पुरुषोत्तमप्रोक्तं शिवराज्ञिश्रीहृदयस्तोत्रम्
श्रीनारायणीश्रीरुवाच ।
ललिताख्यमहालक्ष्म्या नामान्यसङ्ख्यकानि वै ।
तथाप्यष्टोत्तरशतं सपादं श्रावय प्रभो ॥ १॥
श्रीपुरुषोत्तम उवाच ।
मुख्यनाम्नां प्रपाठेन फलं सर्वाभिधानजम् ।
भवेदेवेति मुख्यानि तत्र वक्ष्यामि संशृणु ॥ २॥
``ललिता श्रीर्महालक्ष्मीर्लक्ष्मीः रमा च पद्मिनी ।
कमला सम्पदीशा च पद्मालयेन्दिरेश्वरी ॥ ३॥
परमेशी सती ब्राह्मी नारायणी च वैष्णवी ।
परेश्वरी महेशानी शक्तीशा पुरुषोत्तमी ॥ ४॥
विभ्वी माया महामाया मूलप्रकृतिरच्युती ।
वासुदेवी हिरण्या च हरिणी च हिरण्मयी ॥ ५॥
कार्ष्णी कामेश्वरी कामाक्षी चापि भगमालिनी ।
वह्निवासा सुन्दरी च संविच्च विजया जया ॥ ६॥
मङ्गला मोहिनी तापी वाराही सिद्धिरीशिता ।
भुक्तिः कौमारिकी बुद्धिश्चामृता दुःखहा प्रसूः ॥ ७॥
सुभाग्याऽऽनन्दिनी सम्पद्विमला बिन्द्विकाऽभिधा ।
माता मूर्तिर्योगिनी च चक्रिकाऽर्चा रतिर्धृतिः ॥ ८॥
श्यामा मनोरमा प्रीतिः ऋद्धिः छाया च पूर्णिमा ।
तुष्टिः प्रज्ञा पद्मावती दुर्गा लीला च माणिकी ॥ ९॥
उद्यमा भारती विश्वा विभूतिर्विनता शुभा ।
कीर्तिः क्रिया च कल्याणी विद्या कला च कुङ्कुमा ॥ १०॥
पुण्या पुराणा वागीशी वरदा विभवाऽऽत्मिनी ।
सरस्वती शिवा नादा प्रतिष्ठा संस्कृता त्रयी ॥ ११॥
आयुर्जीवा स्वर्णरेखा दक्षा वीरा च रागिणी ।
चपला पण्डिता काली भद्राऽम्बिका च मानिनी ॥ १२॥
विशालाक्षी वल्लभा च गोपी नारी नरायणी ।
सन्तुष्टा च सुषुम्णा च क्षमा धात्री च वारुणी ॥ १३॥
गुर्वी साध्वी च गायत्री दक्षिणा चान्नपूर्णिका ।
राजलक्ष्मीः सिद्धमाता माधवी भार्गवी परी ॥ १४॥
हारिती राशियानी च प्राचीनी गौरिका श्रुतिः ।
इत्यष्टोत्तरशतकं सप्तविंशतिरित्यपि ॥ १५॥
ललितामुख्यनामानि कथितानि तव प्रिये! ।
नित्यं यः पठते तस्य भुक्तिर्मुक्तिः करस्थिता ॥ १६॥
स्मृद्धिर्वंशस्य विस्तारः सर्वानन्दा भवन्ति वै ।
``ॐ श्रीललितामहालक्ष्म्यै नमः श्रींह्रीङ्क्लीं स्वाहा'' ॥ १७॥
इति मन्त्रं जपेल्लक्षवारं सा दृश्यते ध्रुवम् ।
अथ लक्ष्मि महामन्त्रं गुरुमन्त्रं वदामि ते ॥ १८॥
``ॐ अन्तर्लिङ्गाय गुरवे ललाटस्थाय
सर्वात्मने नमः स्वाहा'' ।
इतिलक्षं जपेत् सिद्धिर्जायते ब्रह्मसादृशी ॥ १९॥
गुरुं ध्यायेत् स्नापयेच्च पूजयेद्बहुवस्तुभिः ।
भोजयेत्सम्प्रसेवेत तोषयेत्सर्वदानकैः ॥ २०॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुः श्रीशङ्करः स्वयम् ।
