भगवती पुरातनपुरेश्वरीस्तवः
ॐ अन्नपूर्णेश्वर्यै नमः ।
पुराणपुरनायिके सुरवरेन्दुचूडप्रिये
सुरासुरनमस्कृते कुरु कृपामनाथे मयि ।
जरामरणनाशिनीमधिगतास्सुरां वै सुराः
चराचरसवित्रि ते चरणसेवयैवामराः ॥ १॥
पुरातनपुरालयप्रियविहारलोले, शिवे,
पुरान्तकमनःप्रिये, पुरुषसोदरि, श्रीपुरे ।
सुरारिकुलमर्दिनि त्रिदिववीरसंरक्षिणि,
स्फुरद्गुरुकृपानिधे कुरु कृपामनाथे मयि ॥ २॥
पुराणनिगमागमप्रकरबोधितप्राभवे,
पुराणपुरुषार्चिते, शरणमम्ब तेऽङ्घ्रिद्वयम् ।
पुराणसुकृतव्रजप्रकटलब्धसन्दर्शने,
पुराणपुरनायिके कुरु कृपामनाथे मयि ॥ ३॥
पुरा किल सुरेश्वरि, त्रिदशदुःखसम्भेदने
पुरारिमुखदेवतानिचयलब्धरूपाऽभवः ।
पुरापि भवती सती दितिजगर्वनिर्वापिणी,
पुरातनपुरेश्वरि, प्रियमयीं कृपां सन्तनु ॥ ४॥
पुरा हि भवतस्सुता किल विशुद्धधाम्ना भृता
सुरेशि भवगेहिनी सुरशरण्यपादाम्बुजा ।
गिरां पथि न गोचरा तरुणचन्द्रचूडाम्बिका
पुराणपुरनायिका जयतु चान्नपूर्णेश्वरी ॥ ५॥
कराकलितपायसा परकरोल्लसद्दर्विका
सुवर्णमणिभूषणा सरसभक्तपूरप्रदा ।
सुचारुमुखचन्द्रधिक्कृतकलङ्किबिम्बाऽम्बिका
सुरासुरनमस्कृता विजयतां पुराणेश्वरी ॥ ६॥
चिरन्तनपुरेशि ते चिरतरं विचिन्त्याद्भुतं
चिरं किल मुनीश्वराश्चरितसिन्धुमग्नाः परम् ।
चिरादपि सुरास्पदं न खलु वाञ्छितं मन्वते
चिरार्जिततपःफले जय जयान्नपूर्णेश्वरि ॥ ७॥
कलानिधिकलाधरे कलविलासवाणीगुणे
कलाधरकुलार्चिते कलकलारणन्नूपुरे ।
कलापजिततारकावलिलसन्नितम्बोज्ज्वले
कलापितपुरापुरे जय जयान्नपूर्णेश्वरि ॥ ८॥
क्षुधान्धजनजीवने जननि साधुसञ्जीवने
मुधाकृतसुधारसे बुधजनैस्सदा सेविते ।
बुधावलिनुतेऽम्बिके, विविधवैभवानर्गले,
विधातृमुखपूजिते, जय जयान्नपूर्णेश्वरि ॥ ९॥
महीसुरकुलायने, कृतमहीसुराराधने,
महीकृतयुगार्णवे, महितभक्तदानव्रते ।
महीपतिसमर्चिते हिममहीध्रपुण्याङ्कुरे
महीमुखरवैभवे जय जयान्नपूर्णेश्वरि ॥ १०॥
सुचारुरदनोज्ज्वलत्स्मितलसच्छरच्छर्वरी
करायुतसदृङ्मुखी त्वमसि जीवनं प्राणिनाम् ।
निजोरुचरितामृतादृतजनार्पितेष्टव्रजे,
पुराणपुरनायिके जय जयान्नपूर्णेश्वरि ॥ ११॥
कृपां कुरु कृपार्णवे विकलमाशु कल्यं कुरु
कले कलुषसन्ततिं कलुषयाम्ब कल्याणिनि ।
कुलाचलनिकेतने कलितकुक्कुटालिप्रिये,
पुराणपुरनायिके, जय जयान्नपूर्णेश्वरि ॥ १२॥
विभञ्जय विपत्ततिं विदारयान्तरायावलिं
विभीषय भयव्रजं गदगणं विनिर्घातय ।
विनिर्दह विमूढतां विकलभावमुच्चाटय
विपोथय दरिद्रतां जय जयान्नपूर्णेश्वरि ॥ १३॥
सावित्रि सदुपासिते सकलनिष्कलाऽऽकारिणि,
त्वमत्रिनयनोद्भवद्युतिविहासिवक्त्रोज्ज्वले ।
भवित्रि भवमोचिनि, प्रमदकुक्कुटामोदिनि,
धरित्रि, परदेवते, कुरु कृपां पुराणेश्वरि ॥ १४॥
त्वमन्नममितं ददास्यखिलदुर्गतेभ्यः प्रिया
त्वमम्ब जगतामतस्त्वमसि जीवनं देहिनाम् ।
त्वदन्तिकमुपेत्य ये त्वयि वितन्वते मानसं
त्वमाशु वितनोषि तानखिलदुर्लभप्राभवान् ॥ १५॥
