श्रीदुर्गासप्तशतीसहस्रनामस्तोत्रम्
नमस्तस्यै ।
ॐ अम्बा कात्यायनी काली कमला करुणामयी ।
अतुला कालिका कृष्णा कल्याणी कामरूपिणी ॥ १॥
अर्धमात्रास्थिता कर्त्री कालातीता कलाघरी ।
अनुच्चार्या च कामाक्षी क्रुद्धा कैटभहारिणी ॥ २॥
अनायस्तानना ख्यातिः कान्तिरूपाऽतिसुन्दरी ।
अम्बिका कामधेनुश्च कामदा चाखिलात्मिका ॥ ३॥
अरविन्दस्थिता पद्मा कुञ्जिका करुणा कृतिः ।
अरुणा चारूणक्षौमा कुपिताऽरुणलोचना ॥ ४॥
अखिलदेवपूज्या च कमला कनकाम्बरा ।
अलक्ष्मीः कालरात्रिश्च कूष्माण्डा कालरूपिणी ॥ ५॥
अपारा कीर्तिता गौरी कौमारी करुणार्णवा ।
अव्याकृता जगन्मूर्तिश्चाविचिन्त्यमहाव्रता ॥ ६॥
अखिलशास्त्रसारा च देवी कारुण्यरूपिणी ।
अवतारत्रयाऽसङ्गा दुर्गा कामफलप्रदा ॥ ७॥
अतिसाधुमतिर्जाया जयन्ती चापराजिता ।
अपराऽतुल्यरूपा च नित्याऽसुरनिबर्हिणी ॥ ८॥
असुरवीर्यहन्त्री च नारी कनकभूषणा ।
आद्याऽतिहारिरूपा च किरीटिनी कुलेश्वरी ॥ ९॥
अतिसौम्याऽतिरौद्रा च कनकोत्तमभूषणा ।
अतिशुद्धगुणाऽभेद्या चानुपमपराक्रमा ॥ १०
अयोनिजाऽतिचार्वङ्गी कामिकाऽभीष्टसंश्रया ।
विस्तारवदनाऽनन्ता कोपवत्यतिभीषणा ॥ ११॥
अणिमादिमयूखाप्ता कामिनी चामलानना ।
अर्धाम्बिकेशरूपा च कालाभ्राभाऽसिपाशिनी ॥ १२॥
अत्युग्राऽनन्तवीर्या च कपालिन्यतिकोपना ।
जयाऽखिलजगन्माता कामेश्वर्यतिमानिनी ॥ १३॥
अग्निवर्णाऽद्वितीया च कौबेरी चाखिलेश्वरी ।
अतिरौद्रावतारा च घोरा चासुरघातिनी ॥ १४॥
अज्ञेयाऽपःस्वरूपा च किरीटोल्लिखिताम्बरा ।
अर्गलाऽलङ्घ्यवीर्या च ज्वलन्ती चानलात्मिका ॥ १५॥
अनजा जननी नन्दा गुह्यध्यानाऽग्निदेवता ।
अनघा घोररूपा च नियताऽनाथसंस्तुता ॥ १६॥
अजा गुह्यतरध्याना चारिसङ्क्षयकारिणी ।
अजिताऽन्तर्हिताऽलक्ष्या गुणाश्रयाऽमितप्रभा ॥ १७॥
अभिष्टुता दयारूपा चालङ्कृतचतुर्भुजा ।
आर्याऽमृतकलाऽविद्या नीलवर्णाञ्जनप्रभा ॥ १८॥
अचिन्त्यचरिताऽमर्त्या जगन्माताऽम्बुजासना ।
अष्टादशभुजाऽपर्णा चाभीष्टफलदायिका ॥ १९॥
अलङ्कृतभुजाऽतीता नन्दजाऽभयहस्तका ।
अष्टभुजा जगद्धात्री जगत्त्रयहितैषिणी ॥ २०॥
असमाऽऽनन्दरूपा च प्रथमाऽगोचराऽकला ।
अनानन्दस्वरूपाऽपि नवदुर्गाऽष्टमातृका ॥ २१॥
अनामयी ह्यविज्ञाना निराकाराऽविनाशिनी ।
अमलाऽब्रह्मरूपा च चण्डी चराचरेश्वरी ॥ २२॥
अपञ्चभूतरूषा च चन्द्ररेखाविभूषणा ।
परमाऽखिलरूपा च चण्डमुण्डविनाशिनी ॥ २३॥
चेतनाऽवेदरूपा च चण्डिका चण्डविक्रमा ।
