अमृतानन्दयोगिविरचितः सौभाग्यसुधोदयः

अमृतानन्दयोगिविरचितः सौभाग्यसुधोदयः

प्रथमः प्रपञ्चः

जयति ज्योतिरनुत्तरमिदमखिलं यस्य भासते भासा । सा भासयति यन् न भानुर्न शीतभानुः कुतो बृहद्भानुः ॥ १॥ स्वाभाविकी स्फुरत्ता विमर्शवपुरस्य विद्यते शक्तिः । सैव चराचरं अखिलं जनयति जगदेत(व?द)वति संहरते ॥ २॥ तस्य निरुपाधिमूर्तेर्निखिलातीतस्य नित्यतृप्तस्य । ससारमोहसम्भ्रमसङ्गतिरनयैव सन्ततं भवति ॥ ३॥ सेयं तदैकरस्यात् परा परामर्शरूपिणी शक्तिः । स्वस्वातन्त्र्योल्लासस्पन्दादेकाऽप्यनेकधा वितता ॥ ४॥ प्रथमं पश्यन्त्यादिप्रकारभेदप्रपञ्चिताकारा । विश्वोत्तीर्णानाहतनादमयी सैव मातृका जाता ॥ ५॥ अखिलमनाहतमूर्तिर्मात्युत्तीर्णस्वरूपिणी तरति । कायति नानानामप्रपञ्चरूपेण मातृका देवी ॥ ६॥ निजभागाहविर्भागा(?)पर्याससमासैकरस्यभेदम(यि?यी) । एकाऽप्येकादश(वा?धा)जाता माता परैव पश्यन्ती ॥ ७॥ (पश्यति सर्वं स्वात्मनि करणानां सरणिं अपि यदुत्तीर्णा । तेनेयं पश्यन्तीत्युत्तीर्णेत्यप्युदीर्यते माता ॥) पश्यन्त्य(आ)ः परमार्थः स्व(आ)वयवा (प्य?व्य)ष्टयोऽष्ट वामा (सा?द्याः) । ताभ्यः समष्टिरूपे न सामरस्यं च तत्त्वतो भिन्नम् ॥ ८॥ एकैकरस्यरूपा पराऽपराऽष्टांशमातृपरमार्था । ताभ्यां अनाहताख्या नादमयी मध्यमाऽभवन् माता ॥ ९॥ स्थानादिभिरहतत्वाद्बुद्धिव्यापारमात्रबोध्यत्वात् । माताऽनाहतनामा सूक्ष्मा विकृतादिनादनवकमयी ॥ १०॥ सूक्ष्मैव मध्यमेयं नादमयी स्थूलभावं आपन्ना । द्व्युत्तरचत्वारिंशद्वर्णात्मकवर्गनवकरूपेण ॥ ११॥ पश्यन्तीव न केवलं उत्तीर्णा नापि वैखरीव बहिः । स्फुटतरनिखिलावयवा मध्यगता मध्यमा तयो(र?र्य)स्मात् ॥ १२॥ परयाऽपरया पादाद्यष्टव्यष्ट्यात्मना च पश्यन्त्या । मात्रा मध्यमया नववर्गात्मिकया च वैखरी जाता ॥ १३॥ स्थानकरणप्रयत्नैरभिहतपवनप्रवर्तितार्णत्वात् । हतनामधेयं अस्या विहितं वर्णोदयक्रमाभिज्ञैः ॥ १४॥ आवधारणे(द्र?त्र)वै (वे?चे)दमक्षे विवरे च ख गतौ रीति । कर्णविवरैकगम्यस्वार्णेयं वैखरी यतो माता ॥ १५॥ दश पञ्च च बिन्द्वन्ताः स्वरा मताः प्रतिपदादितिथिरूपाः । रविशशिसर्गस्पन्दप्रभवा हि भवन्ति ते तदात्मानः ॥ १६॥ रविशशिरूपौ बिन्दू शिवशक्तिमयौ तदात्मकः सर्गः । सत्तोद्रेकश्च तयोः शिवशक्त्योस्तत्स्वभावतोऽवस्थे ॥ १७॥ सत्ता शिवस्तदंशा वामा ज्येष्ठा तथैव रौद्री स्यात् । एता एवानुत्तरं इच्छोन्मेषश्च समभव(द्?न्)ह्रस्वाः ॥ १८॥ उद्रेकः शक्तिः स्यादिच्छा ज्ञाना क्रिया च शक्त्यंशाः । दीर्घास्ता एवासन्नानन्दश्चेशनोनता चेति ॥ १९॥ अस्वरवपुरादिशिवः परः प्रमाता स्वसंविदुन्मेषात् । इच्छति वेदितुं अर्थानीशनया तदनु वेत्ति भिन्नगतिः ॥ २०॥ इच्छावेशानन्तरं अस्मिन् प्रागीशनोदयान्मध्ये । व्यक्ताव्यक्तार्थमया(ः)षण्ढा इच्छेशनोद्भवा वर्णाः ॥ २१॥ इच्छानुत्तरयोगाद्विहिता श(क्तिः?क्ति)स्वरस्य सम्भूतिः । एकारानुत्तरयोः सङ्गादैकारसम्भवो भवति ॥ २२॥ उन्मेषानुत्तरयोः सङ्गादोकारजन्म निर्णीतम् । ओकारानुत्तरयोः सङ्गाच्छक्तित्रिशूलनिष्पत्तिः ॥ २३॥ वेदनरूपो बिन्दुः शिवशक्तिद्वितयसामरस्यतनुः । वेदकवेद्यविभागस्वरूपसङ्कोचरूपसंस्कारः ॥ २४॥ रविशशिसञ्चरणवशाद्यथैव विकसन्ति सन्ततं तिथयः । तन्मयसर्गस्पन्दादुन्मिषितास्ते स्वरास्तदात्मानः ॥ २५॥ सर्गेण कादिवर्णैरपि षट्त्रिंशद्भिरात्मनोऽवयवैः । षट्त्रिंशत्तत्त्वमयं जगदावृणुते शिवात्मकं माता ॥ २६॥ शक्तिर्न शिवेन विना शिवोऽपि न तया विनाऽस्ति तद्वदिदम् । विश्वं वागर्थमयं शिवशक्त्युल्लाससम्भवं भाति ॥ २७॥ यदयं अनुत्तरमूर्तिर्निजेच्छया निखिलं अपि जगत् स्रष्टुम् । पस्पन्दे स स्पन्दः प्रथमं शिवतत्त्वं उच्यते तज्ज्ञैः ॥ २८॥ इच्छा सैव स्वच्छा सन्ततसमवायिनी परा शक्तिः । सचराचरस्य जगतो बीजं निखिलस्य निजनिलीनस्य ॥ २९॥ स्वेच्छाशक्त्युद्गीर्णं जगदात्माहन्तया समाच्छाद्य । निवसन् स एव निखिलानुग्रहनिरतः सदाशिवोऽभिमतः ॥ ३०॥ विश्वं स एव पश्यन्न् इदन्तया निखिलं ईश्वरो जातः । सा भवति शुद्धविद्या येदन्ताहन्तयोरभेदमतिः ॥ ३१॥ माया विभेदबुद्धिर्निजांशभूतेषु निखिलभूतेषु । नित्यं तस्य निरङ्कुशविभवं वेलेव वारिधिं रुन्धे ॥ ३२॥ स तया परिमितमूर्तिः सङ्कुचितसमस्तशक्तिरेष पुमान् । रविरिव सन्ध्यारक्तः संहृतरश्मिः स्वभासनेऽप्यपटुः ॥ ३३॥ सम्पूर्णकर्तृताद्या या बह्व्यः सन्ति शक्तयस्तस्य । सङ्कोचात् सङ्कुचिताः कलादिरूपेण रूषयन्त्येनम् ॥ ३४॥ यत्सर्वकर्तृता सा सङ्कुचिता कतिपयार्थमातृपरा । किञ्चित्कर्तारं अमुं कलयन्ती कीर्त्यते कलानाम्ना ॥ ३५॥ सर्वज्ञताऽस्य शक्तिः परिमिततनुरल्पवेद्यमातृपरा । ज्ञानमुपपादयन्ती विद्येति निगद्यते बुधैराद्यैः ॥ ३६॥ नित्यपरिपूर्णतृप्तिः शक्तिस्तस्यैव परिमिता तु सती । भोगेषु रञ्जयन्ती सततं अमुं रागतत्त्वतां याता ॥ ३७॥ या नित्यताऽस्य शक्तिर्निकृष्य निधनोदयप्रदानेन । नियतपरिच्छेदकरी क्लृप्ता स्यात् कालतत्त्वरूपेण ॥ ३८॥ याऽस्य स्वतन्त्रताख्या शक्तिः सङ्कोचशालिनी सैव । कृत्याकृत्येष्ववशं नियतं अमुं नियमयन्त्यभून् नियतिः ॥ ३९॥ इच्छादित्रिसमष्टिः शक्तिः शान्ताऽस्य सङ्कुचद्रूपा । सङ्कुचितेच्छाद्यात्मकसत्त्वादिकसाम्यरूपिणी तु सती ॥ ४०॥ बुद्ध्यादिसामरस्यरूपा चित्तात्मिका मता प्रकृतिः । इच्छाऽस्य रजोरूपाऽहङ्कृतिरासीदहम्प्रतीतिकरी ॥ ४१॥ ज्ञानाऽस्य सत्त्वरूपा निर्णयबोधस्य कारणं बुद्धिः । तस्य क्रिया तमोमयमूर्तिर्मन इत्युच्यते विकल्पकरी ॥ ४२॥ वागादिपञ्चभेदैः स एव सङ्कुचितविग्रहो देवः । ज्ञानक्रियोपरागप्राधान्याद्विविधविषयरूपोऽभूत् ॥ ४३॥ श्रोत्रं चक्षुः स्पर्शनजिह्वाघ्राणानि बोधकरणानि । वाक्पाणिपादपायूपस्थाख्यानि कर्मकरणानि ॥ ४४॥ शब्दस्पर्शौ रूपं रसगन्धौ चेति भूतसूक्ष्माणि । अयं एवातिनिकृष्टो जातो भूतात्मनाऽपि भूतेशः ॥ ४५॥ गगनं अनिलश्च तेजः सलिलं भूमिश्च पञ्च भूतानि । श्रोत्रादिकरणवेद्याः शब्दाद्यास्तानि वेदकान्येषाम् ॥ ४६॥ वचनकरी वाग् आसीत् पाणिः स्यात् करणभूतं आदाने । गमनविसर्गानन्दत्रितये पादादिकत्रिकं करणम् ॥ ४७॥ गन्धवती भूमिः स्यादापः सांसिद्धिकद्रवास्तेजः । उष्णस्पर्शविशिष्टं सस्पर्शो वायुरम्बरं शब्दः ॥ ४८॥ मायान्तं आत्मतत्त्वं विद्यातत्त्वं सदाशिवान्तं स्यात् । शक्तिशिवौ शिवतत्त्वं तुरीयतत्त्वं समष्टिरेतेषाम् ॥ ४९॥ चतुरात्मिकेयं एषा परादिरूपप्रपञ्चभेदवती । सृष्टिस्थितिसंहारानाख्याख्यांश्चतुरोऽन्वयानभिव्याप्ता ॥ ५०॥ इति श्रीमदमृतानन्दयोगिविरचिते सौभाग्यसुधोदये प्रथमः प्रपञ्चः ॥

द्वितीयः प्रपञ्चः

सैव महाविद्यात्मा माता चतुरन्वयैकविश्रान्तिः । चतुराननादिजननी जाता चतुरात्मवर्गफलदात्री ॥ १॥ अस्वरविमर्शरूपौ स्वांशौ हित्वा चतुष्कलौ सैव । वामादीच्छादिमयान्यकरोद्द्वन्द्वान्यमूनि चत्वारि ॥ २॥ वामांशो ब्रह्मा स्यादिच्छैव तस्य भारती शक्तिः । अनयोरेतन्मिथुनं सृष्टिः प्रागन्वयात्म वाग्बीजम् ॥ ३॥ ज्येष्ठांशो विष्णुः स्याज् ज्ञाना विश्वम्भरा तयोर्मिथुनम् । इदं एव दक्षिणान्वयरूपं श्रीकामराजमध्यास्ते ॥ ४॥ रौद्र्यात्मकस्तु रुद्रः क्रियामयी शक्तिरस्य रुद्राणी । युगलं इदं तार्तीयं बीजं पालयति पश्चिमाम्नायम् ॥ ५॥ स्यादम्बिकास्वरूपः शम्भुः शान्तात्मिकाऽस्य शक्तिः स्यात् । मिथुनं इदं शिवशक्त्योरुत्तरसमयात्म तुर्यं अधितिष्ठेत् ॥ ६॥ एवं अनुत्तरशक्त्योश्चतुरंशद्वन्द्वरूपिणी परा जाता । चतुरन्वयात्मिकेयं पश्यन्ती मातृकामयी विद्या ॥ ७॥ सृष्टिः पूर्वाम्नायो वाग्भवबीजं तदात्मकं त्रिविधम् । सृष्टिस्थितिसंहारैर्भिन्ना सृष्टिस्त्रिमूर्तिमूर्तिः स्यात् ॥ ८॥ ब्रह्माऽत्र सृष्टिसृष्टावधिपतिरेतस्य भारती शक्तिः । सोऽयं हस्यार्थः स्यात् स एव शिवशक्तिवाचकश्चापि ॥ ९॥ हस्यार्थः स्यादत्र स्वशक्तिमयरूपसार्णसंयोगात् । सृष्टिस्थितौ तु विष्णुः कर्ता विश्वम्भराऽस्य शक्तिः स्यात् ॥ १०॥ विष्णुः कलिपेरर्थो ललिपेरेतस्य शक्तिरर्थः स्यात् । रुद्रोऽधिपतिः शक्ती रौद्री स्यात् तत्र सृष्टिसंहारे ॥ ११॥ हरवर्णयुगलं अनयोर्वाचकं अर्थोऽत्र रस्य रुद्रः स्यात् । रुद्राक्षरसम्पर्काद्रौद्री तच्छक्तिरत्र हस्यार्थः ॥ १२॥ अत्र तु शक्त्यर्णस्य प्राथम्यं शक्तिबीजभूतत्वात् । अधिवसतः शिवशक्ती संज्ञानाख्या तयोस्तु त्रित्वमयी ॥ १३॥ कामकला कलयित्री तुर्यमयी रक्तशुक्लमिश्रतनुः । रक्तो बिन्दुः शक्तिः शुक्लः शम्भुः परस्तदैकात्म्यम् ॥ १४॥ एवं द्वितीयबीजं स्थितिरूपं दक्षिणान्वयात्म स्यात् । स्थितिसृष्ट्यादिविभेदाद्वसन्ति ता एव देवतास्तत्र ॥ १५॥ अत्र कलवर्णमध्यस्थितो हकारः स्थितिस्वरूपत्वम् । अस्य द्योतयति परं स्थितिरूपं संविदम्बिकाकारः ॥ १६॥ संहारात्मकपश्चिमसमयमये तद्वदेव तार्तीये । संहृतिसृष्ट्यादिवशाद्वसन्ति ता एव देवतास्तत्र ॥ १७॥ सृष्टौ शक्तेर्नियतप्राधान्यादस्य शक्तिबीजत्वात् । स्वात्मनि संहृतिसृष्टौ शिवं अन्तर्भाव्य भासते शक्तिः ॥ १८॥ त्रिमये तुरीयबीजेऽनाख्यारूपोत्तरान्वयात्मनि तौ । शक्तिशिवावधिवसतो निरन्तरं सामरस्यं आपन्नौ ॥ १९॥ सृष्ट्यादिभेदभिन्नश्रीविद्यावर्णयुगलनवकात्मा । नवनादवर्गरूपा माता सा मध्यमाऽभिधा वितता ॥ २०॥ शब्दस्पर्शौ रूपं रसगन्धौ चेति भूतसूक्ष्माणि । व्याप्यव्यापकभावात् पञ्चदश स्युः क्रमेण तत्सङ्ख्याः ॥ २१॥ तिथयश्च कला नित्यास्तदात्मिकाः स्युस्तथैव तत्सङ्ख्यैः । वर्णैः समष्टिरेषा विद्या व्याप्नोति तानि सर्वाणि ॥ २२॥ सर्गादिसमष्टिरूपः स्वांशैरेभिस्तदात्मना विततः । सर्गेण कादिवर्णैरपि षट्त्रिंशद्भिरात्मनोऽवयवैः ॥ २३॥ पुनरज्व्यञ्जनबिन्दुप्रभेदभिन्नांस्तदक्षरावयवान् । षट्त्रिंशत्सङ्ख्याकांस्तत्त्वमयान् अश्नुते हि सा माता ॥ २४॥ व्यष्टिसमष्टिविभेदैश्चतुरात्मा तत्त्वबीजपीठमयी । चतुरन्वयात्मनाऽपि च माताऽष्टकमातृकामयी विद्या ॥ २५॥ इति श्रीमत्पुण्यानन्दशिष्यामृतानन्दयोगिप्रवरविरचिते सौभाग्यसुधोदये द्वीतीयः प्रपञ्चः ॥

तृतीयः प्रपञ्चः

अस्याम्बिकांशभूता शक्तिः (सा से?स्वांशे)न शान्तया साकम् । समरसभावं याता जाता ज्योतिर्मयी महाबिन्दुः ॥ १॥ सैव स्वेच्छोद्रेकाद्वामा (प?व)मनादमुष्य विश्वस्य । वक्रीकृतनिजरूपा सृष्टिः श‍ृङ्गाटवामरेखा स्यात् ॥ २॥ ज्येष्ठा ज्ञानावेशादृज्वी स्थितिरेतदग्ररेखा स्यात् । रौद्री क्रियोपरागात् संहृतिरेतस्य दक्षिणा रेखा ॥ ३॥ इत्थं इयं पश्यन्ती जाता माता त्रिकोणरूपेण । साऽपि चतुर्बीजवती विद्या वेद्या तदात्मिका तद्वत् ॥ ४॥ वामा(दि?