सीताजन्मोत्सवस्तुतिः
श्रीनारायण उवाच ।
नतोऽस्मि नित्यं जगदीश्वरेश्वरि त्वदङ्घ्रिसन्तानकपुष्पयुग्मकम् ।
चिरं यदाखाद्य रसोऽप्यहं सदा भवामि नित्योदयि दिव्यचेष्टितः ॥ १॥
असौ विधिः सर्गविसर्गयोः क्षमस्तथाहमेतत्परिपालनप्रभुः ।
हरस्तथा संहरणेऽस्य कोविदस्तदेतदाराधनमीशि तावकम् ॥ २॥
अथ तत्रैत्य भगवान् नारायण उदारधीः ।
निजांशिनीं श्रीसहजां तुष्टाव परमेश्वरीम् ॥ ३॥
विभासि नित्यैव च चरित्रधोरणीविचिन्वतां वेदपथेषु वास्तवीम् ।
वितन्वती ब्रह्मशिवादिचिन्तनप्रमोददां नित्यमुदारमानसे ॥ ४॥
अचिन्त्यरूपापि तथा गुणातिगाप्यवाच्यरूपापि गिरामधीश्वरैः ।
विचिन्तनीयासि गुणैर्मनोरमाप्यहो स्वभक्तैर्नितरां प्रगीयसे ॥ ५॥
सङ्ख्यातुमर्हाणि न ते जगन्नुते नामानिरूपाणि च विश्वपाविनि ।
यज्ज्ञानमात्रेण भृशं जनोऽश्नुते त्रिवर्गलभ्याधिकमर्थमुज्ज्वलम् ॥ ६॥
आदिस्त्वमेवासि च मध्यमस्थ वै त्वमेव चान्तस्त्रिदशाधिपाधिये ।
त्वत्तोऽखिलं विश्वमिदं त्वयि स्थितं त्वय्यैव च ब्रह्मणि सम्प्रलीयते ॥ ७॥
त्वमेव लोकेश्वरिभासि सर्वगा त्वमेव चाहं धिषणैकगोचरः ।
त्वमेव वित्तिस्त्वमहम्पदार्थयोः सशब्दशब्दार्थपरिच्छिदाकृतिः ॥ ८॥
यान्येव नामानि खिलस्य वस्तुनस्तान्येव ते सर्वपदार्थरूपिणि ।
न हि त्वदन्यं कलयन्ति कोविदाः शब्देन चार्थेन च भाविताकृतिः ॥ ९॥
उपासनं ते जगदीशि कर्मभिर्ज्ञानेन भक्त्या च विशुद्धरूपया ।
यस्त्वां भवे द्वेष्टि समस्तरूपिणी सर्वं परादादमुतो हि तत्त्वतः ॥ १०॥
अतस्त्वमेवाखिलवत्मसु स्थिता करोषि कल्याणकदम्बकं भवे ।
तेजं सु यद्वत्सकलेषु संस्थितो विभाति भासा रविरेव केवलः ॥ ११॥
माया प्रधानं प्रकृतिस्तथैव चाव्यक्तकल्पेत्यादिपदार्थरूपिणीम् ।
ब्रुवन्ति ये त्वां जगदीशि तेऽबुधा न तत्त्वतस्त्वां किमपाह जानते ॥ १२॥
ब्रह्मेति ये त्वां प्रवदन्ति निर्गुणं तेऽप्यञ्जसा नैव विदन्ति वस्तुतः ।
यतः प्रतिष्ठासि परस्य तस्य चिन्मात्रस्यसच्चित्सुखधर्मधर्मिणि ॥ १३॥
सर्वं खलुत्वय्युपपन्नमञ्जसा गुणांश्च नैर्गुण्यमपि प्रभावितम् ।
यथा घने सैन्धवखण्ड उज्ज्वले बहिस्तथाभ्यन्तरमेकवस्तुता ॥ १४॥
त्वमेव धर्मस्य प्रसरस्य धर्मिणी न भेदतोऽस्ति त्वयि धर्मधर्मिता ।
अथापि चेदस्तु यतोऽखिलात्मके भिदा पदार्थोऽपि न भिद्यते परम् ॥ १५॥
त्वयीदृशेवस्तुनि सच्चिदात्मके विरुद्धभावप्रसरोऽपि नेष्यते ।
अस्त्युष्णता तेजसि वार्यनुष्णता समुच्चितं त्वय्युभयं निरीक्षते ॥ १६॥
ध्वनिश्च वर्णश्च पदं च सुप्तिङौ वाक्यं महावाक्यमथागमोऽखिलः ।
त्वमेव हि व्याससमासरूपतः प्रपञ्च्यमे वाक्प्रसरेण विश्वतः ॥ १७॥
