॥ राधाकल्याणम् ॥

॥ श्रीः॥ यस्याःप्रसादलेशेन वर्धन्ते सर्वसम्पदः । नमस्तस्यै पराम्बायै देव्यै मङ्गलमूर्तये ॥ कन्यार्थी च वटुः कन्याप्यनुरूपवरार्थिनी । सीताविवाहसर्गं तु पठेत्प्रातः प्रयत्नतः ॥ रमया तु रकारस्स्यात् आकारस्त्वादिगोपिका । धकारो धरया हि स्यादकारो विरजानदी ॥ ॥ श्रीः॥ शुभमस्तु । श्रीराधाकल्याणम् । ब्रह्मवैवर्तपुराणात् सङ्ग्रहीतम् एकदा कृष्णसहितो नन्दो वृन्दावनं ययौ । तत्रोपवनभाण्डीरे चारयामास गोधनम् ॥ १॥ सरस्सु स्वादु तोयं च पाययामास तत्पपौ । उवास वृक्षमूले च बलं कृत्वा स्ववक्षासि ॥ २॥ एतस्मिन्नन्तरे कृष्णः मायामानुषविग्रहः । चकार माययाऽकस्मात् मेघाच्छन्नं नभो मुने ॥ ३॥ मेघावृतं नभो दृष्ट्वा श्यामलं काननान्तरम् । झञ्झावातं मेघशब्दं वज्रशब्दं च दारुणम् ॥ ४॥ वृष्टिधारा अतिस्थूला कम्पमानान् च पादपान् । दृष्ट्वैव पतितस्कन्धान् नन्दो भयमवाप ह ॥ ५॥ कथं यास्यामि गोवत्सान् विहाय स्वाश्रमं बत । गृहं यदि न यास्यामि भविता बालकस्य किम् ॥ ६॥ एवं नन्दे प्रवदति रुरोद श्रीहरिस्तदा । पयोभिया हरिश्चैव पितुः कण्ठं दधार सः ॥ ७॥ एतस्मिन्नन्तरे राधा जगाम श्रीकृष्णसन्निधिम् । गमनं कुर्वती राजहंसखञ्जनगञ्जनम् ॥ ८॥ शरत्पार्वणचन्द्राभा मुष्टवक्त्रमनोहरा । शरन्मध्याह्नपद्मानां शोभामोचनलोचना ॥ ९॥ परितस्तारकापक्ष्मविचित्रकज्जलोज्ज्वला । खगेन्द्रचञ्चुचारुश्रीसङ्गनाशकनासिका ॥ १०॥ तन्मध्यस्थलशोभार्हस्थूलमुक्ताफलोज्ज्वला । कबरीवेषसंयुक्ता मालतीमाल्यवेष्टिता ॥ ११॥ ग्रीष्ममध्याह्नमार्तण्डप्रभामुष्टककुण्डला । पक्वबिम्बफलानां च श्रीमुष्टाधरयुग्मका ॥ १२॥ मुक्तापङ्क्तिप्रभातैकदन्तपङ्क्तिसमुज्ज्वला । ईषत्प्रफुल्लकुन्दानां सुप्रभानाशकस्मिता ॥ १३॥ कस्तूरीबिन्दुसंयुक्तसिन्दूरबिन्दुभूषिता । कपालं मल्लिकायुक्तं बिभ्रती श्रीयुतं सती ॥ १४॥ सुचारुवर्तुलाकारकपोलपुलकान्विता । मणिरत्नेन्द्रसाराणां हारोरःस्थलभूषिता ॥ १५॥ सुचारुश्रीफलयुगकठिनस्तनसङ्गता । पत्रावलीश्रिया युक्ता दीप्ता सद्रत्नतेजसा ॥ १६॥ सुचारुवर्तुलाकारमुदरं सुमनोहरम् । विचित्रत्रिवलीयुक्तं निम्ननाभिं च बिभ्रती ॥ १७॥ सद्रत्नसाररचितमेखलाजालभूषिता । कामास्त्रसारभ्रूभङ्गयोगीन्द्रचित्तमोहिनी ॥ १८॥ कठिनश्रोणियुगलं धरणीधरनिन्दितम् । स्थलपद्मप्रभामुष्टचरणं दधती मुदा ॥ १९॥ रत्नभूषणसंयुक्तं यावकद्रवसंयुतम् । मणीन्द्रशोभासंमुष्टसालक्तकपुनर्भवम् ॥ २०॥ सद्रत्नसाररचितक्वणन्मञ्जरिरञ्जिता । रत्नकङ्कणकेयूरचारुशङ्खविभूषिता ॥ २१॥ रत्नाङ्गुलीयनिकरवह्निशुद्धांशुकोज्ज्वला । चारुचम्पकपुष्पाणां प्रभामुष्टकलेवरा ॥ २२॥ सहस्रदलसंयुक्तक्रीडाकमलमुज्ज्वलम् । श्रीमुखश्रीदर्शनार्थं बिभ्रती रत्नदर्पणम् ॥ २३॥ दृष्ट्वा तां निर्जने नन्दो विस्मयं परमं ययौ । चन्द्रकोटिप्रभामुष्टां भासयन्तीं दिशो दश ॥ २४॥ ननाम तां साश्रुनेत्रः भक्तिनम्रात्मकन्धरः । जानामि त्वां गर्गमुखात् पद्माधिकप्रियां हरेः ॥ २५॥ जानामीमं महाविष्णोः परं निर्गुणमच्युतम् । तथापि मोहितोऽहं च मानवो विष्णुमायया ॥ २६॥ गृहाण प्राणनाथं च गच्छ भद्रे यथासुखम् । पश्चाद्दास्यसि मत्पुत्रं कृत्वा पूर्णमनोरथम् ॥ २७॥ इत्युक्तवा प्रददौ तस्यै रुदन्तं बलकं भिया । जग्राह बालकं राधा जहास मधुरं सुखात् ॥ २८॥ उवाच नन्दं सा यत्नात् न प्रकाश्यं रहस्यकम् । अहं दृष्टा त्वया नन्द कति जन्मफलोदयात् ॥ २९॥ प्राज्ञस्त्वं गर्गवचनात् सर्वं जानासि कारणम् । अकथ्यमावयोर्गोप्यं चरितं गोकुले व्रज ॥ ३०॥ वरं वृणु व्रजेश त्वं यत्ते मनसि वाञ्छितम् । ददामि लीलया तुभ्यं देवानामपि दुर्लभम् ॥ ३१॥ राधिकावचनं श्रत्वा तामुवाच व्रजेश्वरः । युवयोश्चरणे भक्तिं देहि नान्यत्र मे स्मृहा ॥ ३२॥ युवयोः सन्निधौ वासं दास्यसि त्वं सुदुर्लभम् । आवाभ्यां देहि जगतामम्बिके परमेश्वरि ॥ ३३॥ श्रुत्वा नन्दस्य वचनमुवाच परमेश्वरी । दास्यामि दास्यमतुलमिदानीं भक्तिरस्तु ते ॥ ३४॥ आवयोश्चरणाम्भोजे युवयोश्च दिवानिशम् । प्रफुल्लहृदये शश्वत् स्मृतिरस्तु सुदुर्लभा ॥ ३५॥ एवमुक्ता तु सा नन्दं कृत्वा कृष्णं स्ववक्षसि । दूरं निनाय श्रीकृष्णं बाहुभ्यां च यथेप्सितम् ॥ ३६॥ एतस्मिन्नन्तरे राधा मायासद्रत्नमण्डपम् । ददर्श रत्नकलशशतेन च समन्वितम् ॥ ३७॥ सा देवी मण्डपं दृष्ट्वा जगामाभ्यन्तरं मुदा । ददर्श तत्र ताम्बूलं कर्पूरादिसमन्वितम् ॥ ३८॥ पुरुषं कमनीयं च किशोरं श्यामसुन्दरम् । कोटिकन्दर्पलीलाभं चन्दनेन विभूषितम् ॥ ३९॥ शयानं पुष्पशय्यायां सस्मितं सुमनोहरम् । पीतवस्त्रपरीधानं प्रसन्नवदनेक्षणम् ॥ ४०॥ मणीन्द्रसारनिर्माणं क्वणन्मञ्जीररञ्जितम् । सद्रत्नसारनिर्माणकेयूरवलयान्वितम् ॥ ४१॥ मणीन्द्रकुण्डलाभ्यां च गण्डस्थलविराजितम् । कौस्तुभेन मणीन्द्रेण वक्षस्थलसमुज्ज्वलम् ॥ ४२॥ शरत्पार्वणचन्द्राभप्रभामुष्टमुखोज्ज्वलम् । शरत्प्रफुल्लकमलप्रभामोचनलोचनम् ॥ ४३॥ मालतीमाल्यसंश्लिष्टशिखिपिच्छसुशोभितम् । त्रिभङ्गचूडां बिभ्रन्तं पश्यन्तं रत्नमन्दिरम् ॥ ४४॥ क्रोडं बालकशून्यं च दृष्ट्वा तं नवयौवनम् । सर्वस्मृतिस्वरूपा सा तथापि विस्मयं ययौ ॥ ४५॥ रूपं रासेश्वरी दृष्ट्वा मुमोह सुमनोहरम् । कामात् चक्षुश्चकोराभ्यां मुखचन्द्रं पपौ मुदा ॥ ४६॥ निमेषरहिता राधा नवसङ्गमलालसा । पुलकाङ्कितसर्वाङ्गी सस्मिता मदनातुरा ॥ ४७॥ तामुवाच हरिस्तत्र स्मेराननसरोरुहाम् । नवसङ्गमयोग्यां च पश्यन्तीं वक्त्रचक्षुषा ॥ ४८॥ श्रीकृष्ण उवाच । राधे स्मरसि गोलोकवृत्तान्तं सुरसंसदि । अद्य पूर्णं करिष्यामि स्वीकृतं यत्पुरा प्रिये ॥ ४९॥ त्वं मे प्राणाधिका राधे प्रेयसी च वरानने । यथा त्वं च तथाहं च भेदो हि नावयोर्धुवम् ॥ ५०॥ यथा क्षीरे च धावल्यं यथाग्नौ दाहिका सति । यथा पृथिव्यां गन्धश्च तथाहं त्वयि सन्ततम् ॥ ५१॥ विना मृदा घटं कर्तुं विना स्वर्णेन कुण्डलम् । कुलालः स्वर्णकारश्च न हि शक्तः कदाचन ॥ ५२॥ तथा त्वया विना सृष्टिमहं कर्तुं न च क्षमः । सृष्टेराधारभूता त्वं बीजरूपोऽहमच्युतः ॥ ५३॥ कृष्णं वदन्ति मां लोकास्त्वयैव रहितं यदा । श्रीकृष्णं च तदा तेऽपि त्वयैव सहितं परम् ॥ ५४॥ त्वं च श्रीः त्वं च सम्पत्तिस्त्वमाधारस्वरूपिणी । त्वं स्त्री पुमानहं राधे इति वेदेषु निर्णयः ॥ ५५॥ सर्वशक्तिस्वरूपासि सर्वरूपोऽहमक्षरः । ममाङ्गजस्वरूपा त्वं मूलप्रकृतिरीश्वरी ॥ ५६॥ शक्त्या बुध्या च ज्ञानेन मया तुल्या वरानने । रा शब्दं कुर्वतस्त्रस्तो ददामि भक्तिमुत्तमाम् ॥ ५७॥ धाशब्दं कुर्वतः पश्चाद्यामि श्रवणलोभतः । तिष्ठ भद्रे क्षणं भद्रं करिष्यामि तव प्रिये ॥ ५८॥ त्वन्मनोरथपूर्णस्य स्वयं कालस्समागतः । एतस्मिन्नन्तरे ब्रह्माऽऽजगाम पुरतो हरेः ॥ ५९॥ मालाकमण्डलुधरः ईषत्स्मेरचतुर्मुखः । गत्वा ननाम तं कृष्णं प्रतुष्टाव यथागमम् ॥ ६०॥ साश्रुनेत्रः पुलकितः भक्तिनम्रात्मकन्धरः । स्तुत्वा नत्वा जगद्धाता जगाम हरिसन्निधिम् ॥ ६१॥ पुनर्नत्वा प्रभुं भक्त्या जगाम राधिकान्तिकम् । मूर्ध्ना ननाम भक्त्या च मातुस्तच्चरणाम्बुजे ॥ ६२॥ चकार सम्भ्रमेणैव जटाजालेन वेष्टितम् । कमण्डलुजलेनैव शीघ्रं प्रक्षालितं मुदा ॥ ६३॥ यथागमं प्रतुष्टाव पुटाञ्जलियुतः पुनः । हे मातस्त्वत्पदाम्भोजं दृष्टं कृष्णप्रसादतः ॥ ६४॥ सुदुर्लभं च सर्वेषां भारते च विशेषतः । षष्टिवर्षसहस्राणि तपस्तप्तं मया पुरा ॥ ६५॥ भास्करे पुष्करे तीर्थे कृष्णस्य परमात्मनः । आजगाम वरं दातुं वरदाता हरिः स्वयम् ॥ ६६॥ वरं वृणीष्व इत्युक्ते स्वाभीष्टं च वृतं मुदा । राधिकाचरणाम्भोजं सर्वेषामपि दुर्लभम् ॥ ६७॥ हे गुणातीत मे शीघ्रमधुनैव प्रदर्शय । मयेत्युक्तो हरिरयमुवाच मां तपस्विनम् ॥ ६८॥ दर्शयिष्यामि काले च वत्सेदानीं क्षमेति च । न हीश्वराज्ञा विफला तेन दृष्टं पदाम्बुजम् ॥ ६९॥ सर्वेषां वाञ्छितं मातः गोलोके भारतेऽधुना । सर्वा देव्यः प्रकृत्यंशाः जन्याः प्राकृतिका धुवम् ॥ ७०॥ त्वं कृष्णाङ्गार्धसम्भूता तुल्या कृष्णेन सर्वतः । श्रीकृष्णस्त्वन्मयं राधा त्वं राधा वा हरिः स्वयम् ॥ ७१॥ न हि वेदेषु मे दृष्टः इति केन निरूपितम् । ब्रह्माण्डाद्बहिरूर्ध्वं च गोलोकोऽस्ति यथाम्बिके ॥ ७२॥ वैकुण्ठश्चाप्यजन्यश्च त्वमजन्या तथाम्बिके । यथा समस्तब्रह्माण्डे श्रीकृष्णांशांशजीविनः ॥ ७३॥ तथा शक्तिस्वरूपा त्वं तेषु सर्वेषु संस्थिता । पुरुषाश्च हरेरंशाः त्वदंशा निखिलाः स्त्रियः ॥ ७४॥ आत्मना देहरूपा त्वमस्याधारस्त्वमेव हि । अस्यानुप्राणैस्त्वं मातस्त्वत्प्राणैरयमीश्वरः ॥ ७५॥ किमहो निर्मितः केन हेतुना शिल्पकारिणा । नित्योऽयं च तथा कृष्णस्त्वं च नित्या तथाम्बिके ॥ ७६॥ अस्यांशा त्वं त्वदंशो वाप्ययं केन निरूपितः । अहं विधाता जगतां देवानां जनकः स्वयम् ॥ ७७॥ तं पठित्वा गुरुमुखात् भवन्त्येव बुधा जनाः । गुणानां वास्तवानां ते शतांशं वक्तुमक्षमः ॥ ७८॥ वेदो वा पण्डितो वान्यः को वा त्वां स्तोतुमीश्वरः । स्तवानां जनकं ज्ञानं बुद्धिर्ज्ञानाम्बिका सदा ॥ ७९॥ त्वं बुद्धेर्जननी मातः को वा त्वां स्तोतुमीश्वरः । यद्वस्तु दृष्टं सर्वेषां तद्धि वक्तुं बुधः क्षमः ॥ ८०॥ यददृष्टाश्रुतं वस्तु तन्निर्वक्तुं च कः क्षमः । अहं महेशोऽनन्तश्च स्तोतुं त्वां कोऽपि न क्षमः ॥ ८१॥ सरस्वती च वेदाश्च क्षमः कः स्तोतुमीश्वरः । यथागमं यथोक्तं च न मां निन्दितुमहसि ॥ ८२॥ ईश्वराणामीश्वरस्य योग्यायोग्ये समा कृपा । जनस्य प्रतिपाल्यस्य क्षणे दोषः क्षणे गुणः ॥ ८३॥ जननी जनको यो वा सर्वं क्षमति स्नेहतः । इत्युक्त्वा जगतां धाता तस्थौ च पुरतस्तयोः ॥ ८४॥ प्राणम्य चरणाम्भोजं सर्वेषां वन्द्यमीप्सितम् । ब्रह्मणः स्तवनं श्रुत्वा तमुवाच ह राधिका ॥ ८५॥ वरं वृणु विधातस्त्वं यत्ते मनसि वर्तते । राधिकावचनं श्रत्वा तामुवाच जगद्विधिः ॥ ८६॥ वरं च युवयोः पादपद्मभक्तिं च देहि मे । इत्युक्ते विधिना राधा तूर्णमोमित्युवाच ह ॥ ८७॥ पुनर्ननाम तां भक्त्या विधाता जगतां पतिः । तदा ब्रह्मा तयोर्मध्ये प्रज्वाल्य च हुताशनम् ॥ ८८॥ हरिं संस्मृत्य हवनं चकार विधिना विधिः । उत्थाय शयनात्कृष्णः उवास वह्निसन्निधौ ॥ ८९॥ ब्रह्मणोक्तेन विधिना चकार हवनं स्वयम् । प्रणमय्य पुनः कृष्णं राधां तां जनकः स्वयम् ॥ ९०॥ कौतुकं कारयामास सप्तधा च प्रदक्षिणम् । पुनः प्रदक्षिणां राधां कारयित्वा हुताशनम् ॥ ९१॥ प्रणमय्य ततः कृष्णं वासयामास तं विधिः । तस्या हस्तं च श्रीकृष्णं ग्राहयामास तं विधिः ॥ ९२॥ वेदोक्तसप्तमन्त्रांश्च पाठयामास माधवम् । संस्थाप्य राधिकाहस्तं हरेर्वक्षसि वेदवित् ॥ ९३॥ श्रीकृष्णहस्तं राधायाः पृष्ठदेशे प्रजाप्रतिः । स्थापयामास मन्त्रांस्त्रीन् पाठयामास राधिकाम् ॥ ९४॥ पारिजातप्रसुनानां मालां जानुविलम्बिताम् । श्रीकृष्णस्य गले ब्रह्मा राधाद्धारा ददौ मुदा ॥ ९५॥ प्रणमय्य पुनः कृष्णं राधां च कमलोद्भवः । राधागले हरिद्वारा ददौ मालां मनोहराम् ॥ ९६॥ पुनश्च वासयामास श्रीकृष्णं कमलोद्भवः । तद्वामपार्श्वे राधां च सस्मितां कृष्णचेतसम् ॥ ९७॥ पुटाञ्जलिं कारयित्वा माधवं राधिकां विधिः । पाठयामास वेदोक्तान् पञ्च मन्त्रांश्च नारद ॥ ९८॥ प्रणमय्य पुनः कृष्णं समर्प्य राधिकां विधिः । कन्यकां च यथा तातो भक्त्या तस्थौ हरेः पुरः ॥ ९९॥ एतस्मिन्नन्तरे देवाः सानन्दपुलकोद्गमाः । दुन्दुभिं वादयामासुः चानकं मुरजादिकम् ॥ १००॥ पारिजातप्रसूनानां पुष्पवृष्टिर्बभुव ह । जगुर्गन्धर्वप्रवराः ननृतुश्चाप्सरोगणाः ॥ १०१॥ इति ब्रह्मवैवर्तपुराणात् सण्ग्रहीतं श्रीराधाकल्याणं समाप्तम् ॥ From kalyANamanjarI, dvitIya bhAgaH rAdhAkalyaNam saNgrahItaM rA. dattagopAlakRRiShNaH, svarNaprakAshanam Proofread by PSA Easwaran psaeaswaran at gmail.com

% Text title            : rAdhAkalyANam
% File name             : rAdhAkalyANam.itx
% itxtitle              : rAdhAkalyANam
% engtitle              : rAdhAkalyANam
% Category              : devii, radha
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : radha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : PSA Easwaran
% Description/comments  : Datta Gopala Krishna, Pammal, Chennai 9442252443
% Source                : kalyANamanjarI dvitIya bhAgaH rAdhAkalyaNam
% Acknowledge-Permission: Svarna Prakashanam
% Latest update         : May 14, 2017
% Send corrections to   : sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP