ।
तव स्नेहान्महा-देव!, तवाग्रे तु मयोदितम् ॥ २॥
राज्यं देयं शिरो देयं, न देयं कवचं परम् ।
देयं पूर्णाभिषिक्ताय, स्व-शिष्याय महेश्वर ! ॥ ३॥
अन्यथा नारकी भूयात्, कल्प-कोटि-शतैरपि ।
दिक्-सहस्रेण पाठेन, ह्यासाध्यं साध्यते क्षणात् ॥ ४॥
लक्षं जपत्वा महा-देव!, तद्दशांशं हुनेद् यदि ।
ब्रह्म-ज्ञानमवाप्नोति, पर-ब्रह्मणि लीयते ॥ ५॥
भूर्जे विलिख्य गुटिकां, स्वर्णस्थां धारयेद् यदि ।
कण्ठे वा दक्षिणे बाहौ, साक्षात् कामेश्वरो भवेत् ।
नारी वाम-भुजे धृत्वा, भवेत् त्रिपुर-सुन्दरी ॥ ६॥
ॐ तत्सत् श्रीमहा-निर्वाण-तन्त्रे श्रीमहा-योनि-नाम
श्रीमन्महा-त्रिपुर-सुन्दरी-कवचं सम्पूर्णम् ॥
Encoded by Pankaj Dubey
Proofread by Pankaj Dubey, Preeti N. Bhandare