अनादिरेष द्रुम उद्ययौ यतो न मृग्यते मूलममुष्य तत्क्वचित् ।
त्वां तु प्रविज्ञाय विनिश्चितं भवेद्यत्रानिशं सन्दिहते बुधा अपि ॥ १८॥
साक्षात्कदाचित्कुरुषेऽखिलं स्वयं त्वं पूरुषद्वारतया कदाचन ।
निजैच्छयैवेशि कदाचिदन्यथा कदाचिदात्मैव समस्तमाबभौ ॥ १९॥
वितत्य सर्वं च कदाचिदात्मना करोषि मातस्त्वमनुप्रवेशनम् ।
इत्थं प्रपञ्चे रमसे स्वनिर्मिते यतः समस्तो रमणार्थमेव ॥ २०॥
तवैव चेष्टात्मक एष एधते कालः कलाकोटिकदम्बकप्रभुः ।
ये वस्तुमात्रोपरि लेढि त तद्गुणान् स लिह्यते चित्कलया किल त्वया ॥ २१॥
अथ स्वरूपेण चरित्रधोरणीमधिप्रमोदाटवि यद्वितन्वती ।
अत्युद्भुतैः क्रीडसि विश्वमङ्गलैर्गुणैर्महोदारतरैः परात्परैः ॥ २२॥
विजृम्भतेसा करुणात्मता तव स्वभक्तवर्गेषु तदेकजीविषु ।
विचिन्तयेयुः खलु ते किमन्यथाभवापवर्गेच्छ्रुतया विरक्ताः ॥ २३॥
(युग्मं)कालः स्पृशत्येव न ते विचेष्टितं सच्चित्सुखैकात्मतया परात्परम् ।
अतोऽस्य मूर्द्ध्नि स्वपदं निधाय ते क्रीडन्ति सर्वस्वभुजो भवज्जनाः ॥ २४॥
नमामि ते रूपमदभ्रविभ्रमं कर्णावतंसीकृतरत्नमञ्जरि ।
महाच्छनासामाणीशोभिताननं स्फुरत्कपोलालकवल्लिमञ्जुलम् ॥ २५॥
परार्द्धरत्युत्कटरूपसम्पदा विरोचमानाङ्घ्रिनखप्रभाभरम् ।
लीलालसालोलगतिक्रमोद्भवत्रपाविनम्रीकृतराजहंसकम् ॥ २६॥
सकेलिकूजन्मणिनूपुरध्वनिच्छात्री कृतोद्यत्कलहंसनिक्वणं
मञ्जीरिकाधोऽञ्चितहेमकिङ्किणीगणोपधिस्वैरव गुञ्जषट्पदम् ॥ २७॥
मन्दानिलान्दोलिदुकूलकान्तरप्रसृत्वरज्योति रुदग्रपीडिकम् ।
ताम्बूलिकामत्रमनोजघुण्टिकानिरीक्षणोन्मादितमन्मथान्तरम् ॥ २८॥
करीन्द्रशुण्डाकदलीकलामुषोः सुजङ्घयोः कान्तिभरेण चिन्तयत् ।
वासोत्तरीयं तनुसूत्रनिर्मितं हेमाम्बुनिर्णिक्तमिवाच्छमद्भुतम् ॥ २९॥
नितम्बबिम्बद्वितयद्युतिच्छटाविनिर्जितार्केन्दुसुपूर्णमण्डलम् ।
अधस्तरोयाम्बरपट्टदोरिकाविलम्बिगुच्छाकृति मौक्तिकव्रजम् ॥ ३०॥
गम्भीरनाभीहृदमाधुरीरसप्रमग्नरामेन्दुरसीन्द्रमानसं
तदुद्भवानेकबलीतरङ्गिणीत रङ्गनीरोत्तरलीकृतान्तरम् ॥ ३१॥
रोमावलीतद्गतशैवलावलीविलीनहृच्छ्रीरसिकेन्द्रपक्षिराट्
तनूदरस्थाननितान्तसंशयज्ञानस्थदोलादुलिताखिलाशयः ॥ ३२॥
उत्तुङ्गवक्षोरुहभारभावितश्रीविग्रहात्यन्तविनम्रतारुचि
अनेकमुक्तामणिहारभासुरग्रीवाविलग्नत्रिसरातिसौभगम् ॥ ३३॥
पञ्चाशुगोद्भावितलोकनिर्जयध्वानोद्भवव्यञ्जनकण्ठकम्बुमत ।
अनेककोटिस्फुटचन्द्रमण्डलश्रीचौरवक्रच्छविसारभासुरम् ॥ ३४॥
मुखेन्दुपूर्णामयसर्ववासरप्रमोदिदृक्चारुचकोररोचितम् ।
