प्रज्ञापारमितास्तोत्रम्
ॐ नमः श्रीप्रज्ञापारमितायै ।
निर्विकल्पे नमस्तुभ्यं प्रज्ञापारमितेऽमिते ।
या त्वं सर्वानवद्याङ्गि निरवद्यैर्निरीक्ष्यसे ॥ १॥
आकाशमिव निर्लेपां निष्प्रपञ्चां निरक्षराम् ।
यस्त्वां पश्यति भावेन स पश्यति तथागतम् ॥ २॥
तव चार्ये गुणाढ्याया बुद्धस्य च जगद्गुरोः ।
न पश्यन्त्यन्तरं सन्तश्चन्द्रचन्द्रिकयोरिव ॥ ३॥
कृपात्मकां प्रपद्य त्वां बुद्धधर्मपुरस्सराम् ।
सुखेनायान्ति माहात्म्यमतुलं भक्तवत्सले ॥ ४॥
सकृदप्याशये शुद्धे यस्त्वां विधिवदीक्ष्यते ।
तेनापि नियतं सिद्धिः प्राप्यतेऽमोघदर्शने ॥ ५॥
सर्वेषामपि वीराणां परार्थे नियतात्मनाम् ।
व्यापिका जगतीमेनां माता त्वमसि वत्सला ॥ ६॥
ये बुद्धा लोकगुरवः पुत्रास्तव कृपालवः ।
तेन त्वमसि कल्याणि सर्वसत्त्वपितामही ॥ ७॥
सर्वपारमिताभिस्त्वं निर्मलाभिरनिन्दिता ।
चन्द्रलेखेव ताराभिरनुप्रोताऽसि सर्वतः ॥ ८॥
विनेयजनमासाद्य तत्र तत्र तथागतैः ।
बहुरूपा त्वमेवैका नानानामभिरीक्ष्यसे ॥ ९॥
प्रभां प्राप्येव दीप्तांशोरवश्यायोदविन्दवः ।
त्वां प्राप्य प्रलयं यान्ति दोषावादाश्च वादिनाम् ॥ १०॥
त्वमेव त्रासजननी बालानां भीमदर्शना ।
आश्वासजननी चापि विदुषां सौम्यदर्शना ॥ ११॥
यस्य त्वय्यप्यभिष्वङ्गस्त्वन्नाथस्य न विद्यते ।
तस्याम्ब! कथमन्यत्र रागद्वेषौ भविष्यतः ॥ १२॥
नागच्छसि कुतश्चित्त्वं कुत्रचिन्न च गच्छसि ।
स्थानेष्वपि च सर्वेषु विद्वद्भिर्नोपलभ्यसे ॥ १३॥
ये त्वामेव न पश्यन्ति प्रपद्यन्ते च भावतः ।
प्रपद्य च विमुच्यन्ते तदिदं महदद्भुतम् ॥ १४॥
त्वामेव बध्यते पश्यन्नपश्यन्न विबध्यते ।
त्वामेव मुच्यते पश्यन्नपश्यन्न विमुच्यते ॥ १५॥
अहो विस्मयनीयासि गम्भीरासि यशस्विनी ।
सुदुर्बोधासि मायेव दृश्यसे न च दृश्यसे ॥ १६॥
बुद्धैः प्रत्येकबुद्धैश्च श्रावकैश्च निषेविते ।
मार्गस्त्वमेको मोक्षस्य नास्त्यन्य इति निश्चयः ॥ १७॥
व्यवहारं पुरस्कृत्य प्रज्ञप्त्यर्थ शरीरिणाम् ।
कृपया लोकनाथैस्त्वमुच्यसे च न चोच्यसे ॥ १८॥
शक्तः कस्त्वामिह स्तोतुं निर्निमित्तां निरञ्जनाम् ।
सर्वेषां विषयातीता या त्वं क्वचिदनिश्रिता ॥ १९॥
सत्येवमपि संवृत्या वाक्यार्थैर्वयमीदृशैः ।
त्वामस्तुत्यामपि स्तुत्वा तुष्टुवन्तः सुनिर्वृताः ॥ २०॥
प्रज्ञापारमितां स्तुत्वा यन्मयोपचितं शुभम् ।
तेनास्त्वाशु जगत् कृत्स्नं प्रज्ञापारपरायणम् ॥ २१॥
इति श्रीलक्षाभगवती कृतं प्रज्ञापारमितास्तोत्रं सम्पूर्णम् ॥