रुद्रकृता चामुण्डास्तुतिः
रुद्र उवाच ।
जयस्व देवि चामुण्डे जय भूतापहारिणि ।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते ॥ ४५॥
विश्वमूर्त्ते शुभे शुद्धे विरूपाक्षि त्रिलोचने ।
भीमरूपे शिवे विद्ये महामाये महोदये ॥ ४६॥
मनोजवे जये जृम्भे भीमाक्षि क्षुभितक्षये ।
महामारि विचित्राङ्गे गेयनृत्यप्रिये शुभे ॥ ४७॥
विकराले महाकालि कालिके पापहारिणि ।
पाशहस्ते दण्डहस्ते भीमरूपे भयानके ॥ ४८॥
चामुण्डे ज्वलमानास्ये तीक्ष्णदंष्ट्रे महाबले ।
शवयानस्थिते देवि प्रेतासनगते शिवे ॥ ४९॥
भीमाक्षि भीषणे देवि सर्वभूतभयङ्करि ।
कराले विकराले च महाकाले करालिनि ।
काली कराली विक्रान्ता कालरात्रि नमोऽस्तु ते ॥ ५०॥
विकरालमुखी देवि ज्वालामुखि नमोऽस्तु ते ।
सर्वसत्त्वहिते देवि सर्वदेवि नमोऽस्तु ते ॥ ५१॥
इति स्तुता तदा देवी रुद्रेण परमेष्ठिना ।
तुतोष परमा देवी वाक्यं चेदमुवाच ह ।
वरं वृणीष्व देवेश यत् ते मनसि वर्त्तते ॥ ५२॥
रुद्र उवाच ।
स्तोत्रेणानेन ये देवि त्वां स्तुवन्ति वरानने ।
तेषां त्वं वरदा देवि भव सर्वगता सती ॥ ५३॥
यश्चेमं त्रिप्रकारं तु देवि भक्त्या समन्वितः ।
स पुत्रपौत्रपशुमान् समृद्धिमुपगच्छति ॥ ५४॥
यश्चेमं श्रृणुयाद्भक्त्या त्रिशक्त्यास्तु समुद्भवम् ।
सर्वपापविनिर्मुक्तः पदं गच्छत्यनामयम् ॥ ५५॥
एवं स्तुत्वा भवो देवीं चामुण्डां परमेश्वरीम् ।
क्षणादन्तर्हितो देवस्ते च देवा दिवं ययुः ॥ ५६॥
इति वराहपुराणे पञ्चनवतितमाध्यायान्तर्गता
रुद्रकृता चामुण्डास्तुतिः समाप्ता ।
वराहपुराण । अध्याय ९५/४५-५६॥
varAhapurANa . adhyAya 95/45-56..
There are similar shlokas in kAmAkhyAstotram
as well as
padmapurANa . sR^iShTikhaNDa . adhyAya 1/31. 158-167..
skandapurANa . prabhAsakhaNDa . adhyAya 242/22-25..
Proofread by PSA Easwaran