दी)च्छाद्यष्टप्रतिबिम्बैरष्टकोणं उत्पन्नम् । अष्टत्रिकोणमध्यस्पन्दैर्दशभिर्दशारं उत्पन्नम् ॥ ५॥ अस्यैव प्रतिबिम्बं बाह्यदशारं च भासमानस्य । स्पन्दवशादेवैषां चक्राणां समुदितं च मनुकोणम् ॥ ६॥ द्व्युत्तरचत्वारिंशद्योनिगणो मध्ययोनिपर्यन्तम् । नादमयैर्नववर्गैर्मध्यमया तावदक्षरैर्व्याप्तिः ॥ ७॥ विद्यांशमयैः स्वार्णैः काद्यैर्वर्गैः स्वरैश्च षोडशभिः । अष्टद्व्यष्टदलाम्बुजयुगलं व्याप्नोति वैखरी देवी ॥ ८॥ बीजत्रयमयतेजस्त्रितयविकाराश्च तानि वृत्तानि । भूबिम्बत्रयं एतत् पश्यन्त्यादित्रिमातृविश्रान्तिः ॥ ९॥ चतुरश्रषोडशाष्टच्छदात्मकचक्रत्रयं त्रिधा सृष्टिः । पूर्वाम्नायो वाग्भवबीजं तद्वत् त्रिमूर्तिदैवत्यम् ॥ १०॥ मनुकोणं द्विदशारं त्रितयं इदं कामराजबीजं स्यात् । स्थितिरत्र देवतानां त्रयमपि तद्वच्च दक्षिणाम्नायः ॥ ११॥ अष्टत्रिकोणमध्यत्रितयं तार्तीयं एष संहारः । अत्रापि देवतात्रयं आसीदयं एव पश्चिमाम्नायः ॥ १२॥ सर्वं अनाख्यारूपं तुर्यं शिवशक्तिदेवताधिकृतम् । स्यादुत्तरसमयात्मकं एवं स्रोतोमयं महाचक्रम् ॥ १३॥ इति श्रीमत्पुण्यानन्द(शिष्यामृतानन्दयोगिप्रवरविरचिते)सौभाग्यसुधोदये तृतीयः प्रपञ्चः ॥

चतुर्थः प्रपञ्चः

चित्तमये श्रीपीठे ज्योतिर्बिन्दौ यदस्य सङ्क्रान्तम् । प्रतिबिम्बं परधाम्नः परलिङ्गं तत्प्रकोर्त्यते प्राज्ञैः ॥ १॥ तत्र परा परमेशी प्रकाशशक्त्यात्म(का?कौ)निजावंशौ । निभिद्य नित्ययोगात् कामः कामेश्वरीत्यभून् मिथुनम् ॥ २॥ सर्वैः स्वस्वात्मतया कामो देवः प्रकाम्यमानत्वात् । वक्त्राद्यास्तस्यांशा वाराद्य वर्णितं बुधैराद्यैः ॥ ३॥ परमात्मिका तदीया स्वेच्छाशक्तिर्बभूव कामेशी । इच्छादिकास्तदीया मूर्धाद्यंशा मनीषिभिः कथिताः ॥ ४॥ अनयोरात्मावय(त?व)व्याससमासैकरस्यभेदवपुः । पश्यन्ती मातेयं न तत्त्वतो भिद्यते ततस्ताभ्याम् ॥ ५॥ सा च चतुरक्षरात्मा तदंश(पू?भू)तानि तानि मिथुनानि । चत्वारि वेदयन्ति विद्या वेद्या तदात्मिका विबुधैः ॥ ६॥ आधारनवकमनयोर्मूलादिब्रह्मरन्ध्रपर्यन्तम् । नवनादवर्गरूपा माता व्याप्नोति मध्यमा देवी ॥ ७॥ सृष्ट्यादित्रयभेदैर्नवभिर्भिन्नार्णयुग्मनवकव(ति?ती) । नवचक्ररूपिणी सा विद्या व्याप्नोति तद्वदाधारा(त्?न्) ॥ ८॥ षट्त्रिंशत्तत्त्वमयं शरीरं अनयोर्निजेच्छयोपात्तम् । हन्ताद्यविद्ययाऽपि व्याप्तं तावत् प्रकारभिन्नाभ्याम् ॥ ९॥ एकत्रिंशत्रितयद्वितयसमष्टिप्रकारसङ्कलितैः । तत्त्वैः स्वावयवमयैश्चतुभिरनयोस्तथान्वया व्याप्ताः ॥ १०॥ इति चतुर्थः प्रपञ्चः ॥

पञ्चमः प्रपञ्चः