गुरुर्नारायणः कृष्णो गुरुर्ब्रह्मपरं प्रभुः ॥ २१॥
गुरुः पिता पतिः पुत्रो बन्धुर्माता च रक्षकः ।
मोक्षदस्तारकश्चापि महाऽऽनन्दप्रदो गुरुः ॥ २२॥
अनादिश्रीकृष्णनारायणः साक्षाद्गुरुर्हरिः ।
इत्युक्त्वा प्रणमेतापि नीराजयेद्गुरुं ततः ॥ २३॥
पुष्पाञ्जलिं दिशेच्चापि दण्डवद्वै समाचरेत् ।
दानं दद्याच्च गुरवे स्वेष्टतमस्य वस्तुनः ॥ २४॥
चेतनो वै भगवान् स गुरुरेव परेश्वरः ।
त्रायते चापदां व्रातान्नयत्येवाऽक्षरं पदम् ॥ २५॥
नित्यं वै प्रथमं प्रातर्गुरोर्दर्शनमुत्तमम् ।
गुरोः पादाङ्गुष्ठजलं पिबेत् पावनमुत्तमम् ॥ २६॥
अपि हत्यादिपापानां नाशकं चरणामृतम् ।
अपि मायादिबन्धानां कर्तनं चरणौ गुरोः ॥ २७॥
यामपाशविमोक्षाय शक्तं वै स्मरणं गुरोः ।
अनाथानां सदा नाथो नारायणो गुरुः परः ॥ २८॥
गं गाढं च तमो गुप्तं रुणद्धीतिगुरुर्मतः ।
गुरोर्मूर्तिं शुभां कृत्वा गृहे कण्ठे प्ररक्षयेत् ॥ २९॥
गुर्वद्वैतमुपासीताऽश्नुतेऽमृतमनुत्तमम् ।
इत्येतत् कथितं लक्ष्मि सारात् सारतरं परम् ॥ ३०॥
मातृतीर्थात् पितृतीर्थाद्गुरुतीर्थं महत्तमम् ।
श्वश्रूतीर्थात्पतितीर्थाद्गुरुतीर्थं महत्तमम् ॥ ३१॥
सतीतीर्थात् प्रियातीर्थाद्गुरुतीर्थं महत्तमम् ।
देवतीर्थाज्जडतीर्थाद्गुरुतीर्थं महत्तमम् ॥ ३२॥
अर्चातीर्थान्मखतीर्थाद्गुरुतीर्थं महत्तमम् ।
व्रततीर्थात्तपस्तीर्थाद्गुरुतीर्थं महत्तमम् ॥ ३३॥
ज्ञानतीर्थाद्योगतीर्थाद्गुरुतीर्थं महत्तमम् ।
परोपकारादितीर्थेभ्यो गुरुतीर्थं महत्तमम् ॥ ३४॥
अनादिश्रीकृष्णनारायणेन परमात्मना ।
मया सन्दिश्यते त्वेतद्गुरुतीर्थं प्रमाणवत् ॥ ३५॥
सत्यतीर्थं साधुतीर्थं तीर्थश्चाहं परेश्वरः ।
त्रीणि तीर्थानि चैतानि गुरौ तीर्थे विशन्ति हि ॥ ३६॥
इत्येतच्छिवराज्ञीश्रि हृदयं कथितं तव ।
पठनाच्छ्रवणादस्य चतुःपुमर्थभाग् भवेत् ॥ ३७॥
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्तानेललितामहालक्ष्म्याः
पञ्चत्रिंशदुत्तरशतनामानि गुरुतीर्थमाहात्म्यं चेत्यादिनिरूपणनामैक-
विंशत्यधिकशततमोऽध्यायः ॥ १२१॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१२१-अध्यायान्तर्गतं पुरुषोत्तमप्रोक्तं शिवराज्ञिश्रीहृदयस्तोत्रं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १२१/१-३७॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 121/1-37..
Proofread by PSA Easwaran