श्रीसन्तोषीमातुःसुप्रभातस्तोत्रम्

श्रीसन्तोषीमातुःसुप्रभातस्तोत्रम्

ॐ श्रीगणेशाय नमः । श्रीसन्तोषीमातुःसुप्रभातस्तोत्रम् । विघ्नेश्वरस्य महिता किल सिद्धिबुद्धि पुत्रद्वस्य भगिनी किल या बभूव । दुर्गा रमा महित वाणी महास्वरूपा सन्तोषिणी भगवती शरणं ममास्तु ॥ १॥ सर्वत्र शान्तिगुरुभक्तिदयाप्रपूर्णे सन्तोषनित्यसुजने वरमध्यदेशे । उत्तुङ्गशैलरमणीयनिजालयेऽद्य सन्तोषनित्यजननी जननी चकास्ति ॥ २॥ यां वै स्तुवन्ति सुजनाः परशक्तिरूपां शक्तित्रयात्मकतनुं धनदानतुष्टाम् । सन्तोषपूर्णहृदयां स्मरणादपीह सन्तोषमातरममुं प्रणमामि मूर्ध्ना ॥ ३॥ स्वस्यैव सोदरकृते सहजातकन्या रक्षासुबन्धनमहो कृते दयाढ्या । तत्कर्म कर्तुमिभवक्त्रकृपालवेन सन्तोषिणीसुजनिमाप हिमालयेऽस्मिन् ॥ ४॥ आनन्दनित्यनगरे वसति स्म पूर्वं गोपालनाथ इति विश्रुतवैश्यवर्यः । तस्यात्मजा च गुरुदैवतभक्तिपूर्णा नाम्ना सुनीतिरभवत्सुगुणा सुरूपा ॥ ५॥ तस्यान्तिके सुमहती सनकन्दवाटी तस्यां निवासमकरोद्बहुपुत्रिणी सा । पुत्रेषु चैव चरमो बलभोलनाथो वव्रे सुनीतिमतुलां निजपूर्वपुण्यात् ॥ ६॥ भक्त्या सुनीतिबलभोलसुनाथयोश्च श्रीशुक्रवारपरिपूजनतुष्टचित्ता । शोकापनोदबहुभाग्यसुदाननित्यं सन्तोषमातुरधुना तव सुप्रभातम् ॥ ७॥ कल्याणनित्यजननि कलिकल्मषघ्नि कामप्रपूरणपरे करुणाऽऽर्द्रचित्ते । श्रीखड्गशूलकमनीयभुजद्वयेऽम्ब सन्तोषमातुरधुना तव सुप्रभातम् ॥ ८॥ सन्तप्तकाञ्चनमयी सकलेष्टदात्री सम्पूर्णनैजविभवा सकलागमेड्या । सम्पत्प्रदा च सहसा निजभक्तवर्गे सन्तोषमातुरधुना तव सुप्रभातम् ॥ ९॥ भाग्यप्रदे भयहरे भवरोगवैद्ये भद्रप्रदे भगवति भजतां जननाम् । शत्रुक्षयैकनिरते श्रितकामधेनो सन्तोषमातुरधुना तव सुप्रभातम् ॥ १०॥ सृष्टिस्थितिप्रळयकारिणि शूलहस्ते सिंहासनस्थितमनोहरराज्यलक्ष्मि । राराजमानरमणीयसुरत्नभूषे सन्तोषमातुरधुना तव सुप्रभातम् ॥ ११॥ क्षिप्रप्रसादनिरते क्षमिताखिललोके क्षेमङ्करि क्षितिधरेन्द्रसुवंशकेतो । अक्षीणपुण्यविभवैः परिचिन्त्यमाने सन्तोषमातुरधुना तव सुप्रभातम् ॥ १२॥ आर्त्तार्तिवारणपटो ह्यणिमादिवन्द्ये अव्याजपूर्णकरुणावरुणालये त्वम् । अस्तोकभाग्यविभवप्रदनैजसिद्धे सन्तोषमातुरधुना तव सुप्रभातम् ॥ १३॥ दुर्गा त्वमेव दुरितौघविनाशशीला लक्ष्मीस्त्वमेव नरवरत्नहिरण्यदात्री । सारस्वतप्रदलना च सरस्वती त्वं सन्तोषमातुरधुना तव सुप्रभातम् ॥ १४॥ त्वं सान्द्रनैजहृदया सुशरण्यमूर्त्तिस्त्वं विघ्नवारणपरा च वरेण्यमूर्त्तिः । वैरिप्रणाशनविधौ वरवीरमूर्तिः सन्तोषमातुरधुना तव सुप्रभातम् ॥ १५॥ विद्याप्रदानसमये वरशुक्लवस्त्रा लक्ष्मीप्रदानसमये नवरक्तवस्त्रा । विद्वेषिवर्गदलने च तमालनीला सन्तोषमातुरधुना तव सुप्रभातम् ॥ १६॥ श्रीवीरवर्यपरमासननित्यजुष्टे विख्याति ते विजयते विपदां निहन्त्री । वन्दारुलोकनवगानसुतुष्टचित्ते सौभाग्यमातुरधुना तव सुप्रभातम् ॥ १७॥ त्वं भीषयस्यखिलदुर्गवर्गमेव त्वं तोषयस्यखिलभक्तसमूहमेव । त्वं दापयस्यखिलसम्पदमाशु नित्यं सन्तोषमातुरधुना तव सुप्रभातम् ॥ १८॥ आसेतुहैमशिखरावधि वन्द्यमाने आबालवृद्धमनुसन्ध्यमुपास्यमाने । आपादचूडमखिलाभरणोज्ज्वलाङ्गे सन्तोषमातुरधुना तव सुप्रभातम् ॥ १९॥ काष्ठेन जीवनपरस्य च गोमयेन कृत्यस्य भक्तसुजनस्य सुभाग्यदात्री । विद्रावणी च निजभक्तसुमातरं द्राक् सन्तोषमातुरधुना तव सुप्रभातम् ॥ २०॥ सम्वर्धिनी त्वमसि सर्वसुमङ्गलानां सम्पूरणी च सकलेष्टमनोरथानाम् । संरोधिनी च विपदामपि नित्यभक्ते सन्तोषमातुरधुना तव सुप्रभातम् ॥ २१॥ संशोषिणी च विषसर्पभयं नतानां सन्दायिनी च सततं सुनराधिपत्यम् । संरक्षणी च निजभक्तजनान् सदापि सन्तोषमातुरधुना तव सुप्रभातम् ॥ २२॥ शोकापनोदनपरे निजभक्तवृन्दे रोगापहारचतुरे निजपादनम्रे । भाग्यप्रदैकनिरते निजपूजकेभ्यः सन्तोषमातुरधुना तव सुप्रभातम् ॥ २३॥ यो भार्गवस्य सुदिने तव नित्यपूजां भक्त्या करोति शुभगोमयलिप्तगेहे । गोभिश्च रौप्यसुहिरण्यसुधान्यराश्या पूर्णां करोषि दयया तव सुप्रभातम् ॥ २४॥ दारिद्र्यदुःखभरितं दुरितातिरेकात् त्वामेव पूजनपरं भृगुवासरेषु । लक्षाधिपं प्रकुरुषे करुणाऽऽर्द्रदृष्ट्या सन्तोषमातुरधुना तव सुप्रभातम् ॥ २५॥ श्रीमाधवाख्यसुपुरे बहुचोरसङ्घान् विद्राव्य तस्य धनरक्षणहृष्टवैश्यात् । उद्योगमाप्य सुधनी हि बभूव भक्तः सन्तोषमातुरधुना तव सुप्रभातम् ॥ २६॥ इत्येव नारदमुखेरितमाप्तभाग्याः सन्तोषमातुरखिलां हि कथां पठन्तु । सर्वस्वपूर्णभवनाः निवसन्तु सौख्यात् सन्तोषमातुरधुना तव सुप्रभातम् ॥ २७॥ सूर्यः शशी कुजबुधौ गुरुशुक्रमन्दाः राहुश्च केतुरपरे तिथिलग्नताराः । आज्ञाप्रतीक्षणपरास्तव भक्तरक्षादक्षा भवन्ति तव मङ्गळसुप्रभातम् ॥ २८॥ त्वां वै नताश्च सहसा धनिका भवन्ति पुण्यार्त्थिनश्च बहुपौत्रसुनप्त्रृपूर्णाः । प्रासादवासमपि ते कृपया लभन्ते सन्तोषमातुरधुना तव सुप्रभातम् ॥ २९॥ श‍ृण्वन्ति ये तव तु पुण्यकथां हि मर्त्याः ये वा पठन्ति च मुदा किल पाठयन्ति । लक्ष्म्यष्टकं हि सहसा समनुप्रविष्टं नैवापयाति भवनात्तदिदं हि सत्यम् ॥ ३०॥ नाग्नौ जले वियति नापि च भूमिभागे नैवापदस्ति पथि चोरभयं न चैव । न्यायालयेऽपि विजयस्तव पूजकानां सन्तोषमातुरधुना तव सुप्रभातम् ॥ ३१॥ यः श्री धनानि विविधानि च धान्यराशिं धैर्यं धियं सुसुतमप्यथ पौत्रलाभम् । दारांश्च भोगमखिलं स्मृतिमात्रतुष्टा सन्तोषिणी वितरतीह हि सत्यमेव ॥ ३२॥ दारिद्र्यभीतिरथ रोगभयादिभीतिः नो मृत्युभीतिरथ शत्रुविषादिभीतिः । पुष्टः सुतुष्टहृदयो निवसेच्चिराय सन्तोषमातुरधिकाधिकसत्कटाक्षात् ॥ ३३॥ सन्तोषमातुरखिलेष्टदमद्भुतं च यः सुप्रभातमुषसि प्रपठेत् स भक्तः । संप्राप्य नन्दतितरां सुधनं सुपुत्रं गेहं च भूषणचयं च चिरायुरेव ॥ ३४॥ आस्थाय वीरपरमासनमार्तिहन्त्री खड्गत्रिशूलवरदाभयहस्तभूषा । मन्दस्मिताञ्चितमुखी विलसत्किरीटा सन्तोषनित्यजननी प्रददातु कामान् ॥ ३५॥ राजेश्वरीपदद्वन्द्वे श्रीषण्मुखपदाब्जयो ः । निविष्टहृदयो रामचन्द्रः तत्कृपयाऽलिखत् ॥ ३६॥ इति श्रीसन्तोषीमातुःसुप्रभातस्तोत्रं सम्पूर्णम् । Encoded by Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran
% Text title            : Shri SantoShi Matuh Suprabhata Stotram
% File name             : santoShImAtuHsuprabhAtastotram.itx
% itxtitle              : santoShImAtuHsuprabhAtastotram
% engtitle              : santoShImAtursuprabhAtastotram
% Category              : devii, suprabhAta, otherforms, devI
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : otherforms
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sivakumar Thyagarajan Iyer shivakumar24 at gmail.com
% Proofread by          : Sivakumar Thyagarajan Iyer, PSA Easwaran
% Latest update         : January 1, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org