ब्रह्मगणाकृता शक्तिस्तुतिः

ब्रह्मगणाकृता शक्तिस्तुतिः

॥ श्रीगणेशाय नमः ॥ ब्रह्मगणा ऊचुः । नमस्ते शक्तिरूपायै सर्वेषां च क्रियात्मने । सर्वसत्ताप्रदात्र्यै ते जगदम्ब नमोऽस्तु ते ॥ ४१॥ अपारायै च सर्वेभ्यः सर्वदायै नमो नमः । भक्त्या स्वाधीनरूपायै महामाये नमोऽस्तु ते ॥ ४२॥ सदा स्वानन्दसंस्थायै जगद्ब्रह्मप्रचालिके । नानाभेदधरायै ते विघ्नेशायै नमो नमः ॥ ४३॥ अमेयायै नमस्तुभ्यं भक्तसंरक्षरूपिणि । कर्त्र्यै पात्र्यै च संहर्त्र्यै गणेशायै नमो नमः ॥ ४४॥ समुत्पन्नं त्वदुदरात् जगद्ब्रह्म न संशयः । तदेव सृष्टिरूपं त उदरं ते नमो नमः ॥ ४५॥ स्तनपानेन देवेशि पोषणं कुरुषे सदा । स्थितिरूपं तदेवाङ्गे स्तनौ ते वै नमो नमः ॥ ४६॥ अन्ते प्रलयकालज्ञे त्वया ग्रस्तं मुखेन च । संहारकं तदेवाङ्गे मुखं ते वै नमो नमः ॥ ४७॥ मनोवाणीविहीना त्वं भक्तवत्सलभावतः । स्वयं देहधरा जाता भक्तेशायै नमो नमः ॥ ४८॥ किं स्तुमस्त्वां महामाये शक्तिनामधरे परे । सर्वत्र शक्तभावेषु संस्थितायै नमो नमः ॥ ४९॥ वेदानां योगिनां चैव शक्तत्वं तत्त्वदीयकम् । त्वां स्तोतुं कः समर्थः स्यादतस्ते प्रणमामहे ॥ ५०॥ इति स्तुता जगन्माता ब्रह्मणां जननी प्रभो । प्रसन्ना तानुवाचाऽथ भक्तिभावेन तोषिता ॥ ५१॥ (फलश्रुतिः) शक्तिरुवाच । वरान् ब्रह्माणि वृणुत येषां ये मनसीप्सिताः । दास्यामि तपसा तुष्टा भक्त्या स्तोत्रेण सर्वपाः ॥ ५२॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वार्थदं भवेत् । भक्तिप्रदं महाभागाः सर्वसामर्थ्यदायकम् ॥ ५३॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । भुक्तिमुक्तिप्रदं पूर्णं भविष्यति न संशयः ॥ ५४॥ इति ब्रह्मगणाकृता शक्तिस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः १२ । ५.१२। ४१-५४॥ - .. mudgalapurANaM pa~nchamaH khaNDaH . adhyAyaH 12 . 5.12. 41-54.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Shakti Stuti Brahmaganakrita
% File name             : shaktistutiHbrahmagaNAkRRitA.itx
% itxtitle              : shaktistutiH brahmagaNAkRitA (mudgalapurANAntargatA)
% engtitle              : shaktistutiH brahmagaNAkRRitA
% Category              : devii, mudgalapurANa, stuti
% Location              : doc_devii
% Sublocation           : devii
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM panchamaH khaNDaH | adhyAyaH 12 | 5.12. 41-54||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org