सूर्यकृतं भवानीमङ्गळाष्टकस्तोत्रम्
रविरुवाच ।
देवि त्वदीयचरणाम्बुजरेणुगौरीं
भालस्थलीं वहति यः प्रणतिप्रवीणः ।
जन्मान्तरेऽपि रजनीकरचारुलेखा
तां गौरयत्यतितरां किल तस्य पुंसः ॥ ५५॥
श्रीमङ्गले सकलमङ्गलजन्मभूमे
श्रीमङ्गले सकलकल्मषतूलवह्ने ।
श्रीमङ्गले सकलदानवदर्पहन्त्रि
श्रीमङ्गलेऽखिलमिदं परिपाहि विश्वम् ॥ ५६॥
विश्वेश्वरि त्वमसि विश्वजनस्य कर्त्री
त्वं पालयित्र्यसि तथा प्रलयेऽपिहन्त्री ।
त्वन्नामकीर्तनसमुल्लसदच्छपुण्या
स्रोतस्विनी हरति पातककूलवृक्षान् ॥ ५७॥
मातर्भवानि भवती भवतीव्रदुःख-
सम्भारहारिणि शरण्यमिहास्ति नान्या ।
धन्यास्त एव भुवनेषु त एव मान्या
येषु स्फुरेत्तवशुभः करुणाकटाक्षः ॥ ५८॥
ये त्वां स्मरन्ति सततं सहजप्रकाशां
काशीपुरीस्थितिमतीं नतमोक्षलक्ष्मीम् ।
तान्संस्मरेत्स्मरहरो धृतशुद्धबुद्धी-
न्निर्वाणरक्षणविचक्षणपात्रभूतान् ॥ ५९॥
मातस्तवाङ्घ्रियुगलं विमलं हृदिस्थं
यस्यास्ति तस्य भुवनं सकलं करस्थम् ।
यो नाम ते जपति मङ्गलगौरि नित्यं
सिद्ध्यष्टकं न परिमुञ्चति तस्य गेहम् ॥ १.४९.६०॥
त्वं देवि वेदजननी प्रणवस्वरूपा
गायत्र्यसि त्वमसि वै द्विजकामधेनुः ।
त्वं व्याहृतित्रयमिहाऽखिलकर्मसिद्ध्यै
स्वाहास्वधासि सुमनः पितृतृप्तिहेतुः ॥ ६१॥
गौरि त्वमेव शशिमौलिनि वेधसि त्वं
सावित्र्यसि त्वमसि चक्रिणि चारुलक्ष्मीः ।
काश्यां त्वमस्यमलरूपिणि मोक्षलक्ष्मी-
स्त्वं मे शरण्यमिह मङ्गलगौरि मातः ॥ ६२॥
स्तुत्वेति तां स्मरहरार्धशरीरशोभां
श्रीमङ्गलाष्टकमहास्तवनेन भानुः ।
देवीं च देवमसकृत्परितः प्रणम्य
तूष्णीं बभूव सविता शिवयोः पुरस्तात् ॥ ६३॥
इति श्रीस्कादपुराणे काशीखण्डे पूर्वार्द्धे एकोनपञ्चाशत्तमा- ध्यायान्तर्गतं
सूर्यकृतं श्रीमङ्गलाष्टकस्तोत्रं समाप्तम् ।
स्कन्दपुराण । काशीखण्ड । पूर्वखण्ड । अध्याय ४९/५५-६३॥
skandapurANa . kAshIkhaNDa . pUrvakhaNDa . adhyAya 49/55-63..
Proofread by PSA Easwaran