सर्वमङ्गलमाङ्गल्यघटलक्ष्मीव्रतनिरूपणम्

सर्वमङ्गलमाङ्गल्यघटलक्ष्मीव्रतनिरूपणम्

(मार्गशीर्षे तथा वैशाखे कार्यम्) मार्गशीर्षे च वैशाखे ऊर्जे वा शुक्लपक्षके । मण्डपोद्यानसंयुक्तामुद्यापनसमन्विताम् ॥ ७१॥ करिष्यन्ति नरा नार्यो यास्यन्ति ते परां गतिम् । पञ्चगव्येन क्षीरेण पुष्पगन्धोदकेन च ॥ ७२॥ मधुना स्नापयेत्त्वां सम्पूजयेत् फलपुष्पकैः । श‍ृङ्गारयेद्वेषयेच्च विभूषयेन्नीराजयेत् ॥ ७३॥ भोजयेच्च ततः पुष्पाञ्जलिं दद्यात् सुमूर्तये । क्षमां याचेत च नमेत् प्रार्थयेद्गुरवेऽर्पयेत् ॥ ७४॥ ``महालक्ष्म्यै नमः पादौ तव गुल्फौ नमः श्रियै । शोकहन्त्र्यै नमो जङ्घे रमायै जानुनी नमः ॥ ७५॥ ऊरू मङ्गलकारिण्यै वक्षःस्थल्यै नमः कटिम् । पद्मायै नम उदरमुरः कामश्रियै नमः ॥ ७६॥ करौ सौभाग्यलक्ष्म्यै ते बाहूदरमुखं श्रियै । कमलायै नमो नासां पद्मिन्यै लोचने नमः ॥ ७७॥ पुष्ट्यै ललाटमलकान् हिरण्यायै शिरो नमः । हरिण्यै सुखदालक्ष्म्यै ललितायै नमो नमः ॥ ७८॥ नारायण्यै वासुदेव्यै सम्पदायै नमोऽस्तु ते । सर्वमङ्गलमाङ्गल्यं देहि मे मातरीश्वरि ॥ ७९॥ सर्वमङ्गलमाङ्गल्यव्रतेन तव पद्मजे । ममेष्टं सर्वमेवाऽस्तु कृपया तव चाब्धिजे ॥ ८०॥ गीतमङ्गलनिर्घोषान् कारयेद्यजमानकः । सुवासिन्यः कन्यकाश्च कुर्युर्गीतानि तत्र च ॥ ८१॥ पूजयेयू रक्तवस्त्रै रक्तमाल्यानुलेपनैः । कुसुमैरक्षतैर्वार्भिर्नमस्कारैः प्रभोजनैः ॥ ८२॥ सिन्दूरकुङ्कुमतैलसारकस्तूरिकाऽञ्जनैः । एवं सम्पूज्य तां मूर्तिं दद्याच्छ्रीगुरवे शुभाम् ॥ ८३॥ गुरुं सम्पूजयेच्चापि कमलैश्चन्दनादिभिः । परिहारं ततः कुर्याद्भोजयेद्बालबालिकाः ॥ ८४॥ सर्वमङ्गलमाङ्गल्यलक्ष्मीव्रतमिदं परम् । यः कुर्यात्तस्य माङ्गल्यं बहुधा वै वसेद्गृहे ॥ ८५॥ सर्वपापविनाशश्च सौभाग्यारोग्यवर्धनम् । सर्वामोदप्रमोदेष्टानन्दसौख्यप्रदं व्रतम् ॥ ८६॥ इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे १३७-अध्यायान्तर्गतं मार्गशीर्षे तथा वैशाखे कार्यं सर्वमङ्गलमाङ्गल्य घटलक्ष्मीव्रतनिरूपणं सम्पूर्णम् । लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १३७/७१-८६॥ lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 137/71-86.. Proofread by PSA Easwaran
% Text title            : Sarvamangalamangalyaghatalakshmivratanirupanam
% File name             : sarvamangalamAngalyaghaTalakShmIvratanirUpaNam.itx
% itxtitle              : sarvamaNgalamANgalyaghaTalakShmIvratanirUpaNam (lakShmInArAyaNIyasaMhitAntargatam)
% engtitle              : sarvamangalamAngalyaghaTalakShmIvratanirUpaNam
% Category              : devii, devI, lakShmInArAyaNIyasaMhitA, lakShmI, mangala
% Location              : doc_devii
% Sublocation           : devii
% SubDeity              : lakShmI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : lakShmInArAyaNIyasaMhitA | khaNDa 3 | adhyAya 137/71-86||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : April 12, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org