सह्यजनवरत्नमालिका अथवा कावेरीनवरत्नमालिका
यत्पाथःकणवाहिमारुतलवस्पृष्टेषु दुष्टेष्वपि
प्रध्वंसं प्रबलैनसां विदुरिह प्राज्ञा भवाज्ञाजुषः ।
सिष्णासां त्वयि बिभ्रतो मम चिरात् कृष्णाधिके सह्यजे
निष्णाताऽसि न किं विगाहनकृतः पङ्कौघसङ्क्षालने ॥ १॥
कावेरि त्वत्कवारि प्रवहति सरितां सार्वभौमीह भूमौ
यत्रायं पुण्यदेशः स तु किमुत वृषाकप्यभीष्टस्थलं चेत् ।
काश्या तुल्यानि यानि त्वगणिषत षडप्यार्षगीर्षु स्थलानि
श्वेतारण्यं च तेष्वादिममिह वसतां को यमस्तस्य केऽमी ॥ २॥
कावेरि त्वद्वारिपूरोदरेऽस्मिन् स्नायं स्नायं धूतपापोऽस्ततापः ।
आसं जीर्णः पूर्णकामस्तदित्थं विज्ञाप्यस्ते वल्लभस्सिन्धुराजः ॥ ३॥
राज्ञस्सेवा दुष्करा सर्वनॄणां क्रान्तो भीमैः भीमरूपस्स यस्मात् ।
प्राप्ता ये तद्वल्लभायाः प्रसादं सिद्धं सर्वाभीष्टमेषां ह्ययत्नात् ॥ ४॥
महारावारवारौघैः भीषणः श्रोत्रभीतिदैः ।
कथं नु मादृशां शक्यो राजाऽपामुपसेवितुम् ॥ ५॥
अम्भोनिधेरनुगुणं भवती कलत्रं लोकान्विलोकनत एव युवां पुनीथः ।
पानावगाहनमुखोपकृतिप्रकर्षात् देवि त्वमेनमतिशय्य विभासि मातः ॥ ६॥
कालं प्रतीक्ष्यैव स जातु सेव्यः त्वत्तोऽधिकं किं नु फलं ददाति ।
तस्मान्नदीराजमध्ष्यलं मे त्वत्संश्रयो यत्फलमम्ब सूते ॥ ७॥
असह्यपापवारिणि त्वदीयपुण्यवारिणि
क्व सह्यजे निमज्जतां अघौघसाध्वसं नृणाम् ।
विधूतपातका हि ते विनैव कृच्छ्रजश्रमं
प्रयान्ति शम्भुमन्दिरं प्रकृष्टपुण्यभासुराः ॥ ८॥
सह्याद्रेः पितुरन्तिकात् पतिगृहं गन्तुं प्रवृत्ता सती
कावेरी कृतचोलमण्डलपरिष्काराऽभ्युदञ्चद्रसा ।
स्वर्णस्तोमयुता सती प्रियतमं सन्तोष्य रज्ञाकरं
श्वेतारण्यपतेः प्रसादमयते द्वेधा स्थिता पार्श्वयोः ॥ ९॥
कावेरि त्वत्स्तोत्रमेतत्पठन्ति श्रद्धाशुद्धा भक्तियुक्ता भवत्याम् ।
स्नातां पुंसां वारिपूरे त्वदीये यावत्पुण्यं तावदेते लभन्ताम् ॥ १०॥
कदा वा कावेरि त्वयि वृषभतीर्थेऽच्छसलिले
तुलामासे दर्शे सति गगनमध्ये सवितरि ।
समस्ताभिर्गङ्गाप्रभृतितटिनीभिस्समुदिते
विगाहिष्ये विप्रैर्निगमनिरतैः पूरिततटे ॥ ११॥
सह्यजा नवरत्नमालिका त्यागराजमखिअनो मुखोद्गता ।
गृह्यतां परगुणैकशंसिभिः शङ्कराङ्घ्रिकमले समर्पिता ॥ १२॥
श्रीमच्चम्पकारण्यवासि-त्यागराजमखिकृता कावेरीनवरत्नमालिका समाप्ता ।
A Stotram on River Sahyajā or Kāverī written by
Mahāmahopādhyāya Śrī Mannārguḍi Rāju Śāstrigaḷ.
Encoded and proofread by Nikhil Kancharlawar