उर्ध्वमधःस्वरूपा च तिर्यग्रूपा तमोगुणा ॥ २४॥
असुरनाशयित्री च चित्राभरणभूषिता ।
अदितिर्देवशक्तिश्च दीनत्राणपरायणा ॥ २५॥
अभयदा महागौरी महाभयविनाशिनी ।
अनादिश्च निराधारा नयनत्रयशोभिता ॥ २६॥
अविचला चतुर्बाहुश्चन्द्रघण्टा च चर्चिका ।
एकाऽभेदमयी नैका तुष्टा कल्याणशोभना ॥ २७॥
गौरीदेहसमुत्पन्ना नीलग्रीवाऽविकारिणी ।
कलाकाष्ठादिरूपा च चक्रिणी कृष्णसंस्तुता ॥ २८॥
कनकोत्तमकान्तिश्च चित्रघण्टाऽघहारिणी ।
आद्यवाक्यमयी पूज्या चार्तत्राणपरायणा ॥ २९।
आराधिताऽऽत्ममूर्तिश्च तेजोराशिसमुद्भवा ।
आदिविद्याऽऽत्मशक्तिश्च तुहिनाचलसंस्थिता ॥ ३०॥
आनन्दविग्रहा तुष्टिस्तारिणी तनुमध्यमा ।
आदिः कनकवर्णाभा पूर्णाऽऽनन्दपयोनिधिः ॥ ३१॥
ईशाऽऽनन्दमयी ब्राह्मी ब्रह्माणीरूपधारिणी ।
वराऽऽपच्छमनी विद्या भद्राऽऽभरणभूषिता ॥ ३२॥
इन्दुयोग्यानना चैन्द्री दैत्यवधकृतोद्यमा ।
इन्दुशकलभूषा च भवती भक्तवत्सला ॥ ३३॥
इन्द्राणी चेन्दुरूपा च प्रातःसूर्यसमप्रभा ।
इन्दिरेन्दु किरीटा च रविचन्द्राग्निलोचना ॥ ३४॥
उग्रनृसिंहरूपा च गुणत्रयविभाविनी ।
ईश्वरी चैकवीरा च गौरीदेहसमुद्भवा ॥ ३५॥
उद्योतिनी महारौद्रा चेन्द्राणीपतिपूजिता ।
उमा चेन्दुप्रभा पत्नी परिणामप्रदायिनी ॥ ३६॥
ईषद्धासा महादेवी महामाया महेश्वरी ।
उन्मदा भीमरूपा च भीमादेवी च भीषणा ॥ ३७॥
उत्तमभूषणा लक्ष्मीः लोकेश्वरी च लासिनी ।
उदारसंस्तुता बुद्धिर्ब्रह्माणी बोधलक्षणा ॥ ३८॥
ऋद्धिदात्री रमा रौद्रा रक्तालिप्तपयोधरा ।
रक्तबीजवधा रुष्टा चोल्लसद्रत्नकुण्डला ॥ ३९॥
सुकर्मफलजुष्टा च कान्तिभृत्कमलालया ।
कौमारीरूपसंस्थाना कौशिकी कान्तिशालिनी ॥ ४०॥
कह्लाराबद्धमाला च ललिता कमलासना ।
करुणापूरिताक्षी च तथोत्पलविलोचना ॥ ४१॥
रुचिरोत्तमकान्तिश्च खड्गिनी खड्गधारिणी ।
घनस्तनी तथोत्तुङ्गस्तनी पीनपयोधरा ॥ ४२॥
ध्रुवोर्ध्वकेशिनी धूम्रा धात्री धूम्राक्षमर्दिनी ।
धनुर्धरी च दुर्धर्षा दुर्गा च धर्मधारिणी ॥ ४३॥
कौशाम्भःक्षरिका लज्जा लोचनत्रयभूषिता ।
लक्ष्यालक्ष्यस्वरूपा च लोकख्याता फलप्रदा ॥ ४४॥
करालवदना सन्ध्या क्रोधसमाकुला क्षुधा ।
सुकामधेनुमूर्तिश्च खड्गादिभृच्च खेचरी ॥ ४५॥
सौम्या कान्तिप्रतिष्ठा च गदिनी गुहरूपिणी ।
गम्भीरान्तः स्मिता सुभ्रूः स्त्रीरत्नं सुमनोहरा ॥ ४६॥
गजराजस्थिता सिद्धिः शुद्धा गरुडसंस्थिता ।
गुणमयी महावज्रा महाघोरपराक्रमा ॥ ४७॥
