श्रीसरयू अष्टकम्
चक्रवर्तीदशरथ उवाच ।
नमस्ते सरयू देवि वसिष्ठ तनये शुभे ।
ब्रह्मादि सकलैर्देवैरृषिभिर्नारदादिभिः ॥ १॥
सदा त्वं सेविता देवि तथा सुकृतिभिर्नरैः ।
मानसाच्च समायाते जगतां पाप हारिणि ॥ २॥
स्मरतां पश्यतां देवि पापनाशे पटीयसि ।
ये पिबन्ति जलं देवि त्वदीयं गतमत्सराः ॥ ३॥
स्तनपानं न ते मातुः करिष्यन्ति कदाचन ।
मनु प्रभृतिभिर्मान्यैमानितासि सदा शुभे ॥ ४॥
त्वत्तीर मरणेनैव त्वन्नाम रटनेन च ।
ये त्यजन्ति तनुं देवि ते कृतार्था न संशयः ॥ ५॥
त्वं तु नेत्रोद्भवा देवि हरेर्नारायणस्य हि ।
महिमा तव देवैश्च गीयते च मुहुर्मुहुः ॥ ६॥
तत्र का हि मनः शक्तिः स्तवने मानुषस्य च ।
त्वत्तीरे सर्व तीर्थानि निवसन्ति चतुर्युगे ॥ ७॥
नमो देवि नमो देवि पुनरेव नमो नमः ।
हे वासिष्ठि महाभागे प्रणतं रक्ष बन्धनात् ॥ ८॥
इति श्रीसरयू अष्टकं सम्पूर्णम् ।
Encoded and proofread by Prabhav Tengse