पुरुषोत्तमप्रोक्तं सर्वदेवतामन्त्रस्तोत्रम्

पुरुषोत्तमप्रोक्तं सर्वदेवतामन्त्रस्तोत्रम्

श्रीनारायणीश्रीरुवाच । कस्य मन्त्रस्य तस्यास्तु जपो विधिश्च कीदृशः । वद मे भगवन्नेतत् सर्वलोकाभिकाङ्क्षितम् ॥ ६५॥ श्रीपुरुषोत्तम उवाच । श‍ृणु नारायणीश्रि! त्वं पदार्थाः शब्दबोधिताः । नित्यशब्दात्मको वेदो मन्त्रास्तत्रोत्तमा मताः ॥ ६६॥ श्रेष्ठास्तत्र हरेर्मन्त्राः लक्ष्मीमन्त्रा सदोत्तमाः । दुर्गायाश्च गणेशस्य रवेः शम्भोर्विभावसोः ॥ ६७॥ मन्त्राणां चोत्तमा मन्त्राः महालक्ष्म्या भवन्ति हि । श्यामायाः कम्भराया वै वदामि ते निबोध माम् ॥ ६८॥ प्रातरुत्थाय मां नत्वा स्नात्वा शुभासनस्थिता । स्मर स्वमस्तके लक्ष्मि दिव्यं कमलमुज्ज्वलम् ॥ ६९॥ सहस्रपत्रशोभाड्यं सकेसरसकर्णिकम् । तत्र श्रीसद्गरुं ध्यात्वा प्रसन्नं करुणामयम् ॥ ७०॥ श्रीमद्गोपालकृष्णाख्यं पितरं सद्गुरुं परम् । आचम्य चोर्ध्वपुण्ड्रं सचन्द्रं कृत्वा ततः परम् ॥ ७१॥ स्कन्धे कृत्वा पट्टके च हृदि धृत्वा परेश्वरीम् । अन्तःशुद्धिमती भूत्वा सन्ध्यावन्दनमाचर ॥ ७२॥ अश्वत्थपत्राकारेण पात्रेण सकुशाक्षतम् । सपुष्पचन्दनं चार्घ्यं महालक्ष्म्यै प्रदेहि तत् ॥ ७३॥ त्रिरर्घ्यं सम्प्रदायाऽथ तर्पयित्वा जलेन च । होमभूमिं प्रगत्वैव सर्वश‍ृङ्गारशोभिता ॥ ७४॥ सर्वपूजादिसामग्रीसहिता चासनस्थिता । अङ्गन्यासान् कुरु लक्ष्मि तान्निबोध मयोदितान् ॥ ७५॥ ``ओमनादिपरब्रह्मेश्वर्यै शिरसि मे नमः । ओमनादिकृष्णनारायण्यै भाले च मे नमः ॥ ७६॥ ओमनादिवासुदेवीलक्ष्म्यै मे नेत्रयोर्नमः । ओमनादिब्रह्मलक्ष्म्यै मुखे मे ते नमो नमः ॥ ७७॥ ओमनादिकम्भरालक्ष्म्यै च कण्ठेऽस्तु मे नमः । ओमनादिमहालक्ष्म्यै हृदये मे च ते नमः ॥ ७८॥ ओमनादिश्रीनरायण्यै नमस्ते ममोदरे । ओमनादिवैष्णव्यै ते नाभौ मम नमो नमः ॥ ७९॥ ओमनादिललितायै जघने ते च मे नमः । ओमनादिश्रियै चाऽस्तु नमः सक्थ्नोश्च मे सदा ॥ ८०॥ ओमनादिकमलायै नमो जान्वोश्च मेऽस्तु ते । ओमनादिरमायै ते नमोऽस्तु पादयोर्मम ॥ ८१॥ ओमनादिहरिण्यै ते करयोर्मे नमोऽस्तु ते । ओमनादिमहामात्रे सर्वतस्ते नमो नमः ॥ ८२॥ ओमनादिपद्मायै द्विहस्ततलयोस्ते नमः । ओमनादिरक्षित्र्यै ते पृष्ठदेशे नमो नमः ॥ ८३॥ ओमनादिहिरण्यायै रम्याङ्गेषु च ते नमः । ओमनादिसुवर्णायै भाग्यरेखासु ते नमः ॥ ८४॥ ओमनादिकुमार्यै ते शीलधर्मे नमो नमः । ओमनादिजनन्यै ते सर्वाङ्गेषु नमो नमः ॥ ८५॥ एवं न्यासान् विनिर्वर्त्य ध्यायस्व श्रीपुराधिपाम् । ध्यायस्व श्रीपुरं चापि श्रीपुरेशीश्वरं च माम् ॥ ८६॥ सुवर्णनिर्मितां मूर्तिमावाहय ततः परम् । आसनं सम्प्रदेहि त्वं पाद्यमर्घ्यं ततः परम् ॥ ८७॥ आचमनं जलं पञ्चामृतस्नानं प्रकारय । सुगन्धितैलसाराद्यैः प्रमर्दय परेश्वरीम् ॥ ८८॥ आभिषेकं कारयित्वा वस्त्रभूषार्पणं कुरु । सर्वं श‍ृङ्गारं सौभाग्योत्तमं धूपं प्रदीपकम् ॥ ८९॥ नमस्कारं दण्डवच्चाऽरार्त्रिकं च प्रदक्षिणम् । नैवेद्यं विविधं भोज्यं भक्ष्यं चोष्यं च लेह्यकम् ॥ ९०॥ जलं शाकादि वै पेयं दुग्धसारं च पायसम् । जलपानं नागवल्लीदलताम्बूलकं फलम् ॥ ९१॥ प्रदेहि श्रीमहालक्ष्म्यै क्षमापराधनं वृणु । पुष्पाञ्जलिं परिहारं कृत्वा स्वोद्यममाचर ॥ ९२॥ ततश्च तुलसीमालां धृत्वा मन्त्रं जप प्रिये । महालक्ष्म्या महामन्त्रं जप लक्ष्मि मम प्रियम् ॥ ९३॥ सर्वार्थसाधकं सर्वानर्थानां नाशकं प्रभुम् । उदङ्मुखा प्राङ्मुखा वा जप श्रीसन्निधौ सदा ॥ ९४॥ ``ॐ महालक्ष्म्यै विद्महै महाविष्णुपत्न्यै धीमहि । तन्नो महालक्ष्मीः प्रचोदयात् । ॐ श्रीं महालक्ष्म्यै नमः ॐ ह्रीं क्लीं श्रीं फट् स्वाहा'' ॥ ९५॥ षट्त्रिंशल्लक्षसङ्ख्यास्तु जपन् सिद्धिर्भविष्यति । तद्दशांशस्तु होमः स्यात् तद्दशांशं तु तर्पणम् ॥ ९६॥ तद्दशांशं तु भक्तानां भोजनं समुपाचर । एवं मन्त्रो भवेत् सिद्धः काम्यजपाँस्ततः कुरु ॥ ९७॥ लक्षमात्रं जपित्वा तु मनुष्यान् वशमानयेत् । नारीर्द्विलक्षजाप्येन त्रिलक्षैस्तु नृपाँस्तथा ॥ ९८॥ चतुर्लक्षैर्नागकन्याः पातालस्त्रीस्तु पञ्चभिः । षड्लक्षैर्भूसुन्दरीश्च सुराणीः सप्तलक्षकैः ॥ ९९॥ अष्टलक्षैर्देवताश्च गीर्वाणान्नवलक्षकैः । दशलक्षैश्च वै पितॄन्नेकादशैः सुरेश्वरान् ॥ १००॥ द्वादशलक्षजापैश्च सिद्धीर्वशा नयेत्तथा । लक्ष्मीवान् धनवान् स्याच्च स्मृद्धिमान् स भवेत्तथा ॥ १०१॥ यथेष्टं लभते सर्वमैश्वर्यं दैवतं तथा । ध्यायन्तस्तां जपन्तस्तां लभन्ते महतीं श्रियम् ॥ १०२॥ सम्प्राप्यते सिद्धिरेषा नाऽसद्भिस्तु कदाचन । इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे ११९-अध्यायान्तर्गतं पुरुषोत्तमप्रोक्तं सर्वदेवतामन्त्रस्तोत्रं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय ११९/६५-१०२॥ lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 119/65-102.. Proofread by PSA Easwaran
% Text title            : Purushottamaproktam Sarvadevatamantra Stotram
% File name             : puruShottamaproktaMsarvadevatAmantrastotram.itx
% itxtitle              : sarvadevatAmantrastotram (puruShottamaproktaM lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : puruShottamaproktaM sarvadevatAmantrastotram
% Category              : devii, devI, lakShmInArAyaNIyasaMhitA, mantra, stotra
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 3 | adhyAya 119/65-102||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : February 28, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org