गृहीतोग्रमहाचक्रा गृहीतपरमायुधा ।
गृहवृद्धिप्रदा सारा सुपथा गरुडासना ॥ ४८॥
शक्तिर्गजसमारूढा सर्वसौभाग्यदायिनी ।
गुह्येश्वरी महाविद्या गुह्यगोप्त्री प्रकीर्तिता ॥ ४९॥
सती गम्भीरनाभिश्च चिकितुषी चतुर्भुजा ।
गुह्यातिगुह्यगोप्त्री च पूजिता प्रमदोत्तमा ॥ ५०॥
घनान्तशशितुल्याभा चिन्मयी चित्रकान्तिभृत् ।
चण्डघाती च चामुण्डा सृष्टिश्चित्तकृपामयी ॥ ५१॥
चित्रभ्रमरपाणिश्च चितिरूपा च चापिनी ।
सीता चञ्चलापाङ्गी सिता चित्रविभूषणा ॥ ५२॥
तैजसी चिन्मयातीता चूडामणिर्महाबला ।
देवेशी चिन्मयानन्दा सा चतुर्वक्त्रसंस्तुता ॥ ५३॥
ज्योत्स्ना चन्द्रार्धचूडा च चित्रमाल्या महास्मृतिः ।
चित्रकोद्भासिभाला च चित्राम्बरा महासुरी ॥ ५४॥
तामसी चण्डिकाशक्तिः शिवाशतनिनादिनी ।
जयाख्या जगतां धात्री जातिरूपा प्रदर्शिनी ॥ ५५॥
छायारूपा च पापघ्नी निद्रा चित्रानुलेपना ।
छत्रेश्वरी शताक्षी च शत्रुभयविवर्धिनी ॥ ५६॥
जगदाधारभूता च जगदम्बा जगन्मयी ।
पुष्टिर्जगत्प्रतिष्ठा च पावना जगदम्बिका ॥ ५७॥
ज्वालामुखी महारावा जिह्वाललनभीषणा ।
सर्वा जगत्समस्तस्त्री भैरवी जम्भनादिनी ॥ ५८॥
सा जगज्जननी श्यामा शोभना शशिशेखरा ।
सा जगत्पालिका श्रद्धा शाम्भवी शूलधारिणी ॥ ५९॥
तृष्णारूपा तृषा शर्वा तुष्टिरूपा च पालिका ।
तुङ्गकुचा त्रिनेत्रा च ताम्राम्भोजनिवासिनी ॥ ६०॥
तप्तकाञ्चनवर्णाभा तप्तकाञ्चनभूषणा ।
तीक्ष्णनखा च निष्कीला नवशक्तिस्तनूदरी ॥ ६१॥
तेजोमण्डलदुर्धर्षा ताण्डवलासिनी शिवा ।
तृष्णा तपोज्वलन्ती च पूतना तलवासिनी ॥ ६२॥
दुर्वृत्तवृत्तहन्त्री च दुर्गपारा च दण्डिनी ।
दिवाकरनिभा राष्ट्री दैत्यदर्पविनाशिनी ॥ ६३॥
द्वीपिचर्मपरीधाना दंष्ट्रोद्धृतवसुन्धरा ।
नयनत्रययुक्ता च दारुणा दशनोज्ज्वला ॥ ६४॥
स्वाहा दंष्ट्राकरालास्या दुर्गमा द्वारवासिनी ।
दशवक्त्रा च दुष्प्रेक्ष्या दंष्ट्राङ्कितवरानना ॥ ६५॥
देवता दशविद्या च दारिद्र्यदुःखहारिणी ।
स्तुता दंष्ट्राकराली च भवसागरनौः क्षमा ॥ ६६॥
दुरत्यया महाकाली मृडानी दुरितापहा ।
दशभुजा महामारी दशपादा दशानना ॥ ६७॥
दिव्यमूर्तिर्महावाणी सुधा देवोपकारिणी ।
दुर्गार्तिनाशिनी क्षान्तिर्दुराचारविघातिनी ॥ ६८॥
दुर्गतिहारिणी दुर्गा स्वरा दशनभासुरा ।
भर्त्री दानवहन्त्री च सा दुष्टदमनी तथा ॥ ६९॥
दुरितशमनी राधा विहारिणी विलासिनी ।
रूद्ररूपा च रुद्राणी भवानी भवभामिनी ॥ ७०॥
