प्रकारान्तरं भगमालिनी रजस्वलास्तोत्रम्
श्री पार्वत्युवाच -
देवीभक्तश्चदेवेशाचारः कीदृशो भवेत् ।
धर्मार्थकाममोक्षाणां सिद्धिस्तस्य कथं भवेत् ॥ १॥
ईश्वरोवाच-
स्त्रीसङ्गञ्च सदाभाव्यं सुन्दरीति विशेषतः ।
स्त्रियोदेवा स्त्रियोः प्राणा स्त्रिय एवममीषिणः ॥ २॥
तासां प्रहारं निन्दाच कौटित्यं नैव कारयेत् ।
सर्वथा नैव कर्तव्यम्मन्यथा सिद्धिरोधकृत् ॥ ३॥
स्त्रीमयञ्च जगत्सर्वं भावयेन्मतोमान्तरः ।
सुन्दरीं युवतीं वीक्ष्यनमस्कुर्यात्समाहितः ॥ ४॥
बालां वायौवनोन्मत्तां वृद्धां वा सुन्दरी तथा ।
कुच्छितां वा महादुष्टां सर्वोदेवीं विभावयेत् ॥ ५॥
स्त्रीदेषो नैव कर्तव्यः प्रीयन्तासां समाचरेत् ।
स्त्रीयङ्गच्छन्न ध्यायन्कृतार्थास्मीतिभावयेत् ॥ ६॥
ऋतुवत्या भगं पश्यन् जपतेयादि साधकः ।
केवलं गुप्तभावेन सतुविद्यानिधिर्भवेत् ॥ ७॥
संस्कृताः प्राकृताः शब्दा लौकिका वैदिकास्तथा ।
वशमायान्ति ते सर्वे साधकस्य च नान्यथा ॥ ८॥
रजस्वलाधोमुखन्दृष्ट्वा सर्वपापं व्यपोहति ।
भाषणङ्कुरुतेराज अश्वमेधादिकं फलम् ॥ ९॥
तस्य स्पृश्यमात्रेण लभ्यते फलचतुर्विधम् ।
यस्य सङ्गममात्रेण त्रैलोक्यक्षोभनक्षमः ॥ १०॥
श्रद्धायां पूजितं भक्त्यो भगं स रजशोभितम् ।
न्यासङ्कृत्वा स्वदेहेच कलाभिः कामषोडशैः ॥ ११॥
मात्रिकान्यास देहेषु अनुलोम विलोमतः ।
शिवरूपं विचिन्त्यस्य भगपूजा समाचरेत् ॥ १२॥
कोटिजन्मार्जितै पुण्यै भक्त्यायां पूजयेद्भगम् ।
विषेष्य पूज्यते योनिपुष्पसङ्ख्यानविद्यते ॥ १३॥
महद्यत्नेन देवेशि पुष्पवन्ति सुलक्षणः ।
पुष्यते देव्या भक्त्या च पिशितालिङ्गसंयुतम् ॥ १४॥
नवपात्रन्तु विधिवत् स्वयं भक्त्याघरक्षया ।
पिबेत्शेषे सुराज्योति तज्जाड्यं हरते ध्रुवम् ॥ १५॥
वृत्यैभूतो स्वयं भक्त्या विकल्पेन च चेतसाम् ।
पुष्पैर्भूतं भगं पूज्य तन्मध्ये लिङ्गविक्षिपेत् ॥ १६॥
स्तोत्रपाठं मैथुनं च क्रियते जप पूर्वकम् ।
यावत् भुक्तं सुखं जाप्यं जपित्वा च सुरेश्वरि ॥ १७॥
महापीठस्य मथनं कुर्याद्वै जपपूर्वकम् ।
यावद्रेतं स्वयम्पूर्यात् तावज्जप्त्वा सुरेश्वरी ॥ १८॥
विसर्जने च पीठस्य पुनः पात्रं निवेदयेत् ।
एवं कृते तु वीरेण शिवतुल्यो भवेन्नरः ॥ १९॥
अत्यन्त गोप्यं देवेशि तस्य योनि विनिक्षिपेत् ।
अप्रकास्य कुपात्रस्य गोप्यागोप्यकृतं शुभम् ॥ २०॥
प्रकाशं परमाद्रहस्यं सद्योमृत्युः न संशयः ।
इन्द्रलोकेन देवेशि गोप्यात्सफलं महत् ॥ २१॥
भक्त्या च यमतेवीरो पूज्यते साधकोभवेत् ।
रतिकाले विशेषेण शिवतुल्यो भवेन्नरः ॥ २२॥
इति त्रयोदश श्लोकैः स्तवनं परमाद्भुतम् ।
रजस्वला समीपेतु पठ्यते सर्वसिद्धिदे ॥ २३॥
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं न संशय ।
सम्पुष्पं भगपूजाच ब्रह्मलोकेऽपिदुर्लभम् ॥ २४॥
॥ इति श्री गर्भकुलार्णवे ईश्वरपार्वतीसंवादे
भगमालिनी रजस्वलास्तोत्रं सम्पूर्णम् ॥
॥ श्री ललिताम्बार्पणमस्तु ।
Proofread by rajesh thyagarajan