श्रीपीठशैलशिखरे परशिवभानोः प्रकाशमानस्य । निजशक्तिरश्मिनिकरश्चक्रक्रमदेवतात्वमायातः ॥ १॥ मध्यत्रिकोणकोणे वामे श्रीपूर्णपीठं एतस्मिन् । बुद्धिमये परतेजःप्रतिफलितं त्वितरलिङ्गतां यातम् ॥ २॥ रौद्रः स्यादोड्डीशः क्रियैव भगमालिनी तयोर्मिथुनम् । रुद्रस्वशक्तिरूपं तृतीयबीजात्मकं त(द)ध्यास्ते ॥ ३॥ दक्षिणकोणेऽहङ्कृतिरूपे जालन्धरे तु सङ्क्रान्तम् । परधाम बाणलिङ्गं जातं सङ्क्रान्त्युपाधिभेदवशात् ॥ ४॥ ज्येष्ठांशः षष्ठीशः ज्ञाना वज्रेश्वरी तयोर्मिथुनम् । विष्णुविश्वम्भरात्मकं अस्मिन्न् अधिवसति मध्यबीजमयम् ॥ ५॥ पुनरेव कामपीठे तदग्रकोणे स्थिते मनोरूपे । प्रतिफलितं तज्ज्योतिः स्वयम्भुलिङ्गं समीरितं सद्भिः ॥ ६॥ वामांशो मित्रेशः कामेशीच्छा तयोर्मिथुनम् । ब्रह्मब्राह्मीरूपं वाग्भवबीजात्मकं वसत्यस्मिन् ॥ ७॥ इत्थं वामाद्यंशैर्वागादिकबीजवाच्यतां यातैः । वामादियुगलरूपा जाता सा मातृकैव पश्यन्ती ॥ ८॥ वसुयोनिष्वदसीयं पुर्यष्टकं अष्टदेवताकारम् । अन्तर्दशारचक्रे सर्वज्ञाद्यास्तदक्षसञ्चाराः ॥ ९॥ स्युः सर्वसिद्धिदाद्यास्तदक्षविषया बहिर्दशारगताः । मनुकोणशक्तिनिकरः करणचतुर्दशकं एव तदीयं अभूत् ॥ १०॥ द्व्युत्तरचत्वारिंशद्योनिगतो देवतानिकायोऽयम् । मध्यमया नववर्गैर्विद्यार्णयुगात्मकैरभिव्याप्तः ॥ ११॥ अष्टकमनयोरिष्टं प्रकृतीनां अष्टपत्रशक्तितया । एतद्विकारजातं सञ्जातं नृपपत्रदेवताकारम् ॥ १२॥ अणिमादिगुणनिकायस्तयोस्तयोरेव धातुसमुदायः । मुद्रामयी च सा वै चतुरश्रत्रयमये वसत्यस्मिन् ॥ १३॥ द्विरदकलादलकमलद्वितयगतं शक्तिरश्मिचक्रं इदम् । विद्यात्मकैः स्वकीयैर्वर्णैर्व्याप्नोति वैखरी माता ॥ १४॥ आधारनवकं अनयोर्नवचक्रीभावं आगतं शिवयोः । तन्मध्यचारचतुरा मुद्रात्वं प्राप मोदनात् संवित् ॥ १५॥ तन्नादशक्तिनवकं नवचक्रेशीस्वरूपं आपन्नम् । विद्यार्णयुग्मनवकं तद्विद्यानवकरूपतो विततम् ॥ १६॥ नवचक्रवासिनीनां भासां प्रकटादियोगिनीनां च । तासां इव चक्राणां चतुराम्नायादिरूपता ज्ञेया ॥ १७॥ इति श्रीमत्पुण्यानन्दशिष्यामृतानन्दयोगिप्रवरविरचिते सौभाग्यसुधोदये पञ्चमः प्रपञ्चः ॥

षष्ठः प्रपञ्चः

तदनादिबोधरूपं परमानन्दात्मकं परं ज्योतिः । स्फुरति यदा स्वात्मानं विमृष्टं विद्ययाऽनयाऽभिलषेत् ॥ १॥ तदनुत्तरस्फुरत्ताकार(ः)स्वात्मीयतत्त्वविम्रष्टा । परमशिवो गुरुराद्यश्चर्यानाथापराभिधानधरः ॥ २॥ विद्यानां सर्वासां भिन्नस्रोतःपरम्पराकाणाम् । वारिधिवर इव सरितां पुण्यतमो भवति यत्र सम्भेदः ॥ ३॥ भिन्नः स एव यातः कामे(श?शी)त्वं विमर्शभागेन । शक्तिः साऽस्य निरङ्कुशविभवं वेलेव वारिधिं रुन्धे ॥ ४॥ कृतयुगसमये विद्यां आद्यां अस्यै विमर्शरूपिण्यै । ओड्याणपीठनिलयश्चर्यानाथोऽधिदेव(ते?तै)वेशः ॥ ५॥ एतन्निरोधजन्या मुक्तिर्जन्तोः स एव संसारः । संसारस्य च मुक्तेः सरणिं शरणं प्रयामि तच्चरणम् ॥ ६॥ सेयं स्वीयैर्भिन्नान् गुरून् गुणैः षष्ठमित्रसंज्ञादीन् । अन्वग्रहीदमी(षा?षां)ज्येष्ठो ज्येष्ठौलिहेतुरोड्डीशः ॥ ७॥ क्रोधमुनिश्चिद्रूपस्त्रेतायुगनायकोऽन्त्यबीजपतिः । सत्त्वतनुर्भगमालाभर्त्ता श्रीपूर्णशैलपीठगतः ॥ ८॥ सुब्रह्मण्यो मध्यः षष्ठीशो मध्यमौलिकर्ता च । प्राणात्मा वज्रेशीनाथ(ः)श्रीकामराजबीजपतिः ॥ ९॥ जालन्धरपीठस्थो द्वापरयुगनायको रजोरूपः । श्रीकण्ठो मित्रेशो ना(थं?थः)कामेश्वरीमनःकान्तः ॥ १०॥ श्रीकामरूपनिलयो विषयमयो वाग्भवाक्षराधिपतिः । बालो बालौलिकरः कलियुगकालप्रभुस्तमोमूर्तिः ॥ ११॥ नाथैरेभिः परज्योतिपरिस्पन्दः प्रपञ्चपरमार्थः । दिव्यौघोऽयं कथितः सेव्यः श्रीवामकेश्वरीदेव्याः ॥ १२॥ मित्रेशनाथमात्रे कलियुगस(न्धा?न्धौ)निलीय निवसन्तीम् । विद्यां आद्यां एनां लोपामुद्रा युगादितः प्रापत् ॥ १३॥ यदनन्यलब्धपूर्वां विद्यां एषा युगादितो लेभे । तत्तन्नाम्ना प्रथितं सन्तानं इदं हि सर्वकालेषु ॥ १४॥ तदनु मुनिः कलशभवस्ताभ्यां कङ्कालतापसाचायः । तस्माद्धर्माचार्यो लघुनुतिवररचनविदितविज्ञानः ॥ १५॥ तस्मादपि योगि(स?व)राद्योगेशी मुक्तकेशिनी नाम । नानापदानमहितो दीपकनाथः स्वसन्ततेर्दीपः ॥ १६॥ विद्यां अवाप तस्या योगिन्या विमलबोधभागिन्याः । एतैः शिवांशभूतैः सिद्धौघ(ः)षड्भिरीरितो गुरुभिः ॥ १७॥ दीपकनाथस्य सुतो विद्यां तस्मादवाप जिष्ण्वाख्यः । अथ मातृगुप्तदेवस्तस्मादस्माच्च तेजसो देवः ॥ १८॥ तस्मान्मनोजदेवस्ततोऽपि कल्याणनाथयोगिवरः । तस्मात् परमानन्दः स्वात्मानन्दस्ततो महायोगी ॥ १९॥ तदनु त्रिलोचनेशो दक्षिणसन्तानसिद्धिसन्तानः । एतस्माद्देवेशो मारिजबाधाख्यविषयविदितयशाः ॥ २०॥ तस्माच्च केशवेशस्त्रिलोचनेशापराभिधान(प?ध)रः । तस्मात् पुण्यानन्दो (माम?ममा)मृतानन्दयोगिनो नाथः ॥ २१॥ भानुक(सुमा?शुभा)वसानं सन्तानं स्वीयं आत्मनो ज्ञात्वा । सम्प्रति सन्ततियोजितजननादहमस्मि पञ्चमः पुरुषः ॥ २२॥ एतैर्नाथैरुदितो मानौघो मानवोत्तमैरर्च्यः । सर्वेषां तु गुरूणां गोप्यं तत्पूज्यनाम सामयिकम् ॥ २३॥ गुरुवक्त्रमात्रगम्यं न पुस्तके लोकनामवल्लेख्यम् । एतेषां ओघानां इव गाङ्गानां तमो(व?प)हं त्रितयम् ॥ २४॥ वागादित्रितयं अयं वन्द्यं विद्यावतारसोपानम् । एतत्त्रितयसमष्टि श्रीगुरुनाथस्य पादुकात्रितयम् ॥ २५॥ (शि?सि)तशोणमिश्ररूपं तुर्यं वागादिमयतया वेद्यम् । निव(स)ति सहस्रप(ते?