श्रीरुद्रचण्डीस्तोत्रम्

श्रीरुद्रचण्डीस्तोत्रम्

ॐ श्रीगणेशाय नमः । ॐ श्री गुरवे नमः । ॐ नमः शिवाय । ॐ अस्य श्रीरुद्रचण्डीस्तोत्रमन्त्रस्य श्रीरुद्रऋषिः, अनुष्टुप्छन्दः, श्रीरुद्रचण्डी देवता, ऐं बीजं, ह्रीं शक्तिः, क्लीं कीलकं, श्रीरुद्रचण्डीदेवताप्रित्यर्थं श्रीरुद्रचण्डीस्तोत्रपाठे विनियोगः ॥ ऋष्यादिन्यासः । श्रीरुद्र-ऋषये नमः शिरसि । अनुष्टुप्छन्दसे नमः मुखे । श्री रुद्रचण्डीदेवतायै नमः हृदि । ऐं बीजाय नमः गुह्ये । ह्रीं शक्तये नमः नाभौ । क्लीं कीलकाय नमः पादयोः । श्रीरुद्रचण्डीप्रीत्यर्थं श्रीरुद्रचण्डीस्तोत्रपाठे विनियोगाय नमः सर्वाङ्गे ॥ करन्यासः । ॐ ह्रां अङ्गुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः । ॐ ह्रूं मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः । ॐ ह्रौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः । ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा । ॐ ह्रूं शिखायै वषट् । ॐ ह्रैं कवचाय हुं । ॐ ह्रौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् ॥ ध्यानम् । ॐ रक्तवर्णां महादेवी लसच्चन्द्रविभूषितां पट्टवस्त्रपरीधानां स्वर्णालङ्कारभूषितम् । वराभयकरां देवीं मुण्डमालाविभूषितां कोटिचन्द्रसमासीनां वदनैः शोभितां पराम् ॥ करालवदनां देवीं किञ्चिजिह्वां च लोलितां स्वर्णवर्णमहादेवहृदयोपरिसंस्थिताम् । अक्षमालाधरां देवीं जपकर्मसमाहितां वाञ्छितार्थप्रदायिनीं रुद्रचण्डीमहं भजे ॥ मानसपूजनम् - ॐ लं पृथ्वीतत्त्वात्मकं गन्धं समर्पयामि नमः । ॐ हं आकाशतत्त्वात्मकं पुष्पं समर्पयामि नमः । ॐ यं वायुतत्त्वात्मकं धूपं समर्पयामि नमः । ॐ रं अग्नितत्त्वात्मकं दीपं समर्पयामि नमः । ॐ वं जलतत्त्वात्मकं नैवेद्यं समर्पयामि नमः । ॐ सं सर्वतत्त्वात्मकं ताम्पूलं समर्पयामि नमः । रुद्रचण्डी गायत्री - ॐ ह्रीं रुद्रचण्डिकायै विद्महे । पूर्णफलप्रदायिनै धीमहि । तन्नो देवी प्रचोदयात् । मूल मन्त्रः - ॐ ऐं ह्रीं ॐ क्रिं ह्लीं क्लीं ह्रीं ह्रीं । (नवाक्षरी) ॐ रुद्रचण्डि नमस्तुभ्यं चण्डि वैरिविनाशिनि । सर्वपापहरे देवि सर्वदा वरदा भव ॥) श्रीरुद्र उवाच । ॐ चण्डिकां हृदये न्यस्य शरणं यः करोत्यपि । अनन्तफलमाप्नोति देवि चण्डीप्रसादतः ॥ १॥ रविवारे यदा चण्डीं पठेदागमसम्मताम् । नवावृत्तिफलं तस्य जायते नात्र संशयः ॥ २॥ सोमवारे यदा चण्डीं पठेद्यस्तु समाहितः । सहस्रावृत्तिपाठस्य फलं जानीहि सुव्रते ॥ ३॥ कुजवारे जगद्धात्रि पठेदागमसम्मताम् । शतावृत्तिफलं तस्य बुधे लक्षफलं ध्रुवम् ॥ ४॥ गुरौ वारे महामाये लक्षयुग्मफलं ध्रुवम् । शुक्रे देवि जगद्धात्रि चण्डीपाठेन शाङ्करी ॥ ५॥ ज्ञेयं तुल्यफलं दुर्गे पठेद्यदि समाहितः । शनिवारे जगद्धात्रि कोट्यावृत्तिफलं ध्रुवम् ॥ ६॥ अत एव जगद्धात्रि (महेशानि) य्श्च चण्डीं समभ्यसेत् । स धन्यश्च कृतार्थश्च राजराजाधिपो भवेत् ॥ ७॥ आरोग्यं विजयं सौख्यं वस्त्ररत्नप्रवालकम् । पठनाच्छ्रवणाच्चैव जायते नात्र संशयः ॥ ८॥ धनं धान्यं प्रवालं च वस्त्रं रत्नविभूषितम् । चण्डीश्रवणमात्रेण कुर्यात्सर्वं महेश्वरी ॥ ९॥ मूलपाठः - ॐ घोरचण्डी महाचण्डी चण्डमुण्डविखण्डिनी । चतुर्वक्त्रा महावीर्या महादेवविभूषिता ॥ १॥ रक्तदन्ता वरारोहा महिषासुरमर्दिनी । तारिणी जननी दुर्गा चण्डिका चण्डविक्रमा ॥ २॥ गुह्यकाली जगद्धात्री चण्डी च यामलोद्भवा । श्मशानवासिनी देवी घोरचण्डी भयानका ॥ ३॥ शिवा घोरा रुद्रचण्डी महेशी गणभूषिता । जाह्नवी परमा कृष्णा महात्रिपुरसुन्दरी ॥ ४॥ श्रीविद्या परमाविद्या चण्डिका वैरिमर्दिनी । दुर्गा दुर्गशिवा घोरा चण्डहस्ता प्रचण्डिका ॥ ५॥ माहेशी बगला देवी भैरवी चण्डविक्रमा । प्रमथैर्भूषिता कृष्णा चामुण्डा मुण्डमर्दिनी ॥ ६॥ रणखण्डा चन्द्रघण्टा रणे रामवरप्रदा । मारणी भद्रकाली च शिवा घोरभयानका ॥ ७॥ विष्णुप्रिया महामाया नन्दगोपगृहोद्भवा । मङ्गला जननी चण्डी महाक्रुद्धा भयङ्करी ॥ ८॥ विमला भैरवी निद्रा जातिर्बुद्धिः स्मृतिः क्षमा (रूपा मनोहरा) । तृष्णा क्षुधा तथा छाया शक्तिर्मायामनोहरा ॥ ९॥ तस्यै देव्यै नमो या वै सर्वरूपेण संस्थिता । प्राणप्रिया जातिमाया निद्रारूपा महेश्वरी ॥ १०॥ या देवी सर्वभूतेषु सर्वरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ११। महाचण्डी शिवा घोरा भयानका वरप्रदा (महाभीमा भयानका) । काञ्चनी कमला विद्या महारोगविमर्दिनी ॥ १२॥ गुह्यचण्डी घोरचण्डी चण्डी त्रैलोक्यदुर्लभा । देवानां दुर्लभा चण्डी रुद्रयामलसम्मता ॥ १३॥ अप्रकाश्या महादेवी प्रिया रावणमर्दिनी । मत्स्यप्रिया मांसरता मत्स्यमांसबलिप्रिया ॥ १४॥ मधुमत्ता (मदमत्ता) महानृत्या (महानित्या) भूतप्रमथसङ्गता । महाभागा महारामा धान्यदा धनरत्नदा ॥ १५॥ वस्त्रदा मणिराज्यादिप्रजाविषयवर्धिका(सदाविषयवर्धिनी) । मुक्तिदा सर्वदा चण्डी महापत्तिविनाशिनी ॥ १६॥ रुद्रध्येया रुद्ररूपा रुद्राणी रुद्रवल्लभा । रुद्रशक्ती रुद्ररूपा रुद्रभूषा(रुद्रानन)समन्विता ॥ १७॥ शिवचण्डी महाचण्डी शिवप्रेतगणान्विता । भैरवी परमा विद्या महाविद्या च षोडशी ॥ १८॥ सुन्दरी परमा पूज्या महात्रिपुरसुन्दरी । गुह्यकाली भद्रकाली महाकालविमर्दिनी ॥ १९॥ कृष्णा कृष्ण(तृष्णा)स्वरूपा सा जनसम्मोह(जगन्मोहन)कारिणी । अतिमात्रा महालज्जा सर्वमङ्गलदायिका(दायिनी) ॥ २०॥ घोरतन्द्रा भीमरूपा भीमा देवी मनोहरा । मङ्गला बगला सिद्धिदायिनी सर्वदा शिवा ॥ २१॥ स्मृतिरूपा कीर्तिरूपा योगीन्द्रैरपि सेविता । विष्णुप्रिया शक्रपूज्या योगीन्द्रैरपि सेविता ॥ २२॥ भयानका महादेवी भयदुःखविनाशिनी । चण्डिका शक्तिहस्ता च कौमारी सर्वकामदा ॥ २३॥ वाराही च वराहास्या इन्द्राणी शक्रपूजिता । माहेश्वरी महेशास्या महेशगणभूषिता ॥ २४॥ चामुण्डा नारसिंही च नृसिंही शत्रुनाहिनी(नृसिंहरिपुमर्दिनी) । सर्वशत्रुप्रशमनी सर्वारोग्यप्रदायिनी ॥ २५॥ फलश्रुतिः - इमां चण्डी जगद्धात्रीं ब्राह्मणस्तु सदा पठेत् । नान्यस्तु पाठको देवि(सम्पठेद्देवि) पठने ब्रह्महा भवेत् ॥ २६॥ नारदः पाठकश्चैव कैलासे रत्नभूषिते । वैकुण्ठे ब्रह्मलोके च देवराजपुरे शिवे ॥ २७॥ यः श‍ृणोति धरायां च मुच्यते सर्वपातकैः । ब्रह्महत्या च गोहत्या स्त्रीवधोद्भवपातकम् ॥ २८॥ श्वश्रूगमनपापं च कन्यागमनपातकम् । तत्सर्वं पातकं दुर्गे मातुर्गमनपातकम् ॥ २९॥ सुतस्त्रीगमनं चैव यद्यत्पापं प्रजायते । परदारकृतं पापं तत् क्षणादेव नश्यति ॥ ३०॥ जन्मजन्मान्तरात्पापाद्गुरुहत्यादिपातकात् । मुच्यते मुच्यते देवि गुरुपत्नीषुसङ्गमात् ॥ ३१॥ मनसा वचसा पापं यत्पापं ब्रह्महिंसने । मिथ्याजन्यं च यत्पापं तत्पापं नश्यति क्षणात् ॥ ३२॥ श्रवणं पठनं चैव यः करोति धरातले । स धन्यश्च कृतार्थश्च राजा राजाधिपो भवेत् ॥ ३३॥ यः करिष्यत्ववज्ञाय च रुद्रयामलचण्डिकाम् । पापैरेतैः समायुक्तो रौरवं नरकं व्रजेत् ॥ ३४॥ अश्रद्धां ये (अश्रद्धया )च कुर्वन्ति ते च पातकिनो नराः । रौरवं नरकं कुण्डं कृमिकुण्डं मलस्य वै ॥ ३५॥ शुक्रस्य कुण्डं स्त्रीकुण्डं यान्ति ते ह्यचिरेण वै । ततः पितृगणैः सार्धं विष्ठायां जायते कृमिः ॥ ३६॥ श‍ृणु देवि महामाये चण्डीपाठं करोत्यपि (करोति यः) । गयायां (गङ्गायां) चैव यत्पुण्यं काश्यां विश्वेश्वराग्रतः ॥ ३७॥ प्रयागे मुण्डने चैव हरिद्वारे हरेर्गृहे । तुल्यपुण्यं (तस्य पुण्यं) भवेद्देवि सत्यं दुर्गे रमे शिवे ॥ ३८॥ त्रिगयायां त्रिकाश्यां वै यच्च पुण्यं समुत्थितम् । तच्च पुण्यं तच्च पुण्यं तच्च पुण्यं न संशयः ॥ ३९॥ भवानी च भवानी च भवानीत्युच्यते बुधैः । भकारश्च भकारश्च(भकारस्तु भकारस्तु) भकारः केवलः शिवः ॥ ४०॥ वाणी चैव जगद्धात्री वरारोहे भकारकः । प्रेतवद्देवि विश्वेशि भकारः प्रेतवत्सदा ॥ ४१॥ आरोग्यं च जयं दुःखनाशनं (पुण्यं नातः) सुखवर्धनम्(सुखविवर्धनम्) । धनं पुत्रं जरारोग्यं कुष्ठं गलितनाशनम् ॥ ४२॥ अर्धाङ्गरोगान्मुच्येत दद्रुरोगाच्च पार्वति । सत्यं सत्यं जगद्धात्रि महामाये शिवे शिवे ॥ ४३॥ चण्डे चण्डि महाघोरे(महारावे) चण्डिके(चण्डिका) व्याधिनाशिनि । मन्दे दिने महेशानि विशेषफलदायिनी ॥ ४४॥ सर्वदुःखादिमुच्येत भक्त्या चण्डीं श‍ृणोति यः । ब्राह्मणो हितकारी च पठेन्नियतमानसः ॥ ४५॥ मङ्गलं मङ्गलं ज्ञेयं मङ्गलं जयमङ्गलम् । भवेद्धि पुत्रपौत्रैश्च कन्यादासादिभिर्युतः ॥ ४६॥ तत्त्वज्ञान्ं च निधने(ज्ञानेन निधन)काले निर्वाणमाप्नुयात् । मणिदानोद्भवं पुण्यं तुलाहिरण्यके तथा ॥ ४७॥ चण्डीस्मरण(श्रवण)मात्रेण पठनाद्ब्राह्मणोऽपि सः(च) । निर्वाणमेति देवेशि महास्वस्त्ययन्ं हि तत्(महास्वस्त्ययने हितः) ॥ ४८॥ सर्वत्र विजयं याति श्रवणाद्ग्रहदोषतः । मुच्यते च जगद्धात्रि राजराजाधिपो भवेत् ॥ ४९॥ इमां हि चण्डीं पठते मनुष्यः श‍ृणोति भक्त्या परमां शिवस्य । चण्डीं धरण्यामतिपुण्ययुक्तां भक्त्यावगच्छेद् वरमन्दिरं शुभं (स वै न गच्छेत्परमन्दिरं किल) ॥ ५०॥ यो यन्मनोरथं दुर्गे तनोति धरणीतले । रुद्रचण्डीप्रसादेन किं न सिद्ध्यति भूतले ॥ ५१॥ इति सत्यं महादेवि सत्यं सत्यं वदाम्यहम् । नैव दुःखभयं किञ्चित् पाठात् श्रवणादुअतः ॥ ५२॥ गृह्यमेकं प्रवक्ष्यामि नैव जानन्ति केचन । स्मृतिभ्रंशाद् वरारोहे त्वैवापि न जायते ॥ ५३॥ इति सत्यं महेशानि सत्यं सत्यं वदाम्यहम् । नैव दुःखं नैव शोकं नैव रोगभयं तथा ॥ ५४॥ आरोग्यं मङ्गलं नित्यं करोति शुभमङ्गलम् । महेशानि वरारोहे ब्रवीमि सत्यमुत्तमम् (सदिदं वचः) ॥ ५५॥ अभक्ताय न दातव्यं मम प्राणाधिकं शुभम् । मम(तव) भक्ताय शान्ताय शिवविष्णुप्रियाय च ॥ ५६॥ दद्यात्कदाचिद्देवेशि सत्यं सत्यं महेश्वरि । अनन्तफलमाप्नोति शिवचण्डीप्रसादतः ॥ ५७॥ अश्वमेधं वाजपेयं राजसूयशतानि च । तुष्टाश्च पितरो देवास्तथा च सर्वदेवताः ॥ ५८॥ दुर्गायं मृन्मयीज्ञानं रुद्रयामलपुस्तकम् । मन्त्रमक्षरसंज्ञानं करोत्यपि (करोति हि) नराधमः ॥ ५९॥ अत एव महामाये (महेशानि) किं वक्ष्ये तव सन्निधौ । लम्बोदराधिकश्चण्डी पठनाच्छ्रवणात्तु यः ॥ ६०॥ तत् त्वमसीति वाक्येन मुक्तिमाप्नोति दुर्लभाम् । तथास्याः पठनाद् देवि संसृतिः स्यात् सुदुर्लभा ॥ ६१॥ सत्यं सत्यं महेशानि ! पुनः सत्यं मयोदितम् । कपिलाशतदानस्य फलं यत् प्रतिवासरम् ॥ ६२॥ तत्फलम् लभते नित्यं रुद्रचण्डी प्रसादतः । अन्यथा नैव सम्भाव्यं सत्यं सत्यं वदामि ते ॥ ६३॥ ॥ इति श्रीरुद्रयामले हरगौरीसंवादे श्रीरुद्रचण्डीस्तोत्रं सम्पूर्णम् ॥
% Text title            : Rudrachandi Stotram
% File name             : rudrachaNDIstotram.itx
% itxtitle              : rudrachaNDIstotram (rudrayAmalAntargataM)
% engtitle              : rudrachaNDIstotram
% Category              : devii, devI
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Description/comments  : Not readily available in the Rudrayamala uttaratantram in print
% Indexextra            : (Scans 1, 2, 3, 4)
% Acknowledge-Permission: Courtesy V Prakash https://www.youtube.com/@e2LearnByVRakesh
% Latest update         : September 27, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org