श्रीसरस्वतीस्तोत्रम्
ॐ
श्रीरामजयम् ।
ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः ।
ॐ सरस्वत्यै च विद्महे । वागर्थायै च धीमहि ।
तन्नो वाणी प्रचोदयात् ॥
ध्यानम् -
नमस्तुभ्यं वरे देवि वीणापुस्तकधारिणि ।
विद्यासम्पत्तिदे वाणि सरस्वति नमोस्तु ते ॥ १॥
ऐंबीजपूजिते देवि वीणासङ्गीतमोदिते ।
ज्ञानमोक्षकविस्फूर्ते सरस्वति नमोस्तु ते ॥ २॥
वाग्देवीं स्वरमाधुर्यां सङ्गीतकवितावराम् ।
वीणापुस्तकसंवासां वाणीं वन्दे सरस्वतीम् ॥ ३॥
वीणागानप्रवीणां च विद्याकूटविलासिनीम् ।
गानमाधुर्यवाचं च वाणीं वन्दे सरस्वतीम् ॥ ४॥
वीणासयुक्तकण्ठां च वीणाऽभेदमृदुस्वराम् ।
वीणासुस्वरसानन्दां वाणीं वन्दे सरस्वतीम् ॥ ५॥
ज्ञानमोक्षप्रदात्रीं च ज्ञानिसज्जनवल्लभाम् ।
ज्ञानसद्गुरुरूपां च वाणीं वन्दे सरस्वतीम् ॥ ६॥
वागर्थपुष्टिसंयुक्तां वाग्वर्णवर्णमालिकाम् ।
वाक्सम्पत्सम्प्रदात्रीं च वाणीं वन्दे सरस्वतीम् ॥ ७॥
गङ्गाप्रवाहवाग्वर्षां वाक्शब्दलयवासिनीम् ।
श्लोकशैलीसुनृत्यां श्रीं वाणीं वन्दे सरस्वतीम् ॥ ८॥
रागतालगतिस्थाम्बां लयलास्यसुवाचिकाम् ।
कवितोल्लोललोलां च वाणीं वन्दे सरस्वतीम् ॥ ९॥
शारदां स्वरसामोदां रागदां वरदां वराम् ।
वरसुस्वरविद्यां च वाणीं वन्दे सरस्वतीम् ॥ १०॥
श्वेतपुष्पासनासन्नां श्वेतमुत्यस्मिताननाम् ।
श्वेतवस्त्रसुभूषां च वाणीं वन्दे सरस्वतीम् ॥ ११॥
हिमश्वेतालयां श्वेतां हिमशृङ्गविकासिनीम् ।
हिमश्वेतासरां गङ्गां वाणीं वन्दे सरस्वतीम् ॥ १२॥
संसारतापशाम्यां च संसारदुःखमोचनीम् ।
सङ्गीतसत्सुखावाहां स्तुत्यां वन्दे सरस्वतीम् ॥ १३॥
त्यागराजसुवाक्संस्थां शिष्यापुष्पानुतिस्थिराम् ।
सङ्गीतसुस्वरां वाणीं ब्राह्मीं वन्दे सरस्वतीम् ॥ १४॥
सरस्वत्यर्पणं स्तोत्रं सरस्वत्याः कृपोद्भवम् ।
सरस्वत्यर्चनं श्रेष्ठं सरस्वत्याः कृपावहम् ॥ १५॥
मङ्गलं मातृकायै च सरस्वत्यै सुमङ्गलम् ।
वाण्यै सङ्गीतवाण्यै च गीर्वाण्यै शुभमङ्गलम् ॥ १६॥
इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं
श्रीसरस्वतीस्तोत्रं गुरौ समर्पितम् ।
ॐ शुभमस्तु ।
Encoded and proofread by N V Vathsan nvvathsan at gmail.com
Copyright Pushpa Srivatsan