शारदेयव्रतनिरूपणम्
शृणु लक्ष्मि व्रतं तेऽन्यच्छारदेयव्रतोत्तमम् ।
बृहस्पतेस्तु दिवसे कर्तव्यं पूजनं तव ॥ ५४॥
मण्डपं सुभगं कृत्वा तोरणादिसमन्वितम् ।
सौवर्णकलशैर्धान्यैश्चासनादिभिरूर्जितम् ॥ ५५॥
तन्मध्ये कारयेद्रम्यं गजासनं सुवर्णजम् ।
तत्र पीठे स्थापयेच्च शारदाख्यां रमां सतीम् ॥ ५६॥
द्विभुजां ललितालक्ष्मीं सर्वाभरणभूषिताम् ।
वीणाकमलहस्तां च मुकुटादिसुशोभनाम् ॥ ५७॥
अथ पार्श्वे स्थापयेच्च गायत्रीं च सरस्वतीम् ।
वाद्ययुक्तां दिव्यरूपां वेदपुस्तकधारिणीम् ॥ ५८॥
एवं देवीत्रयं तत्र पूजयेद्गन्धकुङ्कुमैः ।
अक्षतैः श्वेतपुष्पाद्यैर्धूपदीपाऽऽदिवस्तुभिः ॥ ५९॥
क्षीरं च पायसं सिद्धान्नं मिष्टं भोजयेत्तथा ।
मिष्टवारि सुगन्धाढ्यं पाययेच्छीतलं तथा ॥ ६०॥
ताम्बूलकं प्रदद्याच्च नीराजनं ततश्चरेत् ।
प्रार्थयेच्छारदालक्ष्मीं वाणी मे प्रीयतामिति ॥ ६१॥
कृपया ते भविष्यामि विद्यावारिनिधिः परः ।
रसनाग्रे मम नित्यं सरस्वती वसत्वपि ॥ ६२॥
इह लोके सदाऽऽनन्दमवाप्नुयां तथा कुरु ।
वेदाः शास्त्राणि शस्त्राणि गीतनृत्यादिकं च यत् ॥ ६३॥
न विहीनं त्वया वाणि तथा मे सन्तु सिद्धयः ।
वाणी मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा मतिः ॥ ६४॥
एताभिः पाहि चाष्टाभिस्तनूभिर्मां नरायणि ।
एवं सम्प्रार्थ्य दानानि दद्यात् पुष्पाञ्जलिं तथा ॥ ६५॥
भोजयेद्बालबालाश्च साधुसाध्वीश्च योषितः ।
धनवस्त्राणि दद्याच्च कमण्डलुं च पुस्तकम् ॥ ६६॥
वाद्यदानं प्रकुर्वीत शृङ्गाराभरणार्पणम् ।
परिहारं प्रकुर्वीत गुरवे श्रियमर्पयेत् ॥ ६७॥
मौनव्रतेन भुञ्जीत सायं प्रातश्च वै व्रती ।
गुरुवारे प्रतिमासं मासास्त्रयोदश व्रतम् ॥ ६८॥
सन्ध्यायां च तथा मौनं रक्षन् व्रती समाचरेत् ।
नाऽन्तरा भोजनं कुर्यात्समाप्ते च व्रते ततः ॥ ६९॥
उद्यापनं परं कुर्यान्महोत्सवसमन्वितम् ।
वस्त्रयुग्मं स्त्रियै दद्याद्विप्रायै भोजनान्वितम् ॥ ७०॥
गोदानं गृहदानं च कुर्याद्यथाधनं व्रती ।
अनेन विधिना कृत्वा पायसादि प्रभोजनम् ॥ ७१॥
विद्यावान् धनवान् मिष्टकण्ठो व्रती प्रजायते ।
शारदायाः प्रसादेन ब्रह्मलोके महीयते ॥ ७२॥
नरो नारी कुमारी वा कुरुते शारदाव्रतम् ।
ब्रह्मलोके वसेद्ब्राह्मी यावत्कल्पायुतत्रयम् ॥ ७३॥
विद्यादानं प्रकुर्याद्यो व्रतं कृत्वा धनार्पणैः ।
विद्वान् विद्यां प्रदद्याच्च शारदाव्रतवांश्च यः ॥ ७४॥
विद्याधरपुरे सोऽपि वसेत्कल्पाऽयुतत्रयम् ।
अन्ते लक्ष्मीपुरं याति ब्रह्माऽक्षरं व्रजेत्ततः ॥ ७५॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१३८-अध्यायान्तर्गतं शारदेयव्रतनिरूपणं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १३८/५४-७५॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 138/54-75..
Proofread by PSA Easwaran