धमिल्लमल्लीसुमनोऽभिगुम्फितमधुव्रतासादितमाधुरीरसम् ॥ ३५॥
तदेतसीमन्तितदिव्यमौक्तिकप्रकृष्टतारावलिकान्तकीर्तिमत् ।
अमन्दवेणीमणिचन्द्रचन्द्रिकाप्रकाशसन्तोषितनेत्रकैरवम् ॥ ३६॥
दन्तावलिद्योतविमिश्रनिर्मलश्रीमन्दहासामलमञ्जुकान्तिमत् ।
दोर्वल्लिवल्गुस्फुरितांसयुग्मकप्रकाण्डनित्योद्धुरताविराजितम् ॥ ३७॥
नखौघमारभ्यशिखान्तमुच्चकैरेकैकमेभिर्नयनैरुपासितम् ।
कटाक्षसञ्जीवितसर्वमारितस्मरप्रवीरप्रवरप्रमोददम् ॥ ३८॥
यद्यप्यदोङ्गं तव सर्वमद्भुतं तथापि मन्मानसबन्धनाय ते ।
सदास्तु पादाम्बुजयुग्ममुल्लसन्नखौघकिञ्जल्कसमूहञ्जितम् ॥ ३९॥
ध्यानाय गानाय च भक्तचेतसां प्रमोददानाय च नित्यमेधताम् ।
तवेदृशं सौभगमङ्गमाधुरीविमिश्रमत्यर्थमनोहर प्रभोः ॥ ४०॥
प्रमोदनामाङ्कितमद्भुतं वनं लीलालयं मे हृदये विराजताम् ।
यदंशमात्रैव विभाति माधुरी वैकुण्ठवृन्दावनगह्वरादिषु ॥ ४१॥
लीलाधामविशिष्टमद्भूततमं श्री सम्पदां मन्दिर
सच्चिद्रूपमनन्तमक्षरमयं यद्व्यापकं विश्वतः ।
तत्ते धाम विराजतां मम हृदि श्रीरामरामेरमे
प्रेमानन्दमयं मनश्च वचनं सुश्रुन्निवृत्तं यतः ॥ ४२॥
लीलास्तास्तव राससन्निधिमिता भक्ताखिलास्वादिता
व्यक्ताव्यक्ततया प्रमोदविपिने सजायमानाः पराः ।
भक्तानां हृदयैकचिन्तनरसप्रेमप्रवृद्धप्रदा
भूयासुर्ममजीवनाय सहजानन्दे गुणग्रामणीः ॥ ४३॥
परं ब्रह्म रामचन्द्रः सच्चिदानन्दमात्रकः ।
यदीदृशं न प्रभवेद्भक्तानां जीवनं कथम् ॥ ४४॥
प्रमोदपात्रीकृतभक्तमानसं ब्रह्मादिदेवैरपि सुष्टु भावितम् ।
लीलारसानन्दत्रयं विराजितं समेधतां मद्धृदयैकजीवनम् ॥ ४५॥
नमः श्रीनन्दनाख्याय गोपराजाय धीमते ।
नमस्तथा श्रीराजिन्ये याभ्यां त्वं नित्यलालिता ॥ ४६॥
नमस्तदावेशयुङ्भ्यां वात्सल्यरसवुष्टाभ्याम् ।
भाग्यवदभ्यां त्रिभुवनसौख्यकाभ्यां निरन्तरम् ॥ ४७॥
दशरथकौसल्याभ्यां सुखितश्रीमाङ्गल्यकाभ्यां च ।
त्रिभुवन सौराज्यपदप्रभाविताभ्यां नमो नित्यम् ॥ ४८॥
नमस्ते नित्यपूर्णायै लीलायै मधुरश्रिये ।
यदावेशवशादेतन्मिथुनं नित्यं भासते ॥ ४९॥
इति स्तुत्वास्फुरल्लीलारसावेशितया मुहुः ।
रोमाञ्चिततनुविष्णुर्दण्डवत्प्रापतद्भुवि ॥ ५०॥
मुहुर्मुहुः स्तुतिं कृत्वा नतिं कृत्वा मुहुर्मुहुः ।
कृतार्थीकृत्य चात्यानं स्वधाम समगात्ततः ॥ ५१॥
इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे भरतलक्ष्मणीये
सीताजन्मोत्सवेऽष्टादशोऽध्यायः ॥ १८॥
भुशुण्डिरामायणम् । पश्चिमखण्ड । अध्याय १८/१-५१॥
bhushuNDirAmAyaNam . pashchimakhaNDa . adhyAya 18/1-51..
Encoded and proofread by Mrityunjay Rajkumar Pandey