रमे परमहं रमे तवपदाब्जयो रम्ययोः
रमेत कतमोऽपि वा भवसुखे विरामार्तिदे ।
रमारमणपूजिते रमितरामनाथान्तरे,
रमाऽऽदृतगुणाकरे जय जयान्नपूर्णेश्वरि ॥ १६॥
उदञ्चितकृपाभरे सुकृतसञ्चितालोकने,
कराञ्चितविपञ्चिकाललितगानलोलेऽम्बिके ।
पराञ्चितसुकाञ्चनज्वलितकाञ्चिकारञ्जिते
पुराञ्चितपुरीप्रिये जय जयान्नपूर्णेश्वरि ॥ १७॥
चराचरविधायिनि त्वदखिलं जगज्जायते,
त्वदन्नपरिवर्धितास्त्वयि वसन्ति हि प्राणिनः ।
त्वमेव विलयास्पदं निखिलदेहिनां चण्डिके,
पुराणपुरनायिके जय जयान्नपूर्णेश्वरि ॥ १८॥
त्वदम्बुरुहडम्बरप्रमथनाङ्घ्रियुग्मं विना
जनस्य जगदम्बिके शरणदं किमन्यद्भुवि ।
अतस्तव पदाब्जयोः प्रदिश मे च भक्तिं परां
पुराणपुरनायिके जय जयान्नपूर्णेश्वरि ॥ १९॥
त्वमम्ब भवभीषणप्रबलभोगिवक्त्रादिमं
विमोचय कृपाकरि प्रतिपदं तवाङ्घ्रिश्रितम् ।
कुमारि कुलपालिनि प्रमथयाशु पीडाभरं
पराणुद परं भयं जय जयान्नपूर्णेश्वरि ॥ २०॥
शिरःकलितचन्द्रया कलितदिव्यभूषाढ्यया
समस्तमुनिवन्द्यया युधि निरस्तदैत्यौघया ।
अनस्तमितबोधया करवरात्तदिव्यान्नया
कयापि करुणार्द्रया सशरणा वयं सन्ततम् ॥ २१॥
अमन्दमयि सम्पदं परिददासि पद्मालये
सुमन्दमपि वाक्पतिं वितनुषे गिरां नायिके ।
मुकुन्दसहजे मुहुः कलितकालिकारूपिणि
विहंसि दितिजावलिं जय जयान्नपूर्णेश्वरि ॥ २२॥
प्रसीद जगदम्बिके शृणु मदीयदीनं वचः
विपत्सु शरणं भव प्रणुद दुर्गमां दुर्गतिम् ।
पुरो मम दृशोश्शिवे कनकभूषणाभूषिता
भवानि भव भासुरा जय जयान्नपूर्णेश्वरि ॥ २३॥
कदा तव पदार्चकं हिममहीध्रपुण्याङ्कुरे
किमर्भक तवेप्सितं कथय साधयाम्याशु ते ।
इति प्रियवचो मधुप्रकरवर्षमातन्वती
पुराणपुरनायिके मम पुरस्समायास्यसि ॥ २४॥
कलक्वणितनूपुरा कटिनिबद्धकाञ्चीगुणा
रणन्मणिविभूषणा चरणकिङ्किणीराविणी ।
शरच्छशिमुखोद्गलन्मधुरवादमोदप्रदा
पुराणपुरनायिके जय जयान्नपूर्णेश्वरि ॥ २५॥
अनन्तदुरितक्रियाऽऽचरणचुञ्चुमप्यम्बिके
न मुञ्च तव किङ्करं परमदीनदीनं शिवे
विपत्सु हृदि संस्मृता सकलपातकध्वंसिनी
प्रसीद परिपालय प्रणतमन्नपूर्णेश्वरि ॥ २६॥
मुनीन्द्रगणसेविते मनुजपालसम्पूजिते
मतङ्गकुलनायिके मधुमदोज्ज्वले मोहिनि ।
मरालगमनाञ्चिते मरकतप्रभाश्यामले
मनोहरि मनो मम प्रमदयान्नपूर्णेश्वरि ॥ २७॥
इदं किल कृतं मया प्रणतकामदे मोददे
समर्पितमहर्पतेरणुकदीपिकादानवत् ।
पुराणपुरनायिके तव पदाब्जयोर्दीप्रयो-
रपाङ्गय च मां सदा जय जयान्नपूर्णेश्वरि ॥ २८॥
इमां नक्षत्रमालां -
भारद्वाजकुलोत्पन्नः सुब्बरामाभिधो द्विजः ।
पराशक्तेः पादमूले भूषणं कल्पयाम्यहम् ॥
इति श्रीसुब्बरामशर्मणाविरचितं पुरातनपुरेश्वरी
भगवतीस्तवं सम्पूर्णम् ॥
Prayer for purAtanapureshvarI bhagavatI, the name of the main deity of
village Pazhayannur (literally meaning `old village').
Composed by Shri P. A. Subbarama Sharma of Puthucode
Encoded and proofread by PSA Easwaran