राधाविभूतिस्तोत्रम्

राधाविभूतिस्तोत्रम्

ज्योतीरूपा निराकारा भक्तानुग्रहविग्रहा । भक्तानां रुचिवैचित्र्यान्नानामूर्त्तीश्च बिभ्रती ॥ ७८॥ महालक्ष्मीश्च वैकुण्ठे भारती च सतां प्रसूः । पुण्यक्षेत्रे भारते च सती त्वं पार्वती तथा ॥ ७९॥ तुलसी पुण्यरूपा च गङ्गा भुवनपावनी । ब्रह्मलोके च सावित्री कलया त्वं वसुन्धरा ॥ ८०॥ गोलोके राधिका त्वं च सर्वगोपालकेश्वरी । त्वया विनाऽहं निर्जीवो ह्यशक्तः सर्व कर्मसु ॥ ८१॥ शिवः शक्तस्त्वया शक्त्या शवाकारस्त्वया विना । वेदकर्ता स्वयं ब्रह्मा वेदमात्रा त्वया सह ॥ ८२॥ नारायणस्त्वया लक्ष्म्या जगत्पाता जगत्पतिः । फलं ददाति यज्ञश्च त्वया दक्षिणया सह ॥ ८३॥ बिभर्त्ति सृष्टिं शेषश्च त्वां कृत्वा मस्तके भुवम् । बिभर्त्ति गङ्गारूपां त्वां मूर्ध्नि गङ्गाधरः शिवः ॥ ८४॥ शक्तिमच्च जगत्सर्वं शवरूपं त्वया विना । वक्ता सर्वस्त्वया वाण्या सूतो मूकस्त्वया विना ॥ ८९॥ यथा मृदा घटं कर्त्तुं कुलालः शक्तिमान्सदा । सृष्टिं स्रष्टुं तथाऽहं च प्रकृत्या च त्वया सह ॥ ८६॥ त्वया विना जडश्चाहं सर्वत्र च न शक्तिमान् । सर्वशक्तिस्वरूपा त्वं त्वमागच्छ ममान्तिकम् ॥ ८७॥ वह्नौ त्वं दाहिकाशक्तिर्नाग्निश्शक्तस्त्वया विना । शोभास्वरूपा चन्द्रे त्वं त्वां विना न स सुन्दरः ॥ ८८॥ प्रभारूपा हि सूर्ये त्वं त्वां विना न स भानुमान् । न कामः कामिनीबन्धुस्त्वया रत्या विना प्रिये ॥ ८९॥ इत्येवं स्तवनं कृत्वा तां सम्प्राप जगत्प्रभुः । देवा बभूवुः सश्रीकाः सभार्याः शक्तिसंयुताः ॥ ९०॥ सस्त्रीकं च जगत्सर्वं समभूच्छैलकन्यके । गोपीपूर्णश्च गोलोको ह्यभवत्तत्प्रसादतः ॥ ९१॥ राजा जगाम गोलोकमिति स्तुत्वा हरिप्रियाम् । श्रीकृष्णेन कृतं स्तोत्रं राधाया यः पठेन्नरः ॥ ९२॥ कृष्णभक्तिं च तद्दास्यं सं प्राप्नोति न संशयः । स्त्रीविच्छेदे यः श‍ृणोति मासमेकमिदं शुचिः ॥ ९३॥ अचिराल्लभते भार्य्यां सुशीलां सुन्दरीं सतीम् । भार्याहीनो भाग्यहीनो वर्षमेकं श‍ृणोति यः ॥ ९४॥ अचिराल्लभते भार्य्यां सुशीलां सुन्दरीं सतीम् । पुरा मया च त्वं प्राप्ता स्तोत्रेणानेन पार्वति ॥ ९५॥ मृतायां दक्षकन्यायामाज्ञया परमात्मनः । स्तोत्रेणानेन सम्प्राप्ता सावित्री ब्रह्मणा पुरा ॥ ९६॥ पुरा दुर्वाससः शापान्निश्श्रीके देवतागणे । स्तोत्रेणानेन देवैस्तैः सम्प्राप्ता श्रीः सुदुर्लभा ॥ ९७॥ श‍ृणोति वर्षमेकं च पुत्रार्थी लभते सुतम् । महाव्याधी रोगमुक्तो भवेत्स्तोत्रप्रसादतः ॥ ९८॥ कार्त्तिकीपूर्णिमायां तु तां सम्पूज्य पठेत्तु यः । अचलां श्रियमाप्नोति राजसूयफलं लभेत् ॥ ९९॥ नारी श‍ृणोति चेत्स्तोत्रं स्वामिसौभाग्यसंयुता । भक्त्या श‍ृणोति यः स्तोत्रं बन्धनान्मुच्यते ध्रुवम् ॥ १००॥ नित्यं पठति यो भक्त्या राधां सम्पूज्य भक्तितः । स प्रयाति च गोलोकं निर्मुक्तो भवबन्धनात् ॥ १०१॥ इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे पञ्चपञ्चाशत्तमाध्यायान्तर्गतं राधाविभूतिस्तोत्रं समाप्तम् । ब्रह्मवैवर्तपुराण । प्रकृतिखण्ड । अध्याय ५५/७८-९२॥ brahmavaivartapurANa . prakRRitikhaNDa . adhyAya 55/78-92.. Proofread by PSA Easwaran
% Text title            : Radhavibhuti Stotram
% File name             : rAdhAvibhUtistotram.itx
% itxtitle              : rAdhAvibhUtistotram (brahmavaivartapurANAntargatam)
% engtitle              : rAdhAvibhUtistotram
% Category              : devii, devI, brahmavaivartapurANa, stotra, rAdhA
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmavaivartapurANa | prakRRitikhaNDa | adhyAya 55/78-92||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, English 1, 2)
% Latest update         : March 5, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org