सूर्यकृतं भवानीमङ्गळाष्टकस्तोत्रम्

सूर्यकृतं भवानीमङ्गळाष्टकस्तोत्रम्

रविरुवाच । देवि त्वदीयचरणाम्बुजरेणुगौरीं भालस्थलीं वहति यः प्रणतिप्रवीणः । जन्मान्तरेऽपि रजनीकरचारुलेखा तां गौरयत्यतितरां किल तस्य पुंसः ॥ ५५॥ श्रीमङ्गले सकलमङ्गलजन्मभूमे श्रीमङ्गले सकलकल्मषतूलवह्ने । श्रीमङ्गले सकलदानवदर्पहन्त्रि श्रीमङ्गलेऽखिलमिदं परिपाहि विश्वम् ॥ ५६॥ विश्वेश्वरि त्वमसि विश्वजनस्य कर्त्री त्वं पालयित्र्यसि तथा प्रलयेऽपिहन्त्री । त्वन्नामकीर्तनसमुल्लसदच्छपुण्या स्रोतस्विनी हरति पातककूलवृक्षान् ॥ ५७॥ मातर्भवानि भवती भवतीव्रदुःख- सम्भारहारिणि शरण्यमिहास्ति नान्या । धन्यास्त एव भुवनेषु त एव मान्या येषु स्फुरेत्तवशुभः करुणाकटाक्षः ॥ ५८॥ ये त्वां स्मरन्ति सततं सहजप्रकाशां काशीपुरीस्थितिमतीं नतमोक्षलक्ष्मीम् । तान्संस्मरेत्स्मरहरो धृतशुद्धबुद्धी- न्निर्वाणरक्षणविचक्षणपात्रभूतान् ॥ ५९॥ मातस्तवाङ्घ्रियुगलं विमलं हृदिस्थं यस्यास्ति तस्य भुवनं सकलं करस्थम् । यो नाम ते जपति मङ्गलगौरि नित्यं सिद्ध्यष्टकं न परिमुञ्चति तस्य गेहम् ॥ १.४९.६०॥ त्वं देवि वेदजननी प्रणवस्वरूपा गायत्र्यसि त्वमसि वै द्विजकामधेनुः । त्वं व्याहृतित्रयमिहाऽखिलकर्मसिद्ध्यै स्वाहास्वधासि सुमनः पितृतृप्तिहेतुः ॥ ६१॥ गौरि त्वमेव शशिमौलिनि वेधसि त्वं सावित्र्यसि त्वमसि चक्रिणि चारुलक्ष्मीः । काश्यां त्वमस्यमलरूपिणि मोक्षलक्ष्मी- स्त्वं मे शरण्यमिह मङ्गलगौरि मातः ॥ ६२॥ स्तुत्वेति तां स्मरहरार्धशरीरशोभां श्रीमङ्गलाष्टकमहास्तवनेन भानुः । देवीं च देवमसकृत्परितः प्रणम्य तूष्णीं बभूव सविता शिवयोः पुरस्तात् ॥ ६३॥ इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे एकोनपञ्चाशत्तमा- ध्यायान्तर्गतं सूर्यकृतं श्रीमङ्गलाष्टकस्तोत्रं समाप्तम् । स्कन्दपुराण । काशीखण्ड । पूर्वखण्ड । अध्याय ४९/५५-६३॥ skandapurANa . kAshIkhaNDa . pUrvakhaNDa . adhyAya 49/55-63.. Proofread by PSA Easwaran
% Text title            : Suryakritam Bhavanimangalashtaka Stotram
% File name             : sUryakRRitaMbhavAnImangaLAShTakastotram.itx
% itxtitle              : bhavAnImaNgaLAShTakastotram (sUryakRitaM skandapurANAntargatam)
% engtitle              : sUryakRRitaM bhavAnImangaLAShTakastotram
% Category              : devii, devI, skandapurANa, aShTaka, stotra
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : skandapurANa | kAshIkhaNDa | pUrvakhaNDa | adhyAya 49/55-63||
% Indexextra            : (Scans 1, 2, 3, 4, 5, 6, 7, 8, English)
% Latest update         : June 9, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org