दुर्गप्रशमनी दुर्गा सा दंष्ट्राभासुरा तथा ।
वाणी धृतेन्दुलेखा च सा दक्षदुहिता सुखा ॥ ७१॥
धनुर्बाणधरा दुर्गा निजशस्त्रास्त्रवर्षिणी ।
दुर्गा धूर्जटिपत्नी च नानारत्नोपशोभिता ॥ ७२॥
शक्तिसमूहमूर्तिश्च निद्रारूपा च धीश्वरी ।
नन्दगोपगृहोत्पन्ना वेदगर्भा व्रजेश्वरी ॥ ७३॥
वेदत्रयी च धेनुर्वाक् नैरृतिर्नलकूबरी ।
नारायणी महालक्ष्मीर्नीलोत्पलविलोचना ॥ ७४॥
विलसच्चोलिका दुर्गा धर्ममतिप्रदायिनी ।
नानाभरणशोभाढ्या निशुम्भासुरघातिनी ॥ ७५॥
नानाशस्त्रकरा दुर्गा सा नीलाश्मद्युतिः स्वधा ।
नवनवस्वरूपा च नागाधीश्वरविष्टरा ॥ ७६॥
त्रयी निखिलमूर्तिश्च नयनत्रयभासिता ।
सा नीरजकरा दुर्गा नादापूर्णदिगम्बरा ॥ ७७॥
प्रसन्ना परमा विद्या परा च परमेश्वरी ।
सा पुण्डरीकमध्यस्था प्रकृतिः पुत्रदायिनी ॥ ७८॥
पापप्रशमिनी दुर्गा नरमालाविभूषणा ।
पापापहारिणी दुर्गा नादापूरितदिङ्मुखा ॥ ७९॥
सा पञ्चभूतरूपा च निमग्नारक्तलोचना ।
नारसिंही भयत्रात्री निशुम्भमर्दिनी तथा ॥ ८०॥
नीलभुजा महारात्रिदुर्गा नानाभिधानभृत् ।
मातङ्गी नीलजङ्घोरुर्निशुम्भमथिनी तथा ॥ ८१॥
पद्मावती परोक्तिश्च प्रपन्नार्तिहरा तथा ।
प्रतिष्ठा पर माया पार्वती पापनाशिनी ॥ ८२॥
सा परमार्तिहन्त्री च परमा प्रकृतिस्तथा ।
प्रसादसुमुखी दुर्गा सुप्रसन्नानना तथा ॥ ८३॥
परितुष्टा महामेधा भवानी परमायुधा ।
प्रेतसंस्था च भीमाक्षी पद्महस्ता हरिप्रिया ॥ ८४॥
पद्मासना महापूर्वा पुण्येश्वरी च योगिनी ।
पापेश्वरी महामोहा पीनस्तनी समस्तनी ॥ ८५॥
प्रचण्डदैत्यदर्पघ्ना पाशाङ्कुशधरा तथा ।
प्रतिमा परिपूर्णा च परधामनिवासिनी ॥ ८६॥
सा परा देवता दुर्गा फलदा प्रतिपालिका ।
परशिवा च शर्वाणी सा शम्भुगृहिणी तथा ॥ ८७॥
परसिद्धिप्रदा भूतिः सा प्रलयमयी तथा ।
ब्रह्मस्तुता च सावित्री बुद्धिरूपा च भारती ॥ ८८॥
बद्ध हिमांशुरत्नाभा भुशुण्डीपरिघायुधा ।
ब्रह्मशक्तिश्च यज्ञिया, सुष्टुता फलदायिका ॥ ८९॥
बन्धूककाञ्चनाभा च बालरविद्युतिस्तथा ।
बाधाप्रशमनी दुर्गा बीजरूपा च बाभ्रवी ॥ ९०॥
बालार्कमण्डलाभासा बहुकन्यासुसेविता ।
ब्रह्मादिरूपिणी दुर्गा मङ्गला ब्रह्मचारिणी ॥ ९१॥
ब्रह्मस्वरूपिणी मेधा ब्रह्मरूपा सुरेश्वरी ।
भक्तकामदुघा दुर्गा सा बाधाहारिणी तथा ॥ ९२॥
दुर्गा भक्तानुरक्ता च भगवती च भूषिता ।
भुक्तिप्रदायिनी दुर्गा भद्रकाली सनातनी ॥ ९३॥
