शिवानन्दमुनिविरचितं सौभाग्यहृदयस्तोत्रम्
तन्महः परमं नौमि कृत्यैः पञ्चभिरङ्कितम् ।
अशेषविश्वाभेदात्म पूर्णाहन्तात्मकं शिवम् ॥ १॥
त्रिधा विभक्तं यद्वस्तु स्तोतृस्तुत्यस्तुतिक्रमात् ।
एकस्मै महसे तस्मै नमः सकलचक्षुषे ॥ २॥
स्मरामि तां परां वाचं पश्यन्त्यादिक्रमाश्रयाम् ।
नानाविधरसाकारां महानुभवरूपिणीम् ॥ ३॥
देशकालपदार्थात्म यद्यद्वस्तु यथा यथा ।
तत्तद्रूपेण या भाति तां श्रये सांविदीं कलाम् ॥ ४॥
मूलादिबिलपर्यन्तं महात्रिपुरसुन्दरि ।
या तनुस्ते तडित्प्रख्या तां भजे भवशातनीम् ॥ ५॥
योनौ कनकपुञ्जाभं ह्र्दि विद्युच्छटोज्ज्वलम् ।
आज्ञायां चन्द्रसङ्काशं महस्तव महेश्वरि ॥ ६॥
प्रसृतामृतरश्म्यौघसन्तर्पितचराचराम् ।
भवानि भवशान्त्यै त्वां भावयाम्यमृतेश्वरीम् ॥ ७॥
वर्णः कला पदं तत्त्वं मन्त्रो भुवनमेव च ।
इत्यध्वषट्कं देवेशि भाति त्वयि चिदात्मनि ॥ ८॥
अनाश्रितादिकालाग्निरुद्रान्तं चित्रमद्भुतम् ।
उन्मीलयसि मातस्त्वं प्रकाशवपुषि त्वयि ॥ ९॥
यदिदं भासते देवि नामरूपक्रियात्मकम् ।
प्रकाशवपुषि त्वत्तस्तत्सर्वं नातिरिच्यते ॥ १०॥
नेत्रादिजालकोपान्ते हृत्पद्मासनलीलया ।
वारं वारं त्वया देवि रूपादिमधु सेव्यते ॥ ११॥
संविद्देव्यः समाक्रम्य विषयानमृतासवान् ।
योगिनां प्रेषयन्त्यार्ये त्वत्पूजार्थं हि सर्वदा ॥ १२॥
सौभाग्यहृदयं गुह्यं शिवानन्देन योगिना ।
समाराधनपूर्त्यर्थं स्तुतं सकलकामदम् ॥ १३॥
इति विरचितमेतत् त्रैपुरं स्तोत्रमाप्तं
प्रकटितपरमार्थं योगिवर्योपजुष्टम् ।
सकलदुरितरोगध्वंसनानन्यकार्यं
प्रतियजनविधानं सेव्यतां भक्तियुक्तैः ॥ १४॥
इति शिवानन्दमुनिविरचितं सौभाग्यहृदयस्तोत्रं समाप्तम् ॥
Author: Śivānanda
Title: Saubhāgyahṛdayastotram
Source: Dwivedi, Vrajavallabha (ed). Nityāṣoḍaśikārṇavaḥ: Śivānandakṛtayā ṛjuvimarśinyā Vidyānandakṛtayā Artharatnāvalyā ca Saṃvalitaḥ. 2. Saṃskaraṇam. Vārāṇasyām: Sampūrṇānanda-Saṃskṛta-Viśvavidyālayaḥ. pp. 304-305. 1985.
Description: The Saubhāgyahṛdayastotra is one of the earliest devotional hymns to the goddess Tripurasundarī from the Śrīvidyā tradition. Composed by South India’s foundational Śrīvidyā commentator, Śivānanda (fl. c. 1225-1275), this rare hymn praises the goddess Tripurasundarī in fourteen verses that identify her with the highest principles of reality, as well as permeating the entirety of creation with radiant bliss. Filled with foundational Śaiva doctrine, esoteric kuṇḍalinī practices, deep contemplation, and praise, the Saubhāgyahṛdayastotra presents a complete picture of the majestic and alluring nature of the all-auspicious and sublime goddess, Tripurasundarī.