त्रे)सरोरु(हो?हे)नाथपादुकारूपम् ॥ २६॥ सुभगत्वसुधारसोदयाय स्वगुरुरूपायविशेषशेषभाजः । निजमानसमन्दरादमथ्नादमृतानन्दसुधीरयुग्मसिन्धुम् ॥ २७॥ इति श्रीमत्पुण्यानन्दशिष्यामृतानन्दयोगिप्रवरविरचिते सौभाग्यसुधोदये षष्ठः प्रपञ्चः ॥ ग्रन्थश्च परिसमाप्तः ॥ Author: Amṛtānanda Title: Saubhāgyasudhodayaḥ Source: Dwivedi, Vrajavallabha (ed). Nityāṣoḍaśikārṇavaḥ: Śivānandakṛtayā ṛjuvimarśinyā Vidyānandakṛtayā Artharatnāvalyā ca Saṃvalitaḥ. 2. Saṃskaraṇam. Vārāṇasyām: Sampūrṇānanda-Saṃskṛta-Viśvavidyālayaḥ. pp. 306-321. 1985. Description: The Saubhāgyasudhodaya by Amṛtānanda, also known as Amṛtānandanātha and Amṛtānandayogin (fl. c. 1325-1375), is a short work in six chapters. Noteworthy aspects of this composition include: foundational knowledge about how early exponents of Śrīvidyā understood their lineage in the light of the Pratyabhijñā and other Śaiva traditions developed in Kashmir; the supremacy of their tradition in relation to other Kaula transmissions; and Amṛtānanda's guru lineage. The text is prepared by volunteers of Tripurā Tallikā and is provided by Brian Campbell tripura.tallika at gmail.com Tripurā Tallikā is a small group of Śrīvidyā practitioners https://tripuratallika.org/
% Text title            : Saubhagyasudhodayah by Amritanandayogi
% File name             : saubhAgyasudhodayaH.itx
% itxtitle              : saubhAgyasudhodayaH amRitAnandayogivirachitaH
% engtitle              : saubhAgyasudhodayaH amRRitAnandayogivirachitaH
% Category              : devii, devI, shiva
% Location              : doc_devii
% Sublocation           : devii
% Author                : Amritanandayogi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Volunteers of Tripurā Tallikā provided by Brian Campbell tripura.tallika at gmail.com
% Proofread by          : Volunteers of Tripurā Tallikā
% Description/comments  : Amritanandayogi (1325-1375)
% Indexextra            : (Scans 1, Text, English)
% Acknowledge-Permission: Tripurā Tallikā is a small group of Śrīvidyā practitioners https://tripuratallika.org/
% Latest update         : October 1, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org