भानुसहस्रकान्तिश्च भूभृल्लक्ष्मीश्च शङ्खिनी ।
भ्रान्तिरूपा महोत्साहा भास्वद्देहलता तथा ॥ ९४॥
भुवनेशी विशोका च दुर्गा भैरवनादिनी ।
भक्तिस्मृता सुगन्धा च भ्रामरी भूमिसम्भवा ॥ ९५॥
दुर्गा भूमुक्तिहेतुश्च भक्तानन्दोदया तथा ।
सा भिन्नाञ्जनसङ्काशा भोगस्वर्गापवर्गदा ॥ ९६॥
दुर्गा भ्रामररूपा च भूतस्थितिविधायिनी ।
भाषाक्षरा सुमाता दुर्गा भूतार्तिहारिणी ॥ ९७॥
सा मुक्तिहेतुभूता च दुर्गा भयविनाशिनी ।
मातृरूपा सुरूपा च संहर्त्री भवतारिणी ॥ ९८॥
मुक्तिहेतुः सुरश्रेष्ठा सन्मयी भयहारिणी ।
माहेश्वरी शरण्या च दुर्गा भेदप्रदर्शिनी ॥ ९९॥
मौलिबद्धेन्दुरेखा च महावृषभवाहिनी ।
सा महाकालिका माता मधुकैटभघातिनी ॥ १००॥
महाहिवलया माया तथा महिषवाहिनी ।
मोहरात्रिश्च वाराही सुमधुमदमाधुरी ॥ १०१॥
दुर्गा मातृगणा वृद्धिर्मयूरवरवाहना ।
मालाधरी च सर्वाद्या महाशक्तिधरा तथा ॥ १०२॥
माहेश्वरीस्वरूपा च सुन्दरी मुकुटेश्वरी ।
दुर्गा महीस्वरूपा च महाकारुण्यरूपिणी ॥ १०३॥
महामारीस्वरूपा च मातृका मुनिसंस्तुता ।
महिषासुरनिर्णोशी दुर्गा मृगप्रतिस्थिता ॥ १०४॥
मूर्तिरूपा च सर्वेशा मयूरकुक्कुटावृता ।
मुक्तिप्रदायिनी दुर्गा सुभगा महिषासना ॥ १०५॥
महिषान्तकरी दुर्गा त्रिगुणा मृगवाहिनी ।
सा मुण्डमथना दुर्गा शुभा महिषमर्दिनी ॥ १०६॥
त्र्यम्बका योगनिद्रा च महात्रिपुरसुन्दरी ।
साक्षिणी यमघण्टा च महादुर्गविनाशिनी ॥ १०७॥
यज्ञियप्रथमा दुर्गा श्रीप्रदा मन्त्रमातृका ।
दुर्गा योगेश्वरी शान्तिः शूलिनी मधुमर्दिनी ॥ १०८॥
रूक्माम्बुजासना दुर्गा शाङ्करी महिषार्दिनी ।
सा रुचिराक्षमाला च सत्वरा मन्त्ररूपिणी ॥ १०९॥
सा मूलप्रकृतिर्दुर्गा मूलाधारनिवासिनी ।
महाविलासिनी दुर्गा मोहिनी मुनिमोहिनी ॥ ११०॥
दुर्गा रूपप्रतिष्ठा च यशोदागर्भसम्भवा ।
वैष्णवी रथमारूढा रत्नभूता यशस्विनी ॥ १११॥
शिवदा रक्तवर्णा च विजया रूपशालिनी ।
वारुणी रक्तवस्त्रा च दुर्गा रक्ताम्बरा तथा ॥ ११२॥
सुगता रक्तपादा च सकला रक्तदन्तिका ।
साकारा रक्तमध्या च रक्तसर्वाङ्गभूषणा ॥ ११३॥
सुकान्ती रक्तनेत्रा च रक्तकेशातिभीषणा ।
सा रक्तदशना दुर्गा रक्ततीक्ष्णनखा तथा ॥ ११४॥
सा दुर्गा रक्तचामुण्डा दुर्गा रक्तायुधा तथा ।
सा दुर्गा रक्तकेशा च रणत्कङ्कणनूपुरा ॥ ११५॥
सा रक्तवसना दुर्गा रक्तदन्ती त्रिधोदिता ।
रसभावितवृत्ता च दुर्गा रत्नविभूषिता ॥ ११६॥
