राधापूजाविधिवर्णनम्
श्वेतचम्पकवर्णाभां कोटिचन्द्रसमप्रभाम् ।
शरत्पार्वणचन्द्रास्यां शरत्पङ्कजलोचनाम् ।
सुश्रोणीं सुनितम्बां च पक्वबिम्बाधरां वराम् ॥ १०॥
मुक्तापङ्क्तिप्रतिनिधिदन्तपङ्क्तिमनोहराम् ।
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ।
वह्निशुद्धांशुकाधानां रत्नमालाविभूषिताम् ॥ ११॥
रत्नकेयूरवलयां रत्नमञ्जीररञ्जिताम् ।
रत्नकुण्डलयुग्मेन विचित्रेण विराजिताम् ।
सूर्यप्रभाप्रतिकृतिगण्डस्थलविराजिताम् ॥ १२॥
अमूल्यरत्नखचितग्रैवेयकविभूषिताम् ।
सद्रत्नसारखचितकिरीटमुकुटोज्ज्वलाम् ।
रत्नाङ्गुलीयसंयुक्तां रत्नपाशकशोभिताम् ॥ १३॥
बिभ्रतीं कबरीभारं मालतीमाल्यशोभिताम् ।
रूपाधिष्ठातृदेवीं च मत्तवारणगामिनीम् ॥ १४॥
गोपीभिः सुप्रियाभिश्च सेवितां श्वेतचामरैः ।
कस्तूरीबिन्दुभिः सार्द्धमधश्चन्दनबिन्दुना ॥ १५॥
सिन्दूरबिन्दुना चारुसीमन्ताधःस्थलोज्ज्वलाम् ।
नित्यं सुपूजितां भक्त्या कृष्णेन परमात्मना ॥ १६॥
कृष्णसौभाग्यसंयुक्तां कृष्णप्राणाधिकां वराम् ।
कृष्णप्राणाधिदेवीं च निर्गुणां च परात्पराम् ॥ १७॥
महाविष्णुविधात्रीं च प्रदात्रीं सर्वसम्पदाम् ।
कृष्णभक्तिप्रदां शान्तां मूलप्रकृतिमीश्वरीम् ॥ १८॥
वैष्णवीं विष्णुमायां च कृष्णप्रेममयीं शुभाम् ।
रासमण्डलमध्यस्थां रत्नसिंहासनस्थिताम् ।
रासे रासेश्वरयुतां राधां रासेश्वरीं भजे ॥ १९॥
ध्यात्वा पुष्पं मूर्ध्नि दत्त्वा पुनर्ध्यायेज्जगत्प्रभुम् ।
दद्यात्पुष्पं पुनर्ध्यात्वा चोपचाराणि षोडश ॥ २०॥
आसनं वसनं पाद्यमर्घ्यं गन्धानुलेपनम् ।
धूपं दीपं सुपुष्पं च स्नानीयं रत्नभूषणम् ॥ २१॥
नानाप्रकारनैवेद्यं ताम्बूलं वासितं जलम् ।
मधुपर्कं रत्नतल्पमुपचाराणि षोडश ॥ २२॥
इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे
पञ्चपञ्चाशत्तमाध्यायान्तर्गतं राधापूजाविधिवर्णनं
समाप्तम् ।
ब्रह्मवैवर्तपुराण । प्रकृतिखण्ड । अध्याय ५५/१०-२२॥
brahmavaivartapurANa . prakRRitikhaNDa . adhyAya 55/10-22..
Proofread by PSA Easwaran