सा लम्बोदरमाता च लक्ष्मीरूपा च वाक् तथा ।
दुर्गा लज्जास्वरूपा च सा लोकवरदा तथा ॥ ११७॥
वृत्तस्तनी तथा दुर्गा विशाला वसुधासमा ।
दुर्गा विज्ञानरूपा च तथा वृत्तपयोधरा ॥ ११८॥
वरदा वेदरूपा च दुर्गा विश्वेश्वरी तथा ।
व्याप्तलोकत्रया दुर्गा वराभीतिप्रधारिणी ॥ ११९॥
वैरिदयावती दुर्गा वन्दिताङ्घ्रियुगा तथा ।
सा दुर्गा विष्णुमाया च व्याप्तस्थावरजङ्गमा ॥ १२०॥
वल्लकीवादिका दुर्गा विश्वसम्मोहिनी तथा ।
विश्वोपरतिशक्ता च दुर्गा वेधस्स्तुता तथा ॥ १२१॥
सा दुर्गा वृत्तिरूपा च चित्रखट्वाङ्गधारिणी ।
सा दुर्गा व्याप्तिदेवी च विश्वविभ्रामिका तथा ॥ १२२॥
वृषारूढा तथा दुर्गा विद्युद्दामसमप्रभा ।
वरदाभीतिहस्ता च दुर्गा विस्तारितानना ॥ १२३॥
वज्रहस्ता तथा दुर्गा विद्यामयी व्यवस्थिता ।
वृत्रप्राणहरा दुर्गा विन्ध्याचलनिवासिनी ॥ १२४॥
वराहरूपिणी दुर्गा विश्वार्तिहारिणी तथा ।
सा दुर्गा वैष्णवी शक्तिर्विश्वबीजं त्रिलोचना ॥ १२५॥
सा दुर्गा वैष्णवीरूपा तथा व्याधिविनाशिनी ।
दुर्गा विवेकदीपा च वीणापुस्तकधारिणी ॥ १२६॥
विशाललोचना दुर्गा सा विश्वपरिपलिका ।
सा विश्वधारिणी दुर्गा तथा वैरिविनाशिनी ॥ १२७॥
विश्वात्मिका तथा दुर्गा विधातृवरदा तथा ।
दुर्गा विश्वेशवन्द्या च दुर्गा च वित्तदायिनी ॥ १२८॥
व्याप्तसकलविश्वा च दुर्गा च वृषवाहना ॥
वागीश्वरी तथा दुर्गा सा विद्याकारिणी तथा ॥ १२९॥
दुर्गा विज्ञानदात्री च दुर्गा च विन्ध्यवासिनी ।
सा विश्वमोहिनी दुर्गा तथैव विश्वरूपिणी ॥ १३०॥
वज्रपाणिस्तथा दुर्गा तथैव वरदायिनी ।
विश्वमाता तथा दुर्गा तथैव वज्रधारिणी ॥ १३१॥
वसुसङ्गमनी दुर्गा तथा वरदहस्तका ।
विख्यातिगा तथा दुर्गा तथैव वागधीश्वरी ॥ १३२॥
वाञ्छाकल्पद्रुमा दुर्गा वैरोचनी विभूषिता ।
सा विकटस्वरूपा च दुर्गा विधिवधूस्तथा ॥ १३३॥
शोभाधारा तथा दुर्गा विमला शमिताशिवा ।
विवसना तथी दुर्गा सा शिरोमालिका तथा ॥ १३४॥
शङ्खचक्रगदाहस्ता शङ्खादिपरमायुधा ।
श्रीस्तथा श्यामलाङ्गी च दुर्गा श्रीसुन्दरी तथा ॥ १३५॥
सा शुभमतिदा दुर्गा शुभगतिप्रदायिनी ।
श्वेतरूपधरा दुर्गा तथा शोकविनाशिनी ॥ १३६॥
शशिमौलिप्रतिष्ठा च दुर्गा शब्दात्मिका तथा ।
सा शत्रुभयरूपा च शुम्भदैत्यार्दिनी तथा ॥ १३७॥
सा दुर्गा शक्तिरूपा च शुष्कमांसातिभैरवा ।
सा दुर्गा शान्तिरूपा च सा शब्दज्ञानरूपिणी ॥ १३८॥
श्रद्धारूपा तथा दुर्गा शुम्भनिबर्हिणी तथा ।
सा दुर्गा शुभहेतुश्च सा शून्याशून्यसाक्षिणी ॥ १३९॥
शङ्खपात्रा तथा दुर्गा शिरोमालाविभूषणा ।
सा दुर्गा शक्तिहस्ता च सा शूलचक्रभृत्तथा ॥ १४०॥
सा शिवशक्तिरूपा च दुर्गा शशिमुखी तथा ।
शिवदूती तथा दुर्गा सा शुम्भमर्दिनी तथा ॥ १४१॥
सा शरणागतत्राणा दुर्गा शास्त्रमयी तथा ।
सा परमायुधा दुर्गा तथैव शववाहना ॥ १४२॥
शिवदूतीस्वरूपा च दुर्गा शाकम्भरी तथा ।
श्रीशाम्भवी तथा दुर्गा तथैव शिखिवाहना ॥ १४३।
सा दुर्गा शैलपुत्री च दुर्गा शशिधरा तथा ।
सा दुर्गा श्रीमहाविद्या दुर्गा शूलेश्वरी तथा ॥ १४४॥
शुम्भहन्त्री तथा दुर्गा सा श्मशानविहारिणी ।
शक्तिधरी तथा दुर्गा सकलोद्धारिणी तथा ॥ १४५।
सा दुर्गा सत्यरूपा च दुर्गा शब्दमयी तथा ।
सकलशब्दरूपा च सा भक्तिरसभाविता ॥ १४६॥
श्वेतानना तथा दुर्गा सर्वकामफलप्रदा ।
स्फुरत्कान्तिस्तथा दुर्गा सर्वरूपमयी तथा ॥ १४७॥
दुर्गा सर्वाङ्गभूषा च तथा सर्वजगन्मयी ।
संसारबन्धहेतुश्च तथा सर्वेश्वरेश्वरी ॥ १४८॥
वषट्कारा तथा दुर्गा स्थितिसंहारकारिणी ।
स्वरात्मिका तथा दुर्गा समुत्पन्ना तथा स्वयम् ॥ १४९॥
सा दुर्गा सृष्टिरूपा च सा सरोजस्थिता तथा ।
स्थितिरूपा तथा दुर्गा सदाभ्युदयदा तथा ॥ १५०॥
दुर्गा संहृतिरूपा च तथैव सिंहवाहिनी ।
सम्मानिता तथा दुर्गा तथा सैरिभमर्दिनी ॥ १५१॥
सुरर्षिस्तूयमानाच सिद्धिकामसुसेविता ।
सिंहस्कन्धाधिरूढा च दुर्गा सर्वाश्रया तथा ॥ १५२॥
दुर्गा सर्वजगद्वार्ता तथा सूर्यसमप्रभा ।
सा समस्तजगद् हेतुः स्मृतिभीतिहरा तथा ॥ १५३॥
सा दुर्गा सर्वशक्तिश्च दुर्गा सौम्यतरा तथा ।
सा सर्वव्यापिनी दुर्गा तथा समरनिष्ठुरा ॥ १५४॥
दुर्गा सदाऽऽर्द्रचित्ता च दुर्गा च सर्वकारिणी ।
स्मृतिरूपा तथा दुर्गा सहस्रनयना तथा ॥ १५५॥
दुर्गा समस्तविद्या च दुर्गा सरस्वती तथा ।
दुर्गा स्त्रीरत्नभूता च साक्षसूत्रकमण्डलुः ॥ १५६॥
अब्जन्यस्तैकपादा च तथा सर्वार्थसाधिका ।
सा सर्वज्ञेश्वराङ्कस्था सर्वेशक्तिसमन्विता ॥ १५७॥
स्मेरमुखी तथा दुर्गा स्वर्गमुक्तिप्रदायिनी ।
सा दुर्गा सर्वभूता च सर्वयोगसमन्विता ॥ १५८।
सर्वमद्गलमङ्गल्या संसारार्णवतारिणी ।
सृष्ट्यादिशक्तिभूता च स्वर्गापवर्गदा तथा ॥ १५९॥
स्तव्यपरा तथा दुर्गा सहस्रनयनोज्ज्वला ।
सा सर्वभीतिपात्री च सिंहस्था सर्वमङ्गला ॥ १६०॥
सर्वस्यार्तिहरा दुर्गा सर्वाभरणभूषिता ।
दुर्गा सर्वस्वरूपा च सर्वकामप्रदायिनी ॥ १६१॥
सिद्धिदात्री तथा दुर्गा स्वर्णाकल्पितकुण्डला ।
सम्पूजिता तथा दुर्गा सर्वशत्रुविनाशिनी ॥ १६२॥
सा दुर्गा स्कन्दमाता च दुर्गा सर्वगता तथा ।
सा सौभाग्यप्रतिष्ठा च दुर्गा सप्तशती तथा ॥ १६३।
सा सत्त्वाख्यगुणा दुर्गा सर्वसत्त्वमयी तथा ।
सुरासुरशिरोरलनिघृष्टचरणा तथा ॥ १६४॥
स्फुरद्दशनदंष्ट्रा च सुमेरुयुगलस्तनी ।
सा सहस्रभुजा दुर्गा सुचित्रजघना तथा ॥ १६५॥
सौभाग्यशालिनी दुर्गा सच्चिदानन्दविग्रहा ।
सर्वदेवमयी दुर्गा सर्वदेवशरीरजा ॥ १६६॥
सर्वेश्वरी तथा दुर्गा सर्वलोकमहेश्वरी ।
सर्वाङ्गभूषणा दुर्गा सर्वानन्दपयोनिधिः ॥ १६७॥
सर्वभयापहा दुर्गा सर्वकामदुधस्तनी ।
सुकर्कशस्तनी दुर्गा सुश्वेतस्तनमण्डला ॥ १६८॥
सा सिद्धकुञ्जिका दुर्गा सा सत्त्वैकगुणाश्रया ।
सुखमयी तथा दुर्गा तथैव सुरमोहिनी ॥ १६९॥
स्नेहमयी तथा दुर्गा सर्वबाधापहारिणी ।
सिद्धिप्रदा तथा दुर्गा तथैव सा सुधामयी ॥ १७०॥
हृत्संस्थिता तथा दुर्गा हरिनेत्रकृतालया ।
हंसयुक्तविमानस्था हिमाचलकृताश्रया ॥ १७१॥
दुर्गा हंससमारूढा हतदैत्यमहाबला ।
हिमाचलसुता दुर्गा त्रिशूलवरधारिणी ॥ १७२॥
हिमाचलसुतानाथसंस्तुता ज्ञानरूपिणी ।
हृत्पुण्डरीकमध्यस्था दुर्गा हस्ताम्बुजा तथा ॥ १७३॥
क्षोभिताशेषपाताला दुर्गा क्षेमकरी तथा ।
क्षुधारूपा तथा दुर्गा त्रिधामात्रात्मिका तथा ॥ १७४॥
सा दुर्गा क्षान्तिरूपा च दुर्गा त्रिपुरसुन्दरी ।
दुर्गा त्रिजगदाधारा त्रिंशल्लोचनमालिका ॥ १७५॥
दुर्गा त्रैलोक्यवासीड्या त्रिदशपरिवेष्टिता ।
त्रैलोक्यत्राणयुक्ता च त्रिशूलचन्द्रधारिणी ॥ १७६॥
दुर्गा वक्त्रारविन्दश्रीदुर्गा त्रिनयना तथा ।
सा ज्ञानचिन्मयातीता स्वयञ्च ज्ञानचिन्मयी ॥ १७७॥
॥ नमस्तस्यै नमो नमः ॥
दुर्गासप्तशतीस्तोत्रं यथा लोके महीयते ।
मधुरं मधुरानन्दे सहस्रमपि कल्पताम् ॥ १७८॥
दुर्गा भक्तसुभावभावितमनाः प्रेमास्पदं प्रापिता
हर्षोल्लासविनोदमोदकरुणासन्तानसङ्काशिका ।
सुप्रीता मुदिता स्तुता विनयिता सम्पूजिता वन्दिता
माङ्गल्यं वितनोतु लोकजननी स्तोतुः सहस्रात्मिका ॥ १७९॥
इति श्रीदुर्गासप्तशत्योद्धृतं सहस्रनामस्तोत्रं सम्पूर्णम् ।
सङ्कलनं तथा छन्दोबन्धनञ्च प्रकाशनम् ।
दुर्गायाः सुमनस्तुष्ट्यै वर्ततां चात्मतृप्तये ॥
-- भावकः बटोही झा
केन्द्रीय-संस्कृत-विद्यापीठं
विशाल-खण्डम्-४
गोमतीनगरं, लखनऊ
Proofread by Kavitha Aanand